पाणिनीतरव्याकरणसम्प्रदायाः
पाणिनीतरव्याकरणसम्प्रदायाः व्याकरणस्य वैविध्यं प्रदर्शयति। पाणिनिव्याकरणस्य प्रसिद्धित्वात् तेषां प्रचलनम् अल्पं मन्यते। परन्तु प्रचलनं तु दरीदृश्यते। परिवर्तनं हि जीवितभाषायाः भाषितभाषाया वा प्रधानं लक्षणम् । एतदपरिहार्यभौतिहासिक तथ्यं यज्जीवितभाषायां विकारः सततप्रक्रियैव । पाणिनिना व्याकरणनियमैः सुनिबद्धायामपि संस्कृतभाषायामनेकविधानि परिवर्तनानि सम्पन्नान्येव । यदा हि पाणिनिरष्टाध्यायीं ग्रथ्नाति स्म तदा संस्कृतभाषा जनसाधारणस्यापि जिह्वासु नरीनृत्यते स्म । तेनैव पाणिनिना विशिष्टपक्ष एव व्याकरणस्योपज्ञातम् । भाषायाः सामान्यपक्षस्तु सर्वैः स्वतः ज्ञात एवासीत् । तेनैव पाणिनिनोपेक्षितं विषयं कात्यायनो वररुचिह वातकैर्जग्राह । किन्तु कात्यायनपर्यन्तमपि संस्कृतभाषा जनभाषेवासीदतो जानताऽपि वररुचिना नैव । सर्वः पक्ष उपात्तः । नृपविक्रमार्कसमयं प्राप्य तु संस्कृतभाषा शिष्टजनानमेव भाषात्वेनावशिष्टा तस्याः सामान्य रूपमपि जनैर्व्यस्मारि । तेन तत्सिद्धये भाषायाः सामान्यपक्षावग्राहिणो व्याकरणस्यावश्यकतोदिता । सा च कातन्त्रव्याकरणेन पूरिता पाणिनीतरव्याकरणेषु कातन्त्रसम्प्रदायः प्राचीनतम. ततश्च भाषायाः सामयिकं परिवर्तनमवलम्ब्य काले काले अन्यान्यपि व्याकरणानि समुदितानि । मुग्धबोधस्य कर्ता बोपदेवो ह्यष्टौ व्याकरणानि स्मरति यथा --
‘इन्द्रश्चन्द्रः काशकृत्स्नापिशली शाकटायनः ।
पाणिन्यमरजैनेन्द्राः जयन्त्यष्टादिशाब्दिकाः।' इति ।
किन्तु कथनमेतन्न संर्वमपि . पक्षं व्याप्नोति । वस्तुतस्तु पाणिनीतराणि हैम-सारस्वत-कालाप-शाकटायन-शाकल्य-ऐन्द्र-चन्द्र -दौर्ग-ब्रह्मयम-वायु-वरुण-सौम्य-वैष्णव-रुद्र-कौमार बालभाषाशब्दतर्कव्याकरणानि स्मृतानि । एतानि ज्ञातानि वा श्रुतानि, सम्भवन्त्यन्यान्यप्यविज्ञातानि च व्याकरणानि ।
सर्ववर्मणः कातन्त्रव्याकरणम्
[सम्पादयतु]कातन्त्र' हि व्याकरणं पाणिनीतरव्याकरणेषु प्राचीनतमम् । अस्य प्रणेतृविषयेऽपि विपश्चितां नैकमत्यम् । एवमेव कालविषये नामविषये च युधिष्ठिरो हि कातन्त्रप्रवर्तनकालो विक्रमपूर्व.ितीयसहस्राब्दीति मन्यते । अपरे तु विक्रमसमकालिकमपि मन्यन्ते । कथासरित्सागरे हि कथितं यत्सर्ववर्मणा सातवाहनप्रबोधनाय कुमारात्प्राप्तमिति । व्याकरणमिदं कातन्त्र-कौमार-कलापकसारस्वतादिसंज्ञाभिरपि बुध्यते । कातन्त्रं हि स्वल्पतन्त्रत्वात् । दुर्गासिंहानुसारेण ईषदर्थे 'कु' इत्येतस्य स्थाने 'का' इत्यादेशः । कुमारेणैव प्रोक्तत्वात्कौमारमपि । युधिष्ठिरमते तु बालप्रयुज्यत्वात् कुमाराणामिदं कौमारमिति । कलापकञ्च कुमारेण मयूरकलापे लिखितमासीदिति । हेमचन्द्राचार्यस्तु वृहतन्त्रात् कला (आ) पिबतीति', 'आदिग्रहणात् बृहतन्त्रात् कला आपिबन्तीति कलापकाः शास्त्राणि इति व्याख्याति । एवमेव माणिक्यदेवमतेऽपि ‘बृहतन्त्रान् कलाः आपिबतीति कलापकः शास्त्रमिति । सारस्वतं तु कुमाराज्ञयो सरस्वतीमुखे - प्रविश्य स्वयमेव व्याकरणं प्रोक्तवतीति । ततः प्रविष्टां मे मुखे मूर्ता सरस्वती इति कथासरित्सागरेऽपि । पाणिनीयव्याकरणानुसारेण त्वस्य स्वल्पतन्त्रत्वं सिध्यति । यतः का पथ्यक्षयोः' इत्यनुवृत्य 'ईषदर्थे' एव कोः कादेशो भवति पथ्यक्षवर्जम् ।
एवमेवास्य प्रणेता कथासरित्सागरानुसारेण शवर्माख्यो गुरुडपुराणानुसारेण तु कात्यायनः । यथोक्त गरुडे - कुमार उवाच-अथ व्याकरणं वक्ष्ये कात्यायन समासतः -
सिद्धशब्दविवेकाय बालव्युत्पत्तिहेतवे ।'[१]
सुप्तिङन्तं पदं ख्यातं सुपः सप्त विभक्तयः ।
स्वौजसः प्रथेमा प्रोक्ता सा प्रातिपदिकात्मके।[२]
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवजितम् ।[३]
नारदीये तु तदेव सनन्दनेन नारदाय प्रोक्तत्वेनोपन्यस्तम् । यथा सनन्दन उवाच -
अथ व्याकरणं वक्ष्ये संक्षेपात्तव नारद ।
सिद्धरूपप्रबन्धेन मुखं वेदस्य साम्प्रतम् ।
सुप्तिङन्त पदं विप्र सुपां सुप्त विभक्तयः।
स्वौजसः प्रथमा प्रोक्ता सा प्रातिपदिकात्मिका ।
सम्बोधने च लिङ्गादावुक्ते कर्मणि कर्तरि।।
अर्थवत्प्रातिपदिकं धातुप्रत्ययवर्जितम् ।।[४]
आग्नेये तु -
अग्निरुवाच-कात्यायनं स्कन्द आह यत्तद्वयाकरणं वदे ।[५] स्कन्द उवाच-
वक्ष्ये व्याकरणं सारं सिद्धशब्दस्वरूपकम् ।
कात्यायन विबोधाय बालानां बोधनाय च ।
प्रयाहारादिकाः संज्ञाः शास्त्रसंव्यवहारगाः ।।
उपदेश इद्धलन्तं भवेदजनुनासिकः ॥[६] इति ।
यदि वयं कथासरित्सागरमनुयायस्तदा कातन्त्रव्याकरणं हि सातवाहन-' समकालिकं सम्भवति । सातवाहनो हि आन्ध्रजातीयो राजा । आन्ध्राणां हि । मगधेषु शासनं राजतरङ्गिणीकारानुसारेण नृपविक्रमार्कात् ८१६ वर्षपूर्वं भागवतानुसारेण तु १४४७ वर्षपूर्वमासीत् । सातवाहनो वा शातकणस्तु आन्ध्रराजवंशे बलिपुच्छकात्पञ्चमो वा पञ्चदशः पुरुषः । तेन तस्य स्थितिकालो भागवतानुसारेण, ७४१ विक्रमार्कात् १२२२. वर्षपूर्वं राजतरङ्गिणीकारानुसारेण ५९१ वर्षपूर्वम् । तेन कातन्त्रव्याकरणस्य प्रवर्तनकालोऽपि स एव। ये हि खलु सातवाहननृपविक्रमकानन्तरवतिनं मन्यन्ते तेषां मते विक्रमानन्तरं सप्तत्रिंशदुत्तरैकशतवषण्यभितः कातन्त्रस्य प्रणयनकालः । केचित्तु अद्यतनी-श्वस्तनी-भविष्यन्ती-परोक्षादिसंज्ञा-प्राचीनाचार्यसम्मता इति महाभाष्यवचनमाधारीकृत्य तेषां कातन्त्रे[७] व्यवस्थापनात्कातन्त्रस्य पतञ्जलि पूर्ववतत्वमनुमान्ति ।
कातन्त्रं हि व्याकरणं कतिपयवैलक्ष्यण्येन पाणितीयेन सह विसंवदते । तत्र हि विशेषः पाणिनेरिष्टः सामान्यं शर्ववर्मणः । पाणिनीयं हि व्याकरणं शब्दसाधुत्वस्य विशेषपक्षमेव गृह्णाति तद्विपरीतं शर्ववर्मा तु सामान्यपक्षमेव । पाणिनीयं हि वैदिकलौकिकोभयपक्षसम्बद्धं यदा शार्ववमिकं लौकिकपक्षमेव गृह्णाति । पाणिनीयं हि सुविस्तृतं यत्र हि चतुःसाहस्री सूत्राणां विद्यते यदा शार्वर्वामकं तु सामान्यजनप्रवेश्यम् । शार्वर्वामकं हि व्याकरणं स्थूलदृष्ट्या सन्धिनामाख्याताख्येषु त्रिषु प्रकरणेषु विभक्तम् । तत्र प्रथमे हि सन्धिप्रकरणे पञ्चपादाः, द्वितीये हि नामप्रकरणे षट्पादाः, तृतीये हि आख्यानप्रकरणे अष्टौ पादाः, चतुर्थे हि कृत्प्रकरणे परिशिष्टरूपे षट्पादा इति षड्विंशतिः पादाः ।
कथ्यते यत्कृत्प्रकरणं हि कात्यायनप्रणीतमिति । यथोक्त दुर्गवृत्तौ -
वृक्षादिवदमी रूढाः कृतिना न कृताः कृतः ।
कात्यायनेन ते सृष्टा विबुधप्रतिपत्तये ।। इति ।
कात्यायनोऽसौ वररुचिः प्राकृतप्रकाशस्य प्रणेता विक्रमसभासदेव न तु वातिककारः । केचित्तु तत्र शाकटायनप्रणीतमपि मन्यन्ते । यथोक्त'--
कृतस्तव्यादयः सोपपदानुपदाश्च ये ।
लिङ्गप्रकृतिसिद्धयर्थं ताजगौ शाकटायनः ।' इति ।
किन्त्वत्र दुर्गवृत्तिरेव विचक्ष णैः प्रमाणं मता।
तदनन्तरं श्रीपतिदत्तेन तन्त्रस्य न्यूनतापूर्तये परिशिष्टभागोऽपि प्रणीतः । एवमेव विजयानन्देन कातन्त्रोत्तरभागः प्रणीतो यत्र तद्धितप्रकरणं विवेचितः । नाम चास्य तद्धितविजयानन्दमिति एवमेव त्रिलोचनकविचन्द्रेण कातन्त्रोत्तर परिशिष्टं चन्द्रकान्तेन च कातन्त्रच्छन्दःप्रक्रिया च प्रणीता । इत्थं हि कातन्त्रव्याकरणमुत्तरोत्तरं समृद्ध सञ्जातम् । तत्र तत्र चानेकैविचक्षणैवृत्तिग्रन्था व्याख्याग्रन्थाश्च प्रणीताः । शर्ववर्माचार्य प्रोक्ते कातन्त्रव्याकरणेऽनेकैदिदिभत्ति ग्रन्थाश्च प्रणीताः।
चन्द्रयोगिनः चान्द्रव्याकरणम्
[सम्पादयतु]व्याकरणपरम्परायां चन्द्राचार्यप्रणीतं चान्द्रव्याकरणमपि दृश्यते । पाणिनीयव्याकरणच्छायाग्राह्यपीदं व्याकरणमपि कतिपयेषु पक्षेषु स्ववैशिष्टयमावहति । | चन्द्राचार्यों किन्देशिक इति नै वाधुनापि संनिर्णीतम् ।' राजतरङ्गिण्यनु- २ सारेण राज्ञोऽभिमन्योराज्ञया चन्द्राचार्येण पातञ्जलमहाभाष्योद्धारः स्वव्याकरणप्रणयनच्च कृतंमित्यपि ज्ञायते । चन्द्राचार्यं भर्तृहरिरपि तस्मिन्न व प्रसङ्ग . स्मरति । तं हि युधिष्ठिरमीमांसको बङ्गदेशीयं मन्यते हर्षनाथमिश्रस्तु काश्मीरकमेव । वबयोरभेदमात्रेण बङ्गदेशीय तु नैव सिध्यतिऽ यतस्तादृशे पक्षो जन्मनोऽपि आचार्यस्य प्रभावोऽतिशेते । चन्द्राचार्येण काश्मीरे हि महाभाष्यस्योद्धारः कृत इतिं राजतरङ्गिणीकारवचनेन वयन्तु एतदेवानुमामो यदसौ चन्द्राचार्यः काश्मीर एव किं वा तत्पाश्र्ववतदेश्यः ।
एवमेव चन्द्राचार्यस्य स्थितिकालोऽपि नाधुनापि निर्णीतः । राजतरङ्गिणीकारवचनाद् भर्तृहरिणा तस्य स्मरणाच्च तस्य काश्मीरस्य राजोऽभिमन्योः समकालिकत्वं तु सिध्यत्येव । तरङ्गिणीकारवचनाप्रामाण्यताया न किमपि स्पष्ट प्रमाणम् । अभिमन्योः स्थितिकालस्तु विक्रमपूर्वेकसहस्राब्दी अनुमितः कलिगतवर्षगणनाधारेण । तेन तु चन्द्राचार्यस्य शर्ववर्मणोऽपि पूर्ववर्तित्वं सिध्यति । तन्नैव सिध्येदपि तस्य विक्रमपूर्वपञ्चमशताब्दीपरवर्तित्वं तु नैव सिध्यति कथमपि ।
प्रतिग्रन्थं काऽपि स्वकीयविशेषता तु भवत्येव । चान्द्रव्याकरणस्य पाणिनीयानुजीविनोऽपि सन्ति कतिपयानि पृथगेव वैशिष्टयानि । तेषु यस्य संज्ञारहितत्वं प्रथमं वैशिष्ट्यम् । पाणिनयं हि व्याकरणमकालकं चान्द्रत्वसंज्ञकम् । अत्र हि पाणिनौये इव न किमपि संज्ञाविधानम् । लाघवं स्पष्टत्वं समग्रत्वञ्चास्येतराणि वैशिष्ट्यानि । यथाऽऽह चन्द्राचार्यः स्वयमेव -
‘लघुविस्पष्टसम्पूर्णमुच्यते शब्दलक्षणम् ।' इति ।
इदं हि पाणिनीयतन्त्रापेक्षया लघु स्पष्टञ्च विद्यते तथैव कातन्त्रापेक्षया सम्पूर्णञ्च । पाणिनीयं हि येषां शब्दानां वर्तकैर्महाभाष्योद्धतेष्टिभिर्भवति तेषां हि चान्द्रे सूत्रेष्वेव सन्निवेश इत्यपि तस्य सम्पूर्णत्वम् । चान्द्रं हि व्याकरणं न वातिकमपेक्षते नैव च भाष्यम् । | चान्द्रं हि व्याकरणं पातञ्जलभाष्यानुजीवि । तत्र प्रत्याख्यातानिं पाणिनीयसूत्राणि विशेषत उपेक्षितान्येव । अनेन नैतदनुमेयं यदिदं महाभाष्यमेवाक्षरशोऽनुवदतीति । कतिपयपक्ष महाभाष्यमप्यनेनोपेक्षितं वा प्रत्याख्यातं दृश्यते ।
चान्द्रे हि व्याकरणे सम्प्रति लौकिकप्रकरणमेव लभ्यते यत्र हि षडध्यायाः प्रत्यध्यायं चत्वारः पादाश्च । तदेवावलम्ब्य भाषाबृत्तिकारेण चन्द्रयोगी भाषासूत्रकार इत्युक्त भवतिं । वास्तविकता । तद्विपरीतैव । चान्द्र तन्त्रे हि अष्टावेवाध्याया आसन् । तान्तिमाध्याययोः स्वरवैदिकविषयं निरूपितमासीत् ।। यथा हि तव्य-अनीयर्-केलिमरः (१५१५१०५) इति सूत्रस्य चांद्रवृत्तौ ‘तव्यस्य वा स्वंरितत्वं वक्ष्यामः ‘इति वचनात् तौव ‘पु-शकि-तकि-चकि-यति-शसि-. सहि-यजः' (१।१।१०८) इति सूत्रस्य चान्द्रवृत्तौ जनिविधोरिगुपान्तानाञ्च स्वरं वक्ष्यामः' इति कथनात ‘ओदनाट् ठष्ट्’ (३।४।६८) इति सूत्रस्य वृत्तावपि ‘स्वरं । तु वक्ष्यामः' इति प्रतिज्ञावचानाच्चे चान्द्रेऽपि तन्त्रे स्वरवैदिकप्रक्रियाया भावो. ज्ञायते । चन्द्राचार्यस्य बौद्धत्वेन तेन वैदिकप्रकरणं नक्तमिति डेमहाशयस्य कथनमयुक्तियुक्तमसमीक्ष्य प्रोक्तञ्च । तथैव ‘लियोनेश्च' (१।१।१४५) इति सूत्रस्य चन्द्रवृत्ती तु ‘स्वरविशेषमष्टमे वक्ष्यामः' इति वचनेन स्पष्टमेवाष्टमा
यायस्य सत्ता सूचिताऽस्ति चान्द्रे हि तन्त्रे सूत्रपाठः, वणसूत्रपाठः, धातुपाठः, गणपाठः, उणादिपाठः, लिङ्गानुशासनम् उपसर्गवृत्तिः, परिभाषापाठः, शिक्षासूत्रपाठः, कोषः इति दशाङ्गानि । तन्त्रमिदं-
‘प्रणम्य सर्वं सर्वज्ञ सर्वीयं जगतो हितम् ।
लघुविस्पष्टसम्पूर्णमुच्यते शब्दलक्षणम् ।। इति वचनादारभ्यते ।
अस्य हि ‘आदिरितः समध्यः' इति प्रथमं सूत्रम् । तथैव चयः शरि द्वितीयः' इति लौकिकप्रकरणस्यान्तिमं सूत्रम् । अस्य उणादिप्रकरणे त्रय एव पादाः यत्र ३२८ सूत्राणि सन्ति । एवमेव गणपाठे २२५ गणपठिताः । तथैव धातुपाठोऽपि दशसु गणेषु विभक्तो यत्र ११७४ धातवः पठिताः “ । सन्ति । धातुपाठे प्रायस्त एंव धातवो गृहीता येषां खलु व्यवहारे प्रयोगोः दैनन्दिनः । तत्रोक्तम् -
‘क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रकीर्तितः ।
प्रयोगतोऽनुगन्तव्या अनेकार्था हि धातवः ।।' इति ।
अस्य हि लघुकायं वर्णसूत्रमपि पत्र हि स्वरव्यञ्जनयोः स्थान-करण-प्रत्ययानां परिचय दत्त । तत्र तत्र सूत्रविन्यासो ह्यष्टाध्यायीक्रमेण न तु प्रक्रिया क्रमेण । अस्यैव संक्षिप्त रूपं बालावबोधनं नाम विक्रमानन्तरद्वादशशताब्द्यां काश्यपेन प्रणीतम् । चन्द्रसूत्रोपरि चन्द्राचार्यस्यैव स्वोपज्ञाता वृत्तिर्लभ्यते । सैव धर्मदासेन । संक्षेपिता पश्चात् । चान्द्रं हि व्याकरणं साङ्गोपाङ्ग राजस्थानप्राच्यविद्याप्रतिष्ठानात्प्रकाशित मस्ति फतहसिंहेन सम्पादितम् ।
चान्द्रे हि धातुपाठे चन्द्राचार्यस्यैव स्वोपज्ञवृत्तिर्लभ्यते । तदतिरिक्तमपि पूर्णचन्द्र न विक्रमानन्तरैकादशभवेन तथैव १२५७ मितवैक्रमाब्दमभितः स्थितिमता भिक्षुणा कश्यपेन चास्यवृत्तिः प्रणीताऽस्ति ।
चान्द्रगणपाठस्य बहुविधं वैशिष्टयमस्ति । अत्र हि पाणिनिपूर्वापरवतनः पाणिनिपठिताश्च गणास्तु यथावश्यक सङ्गृहीता एव, सहैव नवीना अपि गणा यथावश्यकं पठिताः तेन हि पूर्वपठितगणानां संस्कारोऽपि कृतः ।
चान्द्रोणादिसूत्राणि त्रिषु पादेषु विभक्तानि । तत्र अन्त्यवर्णक्रमेण शब्दानां सङ्कलनं कृतमस्ति । तस्य चन्द्राचार्यस्यैव वृत्तिर्लभ्यते । चान्द्रपरिभाषापाठे ८६ परिभाषाः पठिताः सन्ति । तस्य च । चन्द्राचार्य स्यैव वृत्तिः सम्भवतीति पण्डिता अनुमान्ति ।
क्षपणकस्य शब्दानुशासनम्
[सम्पादयतु]क्षपणकनाम्ना विचक्षणेनाऽपि शब्दानुशासनं प्रोक्तमासीदिति । ग्रन्थान्तरगृहीततदुद्धरणतो ज्ञायते । क्षपणको विक्रमराजसभासत्स्वन्यतमः । केचिदम् सिद्धसेनदिवाकरं मन्यन्ते । एतदधिकं क्षपणकविषये नैव किञ्चिदपि ज्ञातमस्माभिः ।क्षपणकशब्दानुशासनस्य तस्यैव स्वोपज्ञा वृत्तिरप्यासीदिति -
अत एव नावमात्मानं मन्यते इति विग्रहपरत्वादनेन ह्रस्वत्वं बाधित्वा - अमागमे सति ‘नावम्मन्ये' इति क्षपणकव्याकरणे दर्शितम् ।
इति तन्त्रप्रदीपे मैत्रेयस्मरणाज्ज्ञायते । तन्त्रप्रदीपे एव क्षपणकमहान्यासस्यापि समुल्लेखो दृश्यते । अनुमीयते। यदसौ क्षपणकशब्दानुशासनस्य व्याख्याग्रन्थ इति । क्षपणकशास्त्रेऽपि षडेवा-. ङ्गान्यासन्निति क्षपणकवृत्तावत्रेतिशब्दः आद्यर्थे व्याख्यातः' इति मैत्रेयरक्षितकवचनादनुमीयते ।
देवनन्द्याः जैनेन्द्रशब्दानुशासनम्
[सम्पादयतु]पूज्यपादापरनामधेयेन देवनन्दिना जिनेन्द्रसंशयाऽपि ज्ञातेन विचक्षणेन पाणिनीयमेव तन्त्रमनुवृत्य जैनेन्द्रसंशकं शब्दानुशासनं प्रणीतमस्ति । देवनन्दी हि विशिष्टप्रतिभायुक्तत्वेन जिनेन्द्रबुद्धिरिति सर्वेषां पूजनीयत्वेन पूज्यपाद इति च संज्ञितः । यथोक्तम्-
यो देवनन्दी प्रथमाभिधानो बुद्धया महात्सा स जिनेन्द्रबुद्धिः ।
श्रीपूज्यपादोऽजनि देवताभिर्यत्पूजितं पादयुगं यदीयम् । इति।
स एव नामैकदेशेनापि ज्ञायते । यथा -
"अचिन्त्यमहिमा देवः सोऽभिवन्द्यो हितैषिणा।
शब्दाश्च येन सिध्यन्ति साधुत्वं प्रतिलम्भिताः ।" इति ।।
देवनन्दी हि कर्णाटकप्रदेशवास्तव्य इति तु तत्रत्यंशिलालेखादिषु तस्य प्रशस्तेर्वर्णनादनुमीयते । तस्य स्थितिकालविषयस्तु सम्प्रत्ययनिर्णीत एव। स हि वेत्तेः सिद्धसेवस्य[८] चतुष्टयं समन्तभद्रस्य[९] इति दिवाकरसिद्धसेणं समन्तभद्रञ्च स्मरतीति तस्य तयोः परवतत्वं सिध्यति । समुपलव्धप्रमाणैहि देवनन्दिनः स्थितिकालो विक्रमानन्तरपञ्चमशतकमभितोऽनुमितः । जिनेन्द्रेण प्रोक्त जैनेन्द्र हीदं व्याकरणं लोकव्यवहारप्रयुक्तशब्दैः सह सम्बद्धम् । अस्य हि बृहलघुभेदेन द्वौ पाठौ लभ्येते बृहत्पाठो हि दक्षिणात्येषु प्रसिद्धः सप्तशताधिकत्रिसहस्र सङ्ख्याकश्लोकात्मकः । लघुपाठे हि पञ्चाध्यायाः विंशतिपादाः, ३०३६ सङ्ख्याकसूत्राणि च । पाणिनीयसूत्रातिरिक्तं कात्यायनवातकानां पातञ्जलेष्टीनाञ्च समाश्रयेण सिद्धानां शब्दरूपाणामप्यत्र साधना सङ्गृहीता : संज्ञा प्रायो लाघवायैव भवति तत्रापि संज्ञानामपि लघूकरणायात्र प्रयासः कृतो दृश्यते यथा गुणस्य एप्, वृद्ध, ऐप्, आत्मनेपदस्य दः, प्रगृह्यस्य दिः, दीर्घस्य दी, बहुब्रीहेः बम्, तत्पुरुषस्य षम्, अव्यभीभावस्य हः, प्रथमादिविभ-." क्तीनां क्रमशः वा-इप्-भा-अप्-का-ता-ईप्संज्ञाः ।
देवनन्दिनी व्याकरणं हि अनेकशेषमिति कथ्यते तत्र एकशेषप्रकरणाभावात् । स्वाभाविकत्वादभिधानस्यैकशेषनारम्भः' इति तत्र सूत्रमेव ।
यद्यपि देवनन्दिनो व्याकरणं पाणिनीयस्यैवानुजीवि तथापि तत्राधाराचार्यत्वेन श्रीदत्त-यशोभद्र-भूतबलि-प्रभाचन्द्र-सिद्धसेन-समन्तभद्रा अपि स्मृताः । यथा-गुणे श्रीदत्तस्यास्त्रियाम्,[१०] ‘कृवृषिमृजां यशोभद्रस्य,[११] राद् भूतबलेः,[१२] रात्रेः कृति प्रभाचन्द्रस्य,[१३] वेत्तेः सिद्धसेनस्य[१४] चतुष्टयं समन्तभद्रस्य[१५] इति ।
जैनेन्द्रव्याकरणं हि सुत्रपाठ-धातुपाठ-गणपाठ-परिभाषापाठ-उणादिपाठलिङ्गानुशासन-वृत्तिप्रभृतिभिरङ्गः समभिवधतम् । केचिदस्य कर्तृवं महावीरे, भगवति समारोपयन्ति । तदनुसारेण भगवान् हि महावीर इन्द्राय व्याकरणमिदं । प्रोक्तवानिति अस्य जैनेन्द्रसंज्ञेति । अपरे तु जिनेन्द्रेण प्रोक्त जैनेन्द्रमित्यामनन्ति । जिनेन्द्र इति देवनन्दिन एवापराभिधानम् । । देवनन्दिनो व्याकरणमधिकृत्य बहवष्टीकाग्रन्थाः प्रणीता दृश्यन्ते । व्याख्या कर्तृषु देवनन्दि-अभयनन्दि-प्रभाचन्द्र-सहाचन्द्रादयो ज्ञाता. अज्ञाताश्चान्ये, बहवः ।
देवनन्दी हि पूज्यपादः स्वोपज्ञातव्याकरणेः स्वयमेव न्यासमपि प्रणीतवानासीदिति श्रुतकीर्तेः न्यासोरुरत्नक्षितिः, इति वचनादनुमीयते । अभयनन्दिनो महावृत्तिग्रन्थप्रासादस्यास्य कपाठयुगंलं स्मृता । अभयनन्दी हि ९७४--१०५० मितवैक्रमाब्दानभितः स्थितिमाननुमितः। महावृत्तौ हि द्वादशसहस्रश्लोकाः सन्ति ।
प्रभाचन्द्राचार्येण १०७५-११२५ मितवैक्रमादानभितः स्थितिमत शब्दाम्भोज़भास्करन्यासनाम्ती बृहती व्याख्या प्रणीताऽस्ति । अत्र हि षोडशसहस्रश्लोका आसन्निति विश्वस्यते । | वैक्रमविशतिशताब्दीभवेन महाचन्द्रेण लघुजैनेन्द्रव्याख्या प्रणीताऽस्ति । व्याख्येयं महावृत्यनुजीविनी । एवमेव जैनेन्द्रव्याकरणस्य केनचिदज्ञातनाम्ना विदुषा भाष्यमग्नि प्रणीत-: मासीदिति श्रूयते ।
जैनेन्द्रव्याकरणमधिकृत्य श्रुतकीर्तिना पञ्चवस्तुनामकः प्रक्रियग्रन्थः प्रणीतोऽस्ति । असौ हि १२२५ मितवैक्रमाब्दमभितः स्थितिमानं । स हि जैनेन्द्रव्याकरणं प्रासादेन सह तूलयति । यथा-
सूत्रस्तम्भसमुदधृतं प्रविलसन् न्यासोरुरत्नक्षितिः
श्रीमद्वृत्तिकंपाटसंपुटयुगं भाष्योऽथ शय्यातलम्।
टीकामालमिहारुरुक्षुरचितं जैनेन्द्रशब्दागर्म,
प्रासादं पृथु पञ्चवस्तुकमिदं सोपानमारोहतातु ।। इति ।
एवञ्च वैक्रमविंशतिशतकभवेन वंशीधरेण च जैनेन्द्रव्याकरणस्य प्रक्रियाग्रन्थः प्रणीतोऽस्ति । गुणनन्दिनः शब्दार्णवो जैनेन्द्रव्याकरणस्य दाक्षिणात्यस्तम्भो मतः । गुणनन्दी हि ९१०-९६० मितवैक्रमाब्दानभितः स्थितिमान् जैनेन्द्रव्याकरणे यथावश्यकं परिवर्तनं परिवर्द्धनं च कृत्वा शब्दार्णवसंज्ञक ग्रन्थरत्नं प्राणैषीदिति सोमदेवस्य-
"श्रीसोमदेवपतिनिर्मितमादधाति या नौः प्रतीतगुणनन्दितशब्दार्णवाब्ध' । इति कथनोज्ज्ञायते । यथा च जैनेन्द्रप्रक्रिया--
सैषा श्रीगुणनन्दितानितवपुः शब्दार्णवे निर्णयं
नावस्याश्रयतां विविक्षुमनसां साक्षात् स्वयं प्रक्रिया ।। शब्दार्णवो हि समग्रं व्याकरणम् । तस्य हि पूर्णतायै न किञ्चिदपि कर्तव्यमस्ति। शब्दार्णवोपरि १२६२ मितवैक्रमाब्दभितः स्थितिमता सोमदेवाचार्येण चन्द्रिकानाम्नी व्याख्या प्रणीताऽस्ति । शब्दार्णवचन्द्रिकामाश्रित्य केनचित् ‘शब्दार्णवप्रक्रियाग्रन्थश्च प्रणीतोऽस्ति । इत्थं हि सर्वाङ्गपूर्णं जैनेन्द्रव्याकरणं प्राधान्येन जैनसम्प्रदाये प्रचलितमिति । जैनशाकटायनं सिद्धहेमशब्दानुशासनमपि व्याकरणं सम्प्रदायेऽस्मिन्न व प्रचलितम् । तद्विषयेऽनुपदं वक्ष्यते ।
देवनन्दिना स्वव्याकरणानुर्वातधातुपाठोऽप्युपदिष्ट आसीत् किन्तु सम्प्रति "तन्नोपलभ्यते । सम्प्रति हि गुणनन्दिप्रतिसंस्कृतो हि धातुपाठ एव लभ्यते । देवनन्दिधातुपाठस्यानेके वृत्तिग्रन्थाः प्रणीता आसन् । तेषु हि देवनन्दिनैव धातुपाठस्य वृत्तिः प्रणीताऽऽसीदिति हैमलिङ्गानुशासनविवरणे नन्दिधातुपारायण-नन्दिपारायणप्रभृतिपदोल्लेखाज्ज्ञायते । सम्प्रति नन्दिधातुपारायणो नैव लभ्यते । एवमेव श्रुतपालः (८२५ वै०) श्रुतकीतिः (११२५ वै०) वंशिधर|' प्रभृतिभिश्च धातुपाठस्य वृत्तिग्रन्थाः प्रणीता आसन् ।जैनेन्द्रगणपाठश्चाभयनन्दिकृतमहावृत्तौ लभ्यते । तस्य च स्वतन्त्रसूत्रप्रवचनं | गणानां कतिपयेषामेकीकरणम्, आकृतिगणे शब्दवृद्धिः, शकारस्य सकारीकरणञ्चति वैशिष्ट्यानि । अस्य च न कोऽपि वृत्तिग्रन्थो दृश्यते । गुणनन्दिनाऽपि शब्दार्णवस्याङ्गत्वेन धातुपाठः पठित एवाऽऽसीत् किन्तु स सम्प्रति नैवोपलभ्यते । देवनन्दिन उणादिपाठस्तु सम्प्रति स्वरूपेण नैवोपलभ्यते। अभयनन्दिनी महावृत्तौ अस् सर्वधुभ्यः' इति उणादिसूत्रोद्धरणात्तस्यावस्थितिरनुमीयते । तत्र हि ‘सर्वधातुभ्योऽसुन्' इति पाणिनीयसूत्रम् । अस्य न कोऽपि वृत्तिग्रन्थो। लभ्यते । देवनन्दिनो लिङ्गानुशासनस्यापि तस्यैव वृतिग्रन्थस्यास्तित्वमनुमीयते । किन्तुभयोरेव स्वरूपं सम्प्रति नैवोपलभ्यते । अभयनन्दिनो महावृत्ति ग्रन्थे परिभाषाणामुल्लेखाज्जैनेन्द्रव्याकरणस्य परिभाषापाठस्याप्यस्तित्वमनु मीयते ।
वामनस्य विश्रान्तविद्याधरम्
[सम्पादयतु]वाननाचार्येण विश्रान्तविद्याधरसंज्ञक व्याकरणं प्रोक्तमासीदिति वर्धमानहेमचन्द्रादिकृततदुद्धरणतो ज्ञायते । यथोक्त' हैमशब्दानुशासनस्य टीकायां -
सहृदयचक्रवर्तना वामनेन तु हेम्नः इति सूत्रेण इति ।
यथा वा गणरत्नमहोदधौ--
दिग्वस्त्रभर्तृहरिवामनभोजमुख्याः ।
वामनो विश्रान्तविद्याधरव्याकरणकर्ता । इति ।
मल्लवादिप्रबन्धे यथा -
शब्दशास्त्रे च विश्रान्तविद्याधरवराभिधे ।
न्यासं चक्रेऽल्पधीवृन्दबोधनांय स्फुटार्थकम् ।।
वामनस्तु मल्लवादिपूर्ववर्ती मल्लवादी तु वलभीनरेशशीलादित्यसमकालिकः ३७५ वैक्रमाब्दे, वलभीभङ्ग इति घटनायोजनेन मल्लवादिनः स्थितिकालो विक्रमानन्तरं चतुर्थ शतकपूर्वार्द्ध इत्यनुमितः; उक्तमेव--
विक्रमादित्यभूपालात् पञ्चषत्रिकवत्सरे।
जातोऽयं वलभीभङ्गो ज्ञानिनः प्रथमं ययुः ।। इति । स्वयमेव वृत्तिग्रन्थः प्रणीत इति ‘वामनस्तु बृहंदवृत्तौ यवमाषेति पठति इति गणरत्नमहोदधिवचनाज्ञायते । वामनस्य विश्रान्तविद्याधरे मल्लवादिना वृत्तिग्रन्थः प्रणीत आसीदिति गणरत्नमहोदधिहैमशब्दानुशासनादिकृतोल्लेखाज्ज्ञायते । मल्लवादिना वामनधातुपाठो व्याख्यातं आसीदिति अत एव विड शब्दे पिट.. अक्रोशे इति मल्लः पर्यंट्टकान्तरे विभङ्गाह इति क्षीरतरङ्गिणीकारबेचनाज्ज्ञायते ।
वामनस्य गणपाठ इतरविलक्षण आसीदिति गणरत्नमहोदधिकृत तद्द्धरणाज्ज्ञायते । यथा-
केदागदौ राजराजन्यवत्सा उष्ट्रोरभ्रौ वृद्धयुक्तो मनुष्यः ।
उक्षा, ज्ञेयों राजपुत्रस्तथेह केदारादौ वामनाचार्यदृष्टे ।।
तथैव -
शुण्डिका ग्रामोऽभिजनोऽस्य शौण्डिक्यः । अयं वामनमताभिप्रायः पाणिन्यादयस्तु शाण्डिकस्य ग्रामजनपदवाचिनः शाण्डिक्य इत्युदाहरन्ति इत्यपि । वामनप्रोक्तोणादिपाठविषयेऽनुमानमेवास्माकमाधारः । वामनेन स्वप्रोक्त लिङ्गानुशासने स्वोपज्ञावृत्तिरपि प्रोक्ता यत्र केवलं त्रयस्त्रिंशदेव कारिकाः सन्ति अर्यानिबद्धाः यथाऽऽह स स्वयमेव -
लिङ्गानुशासनमहं वच्म्यार्याभिः समासेन । इति ।
‘पूर्वाचार्यैडिप्रमुखलङ्गानुशासनं सूत्रैरुक्त ग्रन्थविस्तरेण च । अहं. पुनरांभिर्वच्मि सुखग्रहणार्थम् । वररुचिप्रभृतिभिरप्याचारार्याभिरभिहितमेव, तदतिबहुला ग्रन्थेन, इत्यहं तु समासेन संक्षेपेण वच्मि । तत्र हि षष्ठार्यावृत्तौ ‘जगत्तुङ्गसभा' इत्येतस्योल्लेखाद्वामनमपि ८७० मित- .. विक्रमानन्तरवर्षाण्यभितः स्थितिमन्तं मन्यन्ते केचन । संस्कृतसाहित्ये हि अनेके वामनाः सञ्जाताः । अतो लिङ्गानुशाशनप्रणेता कृतमोऽसौ वामनं इति निर्णोतुं न सुकरम् । वामनस्यं परिभाषापाठेविषये न किमप्यस्माकं ज्ञातम् ।
पाल्यकीतेः जैनशाकटायनतन्त्रम्
[सम्पादयतु]संस्कृतव्याकरणवांङ्मये हिं शाकटायननाम्ना द्वौ व्याकरण ग्रन्थौ प्रसिद्धी एकः पाणिनिस्मृतोऽपरः पाणिन्युत्तरवर्ती । प्रथम आर्षत्वेनं द्वितीयश्च जैनत्वेन, ज्ञातः । तेन आर्ष हि शाक्रटायनव्यांकरणं शाकटायनमुनिना प्रोक्तः जैनं हिं तत्पाल्यकीतना । केचित्तू उभौ एव आर्षग्रन्थांवित्यपि मन्यते । सम्भवति पाल्यकीर्तिना प्राचीनं हि शकिटायनव्याकरणं प्रतिसंस्कृत्य प्रोक्तंमपि । पाल्यकीर्ताह शाकटायनगोत्रः तत्प्रतिसंस्कृतत्वत्तेनैव नाम्ना, ख्यातमपि सम्भवति जैनशाकटायनव्याकरणम् ।
पाल्यकीर्तािह ८४०-९३० मितवैक्रमाब्दानभितः स्थितिमानित्यनुयुते विचक्षणैः । स हि ख्याते दृश्ये (४।२।२०७) इति सूत्रस्य वृत्तौ ‘अरुणदेवः। पाण्ड्यम्' इत्युदाहरति । तथैव ‘अदहदमोघवर्षोंऽरातीन्' इत्यपि । ९६७ मिंतवैक्रमाब्दे उट्टङ्क्तेि राष्ट्रकूटशिलालेखे तु ‘भूपालान् कण्टकाभान्ः 'वेष्टयित्वा' ददाह' इति उक्तमस्ति । अनेन सिध्यति यदमोघवर्ष कृतमेतद्वृत्तं ९६७ मित- " वैक्रमात्पूर्वमेव घटितमासीत् । तदेव वृत्तं पाल्यकीर्तिदृश्यत्वेन गृह्णाति इति । तस्य ९०० मितवैक्रमाब्दमभितः स्थितिरुपयुक्त व । अपरञ्च पाल्यकीर्तिमा । स्ववृत्तिदातुः सम्मानार्थं तेनैव नाम्ना अमोघाख्या वृत्तिरपि प्रणींतोऽस्ति ।। अमोघदेवस्तु ८७१ मितवैक्रमाब्दे सिंहासनमारुक्षत । तस्यैव ९२४ मितवैक्रमाब्दघटितमेकं दानपत्रमपि दृश्यते । अतः अमोघवर्षदेवस्य शासनकालः। ८७१-९३० मितवैक्रमाब्दानभित आपतति । स एव पाल्येकीतैरपि । कालोऽर्थात् ८४०-९३० मितवैक्रमाब्दानभितो वैक्रमाब्दानभितः । पाल्यकीर्तािह विलक्षण प्रतिभासम्पन्नो विचक्षण आसीत् । यथाऽऽह । वादिराजसूरिः पाश्र्वनाथचरिते-
कुतस्त्या तस्य सा शक्तिः पाल्यकीर्तेर्महौजसः ।
श्रीपदश्रवणं यस्य शाब्दिकान् कुरुते जेनान्।। इति ।
अज श्रीपदं ‘श्रीवीरममृतं ज्योतिः' इति अमोघावृत्तिमङ्गलाचरणे दृश्यते । असौ हि यापनीयसम्प्रदायानुवर्ती आसीत् । तस्य लोपादेव तं श्वेताम्बर - ईदगम्बसंश्च स्वं स्वमाचार्यं मन्यन्ते । स हि श्वेताश्वरपक्षपातीं त्वासीदेव। व्याकरणस्यास्य वैशिष्ट्यविषये अमोघवृत्तेष्टीकाकृद् यक्षवर्मा कथयति-
इष्टिर्नेष्टा, न वक्तव्यं वक्तव्यं सूत्रंतः पृथक् ।
सङ्ख्यातं नोपसङ्ख्यानं यस्य शब्दानुशासने ।।
इन्द्रचन्द्रादिभिः शाब्दैर्यदुक्तं शब्दलक्षणम् ।
तदिहास्ति समस्तञ्च यन्नेहास्ति न तत्क्वचित् ।।
गणधातुपाठयोगेन धातून लिङ्गानुशासने लिंङ्गङ्गतम्।
औणादिकानुयादौ शेषं निःशेषमत्र वृतौ कथितम् ।
अत्र हि लिङ्गसमासान्तप्रकरणे समासप्रकरणे एव समाविष्टे तथैवैकशेष द्वन्द्वे एव येन व्याकरणे हि प्रक्रियाक्रमस्य बीजमुप्तमुत्तरकाले पाणिनीयव्याकरणेऽपि फलितम् । अत्र हि सुंत्रपाठे आर्यव्रजः[१६] सिद्धनन्दिः,[१७] इन्द्रः[१८] प्रभृत्याचार्याः सूत्रे स्मृताः, वृत्तौ आपिशलिः पाणिनिवैयाघ्रपद्याश्च । तदित्थं जैनशाकटायनं हि सम्पूर्णं व्याकरणं यत्र सूत्र-पाठ-उणादिसूत्र-गणपाठ-लिङ्गानुशासन-परिभाषापाठ-उपसगर्थ-तद्धितसङ्ग्रहाश्च विलसन्ति । पाल्यकीतिहि न केवलं वैयाकरणोऽपितु साहित्यिकोऽप्यासीदिति | राजशेखरस्य -
यथाकथा वा वस्तुनो रूपं वक्तृप्रकृतिविशेषात्तु रसवत्ता । तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रोदास्त इति पाल्यकीतिः इति वचनोज्ज्ञायते । व्याकरणेऽस्मिन् पाल्कीर्तेरेव वृत्तिग्रन्थो लभ्यते ।
अत्र हि अष्टादशसहस्रमितश्लोकाः सन्ति । अमोघावृत्तेः प्रभाचंन्द्रस्य न्यासः (१२५० वै०), अज्ञातकर्तृक अमोघविस्तरः, यक्षवर्मप्रणीतः चिन्तामणिश्च व्याख्याग्रन्थाः । चिन्तामणेश्च अजितसेनाचार्यस्य चिन्तामणिप्रकाशिकाज्ञातकाला, मङ्गारसस्य चिन्तामणिप्रतिपदविवेचनं, समन्तभद्रस्य चिन्तामणिविषमपदाख्या टीकाग्रन्थाः । अभयचन्द्राचार्यस्य वैक्रमत्रयोदशशतकीनस्य प्रक्रियासङ्ग्रहाख्य प्रक्रिया'. "अन्थो लभ्यते । एवमेव भावसेनत्रैविद्यदेवेन वादिपर्वतवज्राख्येनापि प्रक्रियानु..' सारी शाकटायनटीकाग्रन्थः प्राणायि । दयालपालमुनिनाऽपि रूपसिद्धिर्नाम बालबोधग्रन्थः प्रणीतोऽस्ति प्रक्रियामेतामनुसृत्य ।
जैनशाकटायनस्य पाल्यकीतना धातुपाठोऽपि पठितः । असौ हि पाणिनीयधातुपाठस्यौदीच्यपाठेन सह संवादी । तस्य हि पाल्यकीतिनैव वृत्तिश्च प्रणीता । धनपालाख्येन विदुषा चास्या व्याख्या कृताऽऽसीत् । एवमेव पाल्यकीर्तिपठितो गणपाठोऽपि स्वकीयं वैलक्षण्यमावहति । तत्र हि नामकरणे लघुता, गणानां न्यूनीकरणं नूतनगणानां प्रयोगश्चास्य वैशिष्ट्यानि । अस्य हि पाल्यकीर्तेरेव वृत्तिः । पाल्यकीतिप्रोक्त लिङ्गानुशासनं श्लोकबद्धमस्ति । अत्र हि ७० श्लोकाः । अस्य च पाल्यकीर्तेरेब यक्षवर्मणश्च बृत्तिग्रन्थावनुमीयेते । पाल्यकीर्तेहि परिभाषापाठे ३७ परिभाषाः सन्ति । अस्य न कोऽपि व्याख्याग्रन्थो दृष्टः । एवमेव पाल्यकीतना उणादिपाठोऽपि पठित एवेति ‘उणादिकान् उणादौ । इति चिन्तामणौ यक्षवर्मवक्षनाज्ज्ञायते ।
शिवस्वामी
[सम्पादयतु]९१४-९४० मितवैक्रमाब्दानभितः स्थितिमतोऽवन्तिवर्मणः समकालिकः शिवस्वामी कफ्फणाभ्युदयस्य कर्ता व्याकरणग्रन्थमपि प्रणीतवानिति स स्वयमेव तस्य वृत्तिमपि प्रोक्तवानिति ग्रन्थान्तरोद्धरणतो ज्ञायते । यथा-'चान्तोऽयमिति :शिवः, (१।१२२), घूब् इति इहामुं शिवस्वामी दीर्घमाह (५॥१०) इति क्षीरतरङ्गिण्याम् । तथैव माधवीयधातुवृत्तौ -
‘शिवस्वामिकश्यपौ तु दीर्घान्तमाहतुः ।
शिवस्वामी वकारोपधं पपाठ'।
यद्यपि शिवस्वामिनो व्याकरणं सम्प्रति स्वरूपतो नैव लभ्यते तथापि ग्रन्थान्तरकृततदुद्धरणतो ज्ञायते यदिदं महत्पूर्णमासीत् । अस्य हि सूत्रपाठी वृत्तिः, धातुपाठश्वासन् ।
भोजदेवस्य सरस्वतीकण्ठाभरणम्
[सम्पादयतु]पाणिनीतरवैयाकरणेषु भोजदेवस्य इलाध्यतमं स्थानमस्ति । भोजदेवस्य सरस्वतीकण्ठाभरणं सर्वाङ्गपुणेषु व्याकरणेष्वन्यतमम् । असौ हि परमारवंशीयः सिन्धुलपुत्री मुञ्जभ्रातृव्यः जयसिंहपिता-धाराधीश्वरो भोजः । अस्य च स्थितिकालः १०७५-१११० मितवैक्रमाब्दानभितोऽनुमितः ।
संस्कृतवाङ्मयस्य परमसेवकोऽसौ व्याकरण-साहित्य-योगदर्शनप्रभृतिविषयेषु । परिङ्गंत आसीत् । अस्य हि सरस्वतीकण्ठीभरणाख्यौ द्वौ ग्रन्थौ स्तो ययोरेकोऽलंङ्करविषयकोऽपरो व्याकरणविषयकः । व्याकरणविषयके हि सरस्वतीकण्ठअरणे, अष्टावध्यायाः, द्वात्रिंशत्पादाः ६४११ सूत्राणि च । तत्र लौकिकशब्दसम्बद्धाः आद्यसप्ताध्यायाः, अष्टमश्चाध्यायः स्वरवैदिकप्रक्रियासम्बद्धः । संक्षेपणदुष्ट्या प्राचीनाचार्यैः सूत्रपाठात् पूंथक्तानां गणोणादिपरिभाषालिङ्गानु-, शासनानी चिरकालादेवं विच्छिन्नस्यः पठनपाठनविधेः पुनः प्रवर्तनायात्र सर्वेषां । सूत्रेष्वेव समावेशः कृतोऽस्ति सूत्ररचनाया' प्रकरणविच्छेदेऽपीदं पाणिनीया- ... पेंशया चान्द्रं हि व्याकरणं संवदते । तत्र हि -
‘प्रणम्यैकात्मतां यातौं प्रकृतिप्रत्ययाविव ।
श्रेयः पदमुमेशानी' पदलक्ष्म प्रचक्ष्महे ।।
इति मङ्गलाचरणम् । तस्य हि - ‘सिद्धिः क्रियादेः, लोकात्' इति प्रथमं सूत्रम् । धातुसंज्ञा यथा भूवादिः क्रियावचनो धातुः, चुलुम्पादिश्च, सनाद्यन्ताश्चाणिङः इति च । प्रातिपदिकसंज्ञा : यथा अर्थवदधातुरप्रत्ययः'प्रातिपदिक म्, कृत्तद्धितष्फयाप्त्यूङः, समासानुकरणनिपाताश्च ति ! धातुपाठातिरिक्त सर्वेषामेव सम्बद्धविषयाणामेवात्रस्थापनमेवास्य व्याकरणस्यं वैशिष्ट्यं यद्वेचनांपेक्षे प्राक्पाणिनीयां परम्परामनुयाति । पाणिनिः कृत्तद्धितसमासानामेव प्रातिपदिकसंज्ञांविधानं कृत्वा ‘झ्याप्प्राति- मंदिकात् इति सूत्रं पठति । भोजस्तु ष्फ-डीपू-आप-ति-ऊङन्त शब्दानामेव प्रातिपंदिकसंज्ञाविधानं करोति । तेन हि तन्मते प्रातिपदिकमात्रादेव सुबुत्पत्तिर्भवति । विषयक्रमचे त्यम् - प्रथमं पाणिनीय प्रत्याहारसूत्रपाठःततश्च. धात्वादीनामशीतिविर्धसंज्ञानां विधानं द्वितीयो , हि परिः । आषापदः, तृतीये विकरणप्रेत्ययाद्युपदेशः तृतीयें विकरणप्रत्ययादीनां विधानम्, चतुर्थपादे कृत्प्रत्ययविंधानं द्वितीयाध्यायस्याद्यत्रिपाद्यामुणादिविवेकश्चतुर्थपादें । हि कृत्प्रत्ययानां परिगणने, तृतीयाध्यायस्य प्रथमंपादे प्रथमादिविभक्तीनां प्रयोगनिर्देशः, द्वितीयपादेऽव्ययीभावतत्पुरुषविवेकः, तृतीये हि बहुव्रीहिद्वन्द्व : प्रपञ्चः, चतुर्थे स्त्रीप्रत्ययचर्चा । चतुर्थपञ्चमाध्याययोस्तद्धितप्रत्ययविचारो यत्राद्यस्य प्रथमेऽपत्ययाद्यर्थकप्रत्ययाः, द्वितीये रक्ताद्यर्थकप्रत्ययः, उत्तरस्याचं द्वितीयपादयोस्तद्धितप्रत्ययविवेक एव, तृतीयचतुर्थयोश्च तस्त्रप्रभृतिविभक्ति संज्ञकप्रत्ययविवेकः कन्प्रभृतिस्वाथिकप्रत्ययविधानं, षष्ठोध्यायस्य प्रथमपादे द्वित्वप्रकरणं रूढशब्दानां निपातनविधानञ्च, द्वितीये हि अलुक्प्रकरणमादेश निर्देशश्च, तृतीये हि प्रकृतिकार्यं चतुर्थे आदेशागमनिर्देशाः, सप्तमस्य प्रथमे हस्वदीर्घवृद्धिकार्याणि, द्वितीये हि गुणह्रस्वदीर्घादिकार्याणि, तृतीये हि पदान द्वित्वप्लुतकार्याणि, चतुर्थपादे प्रकीर्णकादेशविधानम् । अष्टमध्यिाये आद्यद्विपादयोर्वैदिकशब्दविधानं, तृतीयचतुर्थयोश्च फिट्सूत्राणि, स्वरविधिनिरूपणमिति ।
सरस्वतीकण्ठाभरणस्यानेके वृत्तिग्रन्थाः प्रणीताः सन्ति । येषु ग्रन्थकारस्यैव स्वोपज्ञो वृत्तिग्रन्थश्चासीदिति ‘भोजस्तु सुखादयो दश क्यजविधौ निरूपिताः इत्युक्तवान् इति गणरत्नमहोदधिकारस्य वर्धमानस्य वचनाज्ज्ञायते । वृत्तिरियं । सरस्वतीकण्ठाभरणस्य ‘जातिकालसुखादिभ्यश्च'[१९] इत्येतस्य सूत्रस्य । तथैव क्षीरस्वामी च अमरकोषटीकायां[२०] इल्वबास्तार, इल्बलोऽसुर इति उणादौ श्रीभोजदेवो व्याकरोत्' इति समुल्लिखति। अनेनैतदनुमातुं शक्यते । यद्वर्धमानस्थितिकालपर्यन्तमपि भोजदेववृत्ति | लब्धाऽऽसीत् । लघुवृत्तिकारो दण्डनाथनारायणभट्टश्च इति श्रीदण्डिनाथ नारायणभद्रसमुद्धतायां सरस्वतीकण्ठाभरणस्य लघुवृत्तौ हृदयंहारिण्या: समुल्लिखति । अनेनैतज्ज्ञायते यद् दण्डनायकस्य लघुवृत्तिः कस्याश्चित्पूर्व सारसङ्क्षेप इत्यवगम्यते । सा च ग्रन्थकारस्यैवेति पूर्वोद्धरणेन ज्ञायते। न जायते। एवमेव विक्रमानन्तरद्वादशशतकभवस्य दण्डनाथनारायणभस्य : कण्ठीभरणस्य हृदयहरव्याख्या लघुवृत्तिर्लभ्यते ।
तथैव १२२५-१३०० वैक्रमवर्षाण्यभितः स्थितिमता कृष्णलीलांशुकमुनिनाऽपि सरस्वतीकण्ठाभरणस्य पुरुषकारनाम्नी व्याख्या प्रणीतोऽस्ति इति ज्ञायते । एवञ्चाज्ञातदेशकालेन रामसिंहदेवेनाप्यस्य रत्नदर्पणनाम्नी व्याख्या कृतेत्यपि ज्ञायते । सरस्वतीकण्ठाभरणस्य ‘पदसिन्धुसेतु' संज्ञकः प्रक्रियाग्रन्थोऽपि प्रणीतः आसीदिति -
‘तथा च सरस्वतीकण्ठाभरणप्रक्रियायां पदसिन्धुसेतावित्युक्तम्' | इति रामचन्द्रस्य प्रक्रियाकौमुद्याः प्रसादटीकावचनेनानुमीयते । तस्य प्रणेतुर्देशकालविषये न किमप्यस्माकं ज्ञातम् । भोजदेवेन स्वग्रन्थानुसारी धातुपाठः पठित आसीदिति तु क्षीरतरङ्गिणीमाधवीयधातुवृत्तिग्रन्थकृत तदुद्धरणतो ज्ञायते । तस्य च नाथीयधातुवृत्तिरेव वृत्तिग्रन्थ इत्यप्यनुमीयते । भोजदेवस्य गणपाठे हि आकृतिगणज्ञेयमतानां शब्दानां यथासम्भवसन्निवेशः, वातकपठितगणानां समायोजनं सूत्रेष्वेव, किशुकादिनवीनगणानां पठनं, केषाञ्चिद्गणानां नामान्तरणं पाठभेदनिर्देशश्च विशेषता । भोजेन हि स्वकीयतन्त्रसम्बद्धं लिङ्गानुशासनमपि प्रोक्तमासीदिति वेङ्कट । शर्मणो लेखाज्ज्ञायते । धातुपाठातिरिक्तानि उणादिपाठप्रभृत्यङ्गानि सरस्वतीकण्ठाभरणे तन्त्रे एव समाविष्टीनीति नैव तेषां पृथगुल्लेखः । तन्त्रव्याख्यातार एव तेषामपि व्याख्यातारः ।
बुद्धिसागरस्य पञ्चग्रन्थी
[सम्पादयतु]१०८० मितवैक्रमाब्दमभितः स्थितिमानित्यनुमितेन श्वेताम्बरसम्प्रदायाचार्येण बुद्धिसागरेण कश्चिद् व्याकरणग्रन्थः प्रणीत आसीदिति हेमलिङ्गानुशासनविवरणे ‘जठरं त्रिलिङ्गमिति बुद्धिसागरः ‘इत्युल्लेखात् अभिधानचिन्तामणिव्याख्यायाञ्च...‘त्रिलिङ्गोऽयमिति बुद्धिसागरः' इत्युल्लेखादप्यनुमीयते । बुद्धिसागरेण १०८० मितवैक्रमाब्दे जावालिपुरे सप्तसहस्रकल्प प्रणीतमासीदिति -
श्रीविक्रमादित्यनरेन्द्रकाला साशीतिके याति समासहस्र ।
सश्रीकजावालिपुरे तदाद्यं दृब्धं मया सप्तसहस्रकल्पम् ।।
इति श्लोकोद्धरणतो ज्ञायते । श्लोकश्चायं बुद्धिसागरव्याकरणस्य चरमवाक्यत्वेन चन्द्रसागरसम्पादितसिद्धहेमशब्दानुशासनबृहद्वृत्तिप्रस्तावनायासुद्ध, तमस्ति । प्रभावकचरिते तु -
श्रीबुद्धिसागरः सूरिश्चक्रे व्याकरणं नवम् ।
सहस्राष्टकमानं तद् श्रीबुद्धिसागराभिधम् ।। इति कथितमस्ति ।
सम्भवति लिङ्गानुशासनधातुपाठसमावेशेनास्य सङ्ख्या सहस्राष्टकमिता स्यादपि । अस्य हि पञ्चग्रंथ्यां सूत्रपाठ-उणादिपाठ-गणपाठ-परिभाषापाठ-लिङ्गानुशासनानि समाविष्टान्यासन्निति विचक्षणा अनुमान्ति । तस्य हि लिङ्गानुशासनस्यास्तित्वं हेमचन्द्रकृततदुद्धरणतोऽपि सिध्यति । पञ्चग्रन्थ्यां हि ग्रन्थकारेणैव । वृत्तिग्रन्थोऽपि प्रणीतः सम्भवतीति युधिष्ठिरमहाभागो निर्दिशति ।
भद्रेश्वरसूरेः दीपकव्याकरणम्
[सम्पादयतु]श्रीभद्राख्येन भद्रेश्वरसूरिणा दीपकाख्यव्याकरणं प्रोक्तमासीदिति वर्धमानस्य गणरत्नमहोदधौ--
'मेधाविनः प्रवरदीपककतृ युक्ताः' इति पद्यभागस्य व्याख्याने दीपककर्ता भद्रेश्वरसूरिः । प्रवरश्चासौ दीपककर्ता न प्रवरदीपककर्ता । प्राधान्यं चास्याधुनिकवैयाकरणापेक्षया । इति कथनात्तेनैव तत्रैव -
भद्रेश्वराचार्यस्तुकिञ्च स्वा दुर्भगा कान्ता रक्षान्ता निश्चिता समा।
सचिवा चपला भक्तिबल्येति स्वादयो दश ।।
इति स्वादौ वेत्यनेन विकल्पेन पुंवद्भावं मन्यते ।' इति स्मरणाच्च ज्ञायते ।। माधवीयधातुवृत्तावपि तत्र तत्र श्रीभद्रस्य व्याकरणविषयकमतानि स्मृतानि । दश्यन्ते । तञ्च वर्धमानः स्मरति । स च विक्रमानन्तरं द्वादशशतकोत्तरार्धभवः : इति भद्रेश्वरस्य स्थितिकालो वैक्रमद्वादशशतकपूर्वमेवेति सुनिश्चितमेव ।
भद्रेश्वरेण धातुपाठः पठितस्तस्य च वृत्तिः स्वयमेव प्रणीतेति -
एवञ्च ‘लक्ष’, इति पठित्वा मित्करणादन्येभ्यश्च रादिभ्यो' णिचश्च । इति तङ् न भवति इति च श्रीभद्रवचनमपि प्रत्युक्त' इति ।' अत्र श्रीभद्रादयो दीर्घोच्चारणसामर्थ्यात्पक्षे विच् न इति । भद्रेश्वरेण हि गणपाठोऽपि प्रोक्त आसीदिति गणतन्त्रमहोदधिकारकृततदुद्धरणाज्ज्ञायते । भद्रेश्वरेणापि स्वंप्रणीतग्रन्थस्य वृत्तिः स्वयमेव प्रणीता वा अरुणाचार्या येन अरुणदत्तेन प्रणीतेति सम्प्रत्यपि निर्णोतव्यविषयः ।
वर्धमानस्य वर्धमानशब्दानुशासनम्
[सम्पादयतु]११४५-१२२६ मितविक्रमाब्दानभितः स्थितिमता गणरत्नमहोदधिकारेण वर्धमानेन । स्वकीय शब्दानुशासनमपि प्रणीतमासीदिति संक्षिप्तसारस्य . गोपीचन्द्रकृतट्रीकायां - 'चन्द्रोऽनित्या वृद्धिमाह । भागवृत्तिकारस्तु नित्यं वृद्धयभावम् । वौ श्रयेव ‘इति वर्धमानः' इत्युल्लेखाज्ज्ञायते । । वर्धमानो हि--
सप्तनवत्यधिकेष्वेकादशसु शतेष्वतीतेषु ।
वर्षाणां विक्रमतो ' गणरत्नमहोदधिविहितः ।।
इति कथयित्वा ग्रंन्यप्रणयनकालं सूचयति यद्गणरत्नमहोदधिः ११९७ मितवैक्रमाब्दे पूर्तिमगादिति। वर्धमानस्य गणरत्नमहोदधिः स्वप्रकृतिकग्रन्थेषु सर्वोत्कृष्टत्वेन विराजते ।। अंत्र हि गणपाठविषये पाणिनिप्रभृतिषोड्शाचार्यान् स्मरति । ते च पाणिनिचन्द्र-गोंस्मि -- जिनेन्द्रबुद्धि-अभयनन्दि-अरुणदत्त-द्रमिडवैयाकरण-पारायाणिकभद्रेश्वर- भोज-रत्नमति-वसुक्र- वामन-वृद्ध- वैयाकरण-शकराङ्गन-सुधाकर- . मंचद्रीः । स हि पाणिनीयं गणपाठे यथावद्वा नामपरिवर्तनं गृह्णाति, कात्यायन-:', लिंकगणानभिन्नरूपेण, चंन्द्र-पाल्यकीत-हेमचन्द्र पठितगणनपि यथावदेव।
ग्रंन्यस्यास्य गङ्गाधरगोंवर्धनबालकृष्णप्रभृतिविचक्षणैव्यख्या प्रणीताऽस्ति । बालकृष्णकृताऽस्य व्याख्या गणरत्नाऽऽख्या । तत्र हि गणरत्नमहोदधिःव्यख्यातः समीक्षितश्च । समीक्षितो यथा अन्योन्यपरस्परेंतरेतराणां पाठोऽ प्रामाणिक इति । वर्धमानेन हि निश्चयमपि स्वकीयतन्त्रसम्बद्ध एव गणपाठः सङ्कलित इति. विचक्षणा आमनन्ति । संस्कृतजगद्धि गणपाठस्य कृते वर्धमानस्याधमर्णायते ।
हेमचन्द्रसूरेः सिद्धहैमशब्दानुशासनम्
[सम्पादयतु]हेमचन्द्राख्येन विचक्षणेन सिद्धहैमशब्दानुशासनसंज्ञकं साङ्गोपाङ्ग व्याकरण प्रणींतमस्ति । हेमचन्द्रस्य पिता चाचिङ्गः माता च पाहिनी । स हि ११४५ मित वैक्रमाब्दे कातकपौर्णमास्यां मौढवंशीयवैश्यकुले जात आसीत् । तस्य जन्मस्थानं धुन्धुका । स हि देवचन्द्रापरनामधेयस्य चन्द्रदेवसूरिणः शिष्यः । श्वेताम्बरसम्प्रदायाचार्योऽयं कलिकालसर्वज्ञत्वेन समाहत आसीत् । तस्य हि व्याकरण : साहित्य-न्याय-धर्मप्रभृत्यनेकविषयेषु ग्रन्था लभ्यन्ते । स हि १२२९ वैक्रमाब्दे । चतुरशीतिवर्षवयसि निर्वाणमाप्तवान् ।
परमप्रतिभासम्पन्नोऽसौ महाविचक्षणो गुर्जरदेशाधिपस्य सिद्धराजस्यादेशेन सिद्धहेमश-दानुशासननाम्ना व्याकरणग्रन्थं प्राणैषीत् । कथ्यते हि सिद्धराज मालवनरेशं यशोवर्माण जित्वा ततोऽनेकानि ग्रन्थारत्नानि स्वदेशमनैषीत. तत्र हि भोजदेवस्य सरस्वतीकण्ठाभरणस्य प्रतिरप्यासीत् । तदृष्टवा सिद्धराजोऽपि तादशस्यैव ग्रन्थस्य प्रणयनेऽभिलाषाञ्चक्रे । तदर्थमेव हेमचन्द्रेण उभयनामज्ञापितं व्याकरणं प्राणयदिति ।
सिद्धहैमशब्दानुशासनं संस्कृतप्राकृतोभर्यसम्बद्धं व्याकरणम् । अत्र ह्यष्टौ अध्यायाः सन्ति प्रत्यध्यायं चत्वारः प्रदाश्च । आधेपु सप्तस्वध्यायेषु ३५६६ सूत्राणिः । अष्टमेऽध्याये १११९ सूत्राणि । अस्य हि सप्ताध्यायाः संस्कृतभाषाव्याकरणसम्बद्धाश्चरमोऽध्यायस्तु प्राकृतभाषाव्याकरणसम्बद्धः । प्रबन्धचिन्तामणौ । यच्छीहेमचन्दाचार्यैः श्रीसिद्धहेमाभिधानमभिनवं व्याकरणं सपादलक्षप्रम: संवत्सरेण रचयाञ्च इति । श्रीचन्द्र सागरानुसारेण 'तस्य च प्रणयनकालो विक्रमानन्तरं ११९३ मितवत्सरः । युधिष्ठिरमीमांसकमते तु स कालः १९९६९९ मितवैक्रमाब्दानभितः । अस्मद्विचारे तु गणरत्नमहोदधिः ११९७ मितवैक्रमाब्दे प्रणीत आसीदिति तु स्पष्टमेव व्याख्यान्ते तथानिर्देशात् । वर्धमानो हेमचन्द्रगणपाठे यथावदुद्धरतीति सिद्धहै मशब्दानुशासनस्य प्रणयनं गणरत्नमहोदधिपूर्वमेवेति तु सिद्धमेव । प्रणीतस्य ग्रन्थस्य तु ग्रन्थकारान्तिकप्रापणाय कश्चित्कालोऽपेक्षते एव। तस्य पुनर्लेखनीय च समयोग्रन्थयोरुभयोः प्रणयणं न्यूनमपि दशवत्सरपौर्वापर्यमपेक्ष्यत एव । अतोऽपि हैमव्याकरणस्य प्रणयनकालः ११८०-८५ मितवैक्रमाब्दानुमित आपतीति कल्पः ।
“अत्र हि प्राचीनशब्दानुशासनासदृशं प्रक्रियानुसारी क्रमः कातन्त्रानुसारी यत्रं संज्ञा-स्वरसन्धि-व्यञ्जनसन्धि-नाम-कारक-षत्व-स्त्री-प्रत्यय-समास-आख्यातकुंदन्त-तद्धितेप्रकरणानि क्रमेण सन्ति । ग्रन्थोऽयं पञ्चायवयसंयुतः । अत्र हि सूत्रपाठ-धातुपाठ-गणपाठ-उणादिसूत्रपाठ-लिङ्गानुशासनानि च यथावसरं संन्यस्तानि । एषु हि पञ्चस्वेवाङ्ग षु हेमचन्द्रस्यैव स्वोपज्ञा वृत्तिः, लभ्यते ।
व्याकरणेऽस्मिन् सूत्रभागे ग्रन्थकारस्यैव अष्टादशसहस्रश्लोकपरिमाणा बृहती वृत्तिः, द्वादशसहस्त्रश्लोकपरिमाणा मध्यवृत्तिः, षट्सहस्रश्लोकपरिमाणा लघुवृत्तिश्च लभ्यते । तत्र तस्यैव नवतिसहस्रश्लोकपरिमाणः शब्दमहार्णवन्यासश्च दृश्यते । स हि तत्र तत्र आपिशलि-यास्क-शाकटायन-गायें-वेदमित्रशाकल्य-इन्द्र - चन्द्र-शेष-भट्टारक - पतञ्जलि - वातिककार पाणिनि- देवनन्दिजयादित्य-वामन-मल्लेवादि-पाल्यकीर्ति- दुर्गासिंह-श्रुतपाल-भतृहरि-क्षीरस्वामिभोज-द्रमिल-उत्पलप्रभृतिवैयाकरणान् स्मरति । ग्रन्थकारप्रणीतवृत्तिन्या सातिरिक्त. रामचन्द्रस्य लघुन्यासस्त्रिपञ्चाशत्सहस्रश्लोकपरिमाणः, धर्मघोषस्य नवसहस्रश्लोकपरिमाणो लघुन्यासः, देवेन्द्रस्य हैमपदव्याख्या, कनकप्रभस्य न्यासोद्धारः, काकलस्य हैमलघुवृत्तिः, सौभाग्यसागरस्य हैमबृहवृत्तिढुण्ढिका, विनयचन्द्रस्य हैमढुण्ढिका, मुनिशेखरस्य हैमलधुवृत्तिढुण्ढिका, धनचन्द्रस्य हैमावचूरिः, उदयसौभाग्यस्य हैमचतुर्थपावृत्तिः, जिनसागरस्य हैमव्याकरणदीपिका, रत्नशेखरस्य हैमव्याकरणावचूरिः, वल्लभस्य । हैमदुर्गपदव्याख्या, श्रीप्रभसूरिणः हैमकारकसमुच्चयः, तस्यैव हैमवृत्तिश्च, ... विनयविजयगणिनः हैमलघुप्रक्रिया, मेघविजयस्य हैमकौमुदी चास्य . व्याख्याग्रन्थाः ।
हेमचन्द्रस्य धातुपाठे काशकृत्स्नधातुपाठवत नवैव गणाः सन्ति जुहोत्यादेरदादावेव समावेशात् । अत्र हि प्रतिगणं धातवः, अन्त्यस्वरवर्णानुक्रमेण सन्निवेशिताः । तदुपरि ग्रन्थकारस्यैव धातुपारायणाख्या षट्पञ्चाशत्सहस्रश्लोकमिता वृत्तिर्लभ्यते । तस्यैव धातुपारायणसंक्षेपाख्या लघुवृत्तिः। एतदतिरिक्त हैमधातुपारायणटिप्पणं, गुणरत्नस्य क्रियारत्नसमुच्चयः (१४६६ वै०), जयवीरमणिनः अवचूरिः,अज्ञातकतृका आख्यातवृत्तिः; हर्षकुलगणिनः कविकल्पद्रुमश्चास्य व्याख्याग्रन्थाः ।
हेमचन्द्रो हि गणपाठे बहुधा पाल्यकीर्तिमनुसरति । नवीनगणसङ्ख्यानं, गणाभिधानपरिवर्तन, पाठान्तरसङ्ग्रहश्चास्य वैशिष्ट्यानि गणपाठेऽपि ग्रन्थकारस्यैव स्वोपज्ञा वृत्तिरासीदिति अनुमीयते । हेमचन्द्रस्य उणादिपाठे १००६ सूत्राणि सन्ति । अस्य स्वोपज्ञा अष्टा• विशतिशतश्लोकपरिमाणा बृहती वृत्तिर्लभ्यते । तदतिरिक्तमज्ञातकर्तृक उणादिगणसूत्रावचूरिः शुभशीलस्य उणादिनाममाला च ज्ञातव्याख्याग्रन्थाः । हेमलिंगानुशासने ग्रन्थकारस्यैव स्वोपज्ञविवरणातिरिक्त कनकप्रभस्य लघुन्यासः, जयानन्दस्य लिंगानुशासनवृत्त्युद्धारः, केसरविजयस्य लघुवृत्तिः वल्लभगणिनो विवरणव्याख्या, च व्याख्याग्रन्था अस्य ।
हैमपरिभाषापाठे ५७ परिभाषाः सन्ति न्यायसूत्राख्याः । तस्य च ग्रन्थकारवृत्त्यतिरिक्तं हेमहंसगणिनो न्यायार्थमञ्जूषा विजयलावण्यस्य न्यायार्थसिन्धुनाम्नी व्याख्या तरङ्गाख्या टीका च ग्रन्थाः । सुविस्तृतमिदं भाषाद्वयसम्बद्धं व्याकरणं प्रायो जैनेषु प्रचलितम् । लावण्य- . मुनेर्धातुपारायणोऽपि हैमव्याकरणेनैव सम्बद्धम् ।
मलयगिरेः शब्दानुशासनम्
[सम्पादयतु]जैनाचार्येण मलयगिरिणा ११८८-१२५० मितवैक्रमाब्दानभित स्थितिमता शब्दानुशासनसंज्ञकं साङ्गोपाङ्ग व्याकरणं प्रणीतमस्ति । स हि सौराष्ट्रकः । । । स हि ‘ख्याते दृश्ये' इति सूत्रवृत्ती अदहदरातीन् कुमारपालः इत्युल्लिखति । अनेनानुमीयते यद्यथा हि हेमचन्द्र : सिद्ध राजस्य तथैव मलयगिरिः कुमारपालस्य; हेमचन्द्रो हि १२२९ मितवैक्रमाब्दे निर्वाणमाप्तवान् । तत्पश्चादेव मलयगिरणा कुमारपालाग्रहेण शब्दानुशासनं प्रणीतं, सम्भवति। व्याकरणस्यास्याभि“धानमपि सिद्धहैमशब्दानुशासनवत् कुमारमलयेति संयुक्तनामावबोधकं सम्भवति । तैन हिं ग्रन्थस्यास्य प्रणयनं १२३५ मितवैक्रमाब्दमभित एव सम्भवति । जीविते । हि हेमचन्द्रे तदनुर्वातना तत्प्रतिस्पर्धारूपं ग्रन्थान्तरं कथं हि प्रणीतं स्यात् । । । ‘अहदरातीन् कुमारपालः' इति च १२२७ वैक्रमाब्दे घटिनं कुमारपालस्य, मल्लिकार्जुनविजयमेव सङ्क तयति इति ।
अस्य हि शब्दानुशासनं सन्धिनामाख्यातकृदन्ततद्धितेति पञ्चसु भागेषु विभक्त प्रक्रियाक्रमानुसारि । तंत्र हि सन्धौ पञ्चपादाः, नामप्रकरणे नव, आख्यातप्रकरणे दश, कृदन्तप्रकरणे षटः तद्धितप्रकरणे: एकादशेति ४१ पादाः सन्ति । मलयगिरिणा स्वप्रणीतशब्दानुशासनस्य वृत्तिग्रन्थोऽपि स्वयमेव प्रणीत आसीद्योऽपूर्ण एव वृत्तिकारस्य निधनेन पश्चाच्च क्षेमकीतिना पूरितः । सवृत्तिकोऽयं ग्रन्थः पञ्चसहस्रश्लोकपरिमाणः । ग्रन्थोऽसावपि पञ्चाङ्गक एवासीत्किन्तु संम्प्रति तस्य खिलभागो नैवोपलभ्यते । तेन हि प्राकृतव्याकरणमपि । शब्दानुशासनस्य परिशिष्टरूपेणैव (?) प्रणीतमासीत् । तदपि सम्प्रति नैवो- : : पलभ्यते । अनेन हि जैनागमानामपि वृत्तिग्रन्थाः प्रणीताः सन्ति । तत्र हिस स्वप्रणीतशब्दानुशासनस्यैव सूत्राणि समुद्धरति । । युधिष्ठिरमीमांसकः परमप्रामाणिकाचार्यो निर्दशति यन्महेश्वरतः प्रारब्ध्र संस्कृतशब्दानुशासनपरम्परा मलयगिरि प्राप्य संस्थां प्राप्सीदिति । मलयगिरि संस्कृतशब्दानुशासनपरम्पराया अन्तिम आचार्यः । मलयगिरेनिर्वाणेन सहैव - समाप्नोति ।
क्रमदीश्वरस्य संक्षिप्तसारः
[सम्पादयतु]क्रमदीश्वराख्येनः विदुषा संक्षिप्तसारसंज्ञक्त व्याकरण प्रणीतमस्ति यस्य स्वयमेव ग्रन्थकारेण रसवती, नाम्नी वृत्तिः प्रणीताऽस्ति । क्रमदीश्वरो हि वङ्गदेश्यः । क्रमदीश्वरस्य व्याकरणं जुमरनन्दिना, परिष्कृतम् । तेनैव तद् जौमरतन्त्रनाम्नाऽपि ज्ञायते । तत्र हि -
‘इति वांदीन्द्रचक्रचूडामणिमहापण्डितश्रीक्रमदीश्वरकृतौ संक्षिप्तसारे महाराजाधिराजजुमरनन्दिशोधितायां वृत्तौ रसवल्यां''।'' इत्युक्तमस्ति ग्रन्थचरमभागे ।
तस्य हि गोयीचन्द्रौत्यासनिकेन ग्रन्थस्यास्य खिलभागः प्रणीतः सूत्रोणादि-. परिभाषासु टीकाऽपि प्रणीता । गोयीचन्द्रग्रन्थोपरिन्यायपञ्चाननेन विद्याविनोदपत्रेण, व्याख्याग्रन्थः प्रणीतः १७६९ मितवैक्रमाब्दे । एवमेव ताकपञ्चाननेनाऽपि तस्या दुर्घटोद्धारनाम्नी व्याख्या कृता । एवमेव चन्द्रशेखर वंशीवादन-हरिरामगोपालादिभिरपि ग्रन्थस्यास्य व्याख्याग्रन्थाः प्रणीताः । व्याकरणमिदं सम्प्रत्यपि वङ्गदेशे लब्धप्रचलनम् । अस्य हि खिलपाठेष्वपि जुमरनन्दिनो वृत्तिः प्राप्यते इत्यैतिह्या वदन्ति ।
अनुभूतिस्वरूपाचार्यः: सारस्वतव्याकरणम्.... यद्यपि सारस्वतं व्याकरण कैश्चिन्नरेन्द्रनगर्याचार्येण सहापि सम्बद्धं मतं तथापि प्रमाणाधिक्यं तु तत्कर्तृत्वेन अनुभूतिस्वरूपाचार्यमेव वृणोति । प्रमाणनिष्कर्षस्तु इदमेव सूचयति यत्सारस्वते हि व्याकरणे सप्तशतसूत्रात्मकस्तद्धित प्रत्ययान्तो भागोऽनुभूतिस्वरूपाचार्यकृतिस्तद्र्वभागश्च नरेन्द्राचार्यस्येति । यथोक्त -
सूत्रसप्तशतीं यस्मै ददौ साक्षात्सरस्वती।
अनुभूतिस्वरूपाय तस्मै श्रीगुरवे नमः ।। इति ।
टिप्पनकारः क्षेमेन्द्रस्तु - ‘इति श्रीनरेन्द्राचार्यकृते सारस्वते क्षेमेन्द्र टिप्पणं समाप्तमिति' कथयति । तथैव अमरभारतीटीकाकारः यन्नरेन्द्रनगरीप्रभाषितं यच्च वैमलसरस्वतीरितम् । नन्मयाऽत्र लिखितं तथाऽधिकं किञ्चिदेव फलितं स्वया धिया' इति । सारस्वतव्याकरणस्य रूपान्तरकर्ता तर्कतिलकोऽपि - इदं परमहंसश्रीमदनुभूतिलिखने क्षीरेनीरमिव प्रक्षिप्तम्' इति कथयति ।
प्रक्रियाकौमुद्याः प्रकाशटीकाकारस्तु नरेन्द्राचार्य बहश उद्धरति । 'वयन्त्वेतदेवानुमामो यन्नरेन्द्राचार्यों हि सारस्वतव्याकरणस्य शेषभागपूरको वो वृत्तिकार एव। सूत्रसप्तशतीकारस्तु अनुभूतिस्वरूपाचार्य एव । यथा च । कैश्चित् ‘सारस्वतीमैजु कुर्वे प्रक्रियां नातिविस्तराम्, इति कथनस्य प्रक्रियासरलीकरणात्मकमर्थं स्वीकृत्य मूलतन्त्रकारोऽन्य एवेति निदष्टमपि । किन्तु सारस्वतव्याकरणस्यैव प्रक्रियात्मकत्वादनेनानुभूतिस्वरूपाचार्यस्य सूत्रकर्तृत्वं नैव विहन्यते । यथोक्त पुञ्जराजेन प्रक्रियाऽऽख्यव्याख्याकारेण ‘सरस्वत्या प्रोक्ताया प्रक्रिया सा सरस्वती प्रक्रिया। तत्र प्रक्रियन्ते प्रकृतिप्रत्ययादिविभागेन व्युत्पाद्यन्ते शब्दा अनयेति व्युत्पत्त्या सरस्वती प्रक्रिया सारस्वतीयं । - व्याकरणमिति ।
अनुभूतिस्वरूपाचार्यस्य कालविषयेऽपि विदुषां नैकमत्यम् । प्रायः विक्रमानन्तरद्वादेशशतकमध्यभाग एवः तस्य स्थितिकालो मतः प्रमाणज्ञैः । तथैव । नरेन्द्राचार्यस्यापि । सारस्वतं हि व्याकरण प्रक्रियात्मक मूलत एव । तत्र हि' संज्ञा-सन्धि-सुबन्त-अव्ययं-स्त्रीप्रत्यय -कारक-समास-तद्धिताख्यात-कृदन्तोणादिपाठादयो विभागाः । सारस्वतं हि व्याकरणं सरस्वतीकृपया अनुभूतिस्वरूपाचार्येण प्राप्तमिति केचित्कथंयन्ति ।
अस्योपरि अनुभूतिस्वरूपाचार्यस्यैव वृत्तिरासीत्सम्भवति नरेन्द्राचार्यस्यापिं । तदतिरिक्तमपि बहवो विद्वांसोऽस्य व्याख्याकाराः । तत्र चन्द्रकीर्तेःसुबोधिका क्षेमेन्द्राख्यस्य कृष्णशर्मणः शिष्यस्य (१२६० वै० ) टिप्पणं, धनेश्वरस्य (१२७५ वै० ) क्षेमेन्द्रटिप्पणखण्डनं, अमृतभारत्याख्यस्य (१५०० बै०) सुबोधिनी, पुजंजस्यः प्रक्रिया', सत्यप्रबोधस्यः (१५६६ वै० ) । दीपिका, श्रीङ्गशिष्यस्य माधवस्यः (१५५० वै०) सिद्धान्तरल्लाजली, चन्द्रकीर्तेः ( १६०० वै० ) सुबोधिका दीपिकापरपर्याया, रघुनाथस्य (१६०० वै०): लघुभाष्यम्, विनयसुन्दरशिष्यस्य मेघरत्नस्य ढुण्ढिका, मण्डन्स्य (१६०० वै०), सारस्वतमण्डनं, वासुदेवभट्टस्य ( १६२४ वै० ) प्रसादः, रामभट्टस्य (१६५० वै०) विद्वत्प्रबोधिनी, काशीनाथभट्टस्य (१६५० वै०) सारस्वतभाष्यं,' भट्ट गोपालस्य सारस्वतव्याख्या, सहजकीर्तेः ( १६८१ वै० ) प्रक्रियावातिकम, हंसविजयगणिनः शब्दार्थचन्द्रिका, (१७०८ वै०), जगन्नाथस्य सारप्रदीपिका, च प्रसिद्धाः।
कतिपयैविपश्चिभिः सारस्वतं व्याकरण रूपान्तरीकृतमपि । तत्र हि तर्कतिलकभट्टाचार्येण द्वारकादासपुत्रेण १६७२ मितवैक्रमाब्दमभितः स्थितिमता सारस्वतं हि व्याकरणं रूपान्तरीकृत्य व्याख्यातमपि। स कथयति--
‘इदं परमहंसश्रीमदनुभूतिलिखने क्षीरे नीरमिव प्रक्षिप्तमिति ।'
एवमेव १७४१ मितवैक्रमाब्दपूर्वमेव स्थितिमता रामाश्रमाचार्येण सारस्वतं हि व्याकरणं रूपान्तरीकृत्य तस्य सिद्धान्तचन्द्रिकाऽऽख्या व्याख्या कृता । तस्य च लोकेशकरेण च १७४१ मितवर्षे टीका प्रणीता। समश्रिमेणैव स्वव्याख्या, सारभूता लघुसिद्धान्तचन्द्रिकाऽपि प्रणीता । केचित्तु सिद्धान्तचन्द्रिको स्वतंत्रव्याकरणग्रन्थरूपेणापि गृह्णन्ति किन्तु तन्न सङ्गतमिति युधिष्ठिरमीमांसकमतम् । सिद्धांतचन्द्रिकायाः अपि लोकेशकरस्य तत्वदीपिका ( १७४१ वै० ) सदानन्दस्य, सुबोधिनी ( १७९९ वै० ) अज्ञातकर्तृको व्युत्पत्तिसारः जिनरत्नस्य सिद्धांतरत्नञ्च व्याख्याग्रंथाः
हर्षकीर्तेस्तरङ्गिणी ( १६०० वै० ) ज्ञानतीर्थस्य माधवस्य च ग्रन्थाश्च सारस्वतव्याकरणसम्बर्द्धनिबन्धग्रंथाः । सारस्वतो हि धातुपाठों हर्षकोतप्रोक्तः। तस्य च तस्यैव धातुतरङ्गिणी नाम्नी वृत्तिः । अत्र हिः १८९१ धातवः पठिताः सन्ति । सारस्वते हि गणपाठे प्रचलितगणं परिवर्तनेन सह, नवीनगणानामपि सङ्ख्यांनं कृतमस्ति । अस्य चंद्रिकानाम्नी टीका लभ्यते किन्तु सा सिद्धान्तचंद्रिका सम्बद्धैव प्रतिभाति । सारस्वते हि उणादिपाठे ३३ सूत्राण्येवासन् किन्तु सिद्धांतचंद्रिका व्याख्यातृभिरेवायमपि व्याख्यातो रामाश्रमादिभिः । सारस्वतं हि व्याकरणं सार्वदेशिकम्, काश्यां काश्मीरेषु नेपालेषु व मद्रदेशेऽपि अस्य पठनपाठनप्रणालिरविहता दृश्यते । पाणिनीयदुर्गेऽप्यस्य प्रवेशो विस्मयकारी।
१२८७-१३५० मितवैक्रमाब्दानभितः स्थितिमता वोपदेवेन धनेश्वरशिष्येण मुग्धबोधाभिधं लघुव्याकरणं प्रणीतमस्ति । वोपदेवो हि वङ्गदेशीयः । तस्य पिता केशवः पितामहश्च महादेव्रः ।
लघुकायमपीदं व्याकरणं सर्वत्र समादृतम् । प्रक्रियाकौमुद्याः प्रसादटीकायां भट्टोजिप्रभृतिग्रंथेषु च तदुद्धृतं दृश्यते । वोपदेवो हि हेमाद्रिपोषित आसीत् । तस्य च स्थितिकालः १२८७-१३५० मितवैक्रमाब्दानभितो मतः । मल्लिनाथोऽपि कुमारसम्भवटीकायां वोपदेवं स्मरति इति तस्य तत्पूर्ववतत्वं तु, सिध्यत्येव ।
वोपदेवेन स्वतन्त्रस्य वृत्तिरपि प्रणीताऽऽसीत् । तदतिरिक्त नन्दकिशोरस्य । (१४५५.वै० ) व्याख्या, अज्ञातकर्तृ को मुग्धबोधप्रदीपः, एवमेव रामानन्ददेवीदास-काशीश्वर-विद्यावागीश-रामभद्र-भोलानाथादीनां व्ख्याः विद्यानिवासस्य मुग्धबोधटीका दुर्गादासस्य सुबोधाटीका, श्रीरामस्य, काशीशस्य • व्याख्या, गोविन्दशर्मणः शब्ददीपिका, बल्लभविद्यावागशस्य बालबोधिनी, कार्तिकेयसिद्धान्तमित्रस्य सुबोधा, मधुसूदनस्य मधुमती वृषवदनस्य प्रबोधः, गङ्गाधरस्य सेतुसङ्ग्रहः राधाबल्लभस्य सुबोधिनी, रतिकान्तस्य व्याख्या, भांघवस्य प्रदीपश्चास्य व्याख्याग्रन्थाः ।
वोपदेवस्यैव. कविकल्पमस्तस्य च कामधेनुसंज्ञिता स्वोपज्ञव्याख्या च मुग्धबोधस्य धातुपाठग्रन्थः । तस्य रामनाथेन दुर्गादासेन च व्याख्याग्रन्थः प्रणीतः । दुर्गादासस्य धातुदीपिका प्रसिद्धाऽस्ति तत्र । मुग्धबोधस्य गणपाठो गङ्गाधरेण, उणादिकोशस्तु रामतर्कवागीशेन, लिङ्गानुशासन गिरीशचन्द्रविद्यारत्नेन, परिभाषापाठवृत्ती रामचन्द्रविद्याभूषणेन, परिशिष्टञ्च नन्दकिशोरभट्ट न पूरितम् ।
पद्मनाभदत्तस्य सौपद्मव्याकरणम्
[सम्पादयतु]पद्मनाभदत्ताख्येन विदुषा सुपद्मनामक संक्षिप्तव्याकरणं प्रणीतमस्ति । अस्य च स्थितिकालो विक्र मानन्तरं पञ्चदशशताब्दी । तस्य पिता दामोदरदत्तः पितामहश्च श्रीदत्तः । तेन हि सुपद्मपञ्जिकानामको वृत्तिग्रन्थश्च प्रणीतोऽस्ति स्वप्रणीतव्याकरणस्य । एवमेव प्रयोगदीपिका, उणादिवृत्तिः, धातुकौमुदी, यङ्लुग्वृत्तिः परिभाषावृत्तिश्च व्याकरणसम्बद्धग्रन्थाः । विष्णुमिश्र-रामचन्द्र-श्रीधर-काशीश्वरा अस्य व्याख्यातार । तत्रापि विष्णुमिश्रस्य सुपदममकरन्दटीका सर्वस्वीकृता । सौपङ्गधातुपाठस्य वृत्तिर्ग्रन्थकारेणैव प्रणीता । एवमेव उणादिपाठस्य च ।परिभाषापाठे हि रामनाथसिद्धान्तवा गीशस्य टीका लभ्यते ।
विनयसागरस्य भोजव्याकरणम्
[सम्पादयतु]भुजनगराधीशभोजाज्ञया विनयसागरेण भोजव्याकरणं १६९५ मितवैक्रमाब्दै प्रणीतम्। लघुकायमिदं -व्याकरणं न तथा प्रचलितम् । एवं ज्ञाताः श्रुताश्च व्याकरणग्रन्था यथाज्ञानमत्र वणताः ।
इत्थं व्याकरणग्रन्थादिङमात्रमिह दर्शिताः ।
पूर्णज्ञानार्य संसेव्यौ बलदेवयुधिष्ठिरौ।
पाणिनिर्देवनन्दी च भोजराजशाकटायनौ ।
हेमचन्द्रश्च मलयः षड् वैयाकरणा इमे ॥
एतदतिरिक्तमपि सन्त्यनेकशः स्फुटग्रन्थकारा वैयाकरणा येषां सङ्ख्यानं लघुकायेऽस्मिन् ग्रन्थे नितान्तमेवासम्भवः । तेनैव तेषां सूचिरेवात्र प्रस्तूयते ।
धातुपाठसम्बद्धा ग्रन्थाः | ग्रन्थकाराश्च |
पञ्जिका | आर्यः, आभरणकारः, अहितः, उपाध्यायः |
पारायणः | काश्यपः कुलचन्द्रः कौशिकः, 'गुप्तः, गोविन्दभट्टः |
प्रक्रियारत्नम् | चतुर्भुजः, इमिडः धनपालः, शशङ्कधरः |
कविकामधेनुः | मल्लः, वर्धमानः, सुधाकरः, स्वामी, हेवाकी |