सामग्री पर जाएँ

बुधः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बुध इत्यस्मात् पुनर्निर्दिष्टम्)
बुधः
☿
उपनाम
अपरं नाम {{{अपरं नाम}}}
विशेषणम्
कक्षीयलक्षणानि
सूर्योच्यम् ६९,८१६,९०० कि.मी
अपसौरिका ४६,००१,२०० कि.मी
अर्धमुख्य अक्ष ५७,९०९,१०० कि.मी
विकेन्द्रता ०.२०५६३०
परिक्रमणकालः {{{परिक्रमणकालः}}}
परिक्रमणगतिः {{{परिक्रमणगतिः}}}
उपग्रहः {{{उपग्रहः}}}
भौतिक लक्षणानि
मध्यत्रिज्यः {{{मध्यत्रिज्यः}}}
ध्रुवीयत्रिज्या {{{ध्रुवीयत्रिज्या}}}
सपाटता 0
परिधिः ७.४८ X १०^(७) km²
आयतनम् ६.०८३ X १०^(१०) km³
द्राव्यमानम् {{{द्राव्यमानम्}}}
मध्यमघनित्वम् {{{मध्यमघनित्वम्}}}
गुरुत्वाकर्षणम् ३.७ m/s²
पलायनगतिः {{{पलायनगतिः}}}
प्रदक्षिणकालः {{{प्रदक्षिणकालः}}}
प्रदक्षिणगतिः {{{प्रदक्षिणगतिः}}}
तापमानम् १०० - ७०० K
वायुमण्डलम्
दबः सूक्ष्मः
वयुसंघटनम् {{{वयुसंघटनम्}}}

बुधः(Mercury) चतुर्थः ग्रहः भवति। बुधः सूर्यमण्डले सूर्यस्य अत्यन्तं समीपे स्थितः ग्रहः। अपि च सूर्यमण्डले स्थितेषु ग्रहेषु गरिमायां कनिष्ठः अपि अस्ति । सूर्यान्तिकात् अयं ग्रहः स्फुटतया द्र्ष्टुं न शक्यते। बुधस्य गोचरप्रमाणम् २.०-५.५ वर्तते । उषःकाले नेत्राभ्याम् एव सः द्रष्टुं शक्यः भवति। अस्य ग्रहस्य विषये अद्यापि स्पष्टतया विवरणं न उपलभ्यते । १९७३ तमे वर्षे बुधं प्रति प्रेषितं म्यारिनर्-१०यानं वर्षद्वयं तं प्ररिक्रम्य तस्य ग्रहस्य ४०-५०% भागमात्रस्य मानचित्रं सम्पाद्य प्रत्यागच्छत् । बुधः सूर्यं प्रति परिभ्रमणाय ८८ दिनानि स्वीकरोति । स्वस्य भ्रमणाय १५ घण्टाधिक ५८ दिनानि यावत् स्वीकरोति ।
बुधः आकारे अस्माकं चन्द्रः इव अस्ति । बुधस्य कोऽपि नैसर्गिक उपग्रहः नास्ति। विशिष्टं वायुमण्डलम् अपि न विद्यते। ग्रहस्य अन्तर्भागे लोहवलयः वर्तते। तत् लोहवलयात् एव पृथिव्याः कान्तक्षेत्रस्य १% शक्तियुतं कान्तक्षेत्रं तत्र वर्तते। बुधस्य उपरि तापमानः ९० K - ७०० K व्याप्तौ वर्तते। अत्रत्यः ध्रुवीयः प्रदेशः अत्यन्तं शीतलः अस्ति ।
पाश्चात्यदेशेषु बुधः ’मर्क्युरी’ इति ख्यातः । भारतीयज्योतिष्शास्त्रे बुधः चन्द्रस्य पुत्रः इति अभिदीयते । चीना-कोरिया-जापानदेशेषु बुधः जलनक्षत्रमिति ख्यातः। पुराणेषु वर्णितं विद्यते यत् बुध: वेदानां वेत्ता अस्ति इति।

सूर्यमण्डले स्थितेषु चतुर्षु घनरूपिग्रहेषु बुधः अन्यतमः। तन्नाम बुधः अपि भूमिः इव शिलाभिः खनिजैः वा निर्मितः अस्ति। घनरूपिग्रहेषु लघुतमस्य अस्य ग्रहस्य व्यासः समभाजके ४८७९ कि मी परिमितम्। बुधग्रहः ७०% लोहैः ३०% सिलिकेट्-वस्तुभिः युक्तः अस्ति । अस्य घनता भवति प्रति घ सें मी कृते ५.४३ ग्राम्-परिमितम्। सौरमण्डले एव अति नैबिड्ययुतः ग्रहः अस्ति बुधः। इयं भूमेः घनतायाः अपेक्षया न्यूना एव। किन्तु गुरुत्वसंक्षेपणपरिष्कारेण बुधः भूमेः अपेक्षया घनवान् इति ज्ञायते।

अन्तारचना

[सम्पादयतु]

बुधस्य अतिनिबिडतायाः आधरेण तदीया अन्तारचना अवगन्तव्या। भूमेः अति नैबिड्यस्य किञ्चन कारणं भवेत् तस्याः अन्तर्भागीयसंक्षेपणम्। किन्तु बुधः भूमेः अपेक्षया लघुः, तस्य अन्तर्भागः अपि तावान् निबिडयुक्तः न विद्यते । अतः बुधस्य अन्तर्भागः विस्तृता अयोमययुक्ता च स्यात्। भूविज्ञानिनां दृष्ट्या बुधस्य अन्तर्भागः तदीयस्य गात्रस्य ४२% भागं व्याप्नोतु। (भूमेः अन्तर्भागः तस्याः गात्रस्य १७% भागमात्रं व्याप्नोति)
६०० कि मी गात्रयुतः कश्चन मध्यभागः बुधस्य अन्तः दृश्यते । बुधस्य इतिहासस्य आदिमभागे शतशः कि मी गात्रयुतः कश्चन आकाशकायः तदुपरि आक्रम्य मध्यभागे विद्यमानानि मूलवस्तूनि विनाशयत् । ततः शिथिलमध्यभागमात्रम् अवशिष्टम्।
बुधस्य बाह्यविस्तरः १००-२०० कि मी स्थूलयुतः । बाह्यविस्तरस्य किञ्चन विशिष्टं लक्षणं नाम तत्र विद्यमाना कुकुदावली । एतेषु कानिचन शैलानि शताधिक कि मी औन्नत्ययुतानि । बुधस्य बाह्यविस्तारस्य घनीकरणानन्तरम् अन्तर्भागस्य मध्यभागस्य शीतलीकरणावसरे एतानि लघुशैलानि निर्मितानि स्युः इति भाव्यते । सौरमण्डले विद्यमानानाम् अन्येषां ग्रहाणाम् अपेक्षया अत्यधिकप्रमाणेन अयः अत्र दृश्यते। बुधस्य लोहाधिक्यं विवरीतुं विभिन्नाः सिद्धान्ताः प्रस्तुताः सन्ति।

भारतीयज्योतिश्शास्त्रानुसारं बुधः

[सम्पादयतु]

कारकत्व-स्वरूप-स्वभावादयः

[सम्पादयतु]

सुन्दरं शरीरं, श्लेषयुक्ता वाक्, हास्यप्रियता, वात-पित्त-कफप्रकृतिः, भावप्रकाशः, विषयग्रहणशक्तिः, आलोचनासामर्थ्यञ्च बुधग्रहस्य तत्त्वानि ।
बुधस्य कारकत्वानि एतानि -
ज्यौतिषम्, वेदान्तः, वाणिज्यम्, शिल्पम्, यन्त्रम्, तन्त्रम्, नपुंसकता, सेवकाः, युक्तिः, विष्णोपासना, व्याकरणम्, पुराणम्, मृदुवचनम्, अश्वः, कण्ठः, नाभिः, गुह्यम्, वामकर्णः, रत्नपरीक्षा, दायादयः, साधुत्वं, मातुः चिन्ता, मैथुनं, वाक्, विद्या, विनयः, विवेकः, मित्रं, सगोत्रः, गणितं, वेदः, पाण्डित्यं, शिल्पं, कलावित्, काव्यकौशलं, मातामहः, यन्त्रं, मन्त्रः, अश्वः, भयं, नृत्यं, कोशागारः, तीर्थयात्रा, वायव्यं, प्रीतिः, शिखराणि च ।
मानसिकास्वास्थ्यं, मतिभ्रमः, नरदौर्बल्यं, उदरव्याधयः, मूकत्वम्, अस्फुटभाषणम् - एतेषां सर्वेषां बुधः एव कारकः ।

आधिपत्यम्

[सम्पादयतु]

मिथुन-कन्याराश्योः बुधः अधिपतिः। बुधः पलायनवादी । ग्रहराज्यव्यवस्थायाः दृष्ट्या अयं वणिक् विद्यते । वणिजाम् अनुपस्थितौ अपेक्षितवस्तूनां सम्पूरणं कष्टकरम्। बुधः नाम पण्डितः इत्यपि अर्थः। कालानुगुणान् निर्णयान् स्वीकुर्वन् कार्याणां सम्पादनसामर्थ्यं बुधेन एव साध्यम्। अन्येषां साहाय्यम् आचरन् स्वस्य लाभस्य सम्पादनं, सर्वेषां सन्तोषणे अत्यन्तं समर्थः नाम बुधः एव । सर्वैः सह समञ्जनं, स्वस्य प्रामुख्यप्रदर्शनञ्च एतेषां विशेषलक्षणम् । मिथुनराशिवतां वस्तुक्रयणे, कन्याराशिवतां वस्तुविक्रयणे विशेषसामर्थ्यं दृश्यते । गुणविषये ग्रहणम् आदरणं च बुधद्वारा एव निश्चीयते । समाजोन्मुखचिन्तनम् एतेषां वैशिष्ट्यम् ।

बुधग्रहस्य चलनम्

[सम्पादयतु]

चन्द्रस्य मार्गः सूर्यभूकेन्द्रयोः मध्ये यदागच्छति तदा ग्रहणं भविष्यति। तदा समीपस्थः चन्द्रबिम्बः दूरे विद्यमानं सूर्यबिम्बं सम्पूर्णमाच्छादयितुम् अपेक्षितगात्रवान् भवति। बुधशुक्रौ भूसूर्ययोर्मध्ये आगच्छतः किन्तु दूरे भवतः। बिम्बौ लघुरूपेण दृश्येते । अतः सूर्यबिम्बस्य पुरतः लघुकृष्णबिन्दुरिव गच्छतः। बुधग्रहस्य पथः भूपथाय नितम्बे अस्ति। यदि तलभागे भवति तर्हि त्रिवारं बुधग्रहस्य चलनं (ट्रान्सिट्) सूर्यबिम्बस्य पुरतः दृश्यतेस्म्। कुतश्चेत्, भूमिः सूर्यम् एकवारं परिक्रमणार्थमपेक्षिते समये, बुधः चतुर्वारं परिक्रमति। एतेषु एकवारं वयमेव बुधग्रहस्य साकं उपसरणं कृतवन्तः इत्यस्मात् कारणात् त्रीणि परिक्रमणानि एव दृग्गोचराणि भवन्ति। बुधग्रहस्य पथः भूपथाय २डिग्रि परिमिते नितम्बे अस्ति। बुधग्रहस्य परिभ्रमणावधिः ८८ दिनानि,आवर्तनावधिः ५९ दिनानि। इमौ अवधी ३:२ प्रमाणे भवतः इति वैशिष्ट्यमत्र। अनेन कारणेन बुधग्रहस्योपरि स्थित्वा सूर्यं पश्यामश्चेत् सूर्यस्य गात्रं भूम्या दृष्ट द्विगुणपरिमाणे दृश्यते। गच्छताकालेन सूर्यः दिगन्तात् मध्यभागे आगत्य पृष्टेगत्वा पुनः मध्यभागे आगच्छेत्। इतस्ततः वक्रगत्यानन्तरं १७६ भूदिनान्यनन्तरं अस्तङ्गतो भवति। अतः दिनस्यावधिः १७६ दिनानि, एकः वर्षस्यावधिः ८८ दिनानि। अर्थात् दिनाय कति (वर्षाणि)वर्षमिति प्रष्टुं शक्यते।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=बुधः&oldid=484589" इत्यस्माद् प्रतिप्राप्तम्