दादा साहेब माळवङ्कर
दादासाहेब मावळङ्कर (हिन्दी: दादासाहेब माळवङ्कर, आङ्ग्ल: Dada Saheb Mavlankar )इति उपनाम्ना प्रसिद्धः गणेश वासुदेव माळवङ्कर देशस्य संसदि प्रथमः अध्यक्षः आसीत् । मूलतः महाराष्ट्रियः ब्राह्मणः, किन्तु जन्म गुर्जरप्रान्ते अभवत् । गुजरातविश्वविद्यालयस्य स्थापनायाम् एतस्य महत्वपूर्णं योगदानम् अस्ति ।
जन्म परिवारश्च
[सम्पादयतु]दादासाहेब इत्यस्य जन्म १८८८ तमस्य वर्षस्य नवम्बर-मासस्य २७ तमे दिनाङ्के वडोदरा-नगरे अभवत् । तस्य पूर्वजाः महाराष्ट्र-राज्यस्य रत्नागिरि-मण्डलस्य वासिनः आसन् । महाराजा गायकवाड इत्यस्य समये ते वडोदरा-नगरमागताः । दादासाहेब इत्येतस्य पिता वासुदेव माळवङ्कर ब्रिटिश-सर्वकारस्य उच्चपदारूढः सेवकः आसीत् । तस्य कर्तव्यनिष्ठतावशात् प्रसन्नेन अधिकारिणा २५० वेतनात् ५०० वेतनयुक्तं पदं दत्तम् । किन्तु तेन पदोन्नतिः न स्वीकृता । तस्य मतम् आसीत् तस्य ज्येष्ठाः तस्मात् अवराः स्युः इति तस्मै न रोचते । अतः सः पदोन्नतिं नैच्छत् । पूर्वजानां विषये दादासाहेब इत्यनेन उक्तं यत् – “आनुवंशिकसंस्कारैः एव मम जीवननिर्माणम् अभवत् । मम पूर्वजानां संस्कारविषयेऽहं साभिमानं कथयामि यत् तेषां वर्तनं प्रामाणिकमासीत् । अस्माकं गृहे अप्रामाणिकं धनम्, असत्यं च लेशमपि न आगतम्”इति ।
बाल्यं शिक्षणञ्च
[सम्पादयतु]दादासाहेब इत्येतेन प्राथमिकं माध्यमिकञ्च शिक्षणं वडोदरा-नगरतः प्राप्तम् । १९०४ तमे वर्षे मेट्रिक् परीक्षामुत्तीर्य ततः परं दादासाहेब वैद्यः सन् समाजसेवां कर्तुम् ऐच्छत् । किन्तु मित्राणाम् आग्रहवशात् सङ्ग्राहकः (collector) न्यायदाता (judge) वा भवितुम् ऐच्छत् । कस्य विषयस्य अभ्यासः करणीयः इति विचारसमये तस्य पितुः अवसानम् अभवत् । तस्य परिवारस्य दायित्वम् अहमदाबाद-नगरस्थेन मातामहेन स्वीकृतम् । दादासाहेब इत्ययं तस्य एकैव दौहित्रः आसीत् । तस्य परिवारजनाः वडोदरा-नगरतः अहमदाबाद-नगरम् आगताः । किन्तु अहमदाबाद-नगरे तदानीं चिकित्साविद्यालयः नासीत् । तदर्थं तु मुम्बई-नगरं गन्तव्यं भवति स्म । मातामहः दौहित्रं दूरीकर्तुं नेच्छति स्म । अन्ते दादासाहेब इत्यनेन अहमदाबाद-नगरस्य गुजरातमहाविद्यालयं प्रविश्य बी.ए. इत्यस्य अभ्यासः आरब्धः । तदानीं देशे ‘बङ्गभङ्ग’ इति आन्दोलनं चलति स्म । दादासाहेब इत्ययमपि तत्र सम्मिलितः । अपरे वर्षे सुरत-नगरे कोङ्ग्रेस इत्यस्य अधिवेशनम् आसीत् । तत्र वैदेशिकवस्तूनां बहिष्कारस्य चर्चा अभवत् । किन्तु दादासाहेब इत्यस्य मते देशे तादृशः वस्तुनः निर्माणे सति वैदेशिकानि वस्तूनि स्वयमेव बहिष्कृतानि भविष्यन्तीति आसीत् । तेन बी.ए. इत्यस्मिन् विज्ञानविषयः चितः । विज्ञानचयने तस्य हेतुः आसीत् देशः उद्योगक्षेत्रे प्रगतिं प्राप्नोत् इति । अनया भावनया एव वडोदरा-नगरे एलम्बिक् वर्क्स् इत्यस्य, कोलकाता-नगरे केमिकल् वर्क्स् इत्यस्य आरम्भः कृतः । आरम्भकाले उद्योगं कर्तुम् इच्छा आसीत् किन्तु अनन्तरम् आचार्यः सन् उद्योगसहायकान् छात्रान् निर्मास्यामि इत्यपि विचारितम् । विचारवशात् दादासाहेब इत्यनेन एम्.ए. कर्तुं विचारितम् । तदर्थं मुम्बई-नगरं गन्तव्यम् आसीत् । किन्तु अहमदाबाद-नगरात् बहिर्गन्तुं तस्य मातामहस्य अनुमतिः नासीत् । एतादृश्यां स्थितौ पारिवारिकैः एल्.एल्.बी. कर्तुम् आदिष्टः सः । तदर्थमपि मुम्बई-नगरं गन्तव्यम् आसीत् किन्तु सार्धद्विमासं यावत् एव गन्तव्यम् आसीत् । अतः तस्य मातामहः तस्मै अनुज्ञाम् अयच्छत् । बी.ए. इत्यस्मिन् दादासाहेब द्वितीयश्रेण्यां समुत्तीर्णः अभवत् । मुम्बई-नगरस्य महाविद्यालये वर्षद्वयम् एल्.एल्.एम्. इत्यस्य अभ्यासं कुर्वन् १९११ तमे वर्षे दादासाहेब इत्ययं परीक्षायां प्रथमश्रेण्यां समुत्तीर्णः ।
गोपालकृष्णेन सह मेलनम्
[सम्पादयतु]पुणे-नगरस्य डेक्कन् एजुकेशन् सोसैटि इत्यस्मिन् आचार्यत्वेन सेवां दातुं तस्य इच्छा आसीत् । किन्तु तदर्थम् एम्.ए. आवश्यकम् आसीत् । अतः सः विचारः तेन त्यक्तः । तदानीङ्काले गोपालकृष्णेन सह तस्य मेलनम् अभवत् । गोपालकृष्णस्य सर्वेन्ट् ऑफ् इण्डिया सोसैटि इत्यनया संस्थया दादासाहेब इत्ययं प्रभावितः आसीत् । सः तस्याः एकां शाखां गुर्जरप्रान्ते उद्घाटयितुम् ऐच्छत् । अतः पुणे-नगरे स्थित्वा संस्थायाः विषये अध्ययनम् अकरोत् ।
दादासाहेब इत्यस्य अधिवक्तुः कार्यारम्भः
[सम्पादयतु]तदनन्तरं सेवाभावनया मुम्बई-नगरं गतः । तत्र स्वमित्रस्य प्रि. प्राध्ये इत्यस्य गृहे स्थितः । प्रि. प्राध्ये फिरोज शाह महेता इत्यस्य सहाध्यायी आसीत् । तेन दादासाहेब इत्ययम् अधिवक्ता सन् देशसेवां कर्तुं प्रेरितः । प्रि. प्राध्ये इत्येतस्य कथनोपरि विचारं कृत्वा दादासाहेब मुम्बई-नगरे अधिवक्तुः कार्यम् आरभत । किन्तु तस्य भाग्यम् अहमदाबाद-नगरे एव आसीत् । तस्य भगिन्याः निधनम् अभवत् । ततः परं तस्य मातामहस्य अपघातः अभवत् । अस्याम् स्थितौ परिवारजनेभ्यः दूरे वासः असम्भवः आसीत् । अतः १९१३ तः दादासाहेब इत्ययम् अहमदाबाद-नगरे अधिवक्तुः कार्यम् आरभत । दिवान बहादुर अम्बालाल सीकरलाल इत्येतेन सह चरोतर एजुकेशन् सोसैटि इत्यस्मिन्नपि सम्मिलितः । उभयत्र दायित्ववहनाय १४ घण्टां यावत् कार्यरतः भवति स्म । इत्थं विंशतिवर्षं यावत् अकरोत् ।
दादासाहेब इत्यस्मै महात्मनः उपदेशः
[सम्पादयतु]१९१३ तः १९२० यावत् दादासाहेब इत्ययम् अधिवक्तृत्वेन बहूनि कार्याणि अकरोत् । १९२० तमे वर्षे देशे असहकार-आन्दोलनस्य वायुः अचलत् । विद्यार्थिभिः शाला त्यक्ता, सर्वकारकर्मचारिभिः वृत्तिः त्यक्ता, व्यापारिभिः वैदेशिकवस्तूनां विक्रयणं त्यक्तम् । अतः महात्मा अधिवक्तृभ्यः स्वकार्यम् अवरोद्धुम् अवदत् । महात्मना दादासाहेब इत्ययमपि सूचितः । किन्तु दादासाहेब इत्यनेन उक्तं यत् – “अहं न्यायवादं न करोमि चेत् देशाय लाभः भविष्यति किम् ?” इति । महात्मा उक्तवान् – “भवान् अन्येषां चिन्तां किमर्थं करोति स्वकीयं दायित्वं वहतु इत्येव भवतः कृते अलम्” इति । महात्मनः कथनं सत्यमासीत् किन्तु दादासाहेब इत्यस्य मनसि परिवारचिन्तावशात् तत् न अरोचत । अतः तेन न्यायवादकार्यं न त्यक्तम् ।
दादासाहेब न्यायवादकार्यस्य त्यागः
[सम्पादयतु]तदानीमेव नागपुर-नगरे कोङ्ग्रेस इत्यस्य अधिवेशनमासीत् । तस्य आयोजनं दादासाहेब इत्येतेन कृतम् । अधिवेशनान्ते यदा दादासाहेब इत्ययम् अश्वयानेन बस-स्थानकं प्रति गच्छन् आसीत्, तदा मार्गे द्वौ बालकौ एकस्मै पटाय (piece of cloth) परस्परं युद्ध्यन्तौ आस्ताम् । दरिद्रतायाः इदं दृश्यं दृष्ट्वा तस्य हृदयपरिवर्तनम् अभवत् । सः अरोदीत्, अधिवक्तुः कार्यं त्यक्त्वा असहकार-आन्दोलने सम्मिलितः ।
आन्दोलनानि
[सम्पादयतु]1) १९२१ तमे वर्षे गुजरातराज्ये कोङ्ग्रेस इत्यस्य अधिवेशनस्य आयोजकत्वेन सम्पूर्णं दायित्वं दादासाहेब इत्यनेन स्वीकृतम् । 2) १९३२ तमे वर्षे सत्याग्रह-आन्दोलने भागग्रहणाय सर्वकारः तं साबरमती-कारागारं प्रैषयत् । अहमदाबाद-नगरे तस्य उपस्थिते सति भयेन पुनः तं रत्नागिरिमण्डलं प्रैषयत् । 3) १९४० तमे वर्षे हिन्द छोडो इत्यस्मिन् आन्दोलने भागं गृहीत्वा पुनः कारागारं गतः । तत्र १९ मासाः यावत् राजबन्दित्वेन बद्धः आसीत् । कारागारे नित्यं दैनन्दिनीम् अलिखत् ।
अन्यानि योगदानानि
[सम्पादयतु]अहमदाबाद-नगरस्य नगरपालिकायाः प्रमुखपदे चितः । स्वतन्त्रभारते दादासाहेब इत्ययं लोकसभायाः अध्यक्षपदारूढः अभवत् । तत्र सम्यक् दायित्वनिर्वहणात् जनैः लोकसभायाः पिता इति उपाधिः प्रदत्ता । दादासाहेब इत्यनेन महात्मनः मृत्योः अनन्तरं कस्तूरबा ट्रस्ट्, गान्धीस्मारक ट्रस्ट् इत्येतयोः रचना कृता । उभयोः प्रमुखपदे स्थित्वा सञ्चालनम् अकरोत् । गुजरातराज्ये विश्वविद्यालयमण्डलं रचयित्वा गुजरातराज्यस्य स्वतन्त्रविश्वविद्यालयं स्थापयितुम् व्यचारयत् । अहमदाबाद-नगरे एञ्जिनियरिङ्ग्, चिकित्सा इत्युभयक्षेत्रसम्बद्धान् महाविद्यालयान् च अरचयत् ।
मृत्युः
[सम्पादयतु]१९५५ तमे वर्षे दादासाहेब इत्येतस्य स्वास्थ्यम् असमिचीनम् अभवत् । तस्य रुग्णतायाः सन्देशं प्राप्य पुत्रः पुरुषोत्तमः अभ्यासं त्यक्त्वा पितुर्सेवायै विदेशात् भारतम् आगतः । अहर्निशसेवयाऽपि स्वास्थ्ये परिवर्तनं न अभवत् । अन्ते १९५६ तमस्य वर्षस्य फरवरी-मासस्य २७ तमे दिनाङ्के तस्य मृत्युः अभवत् ।