प्रतापरुद्रविजयम्
प्रतापरुद्रविजयम् | |
---|---|
'राजा' रविवर्मणा निर्मितं प्रतापचित्रम् | |
लेखकः | वेङ्कटरामराघवः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
प्रतापरुद्रविजयस्य अपरं नाम विद्यानाथविडम्बनं वर्तते । विद्यानाथः चतुर्दशशतके ‘प्रतापरुद्रयशोभूषणं' लिलेख । पुस्तकमिदं डा० राघवस्य स्नातकोत्तरपाठ्यक्रमे निर्धारितमासीत् । विद्यानाथस्याहृद्याभिः प्रौढोक्तिभिरुद्विग्नो राघवमहोदयः प्रस्तुतं नाटकं प्रणिनाय ।
प्रतापरुद्रो दिग्विजयाय प्रतिष्ठते । सेनासञ्चाररजसा सूर्य आवृतः । सूर्यस्यावृतत्वाद् मध्याह्नस्य किञ्चिदनन्तरमेव सन्ध्या समापन्ना । ब्राह्मणाः सन्ध्यामुपासितुं, स्त्रियः सायन्तनमण्डनार्थं, पक्षिणो नीडान् उलूकाश्च विहर्तुं युगपदेवाचलन् । मन्दिरस्य बुभुक्षुरुपासकः शीघ्रमेव प्रसादोपलब्धये सायन्तनीं पूजां समापयितुं शिवायतनं प्रातिष्ठत ।
विषयवस्तु
[सम्पादयतु]प्रथमेऽङ्के नन्दनवनगतौ पौलोमीमहेन्द्रौ सहकारवृक्षस्य अधस्ताच्छिलातलसंस्थितौ असामयिकं प्रदोषमालोकयतः । अथ शीघ्रमेव पौलोम्या अक्षिणी रजसावृते संवृत्ते । इन्द्रस्यापि नेत्रसहस्रं रेणुरुद्धं बभूव । सोऽश्विद्यमाजुहाव । रुद्धदृष्टिः शची इतस्ततो धावन्ती क्रीडासरसि पपात । सरसो जलसंयोगात् तदक्षिगतेन रजसा कर्दमायितम् । तदा सा पीडातिशयात् तत्रैव विसंज्ञा संजाता।
द्वितीयेऽङ्के शत्रु राज्ञो राजधान्याः समीपवर्तिनि विपने राजकुलशरणार्थी सन् तिष्ठति स्म । सम्मर्देऽस्मिन् गावो मृगा वानप्रस्थाश्चाभावग्रस्ता अभूवन् । यतो हि एते नृपाः अपपदा ह्यः केचन फलादिभिराहारमकुर्वन् । अन्ये केचन फलादीन्यलभमानाः सर्वमपि तृणं भुक्तवन्तः । अपरे केचित् तलोपरि किञ्चिदपि नासादयन्तः कन्दादिमृगयया भूमिमखनन् । पश्य, पश्य, अधस्ताद् वराहकुलघोणोत्खाता इव गर्तास्तत्र तत्र विलोक्यन्ते ।
इन्द्रस्याक्षीणि येन केन प्रकारेण अश्विभ्यामुपचरितानि । उपचारान्तराल एव कर्दमनिमग्नामेकाकिनीं शचीमसुरा हृतवन्त इति समाचारमिन्द्र आसादितवान् । अथान्धकारः सर्वा दिशः आवृणोत् । क्व गतो दिवाकर इति पृष्टश्चर उक्तवान् यत्सोऽसुरभयान् मेरुगुहामध्यास्ते । निशाचराणाम् आक्रमणमाकलय्य सुरगुरुः सन्धिवार्तां सुहितां मेने । एतस्मिन्नेव समये दैत्यपतिरागत्य जगर्ज -
आः क्वायं स देवेन्द्रहतकः । कुत्रास्ते स द्विजपाशः सुरगुरुः । आः तिष्ठत जर्जरनिर्जरकीटाः इति।
तृतीयाङ्कात् पूर्वं विष्कम्भके मातलि-नारदावागच्छतः । नारदो मातलिमब्रवीत् - इन्द्रस्य विपत्तिं इष्ट्वाहं शिवेनोक्तः - “मातलिं भूलोकं प्रेषय । स च देवरक्षायै प्रतापरुद्रमानयतु। सर्वं शं भविष्यति इति।’’
नारदप्रदत्तपरिचयानुसारं मातलिर्भूलोकात् प्रतापरुद्रमानयामास । तं दृष्ट्वैव दैतेया दुद्रुवुः । । चतुर्थाङ्कात् पूर्वे विष्कम्भके मातलिर्बृहस्पतिं ब्रूते - सर्वं तु सुसम्पन्नं, किं तु इन्द्रस्य अनेकान्यक्षीणि प्रतापरुद्रस्य प्रतापज्वालावलोकनेनान्धीभूतानि।
बृहस्पतिरुवाच — अमृतशाली चन्द्रमाः असफलः संवृतोऽश्विद्वयमपि । दृष्ट्या तदानीमेव चन्द्रिका दृष्टा, यथा सहस्रनयनस्य चिकित्सा सम्पन्ना।
चतुर्थेऽङ्के ब्रह्मा, विष्णुः, महेशः, देवर्षिः, वीररुद्रः, इन्द्रादयश्च रङ्गपीठेऽवलोक्यन्ते । वीररुद्रेण साकं सिंहासनम् अलङ्क्रियतामिति परमेश्वरो महेन्द्रमादिदेश । अथ च परमेश्वर उभौ प्रशस्य सन्ध्याकाले वीररुद्रस्य परमेश्वरप्रतिष्ठाभिषेकं विधाय सर्वानब्रवीद् - वयं सर्वे एकशिलामासाद्य वीररुद्रस्य साम्राज्याभिषेकम् आचरिष्यामः।
शिल्पम्
[सम्पादयतु]यद्यपि प्रतापरुद्रविजये चत्वारोऽङ्काः सन्ति, किंत्विदं रूपकं विशुद्धं प्रहसनं विद्यते । यथा हि लेखकेन स्वयमेवोक्तम्
This is the humorous story built out of all these absurdities. [१]
नाट्यशास्त्रानुसारमीदृश्यां रचनायां प्रवेशक-विष्कम्भकयोरभाव एवेष्टः । अस्मिन् द्वितीयाङ्कात् पूर्वं यो विष्कम्भकः सम्प्रयुक्तः स रूपकस्य पृष्ठचतुष्टयं व्याप्नोति । तृतीयाङ्कात् पूर्वं प्रयुक्तो विष्कम्भकः केवलं सूचनामेव न वितरति, अपि तु स कार्यपरकोऽप्यस्ति । तृतीयाङ्कस्य प्रारम्भे देवद्वयवातङ्कोचिता नास्ति । अयमंशः सर्वथार्थोपक्षेपकः । डा० राघवमहोदयोऽङ्कस्यार्थोपक्षेपकस्य चान्तरं न कृतवान् । इयं शास्त्रीया त्रुटिरपवादात्मिका विद्यते ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणानि
[सम्पादयतु]- ↑ Preface page XVI.