बिदनूरु
बिदनूरु (Bidanur) कर्णाटकस्य शिवमोग्गामण्डलस्य होसनगरविभागे स्थितं किञ्चन नगरम् । बिदनूरुनगरं केळदीवंशीयानां प्रशासनकाले अतीव समृद्धं जनभरितं विशालं च आसीत् । दक्षिणभारते एव अतिविशालं नगरमिति बिदनूरुप्रसिद्धम् आसीत् । अस्य वेणुपुरम् इति नाम आसीत् । केळदीनृपविजयम् इत्यस्मिन् लिङ्गण्णकवेः काव्ये एवं स्पष्टम् उल्लिखितम् अस्ति ।
केळदीवंशीयाः इतिहासविशेषज्ञानां प्रियाः सन्ति । क्रिस्ताब्दस्य १६३८ तः १७६३ वर्षपर्यन्तं केळदीवंशीयानां प्रशासनम् अभिवृद्धिशीलञ्चासीत् । इक्केरी एतेषां राजधानी आसीत् । हिरियवेङ्कटप्पः अतीव जनप्रियः दक्षप्रशासकः च आसीत् । तस्य प्रशासनपद्धतेः अनुशासनम् इति नाम आसीत् । नगरनिर्माणं मार्गनिर्माणं देवालयनिर्माणं व्यवसाये अभिवृद्धिः इत्यादीनां विषये वेङ्कटप्पः अनुशासनशीलः इति ख्यातः आसीत् ।
तत्समये निर्मिताः भित्तयः इदानीमपि गृहाणाम् आधारशिलासु तटाकतीररूपेण नगरसीमारूपेण द्रष्टुं शक्यन्ते । सर्वे प्रशासकाः अत्र उत्तमकार्यं कृतवन्तः । राज्ञी केळदि चेन्नम्मा वीराङ्गना आसीत् । क्रिस्ताब्दे १६७२ तः १६९८ पर्यन्तं प्रशासनं कृतवती । एषा मोगलबादशहात् मराठाराजं राजारामम् अभयं दत्त्वा रक्षितवती । राजारामः शिवाजेः पुत्रः । अतः सा मोगलसेनया साकं युद्धं च कृतवती । क्रिस्ताब्दे १७६३ तमे वर्षे बिदनूरु मैसूरु अधिपस्य हैदरालेः अधीनम् अभवत् । तदा नगरस्य नाम हैदरनगरमित्यभवत् ।
बिदनूरुप्रदेशे अनेके स्मारकाः सन्ति । १५ कि.मी विस्तारयुतप्रदेशे अनेकानि मन्दिराणि स्मारकाणि च सन्ति । १५ कि.मीपरिधियुक्तं दुर्गं यथापूर्वम् अस्ति । दुर्गे सभामण्डपः कोशागारः जलवितरणव्यवस्था अधुनापि स्पष्टा दृश्यते । कल्मठकोप्पादिमठाः अपि ग्रानैटशिलानिर्मिताः । वर्णचित्राणि, अपि पूर्ववत् सन्ति ।
कल्मठः हिन्दुमुस्लिं शैल्या निर्मितः मठः । कोप्पदमठे महाराजानां चित्राणि इदानीमपि सुस्थितौ सन्ति । केळदीवंशीयानां राजलाञ्छनं गण्डभेरुण्डपक्षिणम् अत्र द्रष्टुं शक्नुमः । नगरस्य हृदयभागे नीलकण्ठेश्वरमन्दिरम् अस्ति । तस्य स्वर्णलेपितं गोपुरम् अतीव मनमोहकम् अस्ति । राजारामेण स्थापितः अम्मनवरदेवालयः कोल्लूरु मार्गे अस्ति ।
अत्र अपूर्वः पञ्चमुखी आञ्जनेयविग्रहः अस्ति । इतः केळदीवंशीयानां मृतस्मारकाणि, देवगङगा- सप्तकासाराणां दर्शनं शक्यमस्ति । नक्षत्राकारे अत्र उत्सनिर्माणं कृतमस्ति ।
मार्गः
[सम्पादयतु]- शिवमोग्गपर्यन्तं धूमशकटमार्गः अस्ति ।
- शिवमोग्गनिस्थानतः ८५ कि.मी मिते दूरे विद्यते ।
- वासाय शिवमोग्गानगरे आनुकूल्यम् अस्ति । ग्रीष्मकालः दर्शनाय उत्तमः कालः भवति ।
वाहनमार्गः
[सम्पादयतु]तीर्थहळ्ळीतः समीपे । शिवमोग्गातः ८५.कि.मी