भाईकाका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



भाईकाका (गुजराती: ભાઈ કાકા, आङ्ग्ल: bhai kaka ) साम्प्रतं गुजरातराज्यस्य अहमदाबाद-नगरस्य काकरीया तडागस्य, अन्येषां मार्गाणां च जनकः अस्ति । गुजरातराज्यस्य वल्लभविद्यानगरे तेन प्रथमः एन्जिन्यरिंङ्ग् महाविद्यालयः स्थापितः । अस्य जीवनं प्रारम्भादेव बहुसङ्घर्षमयम् आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

भाईकाका इत्यस्य मूलनाम भाईलाल आसीत् । तस्य जन्म १८८८ तमस्य वर्षस्य जून-मासस्य सप्तमे दिनाङ्के गुजरातराज्यस्य खेडा-मण्डलस्य सोजित्रा-ग्रामे अभवत् । तस्य पितुः नाम द्याभाई पटेल इति आसीत् । सः कृषकः आसीत् ।

बाल्यम्[सम्पादयतु]

भाईकाका इत्यस्य गृहस्य समीपे पीज-ग्रामस्य नाथाभाई नामा एकः शिक्षकः वसति स्म । सः प्रतिदिनं रामायणं, महाभारतं वा किमपि धार्मिकं पुस्तकं पठति स्म । सः प्रतिरात्रि स्त्रीः एकीकृत्य ताः उपदिशति स्म । तत्र स्वमात्रा सह भाईकाका अपि गच्छति स्म । अतः भाईकाका बाल्यकालादेव अस्माकं प्राचीनसंस्कृतेः संस्कारान् प्राप्नोत् ।

पितुः अवशानम्[सम्पादयतु]

यदा भाईकाका सप्तवर्षीयः आसीत्, तदा तस्य पिता क्षयरोगग्रस्तः समभवत् । तस्य परिवारजनाः बहूनां चिकित्सकानां सम्पर्कम् अकरोत् । रोगस्य उपचारः नाभवत् । अन्ते १८९५ तमस्य वर्षस्य आश्विन्मासस्य द्वादश्यां तिथौ भाईकाका इत्यस्य पितुः अवसानम् अभवत् ।

पितुः व्यवसायस्य स्वीकारः[सम्पादयतु]

पितुः मरणोत्तरं भाईकाका इत्यनेन अनेकानि गृहस्य दायित्वानि हसतैव स्वीकृतानि । सः कुटुम्बस्य ज्येष्ठानां साहाय्येन कृषिकार्यं करोति स्म । तस्य ज्येष्ठः अपि तस्य साहाय्यं करोति स्म । सोजित्रा-ग्रामे आङ्लशाला नासीत् । अतः तस्य ज्येष्ठभ्राता पठनार्थं पेटलाद-ग्रामं गतवान्, येन भाईकाक इत्यस्य कार्ये वृद्धिः जाता । तथापि सः आरात्रि कृषिक्षेत्रे स्थित्वापि स्वस्य दायित्वम् ऊढवान् ।

शिक्षणम्[सम्पादयतु]

भाईकाका स्वस्य प्राथमिकं शिक्षणं सोजित्रा-ग्रामे प्राप्तवान् । भाईकाका पञ्चमकक्षायां शालायां प्रथमक्रमे उत्तीर्णः अभवत् । अतः तस्य ज्येष्ठः तम् अधिकम् अभ्यस्तुं वडोदरा-नगरं प्रैषयत् । किन्तु दौर्भाग्येण सः छात्रालये प्रवेशं न प्रापत् । अन्ते त्रयः छात्राः भाटकेन एकं प्रकोष्ठं क्रीत्वा बहिः न्यवसन् । भाईकाका प्रतिदिनं विद्यालयं गच्छति स्म, सम्यक्तया पठति स्म च । तदानीं मेट्रिक्-परीक्षायाः बहुमहत्त्वम् आसीत् । ज्येष्ठः भाईकाका इत्यस्य पठने रुचिं दृष्ट्वा त्वं मेट्रिक् परीक्षां दास्यसि इति तम् अपृच्छत्, भाईकाका आम् इति अवदत् च । तदर्थं भाईकाका बहुपरिश्रमम् अकरोत् । परीक्षां दातुम् अहमदाबाद-नगरस्य असारवा-स्थलात् लालदरवाजा-स्थलं प्रति पद्भ्यां गच्छति स्म । इत्थं कठोरेण परिश्रमेण सः मेट्रिक्-परीक्षायाम् उत्तीर्णः अभवत् ।

उच्चशिक्षणम्[सम्पादयतु]

मेट्रिक्-परीक्षायाम् उत्तीर्णः भूत्वा भाईकाका कॉलेज् इति अकरोत् । ततः परं सः पुना-नगरस्य एन्जिनियरिङ्ग् महाविद्यालयस्य प्रवेश-परीक्षाम् अददात् । किन्तु तस्मिन् अनुत्तीर्णः अभवत्, अतः प्रवेशं न प्राप्तवान् । सः खिन्नः अभवत्, स्वग्रामम् अगच्छत् च । तस्य ज्येष्ठः तम् आश्वासनम् अददात्, महाविद्यालये प्रवेशं प्राप्तुं प्रैरयत् च । ज्येष्ठस्य कथनेन सह पुनः अभ्यासम् आरभत । तदानीन्तने काले स्वतन्त्रतायाः आन्दोलनानि वेगेन चलन्ति स्म । १९०७ तमे वर्षे यदा सः इन्टर् आर्ट्स महाविद्यालये पठति स्म, तदा श्यामजी कृष्णवर्मा इत्यस्य इन्डियन् सोसियालिस्ट् इति साप्ताहिकं पठति स्म । तेन सः राष्ट्रकार्याय अपि चिन्तनरतः अभवत् । कठोरपरिश्रमान्ते १९०८ तमे वर्षे सः पुना-नगरस्य एन्जिनियरिङ्ग् महाविद्यालये प्रवेशं प्रापत् । स्वग्रामं त्यक्त्वा पुना-नगरम् अगच्छत् । अतः भाईकाका इत्यस्य आत्मविश्वासः अवर्धत । सः कष्टानि सोढुं सज्जः समभवत् । तत्र प्रथमवर्षस्य परीक्षायां सः तृतीयक्रमे उत्तीर्णः अभवत् । अतः ३३ रूप्यकाणि शिष्यवृत्तित्वेन प्रापत् । इत्थं बहुपरिश्रमेण सः एन्जिनियरिङ्ग् अभ्यासं समापितवान् ।

कार्यारम्भः[सम्पादयतु]

भाईकाका वडोदरा-प्रान्तस्य शिष्यवृत्त्या अधीतवान् अतः सः तत्रैव वृत्तिम् इच्छति स्म । तदर्थं सः वडोदरा-प्रान्तस्य मुख्यम् अभियन्तारम् (एन्जिनियर् इत्येतम्) अमिलत् । सः तस्य महेसाणा-नगरे नियुक्तिम् अकरोत् ।१९१२ तमस्य वर्षस्य जनवरी-मासस्य ३ तमे दिनाङ्के महेसाणा-नगरे तस्य सुपर्-वाइज़र् इति पदं प्रापत् । तदानीन्तने दुष्कालः चलति स्म । अधिकारिणः जनसेवायां रताः आसन् । अतः कार्यभारः भाईकाका इत्यस्योपरि आपतितः । किन्तु भाईकाका इत्यनेन तत् कार्यं ज़टिति समापितम् ।

प्रथमः अवसरः[सम्पादयतु]

एकदा सयाजीराव-गायकवाड् दुष्कालेन पीडीतानां कृते कीदृशं कार्यं भवति ? तत् दृष्टुं महेसाणा आगतवान् । सः मण्डलस्य षण्णां प्रासादानां भूपटं(map)स्थितिविषये सूचनां च अयाचत । तत् कार्यं कठिनं तु आसीत्, किन्तु राज्ञः आदेशः आसीत् । अतः अन्यः उपायः नासीत् । कार्यालये एतत् कार्यं हस्तगतं कर्तुं कोऽपि सज्जः नासीत् । अन्ते भाईकाका इत्यनेन तत् कार्यं स्वीकृतम् । अहर्निशं कार्यं कृत्वा तेन सर्वाणि कार्याणि सम्यक्तया समापितानि । तत् कार्यं दृष्ट्वा महाराजा गायकवाड महेसाणाकार्यालयस्य प्रशंसाम् अकरोत् । तत् दृष्ट्वा इदं क्षेत्रं भवतां कृते सामान्यम् अस्ति । भवता तु असामान्यानि कार्याणि कर्तव्यानि इति अकोलकर् इति नामकः अधिकारी अवदत् ।

ब्रिटिश्-राज्यस्य वृत्ति स्वीकारः[सम्पादयतु]

अकोलकर् इति अधिकारिणा यद् उक्तं तत् सत्यं जातम् । भाईकाका महेसाणा-नगरस्य वृत्तिं त्यक्त्वा ब्रिटिश्-राज्यस्य वृत्तिं स्व्यकरोत् । तस्य नियुक्तिः ब्रिटिश्-राज्यस्य धूलिया-ग्रामे अभवत् । तत्र बहुभिः वर्षैः न समाप्तानि तादृशानि पुरातनानि कार्याणि तेन झटिति समापितानि । तत् दृष्ट्वा अधिकारिभिः तस्य प्रशंसा कृता । ततः परं धूलिया-ग्रामस्य बहूनि कार्याणि मानचित्रेण विना अवशिष्टानि आसन् । तानि भाईकाका इत्यस्मै प्रदत्तानि । स्वस्य कुशलताद्वारा तेन सर्वाणि कार्याणि समापितानि । अतः बहवः जनाः तस्मै ईर्ष्यन्ति स्म ।

भाईकाका इत्यस्य परीक्षा[सम्पादयतु]

भाईकाका इत्येतस्य प्रतिभायाः परीक्षणं कर्तुम् एकेन ब्रिटिश् अभियन्त्रा आयङ्गर् नामकस्य अभियन्त्रा सह तम् अयुनक् । प्रारम्भे आयङ्गर्नामा जनः तं कठिनानि कार्याणि ददाति स्म । किन्तु भाईकाका इत्यस्य कार्यशैलीं दृष्ट्वा सः निपुणः अस्ति इति अजानात् । तदनन्तरं सः भाईकाका इत्यस्मै एकस्याः वातपेषण्याः ( windmill ) जीर्णोद्धारस्य कार्यम् अददात् । सः तत् कार्यं दश (१०) रुप्यकाणां व्ययेन समापितवान् । स्वस्य कार्यं पूर्णं भवति, ततः परं सः तत्र वृक्षारोपणं कारयति स्म । तेन सः प्रकृतिप्रेमी आसीत् इत्यपि ज्ञायते ।

सिन्धुप्रकल्पे नियुक्तिः[सम्पादयतु]

सिन्धुनद्याः तटे सर्वत्र जलं प्रेषयितुम् एकः प्रकल्पः चलति स्म । सर्वकारः भाईकाका इत्यस्य कार्यं दृष्ट्वा तस्मिन् प्रकल्पे तम् अयुनक् । तस्य वृत्तौ वर्धनम् अपि अकरोत् इति । तत् तस्य जीवनस्य अविस्मरणीयम्, ऐतिहासिकं च कार्यम् आसीत् । सिन्धुस्थले शीतलतायाः आधिक्यम् आसीत्, तथापि सः आनुकूल्यम् असाध्नोत् । प्रकल्पस्य मार्गे सप्त मस्जिदस्थलानि आगच्छन्ति स्म । तेषां मस्ज़िद् स्थलानां स्थलान्तरणं कृत्वा साफल्येन कार्यम् अकरोत् इति ।

खननादि कार्याय वैदेशिकयन्त्राणां प्रयोगः[सम्पादयतु]

तदानीन्तने काले कूल्यादीनां खननादि कार्यार्थं वैदेशिकयन्त्राणाम् उपयोगः भवति स्म । तदर्थं यन्त्राणि विदेशात् विभक्तानि आनीयन्ते स्म । यदा तानि पुनः भारतमागच्छन्ति, तदा तस्य संयोजनं कृत्वा कार्यारम्भः भवति स्म । अतः कार्येषु बहवः अव्यवस्थाः भवन्ति स्म । तथापि तानि सर्वाणि कार्याणि तेन न्यूने एव काले समापितानि इत्यतः धनस्य व्ययः अपि न्यूनः अभवत् । तत् दृष्ट्वा मुख्यः अभियन्ता एकम् अधिकारिणं प्रेषितवान् । परीक्षणान्ते अधिकारी भाईकाका इत्यस्य या पद्धति अस्ति, सा सर्वत्र भवेत् इति असूचयत् ।

भाईकाका इत्यस्य स्वप्रान्ते प्रत्यगमनम्[सम्पादयतु]

पञ्चाशे वर्षे वानप्रस्थं स्वीकरिष्यामि इति निश्चयं तु सः पठनकाले एव अकरोत् । भगवता अपि तदेव विचारितं पञ्चाशस्य वर्षस्य प्रारम्भे एव सरदार वल्लभभाई पटेल इत्ययं गुजरातराज्ये प्रत्यागच्छतु इति तम् असूचयत् । सः वृत्तिं त्यक्त्वा ततः निर्गच्छन् अहमदाबाद-नगरं प्रापत् च ।

अहमदाबादनगरस्य विकासः[सम्पादयतु]

भाईकाका इत्ययम् अहमदाबाद-नगरे आगतः । अतः सः नगरपालिकायां सम्मिलितः भवतु इति आमन्त्रणं प्राप्तवान् । भाईकाका "अहं स्वरीत्या कार्यं करिष्यामि" इति निर्णयान्ते नगरपालिकायां संयुक्तः अभवत् । प्रथमे मासे सर्वेषां कार्याणां परीक्षणं कृत्वा मुख्यकार्याणां चयनम् अकरोत् । सर्वप्रथमं पराविस्तारे जलमार्गनिर्माणस्य कार्यं हस्तगतम् अकरोत् इति । तस्य आनुमानिकः व्ययः ४५ लक्षरूप्यकाणि आसन् इति । भाईकाका इत्यनेन ततः अपि न्यूने व्यये कार्यं सम्पादयामि इत्युक्तं कार्यं सम्पादितं च

भाईकाक इत्यस्य जलयोजना[सम्पादयतु]

तदानीन्तने काले अहमदाबाद-नगरे जलस्य अभावः आसीत्, अतः जनाः खिन्नाः आसन् । भाईकाका इत्यनेन पुरातनानां व्ययपत्रं दृष्टुं नूतनानां पत्राणां निर्माणं कर्तुं प्रमुखः प्रार्थितः । अन्ते पञ्चलक्षरुप्यकाणां कार्यं ६८ सहस्ररूप्यकैः कारयिष्यति इति प्रमुखं प्रति प्रस्तावम् अस्थापयत् इति । अन्ते तत् कार्यं सः ३८ सहस्ररूप्यकैः एव समापितवान् । तद् दृष्ट्वा प्रमुखेण तस्य अभिवादनं कृतं संन्तोषश्च दर्शितः ।

काकरिया इत्यस्य निर्माणम्[सम्पादयतु]

अहमदाबाद-नगरस्य काकरीया-तडागस्य समीपे लघु-पर्वताः सन्ति । तडागस्य खननेन या मृत्तिका निर्गता सा एव लघु-पर्वतरूपाः अभवन् इति जनाः मन्यन्ते । एकदा नगरपालिका तेषां लघु-पर्वतानां खननं कर्तुं विचारितवती, किन्तु भाईकाका तस्य विरोधम् अकरोत् । कठोरपरिश्रमान्ते तत्र उद्यानानि भविष्यन्ति इति अनुमतिः स्व्यकरोत् । तदनन्तरं सः मितव्ययेन कार्यम् अकरोत् । तदानीम् अहमदाबाद-नगरस्य पोळ-स्थलेषु मार्गनिर्माणस्य कार्यं चलति स्म । अतः पोळ-स्थलानां पाषाणखण्डानि निर्गच्छन्ति स्म । तत्र मार्गनिर्माणाय मेटल्-काकरिया-रेलवेयार्ड-स्थलात् रेलयानेन नयति, ततः प्रत्यागमनकाले तत्रत्यानि पाषाणखण्डानि काकरिया-समीप अवतारयन्ति स्म । इत्थं काकरिया-उद्यानम्, प्राणीसङ्ग्रहालयः, बालवाटिका च भाईकाका इत्यस्य परिश्रमस्य फलम् अस्ति ।

सरदार पटेल इत्यनेन सह मेलनम्[सम्पादयतु]

१९४२ तमस्य वर्षस्य अप्रैल-मासे सरदार पटेल लोहपुरुषः अहमदाबाद-नगरं गतः, भाईकाक तं मेलितुम् अगच्छत् । मेलने भाईकाका नगरेषु भवता बहूनि कार्याणि कृतानि । इतः परं ग्रामस्य कार्याणि हस्तगतानि कुरु इति सरदार पटेल इत्ययं तम् अवदत् । भाईकाका विलम्बेन विना प्रत्युत्तरम् अददात् "अहं नगरपालिकायां गच्छामि त्यागपत्रं दत्त्वा आगमिष्यामि" आगत्य ग्रामेषु कार्यं कथं कर्तव्यम् ? इति विषयोपरि चर्चां करिष्यावः इति अवदत् । सरदार अवदत् तावत् शैघ्र्यं नास्ति । हस्तगतानि कार्याणि समापयतु । षण् मासान्ते वृत्तिं त्यजतु किन्तु भाईकाका नगरपालिकां गत्वा त्यागपत्रम् अयच्छत् । अधिकारी त्यागपत्रस्य स्वीकारं कर्तुं नैच्छत् । अन्ते भाईकाका अहं स्वेच्छया नगरपालिकायां वृत्तिं स्वीकृतवान् । अतः स्वेच्छया त्यागपत्रं दातुं शक्नोमि । अन्ते अधिकारिणा तस्य त्यागपत्रं स्वीकृतम् ।

गुजरातराज्ये अभियन्तृ महाविद्यालयः (engineering collage) स्थापयितुं विचारः[सम्पादयतु]

भाईकाका ३२ वर्षेभ्यः गुर्जरप्रान्ताद् बहिः वसति स्म । अतः गुर्जरप्रान्ते तस्य केनापि सह अधिकः परिचयः नासीत् । येन सह परिचयः आसीत् सः सरदार पटेल महोदयः अपि कारागारे आसीत् । तेन बहुपरिश्रमान्ते चारुतर विद्यामण्डल, चरोतर ग्रामोद्योग इति संस्थाद्वयं स्थापितम् । तस्मिन् १९४४ तमे वर्षे ५०० गृहस्तजनैः भागः गृहीतः । तस्मिन् अभियन्तृ महाविद्यालयः (engineering collage) उद्घाटयितुं प्रस्तावः उपस्थापितः । तदानीं पुना-नगरे, कराची-नगरे च एन्ज़िनियरिङ्ग् कॉलेज् आसीत् । अतः प्रवेशार्थं गुजरातस्य छात्रेभ्यो बह्व्यः समस्याः भवन्ति स्म । अन्ते आणंद-नगरस्य समीपं क्षेत्रम् अचिनोत् । प्रायशः तस्मिन् बाकरोल् ग्रामस्य क्षेत्रम् आसीत् । तत्रत्याः जनाः अपि तस्मिन् सम्मिलिताः ।

विद्यानगर स्थापनायाः आरम्भः[सम्पादयतु]

१९४५ तमस्य वर्षस्य अक्तूबर-मासे कृषिक्षेत्राणां वृक्षाणां छेदनं कृत्वा सर्वेक्षणम् आरभ्यत । तत्र कश्चन चतुर सरदार इति नामकः कश्चन क्षत्रियः स्वक्षेत्रे पादं स्थापयितुम् अपि नादिशति स्म । एकदा तस्य क्षेत्रस्य वृक्षस्य अधः एकः साधुः उपविष्टः आसीत् । चतुरः तत्र गत्वा कः भवान् ? इति अपृच्छत् । साधुः अत्र एकं विशालं नगरं भविष्यति इति उक्वा लुप्तः अभवत् । तस्मात् दिनात् सः भाईकाका इत्यस्य साहाय्यम् अकरोत् इति ।

सरदार पटेल भाईकाका उभयोः पुनः मेलनम्[सम्पादयतु]

हिन्द-छोडो इति आन्दोलनस्य कारणात् सरदार महोदयः बन्दीकृतः आसीत् । सः कारागारात् मुक्तः अभवत् । अहमदाबाद-नगरे अगच्छत् च । किन्तु अहमदाबाद-नगरे सम्पर्कसाधकानाम् अधिकतायाः कारणात् सः भाईकाका इत्येतं मुम्बई-नगरे आहूतवान् । भाईकाका मानचित्रैः सह तत्र अगच्छत् च । सरदार महोदयः तस्य योजनाद्वारा प्रसन्नः अभवत् ।

विद्यानगरे अतिथिगृहनिर्माणम्[सम्पादयतु]

१९४५ तमे वर्षे विद्यापीठस्य पुस्तकालये पठनाय धर्मानन्द कोसम्बी अमदावाद-नगरम् आगतः । किन्तु विद्यापीठे निवासव्यवस्थायाः अभावात् सः साबरमती आश्रमे न्यवसत् । भाईकाका आश्रमस्य व्यवस्थायै तत्र गतवान् आसीत् । अतः सः स्वामिनम् अमिलत् । तदनन्तरं सः विद्यानगरे आगतानाम् अतिथिनां कृते व्यवस्था भवेत् इति विचार्य तत्र एकम् अतिथिगृहं निर्मितवान् ।

विद्यानगरस्य विशेषातिथयः[सम्पादयतु]

विद्यानगरस्य सर्जनं शनैः शनैः चलति स्म । सर्वे उत्साहं वर्धेत तथा प्रतिभावं ददाति स्म । तत्र डॉ. सी.वी रामन् , जयप्रकाश नारायण, श्री राजा जी इत्येते विद्यानदरस्य विशेषातिथयः सन्ति ।

विद्यानगर बी.ए बी.एस्.सी[सम्पादयतु]

१९४७ तमस्य वर्षस्य जून-मासे भाईकाका इत्यस्य परिश्रमेण विद्यानगरे बी.ए, बी.एस्.सी इति द्वयोः वर्गयोः प्रारम्भः अभवत् । तत्रत्याः शिक्षकाः अन्यनगरस्य शिक्षकापेक्षया अधिकं धनम् अर्जयन्ति स्म । तत् श्रुत्वा विदः शिक्षकाः तत्र आवेदनं कुर्वन्ति स्म ।

विद्यानगरस्य कार्यं दृष्टुं सरदार महोदयस्य आगमनम्[सम्पादयतु]

एकदा विद्यानगरस्य कार्यं दृष्टुं सरदार पटेल महोदयः समागतः । सः इष्टिकायाः चुल्ल्यादिकं दृष्ट्वा प्रसन्नः अभवत् । विठ्ठलभाई कॉलेज् दृष्ट्वा सः अपारम् आनन्दम् अनुभूतवान् । तदनन्तरं सरदार महोदयः अभियन्तृ महाविद्यालयः (engineering collage) स्थापयितुं १५ लक्षम् अनुदानं कृतवान् ।

बिरला इत्यस्य अनुदानम्[सम्पादयतु]

एकदा घनश्यामदासः विरला अभियन्तृ महाविद्यालयः (engineering collage) स्थापयितुम् आयोजनपत्रार्थम् अपृच्छत् । भाईकाका आयोजनपत्रम् अददात् च । तत् प्राप्य सः २५ लक्षम् अनुदानं कृतवान् । अतः गुजरातराज्ये प्रथमम् अभियन्तृ महाविद्यालयः (engineering collage) अभवत् । कॉलेज् निर्माणात् प्राग् एव अध्ययनस्य आरम्भः अभवत् ।

सरदारसाय मृत्युः[सम्पादयतु]

यदा अभियन्तृ महाविद्यालयः (engineering collage) निर्माणम् अभवत् तदा एव सरदार पटेल महोदयस्य मृत्युः अभवत् । भाईकाका इत्ययम् आक्लान्तहृदयः अभवत् । संस्थायाः आयोजनार्थं धनाभावः भवति स्म, किन्तु भाईकाका इत्यनेन सरदार पटेल महोदयस्य स्वप्नं साकारयितुं स्वस्य सम्पूर्णा शक्तिः योजिता । भाईकाका सर्वकारस्य अनुदानेन विना विद्यालयम् अचालयत् । अन्ते सर्वकारेण अनुदानम् अपि दत्तम् ।

सरदार पटेल विद्यालयस्य ख्यातिः[सम्पादयतु]

भाईकाका इत्यस्य कथनेन श्री एच्.एम्. पटेल सर्वकारस्य वृत्तिं त्यक्त्वा विद्यानगरं गतः । तस्य नेतृत्वे अनया शिक्षणसंस्थया प्रगतिः कृता इति । साम्प्रतं भाईकाका इत्यनेन स्थापितः सरदार पटेल विश्वविद्यालयः देशस्य सम्पन्नेषु विश्वसिद्यालयेषु एकः अस्ति ।

भाईकाका इत्यस्य अपरं मुख्यं कार्यम्[सम्पादयतु]

भाईकाका इत्ययं सम्पूर्णे गुजराते कॉग्रेस् भिन्नं पक्षं स्थापितवान् वा तस्य प्रारम्भं कृतवान् । तेन गुजरातराज्ये स्वतन्त्र-पक्षस्य कार्यं कुशलेन संगठकत्वेन कृतम् । सः संसदीय-लोकशाही इत्यस्य विरोधे अपि महत्वपूर्णँ कार्यम् अकरोत् ।

भाईकाका इत्यस्य मृत्युः[सम्पादयतु]

सः आजीवनं समाजसेवाम् अकरोत् । अन्ते सः अशक्तः अभवत् । तथापि सः विश्रान्तिं न स्व्यकरोत् । अन्ते १९७० तमस्य वर्षस्य मार्च-मासस्य ३१ तमे दिनाङ्के यदा तस्य मृत्युः अभवत्, तदा सः ८२ वर्षणाम् आसीत् । अयं भाईकाका महोदयः स्वस्य कार्येण अद्यापि अस्मत्सु राजते ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भाईकाका&oldid=388905" इत्यस्माद् प्रतिप्राप्तम्