ताण्ड्यपञ्चविंशब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पंचविंशब्राह्मणम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

ताण्डयब्राह्मणम् उत ताण्ड्यपञ्चविंशब्राह्मणं सामवेदस्य प्रधानब्राह्मणमिदमस्ति। ताण्डिशाखातः सम्बद्धमिदं ब्राह्मणमस्ति। ब्राह्मणमिदं पञ्चविंशतिः अध्यायेषु विभक्तमस्ति, तेन पञ्चविंशनाम्ना तथा विशालकायत्वेन महाब्राह्मणनाम्ना ख्यातमस्ति। यागानुष्ठानेषूद्गातृणां कार्याणां विपुलमीमांसैव ब्राह्मणमिदं महनीयमकरोत्।

स्वरूपम्[सम्पादयतु]

अस्य द्वितीय-तृतीयाध्याये त्रिवृत्-पञ्चदश-सप्तदशप्रभृतीनां स्तोमविष्टुतीनां विशदं वर्णनमस्ति। चतुर्थ-पञ्चमाध्याये गवामयनस्य वर्णनमस्ति। यज्ञोऽयं वर्षपर्यन्तं चलति तथा समस्तानां सत्राणां प्रकृतिरस्ति। षष्ठाध्यायादारभ्य द्वादशाध्यायपर्यन्तं तथा द्वितीयाध्यायेऽपि ज्योतिष्टोम-उक्थ्य-अतिरात्रादियागानां वर्णनमस्ति। यज्ञोऽयम् एकाहस्य आहीनस्य च प्रकृतिः भवति।

षष्ठाध्याये ज्योतिष्टोमस्योत्पत्तिः, उद्गात्रा औदुम्बरीशाखायाः स्थापना तथा द्रोणकलशस्य स्थापनायाः वर्णनं कृतमस्ति। सप्तमखण्डस्य षष्ठ-सप्तमाध्यायादारभ्य सप्तमस्य द्वितीयखण्डपर्यन्तं प्रातःसवनस्य माध्यन्दिनसवनस्य च वर्णनमस्ति। वर्णनेऽस्मिन् रथ्यन्तर-बृहत्-नौधसकालेयादिसामानां विस्तृतं विवरणमस्ति। अष्टमस्य शेषखण्डादारभ्य नवमाध्यायपर्यन्तं सायनसवनस्य तथा सायंकालिकपूजायाः विधानमस्ति। दशमाध्यायादारभ्य पञ्चदशाध्यायपर्यन्तं द्वादशाहयागानां विधानमस्ति। अस्मिन् विधाने क्रमशः प्रथमदिनादारभ्य दशमदिनपर्यन्तस्य विधानस्य तथा विविधानां साम्नां विशिष्टं वर्णनमस्ति ।

षोडशाध्यायादारभ्य उनविंशतितमाध्यायपर्यन्तं नानाविधस्य एकाहयागानां विवरणमस्ति । विंशतितमाध्यायाद् द्वाविंशतितमाध्यायपर्यन्तम् अहीनयागानां वर्णनमस्ति । अस्मिन् यागे वर्णत्रयाणामधिकारोऽस्ति । दक्षिणा भवति, अन्ते अतिरात्रसंस्था भवति तथा अनेकयजमानकर्तृको यागो भवति—

‘त्रैवर्णिकाधिकारिकः सदक्षिणोऽतिरात्रसंस्थाकः, एकद्वित्रिचतुराद्यनेक-यजमान-कर्तृकः सोमयागोऽहीनः ॥'

त्रयोविंशत्यध्यायादारभ्य पश्चविंशत्यध्यायपर्यन्तं सत्राणां वर्णनमस्ति । सत्रस्य लक्षणमस्ति-

‘ब्राह्मणकर्त्तृकोऽदक्षिणा उभयतोऽतिरात्रसंस्थाकः सोमयागविशेषः सत्रम् ॥'

सत्रे आहिताग्न्यग्निष्टोमसंस्थायाः सम्पादकत्वस्य न्यूनातिन्यूनं सप्तदश तथा अधिकादधिकं चतुर्विंशतितमाः अधिकारिणो भवन्ति । सर्वे यजमानाः भवन्ति । अतः सत्र-जन्यफलानि सर्वान् समानरूपेणैव प्राप्यन्ते। यागेऽस्मिन् दक्षिणा न भवति । यत्र सर्वे यजमानाः भवन्ति, तत्र सप्तदशतमाधिकारिपक्षे — एकः गृहपतिः कथ्यते, अवशिष्टषोडशाः ब्रह्मादीनां कार्यं कुर्वन्ति । चतुर्विंशत्यधिकारिपक्षे अष्टौ गृहपतिर्भवेयुः तथा षोडश ऋत्विगादीनां कार्यं कुर्वन्ति । अस्मिन्नेवाध्याये त्रयोदशदिवसाभ्यन्तरे समाप्य यज्ञादारभ्य सहस्रसंवत्सरसमाप्यसत्रस्य विशदं विवेचनमस्ति ।

विषयवस्तु[सम्पादयतु]

ताण्डत्यब्राह्मणे साम्नः सोमयागस्य च वर्णनं मुख्यविषयोऽस्ति सामवेदेन सह सम्बद्धत्वेन सामवेदस्य विशिष्टभेदानां तथा तेषां नामकरणस्य उदयस्य च विवेचनमत्रौचित्यं प्राप्तमेवास्ति । कस्यापि सामनामकरणस्य आधारस्तस्य द्रष्टा ऋषिरेव भवति। यथा-वैखानस-साममन्त्रस्य द्रष्टा वैखानसऋषिरेव[१], शार्कराख्यसामस्य द्रष्टा ऋषिः शर्कर आसीत्[२]। साम्नां नामकरणस्येयमेव परिपाटी अस्ति ।

यत्र तत्र साम्नां स्तुतिस्तथा महत्ताप्रदर्शनार्थं प्राचीनं रोचकचाख्यानमपि प्रदत्तमस्ति । यथा वात्ससाम्नः विषये— वत्स-मेधातिथिनामकौ द्वौ ऋषी अास्ताम् । एकदा मेधातिथिः वत्सम् अब्राह्मणस्तथा शूद्रपुत्रं कथयित्वा अनादृतवान् । वत्सः वात्ससाम्ना तथा मेधातिथिः मेधातिथ्यसाम्ना चाग्नेः पार्श्वे ब्राह्मीयसः निर्णयार्थं गतवन्तौ । वत्सः स्वशरीरमग्नौ निपातयत् किञ्चाग्नौ तस्य लोमभग्नोऽपि नाभवत् । ( तस्य लोम च नौषत् ) । तस्मादेव कालात् वात्ससोमः कामनापूरकत्वेन ‘कासमनिः’ इति नाम्ना विख्यातोऽभवत्।[३]

अनेनैव प्रकारेण 'विङ्कसाम्ना च्यवनऋषिस्तारुण्यं लब्धवान्' । अस्याऽऽख्यायिकायाः अप्युल्लेखो लभते।[४] अस्मिन् ब्राह्मणे यज्ञीयप्रधानविषयम् अधिकृत्य विभिन्नानां ब्रह्मवादिनां मतस्य बहुशः उल्लेखः समुपलब्धो भवति।[५] विभिन्नाचार्याणां मतस्य खण्डन कृत्वा स्वाभीष्टमतस्य स्थापनमप्यकरोत्। व्रात्ययज्ञे अग्निष्टोमसाम्न विधानं कस्मिन् मन्त्रोपरि भवतु, प्रसङ्गोऽयं ध्यानाकर्षणं करोति।[६] कस्याऽपि सम्मतिरस्ति - ‘देवाः किंवा द्रविणोदायाः[७] उपरि साम्नः विधानं भवितव्यम् । अन्ये अाचार्यास्तु- ‘अदशिगातुवित्तम'[८], सतो बृहतीत्याद्युपरिसामस्थापनस्य पक्षधराः सन्ति । ताण्ड्ये अस्य खण्डनं कृत्वा पूर्वमतस्य स्थापनमस्ति।[९] ताण्ड्यब्राह्मणस्य रचनाकालः यज्ञोत्कर्षस्य प्रतीकोऽस्ति । ताण्डत्यब्राह्मणे उल्लेखोऽस्ति[१०] यत्, एकदा देवेन्द्रः अयज्ञकर्तृृन् यतयः शृगालेभ्यः भक्षणार्थमददात् । अनेनैव कारणेन नागा अपि स्वलौकिकीं समृद्धिं कामयमानाः यज्ञमकुर्वन् इति।

आर्याणां समकक्षाय व्रात्यानानयतुं ताण्ड्यब्राह्मणे व्रात्ययज्ञस्य वर्णनमेको महत्त्वपूर्णविषयोऽस्ति । ताण्ड्यब्राह्मणस्य सप्तदशतमाध्यायस्य प्रथमखण्डे व्रात्यानां वेशभूषायाः, आचारविचारस्य च विषये बहुमूल्यपदार्थानां निर्देशो लभते। निर्देशोऽयं धार्मिकदृष्ट्या विशेषमहत्त्वपूर्णोऽस्ति । प्रवासी तथा अाचारविहीनः अार्य एव व्रात्यनाम्नाऽभिज्ञायते । अस्य व्रात्यस्य चत्वारो भेदाः सायणभाष्ये प्राप्यन्ते। एतेषां दोषमुक्तये विभिन्नयज्ञानां विधानं ताण्ड्ये लभते।[११] एतेषां दोषविमुक्तये पृथग्-पृथग् यज्ञानां विधानमत्र अस्ति। व्रात्यानां गृहपतेः तथा अन्यजनानां दक्षिणायामपि अत्र पार्थक्यं कृतमस्ति । एषां वस्तूनां सूच्याः परिदर्शनेन व्रात्यसाधनानां परिचयः प्राप्तुं शक्यते । गृहपतेः देया दक्षिणा उष्णीष-प्रतोद-ज्याह्नोड-फलकास्तीर्ण-विपथ-कृष्णश-वास-कृष्ण-श्वेताविचर्म-रजतनिष्कप्रभृतयः सन्ति।[१२] अन्येषां व्रात्यानां दक्षिणायामेतेषां वस्तूनां निर्देशो लभते - रक्तवास-द्वावुपानहौ-शुक्ल-कृष्णाजिनप्रभृतयः।[१३]

भौगोलिकस्थितिबोधनम्[सम्पादयतु]

ब्राह्मणयुगीयभौगोलिकज्ञानाय अपि अस्य ब्राह्मणस्य प्रकृष्टोपयोगिताऽस्ति।ताण्ड्यब्राह्मणस्य भौगोलिकक्षेत्रम्- कुरुक्षेत्रं, सरस्वत्याः मण्डलं चास्ति । क्षेत्रमिदं स्वर्ग इव मन्यते।[१४] अाकुरुक्षेत्रात् नैमिषारण्यम् अभिव्याप्य प्रदेशः यज्ञभूमेः स्वरूपे उल्लिखितः अस्ति। रोहितकुलीयसामस्य व्याख्यायां[१५] भरतैः सह विश्वामित्रस्य रोहित(यमुना)नद्याः तटभूविजयस्य उल्लेखोऽपि वर्तते। अथ प्रतापी यशस्वी च कर्णः नकुलश्च महाभारतीयकथानुसारेण रोहितकजनान् विजित्य रोहितनद्यावधि समग्रो भूमिं जिगाय। विनशनः प्लक्षः[१६], प्रास्रवणश्च[१७] यमुना तथा कारपञ्चवः[१८] इत्यादीनां भौगोलिकस्थानानामत्र निर्देशो वर्तते।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ( १४॥४॥७)
  2. १४॥५॥१४
  3. १४॥६॥६
  4. १४॥६॥१०
  5. ताण्ड्य° १४/५/८, १५/१२/३
  6. १८॥१॥११-१२
  7. सामः, उत्तरार्चिकः, ७॥१॥१०
  8. उत्तरा० ७॥१॥११
  9. १७॥१॥१२
  10. (१८॥१॥९)
  11. १७।१।१
  12. १७॥१॥१४
  13. १७॥१॥१५
  14. २५ अ०
  15. १४॥३॥१३
  16. २५॥१०॥१
  17. २५॥१०॥१६
  18. २५॥१०॥१६