नीतीश कुमार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नीतीशकुमारः एकः भारतीयराजनेता अस्ति यः २०१५ तमस्य वर्षस्य फरवरीमासस्य २२ दिनाङ्कात् बिहारस्य मुख्यमन्त्रिरूपेण कार्यं कुर्वन् अस्ति। पूर्वं २००५ तः २०१४ पर्यन्तं तथा २००० तमे वर्षे अल्पकालं यावत् च एतत् पदं धृतवान्। जनतादलसंयुक्तस्य नेता एष पूर्वं समतापक्षस्य सदस्यत्वेन केन्द्रीयमन्त्रिरूपेण अपि कार्यं कृतवान् । [१]

नीतीशकुमारः बिहारस्य वर्तमानो मुख्यमन्त्री

नीतीशः प्रथमवारं जनतादलस्य सदस्यत्वेन राजनीतिं प्रविष्टवान्। एष १९८५ तमे वर्षे विधायकः अभवत्। नीतीशः १९९४ तमे वर्षे जार्ज फर्नाण्डिस् इत्यनेन सह समतापक्षस्य स्थापनां कृतवान् । १९९६ तमे वर्षे लोकसभासदस्यत्वेन निर्वाचितः सः अटलबिहारीवाजपेयिवर्यस्य सर्वकारे केन्द्रीयमन्त्रीरूपेण कार्यं कृतवान्। तस्य दलं राष्ट्रियजनतान्त्रिकग्रन्थिबन्धनं समागच्छत्। ततो नीतीशः तस्य मुख्यो नेता अभवत्।


२००५ तमे वर्षे बिहारविधानसभायां राष्ट्रियजनतान्त्रिकग्रन्थिबन्धनेन बहुमतं प्राप्तम्। नीतीशो राज्ये ग्रन्थिबन्धनस्य अध्यक्षत्वेन प्राप्य मुख्यमन्त्री जातः। पुनः २०१० तमस्य वर्षस्य बिहारराज्यनिर्वाचने सारल्येन एतत् ग्रन्थिबन्धनं विजयं प्राप्तवान्। २०१३ तमस्य वर्षस्य जूनमासे नरेन्द्रमोदिनः प्रधानमन्त्रिपदस्य नामाङ्कनान्तरं नीतीशो ग्रन्थिबन्धनम् अत्यजत्। ततो राष्ट्रियजनतादलेन तथा भारतीयराष्ट्रियकाङ्ग्रेस्पक्षेण सह महाग्रन्थिबन्धनस्य निर्माणं कृतवान्।

नीतीशः भारतीयजनतापक्षेण सह ग्रन्थिबन्धनस्य नेतृत्वं कृत्वा मुख्यमन्त्री अभवत्। २०१० तमे वर्षे राज्यनिर्वाचने शासकसङ्घः भूस्खलनेन पुनः निर्वाचने विजयं प्राप्तवान् | २०१३ तमस्य वर्षस्य जूनमासे नरेन्द्रमोदिनः प्रधानमन्त्रिपदस्य नामाङ्कनस्य अनन्तरं नीतीशो भाजपायाः सह भङ्गं कृतवान्, तथा च राष्ट्रियजनतादलस्य भारतीयराष्ट्रीयकाङ्ग्रेसस्य च समर्थनं प्राप्य महाग्रन्थिबन्धनस्य निर्माणं कृतवान्।

२०१४ तमस्य वर्षस्य मेमासस्य १७ दिनाङ्के भारतीयलोकसभानिर्वाचने जनतादलसंयुक्तस्य महती हानिः जाता ततः परं नीतीशो मुख्यमन्त्रिपदं त्यक्तवान्। तस्य स्थाने जीतनराममाञ्झी इत्ययं नियुक्तः। परन्तु स २०१५ तमस्य वर्षस्य फेब्रुवरीमासे मुख्यमन्त्रिरूपेण पुनरागमनस्य प्रयासं कृतवान् येन राजनैतिकसङ्कट उत्पन्नः। अन्ततः जीतनरामः त्यागपत्रं दत्तवान्। नीतीशः पुनः मुख्यमन्त्री अभवत्। अनन्तरं तस्मिन् वर्षे राज्यनिर्वाचने महाग्रन्थिबन्धनेन बहुमतं प्राप्तम्। २०१७ तमे वर्षे नीतीशो भ्रष्टाचारम् आरोप्य महाग्रन्थिबन्धनं भङ्क्त्वा राष्ट्रियजनतान्त्रिकग्रन्थिबन्धने प्रत्यागतवान। २०२० तमे वर्षे राज्यनिर्वाचने तस्य सर्वकारः सङ्कीर्णतया पुनः निर्वाचितः। २०२२ तमस्य वर्षस्य अगस्तमासे नीतीशो राष्ट्रियजनतान्त्रिकग्रन्थिबन्धनं त्यक्त्वा पुनः महाग्रन्थिबन्धने सम्मिलितवान् । [२] [३]

प्रारम्भिकं जीवनम्[सम्पादयतु]

नीतीशस्य जन्म १९५१ तमस्य वर्षस्य मार्चमासस्य प्रथमे दिनाङ्के बिहारस्य बख्तियारपुरमण्डले अभवत् । तस्य पिता कविराजो रामलखनसिंह आयुर्वैदिकः साधक आसीत्। तस्य माता नेपालदेशात् परमेश्वरीदेवी आसीत्। [४] नीतीशः कुर्मीजातितः अस्ति । [५] [६] नीतीशस्य उपनाम मुन्ना अस्ति। [७] [८]

स १९७२ तमे वर्षे बिहार-कोलेज् ओफ् इञ्जियरिङ्ग् (अधुना राष्ट्रीयप्रौद्योगिकीसंस्थानं पटना ) विद्युदभियान्त्रिक्य [९]उपाधिं प्राप्तवान्। [१०] स बिहारराज्यविद्युद्बोर्ड् इत्येतद् अर्धहृदयेन समागम्य[उद्धरणं वाञ्छितम्] पश्चात् राजनीतिं प्रविष्टवान् । [११] १९७३ तमे वर्षे फेब्रुवरीमासस्य २२ तमे दिनाङ्के सिंहोपाख्यया मञ्जुकुमार्या सह तस्य विवाहः अभवत्। दम्पत्यो एकः पुत्रोऽस्ति । [६] मञ्जोः फुप्फुलप्रदाहेन रोगेण २००७ तमस्य वर्षस्य मेमासस्य १४ दिनाङ्के नवदिल्लीनगरे निधनम् अभवत् । [१२]

प्रारम्भिकं राजनैतिकजीवनम्[सम्पादयतु]

नीतीशो राजनेतृषु समाजवादिवर्गस्य अस्ति । राजनेतृरूपेण प्रारम्भिकेषु वर्षेषु स लोहियोपाख्येन राममनोहरेण च सिंहोपाख्येन सत्येन्द्रनारायणेन च कर्पूरिठाकुरेण च विश्वनाथप्रतापसिंहेन च सह सम्बद्धः आसीत् | [१०] [१३] नीतीशः १९७४ तमे वर्षे च १९७७ तमे वर्षे च जयप्रकाशनारायणस्य आन्दोलने भागं गृहीतवान् आसीत्।[१४] ततः तेन

सिंहोपाख्यस्य सत्येन्द्रनारायणस्य नेतृत्वे जनतापक्षे सम्मिलितः। [१५]

नीतीशो युद्ध्वा १९८५ तमे वर्षे हरनौतनगरात् प्रथमवारं राज्यसभाया निर्वाचनं जितवान्। प्रारम्भिकवर्षेषु लालूप्रसादयादवः १९८९ तमे वर्षे बिहारविधानसभायां विपक्षस्य नेतृरूपेण नीतीशेन समर्थितः परन्तु पश्चात् नीतीशः १९९६ तमे वर्षे भाजपादलं प्रति निष्ठां पर्यवर्तयत् बाढात् प्रथमं लोकसभायाः सदस्यत्वं विजित्य।[१६]


१९९८ तमे वर्षे संसदीयनिर्वाचने राष्ट्रियजनतादलस्य निर्माणानन्तरं समतापक्षः जनतादलः च परस्परस्य मतमूलं भक्षितवन्तौ। अतो नीतीशेन द्वे दले विलीय जनतादलस्य संयुक्तस्य निर्माणं कृतवान् । [१७]

१९९९ तमे वर्षे लोकसभानिर्वाचने भाजपापक्षस्य च‌ जनतादलसंयुक्तस्य च युगलाभ्यां राष्ट्रीयजनतादलस्य पराजयः अभवत् । नूतनं ग्रन्थिबन्धनं ३२४ विधानसभाक्षेत्रेषु १९९ क्षेत्रेषु अग्रगण्यम् अभवत्।


लालूयादवस्य विधकपटे नाम आगत्य अपि २००० तमस्य वर्षस्य बिहारराज्यनिर्वाचने राष्ट्रियजनतादलं भाजपाजदयूदलयोः परस्परस्य द्वन्द्वकारणेन बृहत्तमदलम् उद्भूतम्। लालूयादवस्य राजनैतिकपरिचालनेन राबडीदेवी पुनः मुख्यमन्त्रिणीरूपेण शपथं गृहीतवती। [१८]

२००४ तमस्य वर्षेस्य लोकसभानिर्वाचनेराष्ट्रीयजनतादलं बिहारे २६ लोकसभाक्षेत्राणि विजित्य अन्येभ्यो राज्याधारितदलेभ्यः श्रेष्ठतरं प्रदर्शनं कृतवान् आसीत् । स केन्द्रीयरेलमन्त्रिपदेन पुरस्कृतः परन्तु तस्य अत्यन्तनिम्नजातीनां वर्धमानानाम् आकाङ्क्षाणां परिणामतः भाजपापक्षस्य जनतादलसंयुक्तस्य च ग्रन्थिबन्धनेन २००५ तमे वर्षे बिहारविधानसभानिर्वाचने तस्य दलं पराजितम् |. [१९]

केन्द्रीयमन्त्री[सम्पादयतु]

केन्द्रीयरेलमन्त्री श्रीनीतीशकुमारः २००४ तमस्य वर्षस्य जनवरीमासस्य ३० तमे दिनाङ्के नवदेहलीनगरे मध्यकालीनरेलार्थसङ्कल्पं प्रस्तोतुं संसदं प्रविशति

नीतीशः अचिराय १९९८–९९ तमे वर्षे अटलसर्वकारेकेन्द्रीयरेलमन्त्री च भूपृष्ठपरिवहनमन्त्री चापि कृषिमन्त्री आसीत्। १९९९ तमे वर्षे अगस्तमासे गैसलरेलापदाया अनन्तरं स त्यागपत्रं समर्पितवान् यस्या आपदाया उत्तरदायित्वं स मन्त्रिरूपेण स्वीकृतवान् । [२०] परन्तु रेलमन्त्रीरूपेण तस्य अल्पकार्यकाले स व्यापकविशोधनम् आनयत्। यथा २००२ तमे वर्षे अन्तर्जालेन यात्रापत्रक्रयणस्य सेवा[२१] [२२] च सर्वाधिकं रेलयात्रापत्रविक्रयणस्थलारम्भः च तत्कालयोजनाया आरम्भः चेति।[उद्धरणं वाञ्छितम्]

तदनन्तरं स पुनः केन्द्रीयमन्त्रिमण्डले कृषिमन्त्रीरूपेण सम्मिलितः। २००१ तः २००४ तमस्य वर्षस्य मेमासपर्यन्तं स पुनः केन्द्रीयरेलमन्त्री आसीत् ।[उद्धरणं वाञ्छितम्] २००४ तमे वर्षे लोकसभानिर्वाचने स द्वाभ्यां क्षेत्राभ्यां युद्धवान् तदा स नालन्दातः निर्वाचितः परन्तु स्वस्य पारम्परिके बाढक्षेत्रे पराजितः [२३]

बिहारस्य मुख्यमन्त्री[सम्पादयतु]

नीतीशो जनतादलस्य संयुक्तस्य राजनैतिकदलस्य सदस्यः अस्ति । मुख्यमन्त्रिरूपेण स एकलक्षाधिकान् विद्यालयशिक्षकान् नियुक्तवान् तथा प्राथमिकस्वास्थ्यकेन्द्रेषु चिकित्सकाः कार्यं कुर्वन्ति इति सुनिश्चितवान् च अनेकेषु ग्रामेषु विद्युत्प्रवाहं आरब्धवान् च [२४] मार्गाणि निर्मितवान् च महिलानां निरक्षरत्वम् अर्धं कृतवान् अपराधिणो दमित्वा अव्यवस्थितराज्यं परिवृत्तवान् तथा च सामान्यबिहारिणः आयं द्विगुणं कृतवान् । [२५]

२००८ तमस्य वर्षस्य अगस्तमासस्य २८ तमे दिनाङ्के नीतीशकुमारश्च लालूप्रसादयादवश्च प्रधानमन्त्रिणा मनमोहनसिंहेन सह जलप्रलयप्रभावितक्षेत्राणां शमनकार्यक्रमेषु चर्चां कुर्वन्तौ बिहारे।

प्रथमः कार्यकालः २००० तमे वर्षे[सम्पादयतु]

२००० तमे वर्षे मार्चमासे केन्द्रस्य अटलसर्वकारस्य आज्ञानुसारं प्रथमवारं नीतीशो बिहारस्य मुख्यमन्त्री निर्वाचितः । [२६] ३२४ सदस्यसदनस्य सहायकदलानि समेत्य राष्ट्रियजनतान्त्रिकग्रन्थिबन्धने १५१ विधायका आसन् तथा च लालूयादवस्य १५९ विधायका आसन् । उभे ग्रन्थिबन्धने बहुमतस्य चिह्नात् अधः आस्ताम् यत् १६३ अस्ति। नीतीशः सभायां स्वबहुसङ्ख्यत्वं सेद्धुं न शक्नोति स्म अतः पूर्वम् एव त्यागपत्रं दत्तवान् । [२७] [२८] स ७ दिवसेभ्यः पदारुढः स्थितः। [२९]

द्वितीयः कार्यकालः २००५ वर्षतः २०१० पर्यन्तम्[सम्पादयतु]

२००५ तमे वर्षे बिहारविधानसभानिर्वाचने विजयानन्तरंमुख्यमन्त्रिरूपेण नीतीशः शपथं गृहीतवान् । [१९]

तृतीयः कार्यकालः २०१०वर्षतः २०१४ पर्यन्तम्[सम्पादयतु]

बिहारस्य वर्तमानो मुख्यमन्त्री नीतीशकुमारः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह नवदेहलीनगरे २०१७ तमे वर्षे

नीतीशसर्वकारेण द्विचक्रिकायाः च भोजनस्य च कार्यक्रमा अपि आरब्धाः । यतो विद्यालये स्थितानां बालिकानां शिक्षात्यागं न्यूनीकृतम्।[३०]

२०१० तमे वर्षे नीतीशस्य दलं तत्कालीनसहयोगिणे भारतीयजनतापक्षेण सह पुनः शासनं प्राप्तवान् पुनः स मुख्यमन्त्री अभवत् । [१६] राष्ट्रियजनतान्त्रिकग्रन्थिबन्धं २०६ क्षेत्रेषु तथा च राष्ट्रियजनतादलम् २२ क्षेत्रेषु जितवन्तौ। [३१] प्रथमवारं मतदातृषु महिलानां युवकानां च अधिकं मतदानं दृष्टम्। तदा तु बिहारे एतत् न्याय्यपूर्णतमं निर्वाचनम् इति घोषितम् ।यत्र रक्तपातो वा निर्वाचनहिंसा वा नासीत् [३२]

त्यागपत्रम्[सम्पादयतु]

२०१४ तमस्य वर्षस्य लोकसभानिर्वाचने स्वपक्षस्य दुर्गतेः एकदिवसानन्तरं मेमासस्य १७ तमे दिनाङ्के नीतीशो बिहारस्य राज्यपालाय स्वस्य त्यागपत्रं प्रदत्तवान्‌। पूर्वनिर्वाचने २० क्षेत्राणां विजयानन्तरं तदा केवलं द्वयोः क्षेत्रयोः जयं प्राप्तवान्। [१६] निर्वाचने स्वपक्षस्य दुर्बलप्रदर्शनस्य नैतिकदायित्वं स्वीकृत्य नीतीशः त्यागपत्रम् अयच्छत्। जीतनराममाञ्झी च कार्यभारं स्वीकृतवान् । [३३]

चतुर्थः कार्यकालः २०१५ वर्षतः २०२० पर्यन्तम्[सम्पादयतु]

नीतीशः पुनः २०१५ तमस्य वर्षस्य फरवरीमासस्य २२ तमे दिनाङ्के मुख्यमन्त्री अभवत्। [३४] [३५] तस्य जनतादलं राष्ट्रियजनतादलेन च काङ्ग्रेससङ्गठनेन सह बिहारे भाजपादलस्य प्रतिकारार्थं महाग्रन्थिबन्धनस्य निर्माणं कृतवान् । [३६]

नीतीशो नरेन्द्रमोदिभाजपादलयोः आरोपानां प्रतिकारं कृत्वा महाग्रन्थिबन्धनाय निर्वाचनकाले आक्रामकरूपेण प्रचारं कृतवान् । [३७] भाजपादलस्य च सहयोगिनां च १७८ क्षेत्राणाम् अन्तरेण विधानसभानिर्वाचने महाग्रन्थिबन्धनेन विजयः प्राप्तः।

राजदः ८क्षेत्राणिैविजित्य श्रेष्ठतमंमः म्लण उद्भम्।ः,नतादलसंयुक्तःयू ७क्षेत्राणिैः विजित्य च द्वितीयस्थानं प्राप्तवान् । [३८] [३९] कुबिहारराजनीतौ प्रथमवारं तस्मिन् एव वर्षे २० तमे दिनाङ्के नीतीशो०पञ्चमवारं ख्यमन्त्रीरूपेण शपथग्रहणं कृतवान्, । ते

्वी यादवो बिहारस्य उपमुख्यमन्त्री अभवत्। [१६]

नीतीशस्य अभियानस्य प्रबन्धनं नियुक्तया भारतीयराजनैतिककार्यसमित्या अभवत्।[४०] [४१] सा एव हर घर-दस्तक् (द्वारे द्वारे प्रचारः) [४२] तथा च डी एन् ए अभियानस्य प्रचारं विहितवती। [४३]

महाग्रन्थिबन्धनस्य विभञ्जनम्[सम्पादयतु]

यदा उपमुख्यमन्त्रिणः तेजस्वियादवस्य विरुद्धं भ्रष्टाचारस्य आरोपः कृतः तदा नीतीशो मन्त्रिमण्डलात् त्यागपत्रं दातुं निवेदितवान् । राष्ट्रीयजनतादलं तत् कर्तुं न स्वीकृतवान् अतः नीतीशः २०१७ तमस्य वर्षस्य जुलैमासस्य २६ दिनाङ्के त्यागपत्रं दत्तवान्। अतो महाग्रन्थिबन्धनस्य समाप्तिः अभवत् । [१६] स मुख्यविपक्षे राष्ट्रियजनतान्त्रिकग्रन्थिबन्धने सम्मिल्य कतिपयहोरानन्तरं पुनः शासनं प्राप्तवान् । [४४]

पञ्चम कार्यकालः २०२० वर्षतः २०२२ पर्यन्तम्[सम्पादयतु]

२०२० तमस्य वर्षस्य राज्यनिर्वाचने महाग्रन्थिबन्धनस्य ११० आसनानां विरुद्धं १२५ आसनानि प्राप्य विधानसभायां बहुमतं प्राप्तुं राष्ट्रियजनतान्त्रिकग्रन्थिबन्धनं सफलम् अभवत् । [४५] राष्ट्रियजनतान्त्रिकग्रन्थिबन्धनस्य शीर्षनेतॄणां सान्निध्ये २० वर्षेषु सप्तमवारं स बिहारस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान् । [४६]

२०२२ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के नीतीशो मुख्यमन्त्रिपदं त्यक्त्वा स्वस्य दलं पुनः महाग्रन्थिबन्धने सम्मिलितं कृतवान्। [४७]

षष्ठकः कार्यकालः २०२२ तमात् वर्षतः वर्तमानः[सम्पादयतु]

महाग्रन्थिबन्धने पुनः सम्मिल्य अगस्तमासस्य १० तमे दिनाङ्के स २२ वर्षेषु अष्टमवारं राज्यस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्। [४८]

चरित्रवर्णनग्रन्थाः[सम्पादयतु]

नीतीशकुमारः केरळस्य राज्यपालेन निखिलकुमारेण च उपमुख्यमन्त्रिणा तेजस्वियादवेन सह दृश्यते।
  • सङ्कर्षणठाकुरः सिङ्गल् मैन् : द लैफ् एण्ड् टैम्स् ओफ् नीतीशकुमार ओफ् बिहार नाम पुस्तकं लिखितवान् । [४९]
  • अरुणसिंहा नीतीशकुमार एण्ड द रैज् ओफ् बिहारः इति पुस्तकस्य लेखकः अस्ति . [५०]

पुरस्काराः तथा मान्यता[सम्पादयतु]

  • अनुव्रतपुरस्कारः श्वेतम्बरतेरापन्थिमहासभया जैनसङ्गठनेन बिहारे पूर्णमद्यनिषेधाय ख्रिष्टाब्दे २०१७ तमे वर्षे।
  • जेपीस्मृतिपुरस्कारः नागपुरस्य मानवमन्दिरे ख्रिष्टाब्दे २०१३ तमे वर्षे।[५१]
  • ख्रिष्टाब्दे २०१२ तमे वर्षेेफोरेन्पोलिसीपत्रिकया वैश्विकचिन्तकेषु सर्वोच्चशतम् [५२] इत्यस्मिन् ७७ तमं स्थानं प्राप्तवान् ।
  • जमशेदपुरस्यजेवियर्श्रमिकप्रबंधनसंस्थानेन समाजौद्योगशान्तये सरजहाँगीरगाण्डीपदकं प्रदत्तः ख्रिष्टाब्दे २०११ तमे वर्षेे । [५३]
  • एम् एस् एन् इण्डियन २०१० तमस्य वर्षस्य।[५४]
  • एण्डीटीवी इत्यनेन इण्डियन् ओफ् द ईयर् राजनीतौ ख्रिष्टाब्दे २०१० तमे वर्षेे । [५५]
  • फोर्ब्स् द्वारा इण्डियाज् पर्सन् ओफ् द ईयर् इति ख्रिष्टाब्दे २०१० तमे वर्षेे । [५६]
  • सी एन् एन् आयी बी एन् इत्यनेन इण्डियन् ओफ् द ईयर् नामधेयः पुरस्कारः राजनीतिौ ख्रिष्टाब्दे २०११ तमे वर्षेे । [५७]
  • एण्डीटीवी इत्यनेन इण्डियन् ओफ् द ईयर् राजनीतौ ख्रिष्टाब्दे २००९ तमे वर्षेे ।[५८]
  • इकोनोमिक् टाइम्स् इत्यनेन बिजनेस् रिफौर्मर् ओफ् द ईयर् ख्रिष्टाब्दे २००९ तमे वर्षेे । [५९]
  • पोलियोरोगोन्मूलनविजेतृपुरस्कारः ख्रिष्टाब्दे २००९ तमे वर्षेे रोटरी इन्टरनेशनल् [६०] द्वारा ।
  • सी एन् एन् आयी बी एन् इत्यनेन इण्डियन् ओफ् द ईयर् नामधेयः पुरस्कारः राजनीतिौ ख्रिष्टाब्दे २००८ तमे वर्षेे ।
  • सर्वोत्तमः मुख्यमन्त्री, [६१] सी एन् एन् आयी बी एन् तथा हिन्दुस्तान टाइम्स् इत्येनयोः स्टेट् आफ् द नेशन पोल् २००७ इत्यस्य अनुसारः।

सन्दर्भाः[सम्पादयतु]

  1. "Nitish Kumar sworn-in as CM for sixth time: A look at the life of the 'Chanakya of Bihar politics'". 27 July 2017. आह्रियत 2 January 2019. 
  2. "Nitish Kumar rejoins Grand Alliance in Bihar after quitting NDA for the second time". 2022-08-09. आह्रियत 2022-08-09. 
  3. "Nitish Kumar hits reset, reunites with RJD; oath today | Top Points". India Today (in English). आह्रियत 2022-10-07. 
  4. "Biography of Nitish Kumar". jagranjosh. Archived from the original on 5 July 2022. आह्रियत 5 July 2022. 
  5. Post mandal politics in Bihar:Changing electoral patterns. 5 June 2018. आह्रियत 5 July 2022. 
  6. ६.० ६.१ "Chief Minister of Bihar". Government of Bihar. Archived from the original on 31 March 2022. आह्रियत 29 January 2019. 
  7. "Nitish Kumar's Nickname Is 'Munna': 10 Facts About Bihar Chief Minister On His Birthday". 
  8. "'Munna Se Nitish': In Poll-Bound Bihar, a Comic Starring the Chief Minister". 
  9. "Nitish Kumar". Archived from the original on 31 March 2022. आह्रियत 31 March 2022. 
  10. १०.० १०.१ "Bihar leader-Mr. Nitish Kumar". 18 August 2015. Archived from the original on 17 August 2015. आह्रियत 18 August 2015. 
  11. "I dream of the old glory days of Bihar". 1 January 2012. आह्रियत 21 October 2018. 
  12. "Nitish Kumar's wife passes away in Delhi". Hindustan Times. 14 May 2007. Archived from the original on 7 October 2020. आह्रियत 4 October 2020. 
  13. "A Politician other Politicians should Emulate!". Polityindia.com. 18 January 2011. Archived from the original on 30 March 2012. आह्रियत 17 September 2012. 
  14. "Jayaprakash Narayan- His Journey & Movements". www.thehinducentre.com. Archived from the original on 7 June 2020. आह्रियत 12 November 2019. 
  15. Nitish Kumar. January 0101. आह्रियत 6 August 2022. 
  16. १६.० १६.१ १६.२ १६.३ १६.४ "Nitish Kumar’s political journey: From a socialist leader to saffron ally". Times of India. Archived from the original on 16 July 2022. आह्रियत 16 July 2022. 
  17. The Making of Miracles in Indian States: Andhra Pradesh, Bihar, and Gujarat. p. 170. आह्रियत 6 August 2022. 
  18. "RJD silver jubilee: High and low points the Bihar party went through in last 25 years". 
  19. १९.० १९.१ India and the World Bank: The Politics of Aid and Influence. p. 129. आह्रियत 6 August 2022. 
  20. "Know how many times Nitish Kumar resigned from govt in past". Zee News. Archived from the original on 16 July 2022. आह्रियत 16 July 2022. 
  21. Railway online booking through credit cards[नष्टसम्पर्कः]
  22. "Railway Reservation through internet". Archived from the original on 26 April 2017. आह्रियत 25 April 2017. 
  23. "Nitish Kumar voted out of Barh, wins in Nalanda". rediff.com. 13 May 2004. Archived from the original on 21 February 2014. आह्रियत 23 December 2012. 
  24. "Nitish Kumar's development agenda makes waves in Bihar". 1 May 2009. आह्रियत 26 May 2009. 
  25. Antholis, William (22 October 2013). "New Players on the World Stage: Chinese Provinces and Indian States". Brookings Institution. Archived from the original on 13 January 2016. आह्रियत 12 November 2015. 
  26. "From the archives (2000) | When Nitish Kumar became Bihar CM for first time". India Today (in English). आह्रियत 2022-10-07. 
  27. Kumar, Abhay (24 November 2019). "March 2000: When Nitish quit as CM, before floor test". Deccan Herald (in English). Archived from the original on 7 April 2020. आह्रियत 29 March 2022. 
  28. "Outvoted as much as outmanoeuvred by Laloo Yadav". Archived from the original on 7 April 2020. आह्रियत 7 April 2020. 
  29. "Nitish Kumar’s wavering affections for BJP and RJD". 
  30. "A triumph in Bihar". 25 November 2010. आह्रियत 13 July 2017. 
  31. "Nitish sweeps Bihar polls; Cong crushed, Lalu eclipsed". 25 November 2010. Archived from the original on 14 July 2013. आह्रियत 7 January 2023. 
  32. "A landslide sweep for JD(U)-BJP combine in Bihar". India Today. 24 November 2010. Archived from the original on 19 July 2012. आह्रियत 17 September 2012. 
  33. "Nitish Kumar resigns as the Chief Minister of Bihar". IANS. news.biharprabha.com. Archived from the original on 17 May 2014. आह्रियत 17 May 2014. 
  34. "Frenemies Nitish Kumar and Lalu Yadav finally reach breakthrough in seat-sharing talks". Archived from the original on 6 August 2015. आह्रियत 3 August 2015. 
  35. "Why The Upcoming Election In Bihar Is Critical For The State And Beyond". Archived from the original on 5 August 2015. आह्रियत 3 August 2015. 
  36. "Nitish Kumar returns as Bihar CM". 
  37. "How Nitish Kumar and Lalu Yadav won Bihar". 8 November 2015. आह्रियत 9 November 2015. 
  38. "Won't contest Bihar polls, will devote time for campaigning, says Nitish Kumar". Archived from the original on 8 August 2015. आह्रियत 3 August 2015. 
  39. "Won't contest Bihar elections: Nitish Kumar". Archived from the original on 6 August 2015. आह्रियत 3 August 2015. 
  40. "How IPAC made it click for Nitish Kumar in Bihar". आह्रियत 29 September 2018. 
  41. "How Prashant Kishor's Team Swung the Elections for Nitish Kumar". आह्रियत 29 September 2018. 
  42. "Sunday Story: The Leader and his machine". 5 July 2015. आह्रियत 29 September 2018. 
  43. "Prashant Kishor: Man behind Modi LS campaign crafts Nitish win". 8 November 2015. आह्रियत 29 September 2018. 
  44. "Nitish Kumar resigns as Bihar Chief Minister, says had become 'difficult for me to work'". 26 July 2017. आह्रियत 26 July 2017. 
  45. "NDA retains power in Bihar with 125 seats". www.thehindubusinessline.com (in English). 11 November 2020. आह्रियत 9 August 2022. 
  46. "Nitish Kumar sworn in as Bihar Chief Minister for the seventh time in 20 years". 16 November 2020. आह्रियत 22 February 2021. 
  47. "Bihar: JD(U), RJD, Congress realign after two months of secret discussions". 10 August 2022. आह्रियत 10 August 2022. 
  48. "Bihar: JD(U), RJD, Congress realign after two months of secret discussions". 10 August 2022. आह्रियत 10 August 2022. 
  49. "When Nitish Kumar canceled the Modi dinner". Archived from the original on 5 March 2014. आह्रियत 5 March 2014. 
  50. "The man who transformed Bihar". Chennai, India. 19 March 2012. आह्रियत 5 March 2014. 
  51. "The day Patil took oath of office on Friday he honoured Nitish with the JP Memorial Award on behalf of Nagpur's Manav Mandir.". 23 March 2013. आह्रियत 21 October 2018. 
  52. "Nitish Kumar in Foreign Policy's top 100 global thinkers". आह्रियत 14 June 2016. 
  53. Our Bureau. "Business Line : Industry & Economy / Economy : XLRI to fete Nitish Kumar". Thehindubusinessline.com. Archived from the original on 6 August 2022. आह्रियत 17 September 2012. 
  54. "MSN Indian Of The Year: Nitish Kumar". News.in.msn.com. 20 December 2010. Archived from the original on 15 June 2012. आह्रियत 17 September 2012. 
  55. NDTV Indian of the Year: The winners (18 February 2011). "NDTV Indian of the Year: The winners". NDTV.com. Archived from the original on 9 August 2016. आह्रियत 17 September 2012. 
  56. "A Person of the Year: Nitish Kumar". 3 January 2011. आह्रियत 6 September 2017. 
  57. Nitish Kumar, CNN IBN Indian of the year-2010
  58. "News " Videos". NDTV. Archived from the original on 28 February 2010. आह्रियत 17 September 2012. 
  59. "Features". India. 25 August 2009. आह्रियत 23 October 2010. 
  60. "Awards galore for Nitish". India. 24 December 2010. आह्रियत 24 December 2010. 
  61. "IBN". Ibnlive.in.com. Archived from the original on 24 April 2012. आह्रियत 17 September 2012. 
"https://sa.wikipedia.org/w/index.php?title=नीतीश_कुमार&oldid=480518" इत्यस्माद् प्रतिप्राप्तम्