सामग्री पर जाएँ

भासनाटकचक्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भासः इति प्रथितयशाः कश्चन महान् नाटककारः बभूव । तस्य विशेषः एषः अस्ति यत् सः स्वस्यनाम न कुत्रापि लिखितवानस्ति । परन्तु सः अन्यैः कविभिः नाटककारैः च सर्वत्रापि जेगीयते । तस्येति कथितानि एतानि त्रयोदश नाटकानि - रामायणाधारिते नाटके द्वे - प्रतिमानाटकम्, अभिषेकनाटकम् च । महाभारताधारितानि नाटकानि मध्यमव्यायोगः, दूतघटोत्कचं, दूतवाक्यं, कर्णभारम्, ऊरुभङ्गम् , पञ्चरात्रं चेति, बृहत्कथामूलानि अथवा कविकल्पितानि नाटकानि प्रतिज्ञायौगन्धरायणम्, स्वप्नवासवदत्तम्, अविमारकं, चारुदत्तम् चेति, भागवतमूलं बालचरितम्

१ स्वप्नवासवदत्तम्

[सम्पादयतु]

अस्मिन् नाटके अङ्कानां सङ्ख्या ६।कथानकम् एवमस्ति – उदयनः नाम कश्चन राजा कदाचित् युद्धे पराभूतः।यौगन्धरायणः इति तस्य कुशलः, राजनीतिज्ञः मन्त्री।सः व्यूहमेकं रचयामास। उदयनस्य प्रिया पत्नी वासवदत्ता।‘सा मृता’ इति मिथ्या एव वार्तां यौगन्धरायणः उद्घोषयति।एतं व्यूहं स्वयम् उदयनः अपि न जानाति स्म।वासवदत्ता मृता अतः राज्ञः द्वितीयः विवाहः आयोजनीयः इति प्राप्तम्।पद्मावत्या सह द्वितीयः विवाहः भवति।पद्मावत्याः पिता बलवान् राजा आसीत्।उदयनस्य तेन सह एवं सम्बन्धः प्रस्थापितः, तेन स्वाभाविकतया उदयनः तस्य साहाय्यं लभते।ततः सः स्वराज्यं पुनः अधिगच्छति।तदा वासवदत्ता जीविता इति यौगन्धरायणः पुनः उद्घोषयति।सर्वं व्यूहं राज्ञे निवेदयति।
उदयन-वासवदत्तयोः एषा प्रेमकथा।तथापि अनिवार्यतया तत्र राजनीतेः अपि समावेशः अस्ति।
‘स्वप्ने दृष्टा वासवदत्ता यस्मिन् नाटके तत् स्वप्नवासवदत्तम्’ इति नाम्नः अर्थः।अस्मिन् नाटके एकं स्वप्नदृश्यम् अस्ति।तत्र उदयनः उत्स्वप्नायमानः, वासवदत्ता जागरितः इति विचित्रः योगः भासेन योजितः।सः प्रेक्षकेभ्यः अतीव अरोचत।अस्य नाटकस्य प्रयोगकाले प्रेक्षकाः अतीव उत्कण्ठया एतं प्रसङ्गं प्रेक्षन्ते।

२ प्रतिज्ञायौगन्धरायणम्

[सम्पादयतु]

पञ्चाङ्कात्मकमिदं नाटकम्।स्वप्नवासवदत्तनाटकस्य एषः पूर्वतनः कथाभागः।उदयन-वासवदत्तयोः विवाहाद् अनन्तरं कथाभागः स्वप्नवासवदत्ते अस्ति।तयोः विवाहात् पूर्वतनः कथाभागः अस्मिन् नाटके अस्ति।अत्र उदयनवासवदत्तयोः गुप्तं प्रेम, तस्य साफल्यार्थं यौगन्धरायणेन कृताः प्रयत्नाः, ततः विवाहः इति एषः कथाभागः अत्र भासेन चित्रितः।

३ऊरुभङ्गम्

[सम्पादयतु]

द्यूते पाण्डवाः पराभूताः।द्रौपदी कौरवाणां दासी जाता।तदा दुर्योधनेन सा स्वस्य अङ्के उपवेष्टुं सभामध्ये आहूता।ततः क्रुद्धः भीमसेनः उग्रां प्रतिज्ञां कृतवान्- ‘दुर्योधनस्य ऊरुभङ्गं करिष्यामि’ इति।अस्याः प्रतिज्ञायाः पूर्तिं भीमसेनः कथं करोतीति कथा अस्मिन् नाटके अस्ति।वीररसपूर्णाः संवादाः, गदायुद्धस्य वर्णनं. दुर्योधनस्य रणे मृत्युः इति अत्र साधुतया चित्रिताः प्रसङ्गाः। संस्कृते नाटकं सुखान्तिकम् एव भवति।इदं नाटकम् अपवादभूतम्।दुःखान्तम् इदं नाटकम्।

४ दूतवाक्यम्

[सम्पादयतु]

व्यायोगः एषः।व्यायोगः नाम एकाङ्कः।अत्र दूतः श्रीकृष्णः।कौरवपाण्डवयोः युद्धं भविता इति यदा स्थितिः प्राप्ता, तदा श्रीकृष्णः युद्धपरिहाराय दूतरूपेण दुर्योधनं प्रति गच्छति।सः कथाभागः अस्मिन् व्यायोगे अस्ति।दुर्योधनस्य दुर्जनता, तथा श्रीकृष्णस्य सुजनता इति एतयोः विरोधः भासेन उत्तमरीत्या चित्रितः।

५ पञ्चरात्रम्

[सम्पादयतु]

एषा कथा नाम घटितकल्पितयोः मनोहरः सङ्गमः।द्रोणः दुर्योघनात् राज्यार्धं दक्षिणारूपेण प्रतिगृह्णाति।तं च राज्यार्धं सः पाण्डवेभ्यः ददाति।अनन्तरं अज्ञातवासकाले दुर्योधनः पाण्डवान् पञ्चरात्राभ्यन्तरे एव मृगयते।तदा द्रोणात् प्राप्तं राज्यार्धं दुर्योधनाय दत्त्वा पाण्डवानां निर्वाहः भवति इति अस्य सङ्क्षिप्ता कथा।

६ दूतघटोत्कचम्

[सम्पादयतु]

अभिमन्युवधेन अर्जुनः शोकाकुलः भवति।सः जयद्रथवधस्य प्रतिज्ञां करोति।तदा श्रीकृष्णः घटोत्कचं दूतरूपेण धृतराष्ट्रं प्रति प्रेषयति।उद्धतः घटोत्कचः तथा उन्मत्तः दुर्योधनः इति एतयोः शाब्दिकः सङ्घर्षः प्रेक्षणीयः अस्ति।

७ कर्णभारम्

[सम्पादयतु]

कर्णस्य दानशूरता विख्याता।ताम् अधिकृत्य अस्य नाटकस्य रचना कृता।इन्द्रः ब्राह्मणरूपेण कर्णं प्रति आगच्छति।तं कवचकुण्डलं प्रार्थयते।एतदभावे स्वस्य अर्जुनात् मृत्यू ध्रुवः इति जानन् अपि कर्णः कवचकुण्डलानां दानं करोति इति अयं कथाभागः अत्रास्ति।

८ मध्यमव्यायोगः

[सम्पादयतु]

मध्यमः इत्युक्ते मध्यमः पाण्डवः भीमसेनः।भीमसेनः बकासुरं हन्ति।ब्राह्मणपुत्रं रक्षति च।सः ब्राह्मणपुत्रः अपि ब्राह्मणस्य मध्यमः पुत्रः।एवं मध्यमः मध्यमं रक्षति इति मध्यमव्यायोगः।ततः भीमसेनस्य घटोत्कचेन सह युद्धं भवति।भीमसेनः स्वस्य पिता अस्तीति घटोत्कचः न वेत्ति।सः भीमसेनं पाशैः बद्ध्वा स्वमातरं प्रति नयति।तस्य माता हिडिम्बा।हिड़िम्बा भीमसेनं दृष्ट्वा अभिजानाति।सा भीमसेनं मोचयति।विषयः गभीरः नास्ति।घटोत्कचस्य चरित्रम् रुचिरं चित्रितम्।

९ प्रतिमा

[सम्पादयतु]

सप्ताङ्कात्मकं प्रदीर्घं नाटकम् एतत्।रामस्य वनवासमारभ्य रावणवधं यावत् कथाभागः अत्र स्वीकृतः।रामायणस्य मूलकथातः क्वचित् परिवर्त्य भासः प्रसङ्गान् रचयति।एकमुदाहरणम् अत्र प्रस्तूयते।यदा दशरथः दिवङ्गतः, तदा भरतः मातुलगृहे आसीत्।सः अयोध्यां प्रतिनिवृत्तः।तदा सः प्रतिमागृहं प्रति नीयते।तत्र दिवङ्गतानां रघुवंशीयानां प्रतिमाः स्थापिताः सन्ति।तासु सः दशरथस्य प्रतिमां पश्यति अथ जानाति दशरथः दिवङ्गतः इति।एतादृशी नाट्यमयता भासेन अत्र नैकधा निर्मिता।अतः लोकप्रियमेतत् नाटकम्।

१० अभिषेकः

[सम्पादयतु]

षडङ्कात्मकम् एतत् नाटकम्।रामकथा अस्य विषयः।रामायणस्थं किष्किन्धाकाण्डं, सुन्दरकाण्डं तथा युद्धकाण्डम् इति काण्डत्रयमाधारीकृत्य अस्य रचना कृता।रामस्य अभिषेकप्रसङ्गेन नाटकं समाप्यते।

११ अविमारकम्

[सम्पादयतु]

नाटकेऽस्मिन् ६ अङ्काः सन्ति।अस्य कथा एवमस्ति।कुन्तिभोजः ना कश्चित् नृपः।तस्य कन्या कुरङ्गी।अविमारकः नाम राजपुत्रः।उभयोः प्रेमकथा एषा।रामायणं वा महाभारतं वा अस्याः कथायाः आधारः नास्ति।काञ्चन लोककथाम् आदाय भासेन नाटकमिदं विरचितम्।

१२ चारुदत्तम्

[सम्पादयतु]

अत्र ४ अङ्काः सन्ति।मृच्छकटिकस्य कथानकं तथा चारुदत्तस्य कथानकं समानमेव।चारुदत्तः निर्धनः परं सज्जनः ब्राह्मणः।वसन्तसेना धनाढ्या तथा गुणाढ्या गणिका।तयोः प्रणयकथा भासेन अस्मिन् नाटके कुशलतया प्रस्तुता।

१३ बालचरितम्

[सम्पादयतु]

कृष्णजन्मनः आरभ्य कंसवधं यावत् कथाभागः अत्र वर्णितः।अत्र ५ अङ्काः सन्ति।हरिवंशपुराणस्थां कृष्णकथाम् आधारीकृत्य नाटकमेतत् विरचितम्।

भासस्य शैली

[सम्पादयतु]

एवमेतानि १३ भासस्य नाटकानि।सामान्यजनस्य भावनानां चित्रणं भासः उत्तमं करोति।किञ्च तादृशं चित्रणम् अन्येषां कवीनां कृतिषु न लभ्यते।तस्य लेखने अलङ्काराणां प्राचुर्यं नास्ति।क्लिष्टाः समासाः न सन्ति।भावनानाम् आविष्करणे नाटककारस्य अवधानम् अधिकम् अस्तीति दृश्यते।तेन तस्य नाटकानि सुगमानि भवन्ति, रुचिराणि भवन्ति।
भासः रामायणात् कथां स्वीकरोति, महाभारतात् कथां स्वीकरोति परं यथामूलं न स्वीकरोति।तत्र स्वभिमतं परिवर्तनं करोति।यथा रामस्य वनवासार्थः सर्वं जगत् कैकेयीं दूषयति, परं भासः तस्याः पक्षं समर्थयति।महाभारते यथा दुर्योधनः वर्णितः तथा भासेन न वर्णितः।यथा महाभारतस्थः कर्णः तथा भासेन चित्रितः कर्णः नास्ति।एतादृशं नावीन्यं भासस्य विशेषः।रामः कृष्णः इति देवताः अपि भासस्य नाटकेषु मनुष्यवद् व्यवहरन्ति।

सुभाषितानि

[सम्पादयतु]

भासस्य नाटकेषु सुभाषितानां वैपुल्यम् अस्ति।इमानि कानिचन उदाहरणानि -
१ कालक्रमेण जगतः परिवर्तमाना चक्रारपङक्तिरिव गच्छति भाग्यपङ्क्तिः।
२ दुःखं न्यासस्य रक्षणम्।
३ गुणानां च विशालानां सत्काराणां च नित्यशः । कर्तारः सुलभा लोके विज्ञातारस्तु दुर्लभाः॥
४ दुःखं त्यक्तुं बद्धमूलोऽनुरागः।
५ कःकं शक्तो रक्षितुं मृत्युकाले।रज्जुच्छेदे के घटं धारयन्ति?



  1. REDIRECT '''भासः'''

"https://sa.wikipedia.org/w/index.php?title=भासनाटकचक्रम्&oldid=453551" इत्यस्माद् प्रतिप्राप्तम्