मथुराप्रसादः दीक्षितः
मथुराप्रसादः दीक्षितः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | भारतविजयं, वीरप्रतापं, भक्तसुदर्शनं, शङ्करविजयं, पृथ्वीराजविजयं, गान्धीविजयम् |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
मथुराप्रसाददीक्षितो उत्तरप्रदेशस्य हरदोई-मण्डलान्तर्गते भगवन्तनगरे १८७८ ख्रीष्टाब्दे प्रकटयाम्बभूव । पण्डितवर्यो बदरीनाथः, कुन्ती चास्य पितरावास्ताम् । मथुराप्रसादः छात्रजीवनत एव आत्माभिव्यक्तौ प्रौढ आसीत् । शास्त्रार्थाय अप्यस्य महत्यभिरुचिरासीत् । ‘पृथ्वीराज-रासो’ नामकस्य ग्रन्थस्य सम्पादन-साफल्येन कविरयं महामहोपाध्यायोपाधिना मण्डितः। दीक्षितस्य प्रकाशितेषु रूपकेषु भारतविजयं, वीरप्रतापं, भक्तसुदर्शनं, शङ्करविजयं, पृथ्वीराजविजयं, गान्धीविजयं, भूभारोद्धरणश्चेति विश्वप्रथितानि सन्ति।
वीरप्रतापम्
[सम्पादयतु]सप्तस्वङ्केषु संविभक्तं वीरप्रतापं नाम नाटकं १९३५ ख्रीष्टाब्दे विरचितम्। प्रतापः स्वजनकस्य ज्येष्ठपुत्र आसीत् । तथापि पिता तस्य राज्याभिषेकं नैच्छत् । सर्वेषां सामन्तानां सत्प्रयासेन प्रतापस्य राज्याभिषेको जातः । सिंहासनारूढेन प्रतापेन सपद्येव मातृभूमेः स्वातन्त्र्यार्थं प्रतिज्ञा कृता -
यावन्मे धमनीमुखेषु रुधिरक्लेदोऽपि सन्तिष्ठते।
मांसं वास्थनि तिष्ठति क्वचिदपि प्राणाः शरीरे स्थिताः।।
तावन्म्लेच्छपतेः कथञ्चिदपि न प्राप्स्याम्यहं निघ्नताम्।
स्वातन्त्र्यस्य पदं समस्तवसुधां नेतुं यतिष्ये भृशम्।। [१]
नाटकेऽस्मिन्नेकोक्तीनां प्रयोगो बाहुल्येन प्राप्यते । भारतीयस्वातन्त्र्य-सङ्ग्रामावसरे युवकानां प्रोत्साहनार्थं भारतमातुश्च बन्धनविमुक्त्यर्थमेव अस्य रचना विहिता। भाषा कोमलकान्तपदावलिभिः संवलिता अस्ति ।
भारतविजयम्
[सम्पादयतु]भारतविजयस्य प्रणयनं १९१४ ख्रीष्टाब्दे सञ्जातम् । अस्य सर्वप्रथमाभिनयो १९३७ ख्रीष्टाब्दे सोलनस्य राजसभायाः प्रीत्यर्थं समभूत् । नाटकमिदमैतिहासिकं वर्तते । आङ्ग्लानां भारतप्रवेश-प्रशासन-भ्रष्टाचार-दुर्नीति-कुकृत्य-दमन-लुण्ठनसम्बन्धिनीनां घटनानां वर्णनं लभ्यतेऽस्मिन् नाटके। पञ्चमाङ्कतो भारतस्य स्वातन्त्र्यसंग्रामस्य वर्णनं महत्त्वपूर्ण वर्तते । षष्ठेऽङ्के कांग्रेस-दलस्य स्थापना दृश्यते । ततो वङ्गभङ्गो जातः । तन्निरसनार्थं देशप्रेमिणो घोरक्रान्तिः चक्रुः।
१९१४ तः १९१८ ख्रीष्टाब्दपर्यन्तं जायमाने विश्वयुद्धे भारतवासिभिः इङ्गलैण्ड-देशस्य महती सहायता कृता । तथापि आङ्गलशासनम् अत्याचारान्निवृत्तो न बभूव । एतत्परिणामस्वरूपेण वर्धमानो राजद्रोहः पराकाष्ठां गतः । गान्धीमहोदयस्य नेतृत्वे देशोऽयं स्वतन्त्रो जातः ।
भक्तसुदर्शनम्
[सम्पादयतु]भक्त-सुदर्शने षडङ्काः सन्ति । रूपकेऽस्मिन् भवानीभक्तस्य राजकुमारस्य सुदर्शनस्य चरितगाथास्ति ।
अयोध्याधिपतिः ध्रुवसन्धिः आखेटवेलायां सिंहस्य आक्रमणेन मृत्युं प्राप । तस्य मनोरमा-लीलावतीभ्यां क्रमशः सुदर्शन-शत्रुजिन्नामधेयौ द्वौ पुत्रौ प्रादुर्बभूवतुः । सुदर्शनो ज्येष्ठतया राज्यस्य उत्तराधिकारी त्वासीत्, किन्तु शत्रुजितो मातामहो दौहित्रस्य राज्याभिषेकाय समुद्यतो जातः । राज्यार्थं विकटकलहं विलोक्य मनोरमा सुदर्शनमादाय प्रयागे भरद्वाजाश्रमम् आजगाम। सुदर्शनो भरद्वाजाद् दीक्षां गृहीत्वा दुर्गाराधनं प्रारेभे । जगदम्बायाः प्रसादेन तस्य वाराणसीपुरपतेः शशिकलया नाम राजकन्यया विवाहः समभूत् । ततो असौ अयोध्याराज्यस्य अधिपतिर्बभूव।
चतुर्थाङ्कस्य प्रथमदृश्यं सर्वथा प्रवेशकमस्ति । रङ्गपीठे युद्धस्य वर्णनमत्यन्तमाकर्षकं वर्तते । संवादानां लघुतया नाट्यौचित्यं स्वाभाविकमेव । दुर्गास्तुतिसम्बन्धिगीतैर्नाटकं मनोरञ्जकं संवृत्तम् । पञ्चमाङ्के कश्चिन्निवेदको ब्रवीति यद्दुर्गा साक्षादागत्य समराङ्गणं सुदर्शनस्य शत्रून् निहन्ति -
यावत्केरलनरेशं हन्तुं सुदर्शनो बाणं सन्दधाति तावदम्बिकया निहतं तं भूमौ पतितं पश्यति। जगदम्बां पात्रत्वेन उपस्थाप्य कविना नाटकस्य गरिमा संवर्धितः।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ १.२६