बजरङ्गदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search



बजरङ्गदास (गुजराती: બજરંગદાસ, आङ्ग्ल: bajarangdas ) इत्यस्य भक्ताः यदा परस्परं मिलन्ति, तदा बापा सीताराम इति वदन्ति । तादृक् प्रभाववान् एकः आनन्दी साधुः सौराष्ट्रप्रान्ते अभवत् । जनानां तस्मिन् देववत् श्रद्धा अस्ति । तां श्रद्धां पूरयितुं सः समर्थः अपि आसीत् । सः इदानीं गुजरातराज्यस्य प्रत्येकस्मिन् ग्रामे विराजते ।

जन्म, परिवारश्च[सम्पादयतु]

प्रायः शतं वर्षेभ्यः प्राग् अधेवाडा नामकः लघु-ग्रामः आसीत् । तत्र हरिदासजी, शिवकुवरबा च वसति स्म । ग्रामे ज़ाज़रिया हनुमान् इति नामकम् एकं मन्दिरम् आसीत् । तस्योपरि हरिदासजी, शिवकुवरबा च बहु विश्वसति स्म । तयोः गृहे पुत्रः नासीत् । तौ पुत्रकाम्यया प्रतिदिनं भगवन्तं हनुमन्तं प्रार्थयेताम् । भगवता हनुमता तयोः प्रार्थना श्रुता, ताभ्याम् एकः पुत्रः प्रदत्तः । अयं पुत्रः भगवता बजरङ्गबलिना दत्तः आसीत्, अतः पितरौ पुत्राय बजरङ्गदास इति नाम अदत्ताम् ।

बाल्यं, शिक्षणं च[सम्पादयतु]

बजरङ्गदास इत्यस्मिन् बाल्यकालात् एव साधोः लक्षणानि आसन् । बालकाः प्रायशः क्रीडारताः भवन्ति, किन्तु बजरङगदासः ईश्वरम् आराधते स्म । अतः जनाः तं शेषनारायणस्य अवतारम् अपि अमन्यन्त । यदा बजरङगदासः एकादशवर्षीयः (११) अभवत्, तदा स्वग्रामं त्यक्त्वा अयोध्यां गतवान् । सः बजरङ्गबलिनः आराध्यस्य श्रीरामस्य भूमिः इति विचार्य गुरोः अन्वेषणार्थं तत्र अगच्छत् । अन्ते खाखी इत्याख्यस्य सम्प्रदायस्य महात्मानम् "सीतारामजी बापू" इत्येतम् अमिलत् । तत्र स्थित्वा बजरङ्गदासः तन्वा, मनसा च गुरोः सेवाम् अकरोत् ।

कुम्भयात्रा[सम्पादयतु]

एकदा कुम्भमेलायां सर्वेषां साधूनां सम्मेलनम् आसीत् । तदानीं सीतारामजी बापू स्वस्य साधुमण्डलेन सह मुम्बई-नगरस्य समुद्रतटे गतवान् । तत्र बहु उष्णता आसीत् । अतः सर्वे पिपासवः अभूवन् । पुरतः समुद्रस्य लवणयुक्तं जलम् आसीत् । किन्तु तद् पेयं नासीत् । अतः गुरुः कस्माच्चित् स्थलात् मधुरं जलम् आनय इति बजरङ्गदासम् आदिष्टवान् । बजरङगदासः खिन्नः अभवत् किं करोमि ? इति व्यचारयत् च । तदानीम् एव तस्य अन्तः करणात् अत्रैव गर्तं कुरु इति रवः निर्गतः । रवं श्रुत्वा बजरङगदासः गर्तम् अकरोत्, तत्र गाङ्गमिव मधुरं जलं च निर्गतम् । सर्वे मधुरं जलम् अपिबन् । बजरङगदासम् आशिर्भिः समेधितवन्तः ।

गुरोः सीतारामजीबापू इत्यस्य आदेशः[सम्पादयतु]

किन्तु अनया घटनया अयं बजरङ्गदासः सामान्यः नास्ति इति गुरुः सीतारामजीबापू अजानात् । एकदा साधोः लक्षणैः युक्तं बजरङ्गदासम् आहूय आश्रमस्थानात् मुक्तम् अकरोत्, लघु-ग्रामेषु गत्वा तत्रत्यान् जनान् आध्यात्मिकम् उपदेशं प्रदातुम् आदिशत् च ।

बजरङ्गदासस्य यात्रारम्भः[सम्पादयतु]

बजरङ्गदासः गुरोः आज्ञां शिरस्याधाय आश्रमात् निर्गच्छन् प्रथमम् अवतरणं सुरत-नगरे अकरोत् । तत्र बेगमपरा क्षेत्रस्य लक्ष्मीनाराण मन्दिरम् अतिष्ठत्, जनान् औपदिशत् च । ततः सः हालोल-ग्रामं गतः । तत्र रणजित्हनुमान् इति एकं मन्दिरम् अस्ति । तस्मिन् मन्दिरे सः एकवर्षं यावत् अतिष्ठत् । तत्र सेवा-सत्सङ्गयोः वातावरणम् अरचयत् ।

सौराष्ट्र गमनम्[सम्पादयतु]

हालोल-ग्रामं निवसन् अपि सः स्वग्रामं स्मरति स्म । अतः एकदा सः ततः निर्गतः भावनगरम् अगच्छत् । तत्र जाडेजा-निवासे न्यवसत् । स्वस्य प्रियभक्तः चर्मकारः आसीत्, तस्य गृहं च अगच्छत् । ततः जेसर-ग्रामं, पालिताणा-ग्रामं च अगच्छत् । तत्रत्याः जनाः तस्य सिद्धावधूत सदृशीं दशां, विशालं कपालं, विशालम् उदरं तत्र विशालां नाभिं, कट्याम् एकं धौतवस्त्रं सरलं जीवनम् आनन्दमयं स्वभावं च दृष्ट्वा सः परोपकारी साधुः अस्ति इति अजानात् । जनाः तस्य मुखे स्थितं हास्यं तेजं च दृष्ट्वा नमनं कुर्वन्ति स्म ।

बगदाणा गमनम्[सम्पादयतु]

जेसर-ग्रामे पालिताणा-ग्रामे च स्वल्पं कालं यापयित्वा बजरङ्गदासः बगदाणा अगच्छत् । तत्रत्यः त्रिवेणीसङ्गमः आकर्षितः आसीत् । अतः बजरङ्गदासाय अपि अरोचत । बजरङ्गदासेन यत् किमपि कृतं तस्य प्रमाणानि साम्प्रतम् अपि प्राप्यन्ते । यथा वीरपुरम् अर्थात् जलाराम-बापा इत्यस्य ग्रामः इति पर्यायः अभवत् तथैव साम्प्रतं बगदाणा अर्थात् बजरङ्गदासस्य ग्रामः इति पर्यायः अभवत् । तत्रत्याः जनाः बकाराः पञ्च दुर्लभाः इति अमन्यन्त । ते च बकाराः-

1.बगदाणा-ग्रामः

2.बगडनदी

3.बगडेश्वर महादेव

4.बगलादान ऋषि

5.बजरङ्दास बापा

पालिताणागमनम्, बण्डीधारणं च[सम्पादयतु]

एकदा पालिताणा-ग्रामस्य सिन्धिसमाजः बजरङ्गदासम् आहूतवान् । बजरङ्गदासः अम्बेसेडर-यानेन तत्र गच्छन् चन्द्रस्य शीतले प्रकाशे शास्त्रीयैः रागैः गीतं गायति स्म, ईश्वरं च स्मरति स्म । सः पालिताणा-ग्रामं प्रापत् । तत्र जनाः राज्ञः इव तस्य स्वागतम् अकरोत् । तत्र नवतिवर्षीया एका वृद्धा बजरङ्गदासाय बण्डी-वस्त्रं दत्तवती । बजरङ्गदासः प्रेम्णा तत् अधरत् च । तत् वस्त्रं साम्प्रतम् अपि तस्य मानचित्रे दृश्यते ।

समाधिः[सम्पादयतु]

बजरङगदासस्य एतादृशाः अनेकाः प्रसङ्गाः सन्ति । इतिहासः तस्य प्रमाणमस्ति अस्ति । अस्य साधोः “एय वाला” इति शब्दः अद्यापि श्रूयते । अन्ते अयं साधुः बगदाणा-ग्रामे जीवितः समाधिस्थः अभवत् ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बजरङ्गदासः&oldid=370951" इत्यस्माद् पुनः प्राप्तिः