भरतपुरमण्डलम्
भरतपुरमण्डलं (हिन्दी: भरतपुर जिला, आङ्ग्ल: Bharatpur district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति भरतपुरम् इत्येतन्नगरम् ।
पुरा एतन्नगरं कदम्बवृक्षाणां मृग्यस्थानमासीत् । पक्षिणां जीवनाध्ययनं कुर्वताम् इदम् अपूर्वस्थानमस्ति । इदानीं ३२८ विविधजातीयाः पक्षिणः अत्र दृश्यन्ते । ११७ प्रकारकाः पक्षिणः विदेशीयाः सन्ति । भरतपुरपक्षिधाम्नि ८० प्रकारकाः कदम्बवृक्षाः विद्यन्ते । अस्य धाम्नः विस्तारः १२ हेक्टेर्मितः । अस्य पक्षिधाम्नः केवलदेवराष्ट्रियोद्यानम् इत्यपि नाम अस्ति । भरतपुरनगरस्य नगरस्थापकः अस्मिन्नगरे एकं दुर्गं निर्मापितवान् अस्ति । दुर्गस्य गोपुरयोः क्रमेण फतेह भुर्ज्, जवाहर भुर्ज् इति नाम । राजा सूरजमल्ल आङ्ग्लान्, मुघलराज्ञः च जित्वा विजयस्मरणिकात्वेन दुर्गं निर्मापितवान् इति मान्यता ।
भौगोलिकम्
[सम्पादयतु]भरतपुरमण्डलस्य विस्तारः ५०६६ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे अलवरमण्डलं, दौसामण्डलं च, उत्तरे हरियाणाराज्यं, दक्षिणे करौलीमण्डलम् अस्ति । अस्मिन् मण्डले बाणगङ्गा, रूपारेल, गम्भीर इत्येताः तिस्रः नद्यः प्रवहन्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं भरतपुरमण्डलस्य जनसङ्ख्या २५४९१२१ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५०३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५०३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.३२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८७७ अस्ति । अत्र साक्षरता ७१.१६ % अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-
- बयन
- भरतपुर
- दीग
- कमन
- कुमहर
- नाद्वाई
- नगर
- पहारी
- रूपबास
वीक्षणीयस्थलानि
[सम्पादयतु]अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- केवलदेवराष्ट्रियोद्यानम्
- लोहागढ किला
- गोलबाग-राजभवनम्
- मोती महल्
- लक्ष्मीविलास-राजभवनम्
- फतेह भुर्ज्
इत्यादीनि ।
बाह्यानुबन्धाः
[सम्पादयतु]- Official website
- Bharatpur History Archived २००९-०९-१६ at the Wayback Machine
- "District Bharatpur: Gram Panchayat, Samiti and Ward Map". Excise Department, Government of Rajasthan. Archived from the original on 2013-05-20. आह्रियत 2013-06-27.