बांसवाडामण्डलम्
बांसवाडामण्डलम् | |
---|---|
मण्डलम् | |
राजस्थानराज्ये बांसवाडामण्डलम् | |
Country | भारतम् |
States and territories of India | राजस्थान |
Area | |
• Total | ५,०३७ km२ |
Population (२००१) | |
• Total | १७,९८,१९४ |
Website | http://www.banswara.nic.in |
बांसवाडामण्डलं (हिन्दी: बांसवाड़ा जिला, आङ्ग्ल: Banswara district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति बांसवाडानामकं नगरम् ।
भौगोलिकम्
[सम्पादयतु]बांसवाडामण्डलस्य विस्तारः ५०३७ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे प्रतापगढमण्डलं, मध्यप्रदेशराज्यं च, पश्चिमे अजमेरमण्डलम्, उत्तरे उदयपुरमण्डलं, दक्षिणे गुजरातराज्यम् अस्ति । अस्मिन् मण्डले माही इत्येषा एका एव नदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं बांसवाडामण्डलस्य जनसङ्ख्या १७९८१९४ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३९९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३९९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.५८% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७९ अस्ति । अत्र साक्षरता ५७.०२ % अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-
- बांसवाडा
- कुशलगढ
- घाटोल
वीक्षणीयस्थलानि
[सम्पादयतु]- माही जलबन्धः
- आनन्दसागर झील (बाई तडागः)
- डाइलाव झील
- अब्दुल्ला पीर
- मदारेश्वर