मन्ना दे
मन्ना डे | |
---|---|
मन्ना डे डि.लिट् पदवीप्राप्तिरनन्तरं रवीन्द्र-भारती विश्वविद्यालयः (मै २००४) | |
व्यैक्तिकतथ्यानि | |
जन्मनाम | प्रबोध चन्द्र डे |
ख्यातनाम | मन्ना डे |
जन्म |
[१] कोलकाता, भारतम् | १ १९१९
मरणम् |
२४ २०१३ बेङ्गळूरु, भारतम् | (आयुः ९४)
सङ्गीतविद्या | नेपथ्यगीतम् |
वृत्तिः | गायकः |
सक्रियवर्षाणि | १९४२-२०१३ |
जालस्थानम् | http://www.mannadey.in |
मन्ना डे प्रसिद्धः गायकः । क्रि.श.१९६०-७०तमकालस्य हिन्दीभाषायाः चलच्चित्राणां गीतानि श्रुणुमः चेत् अवश्यं 'मन्ना डे' वर्यस्य स्मरणं भवति । तस्मिन् काले मुकेशस्य गानस्य शैली भिन्ना मोहम्मदरफिमहोदयस्य गानस्य शैली भिन्ना आसीत् । मन्ना डे वर्यः तु हिन्दुस्तानीसङ्गीतस्य मार्गम् अनुसरन् गायति । "हे भाय् झ्रर देख् के चलो " राजकपूरस्य कालस्य प्रसिद्धं गीतम् । एतत् गीतं मन्ना डे विशिष्टशैल्या गीतवान् । भावपूर्णं गीत्वा राजकपूरस्य पात्रस्य पोषणं समर्थरीत्या अकरोत् । प्रायः अन्यः कोऽपि गायति चेत् एतादृशरीत्या नाभविष्यत् इति जनाभिप्रायः । "पडोसन् चलच्चित्रस्य " 'एक चतुर नार्', आशीर्वाद् चलच्चित्रस्य "पूछो न कैसे", हे मेरे प्यारे वतन, "ये दोस्ती हम नही छोडेङ्गे " इत्यादिभिः मधुरनित्यनूतनगीतैः हिन्दिचित्रगीतरसिकानां मनः सन्तर्पितवान् । अस्य सङ्गीते तीव्रा आसक्तिः अपि च प्रेम । बाल्यदिनेषु मित्रैः सह उत्पीठिकाः विविधलयैः कुट्टयन् नानं कुर्वन् मित्राणि रञ्जयति स्म । स्नाताकाध्ययनावसरे अन्तर्महाविद्यालयस्पर्धासु सततं वर्षत्रयाणि प्रथमपारितोषिकं प्राप्तवान् । मुम्बैनगरस्य बालिवुड् (हिन्दीचलच्चित्रलोकः) मध्ये प्रभावयुताः नटाः, निदेशकाः, सङ्गीतनिदेशाकः च आसन् । तेषु प्रमुखः श्री कृष्णचन्द्र डे, सः मन्ना डे वर्यस्य परिचयं तत्कालीनमेरुसङ्गीतमेरुभ्यः कारितवान् । अनेन 'उस्ताद् दबीर् खन्' 'उस्ताद् अमन् अलि खान्' उस्ताद् अब्दुल् रहमन् खान् ' इत्यादीनां सम्पर्के आगताः । एतैः प्रसिद्धैः गुरुभिः शिक्षितः मन्ना डे स्वस्य कण्ठमाधुर्येन गीतरसिकानां मनांसि जितवान् ।
हिन्दीचलच्चित्ररङ्गप्रवेशः
[सम्पादयतु]क्रि.श.१९४२तमे वर्षे मन्ना डे मुम्बैचित्ररङ्गं प्रविष्टवान् । तमन्ना इति चलच्चित्रस्य सङ्गीतसंयोजकः के.सी.डे आसीत् । अस्मिन् चलच्चित्रार्थं गानमेरुः इति प्रसिद्धया सुरैय्या महाभागया सह गीतवान् । तत गीतम् अतीव प्रसिद्धम् अभवत् । मोहाम्मद रफी, किशोरकुमारः इत्यादिभिः प्रसिद्धैः सह गायामि चेत् रोमाञ्चकतया न गायति इति लोकाक्षेपः आसीत् । अहत्य सामान्यतः ३५००गीतानि गीतवान् । बङ्गाळी, मराठी, मलयाळम्, कन्नडम् इत्यादिभाषासु अपि चित्रगीतानि गीतवान् ।
कौटुम्बिकजीवनम्
[सम्पादयतु]क्रि.श.१९५६तमे वर्षे डिसेम्बर् मासस्य १८दिनाङ्के केरळमूलस्य सुलोचना इति कन्यां परिणीतवान् । सुखदाम्पत्यस्य फलरूपेण शुरोमा(क्रि.श.१९५६), सुमिता (क्रि.श.१९५८) इति द्वे पुत्र्यौ अभवताम् । प्रहार् इति चलच्चित्रस्य गानं तस्य अन्तिमं कार्यम् । तदा तस्य वयः ९०वर्षाणि । अस्य पश्चिमे वयसि बेङ्गळूरुनगरे वसन् सङ्गीतगोष्ठिषु विरलतया गायन् अस्ति ।
दादासाहेब फल्केपुरस्कारः
[सम्पादयतु]प्रबोधाचन्द्र डे महोदयाय क्रि.श.२००७तमवर्षस्य बाबासाहेब फाल्के प्रशस्तिः प्रदत्ता । बहुपूर्वमेव दातव्या प्रशस्तिः तस्य ९०तमे वयसि दत्ता । पद्मश्रीप्रशस्तिः, पद्मभूषणप्रशस्तिः अन्यपुरस्काराः च अनेन पूर्वमेव प्राप्ताः । ५५तमे राष्ट्रियप्रशस्तिप्रदानसमारोहे राष्ट्राध्यक्षा श्रीमती प्रतिभा देविसिङ्ग् पाटील् महाभागा अस्मैः फालके प्रशस्तिम् दत्तवती । अनेन सह बालिवुड् यश् चोपडा इत्यादिभ्यः भारतीयचलच्चित्ररङ्गस्य यशोवद्भ्यः इयं प्रशस्तिः दत्ता ।
अस्य कण्ठमाधुर्येण प्रसिद्धानि चलच्चित्राणि
[सम्पादयतु]- तमन्ना (क्रि.श. १९४२)
- रामराज्य (क्रि.श. १९४२)
- ज्वार् भाट (क्रि.श. १९४४)
- कविता (क्रि.श. १९४४)
- महाकवि कालिदास (क्रि.श. १९४४)
- विक्रमादित्य (क्रि.श. १९४५)
- प्रभु का घर् (क्रि.श. १९४६)
- वाल्मीकि (क्रि.श. १९४६)
- गीत गोविन्द (क्रि.श.१९४७)
- आवार (क्रि.श.१९५१)
- दो बीघ झमीन् (क्रि.श.१९५२)
- हम् दर्द् (क्रि.श.१९५२)
- परिणीता (क्रि.श.१९५२)
- चित्राङ्गदा (क्रि.श.१९५२)
- बूट् पालिश् (क्रि.श.१९५४)
- श्री ४२० (क्रि.श.१९५५)
- काबूलिवाला (क्रि.श.१९६१)
- वक्त् (क्रि.श. १९६५)
- लव् इन् टोकियो (क्रि.श.१९६६)
- तीस्री कसम् (क्रि.श.१९६६)
- प्यार् किये जा (क्रि.श. १९६६)
- उपकार् (क्रि.श. १९६७)
- रात् और् दिन् (क्रि.श.१९६७)
- आम्ने साम्ने (क्रि.श.१९६७)
- पल्कि
- नवाब् सिराज् दौल्
- बून्द् जो बन् गया मोती (क्रि.श.१९६७)
- पाडोसन् (क्रि.श. १९६८)
- मेरे हुझूर् (क्रि.श.१९६८)
- नील् कमल् (क्रि.श. १९६८)
- 'राम् और् रहीम् (क्रि.श. १९६८)
- एक् फूल् दो मालि (क्रि.श. १९६९)
- चन्दा और् बिजली (क्रि.श.१९६९)
- ज्योति (क्रि.श.१९६९)
- मेरा नम जोकर् (क्रि.श. १९७०)
- आनन्द् (क्रि.श. १९७०)
- जोहर् मेह्मूद् इन् हाङ्ग् काङ्ग् (क्रि.श. १९७१)
- जाने अञ्जाने (१९७१)
- लाल् पत्थर् (क्रि.श.१९७१)
- बुड्डा मिल् गया (क्रि.श.१९७१)
- पाराय धन् (क्रि.श.१९७१)
- रेशम् और् शेर् (क्रि.श. १९७१)
- चेम्मीन् (मलयाळम्)
- बावर्चि (क्रि.श.१९७२)
- सीता और् गीता (क्रि.श.१९७२)
- शोर् (क्रि.श.१९७२)
- झिन्दगी झिन्दगी (क्रि.श.१९७२)
- आविष्कार् (क्रि.श.१९७२)
- दिल् कि राहे (क्रि.श.१९७२)
- हिन्दुस्तान् कि कसम् (क्रि.श.१९७२)
- सम्पूर्ण रामायण्(क्रि.श.१९७३)
- सौदागर् (क्रि.श.१९७३)
- झञ्जीर् (क्रि.श.१९७२)
- बबी (क्रि.श.१९७२)
- रेशम् कि डोरी (क्रि.श.१९७४)
- शोले (क्रि.श.१९७५)
- उस् पार्(१९७४)
- हिमाल से ऊञ्चा (क्रि.श.१९७५)
- संन्यासी (क्रि.श.१९७५)
- पोङ्ग पण्डित् (क्रि.श.१९७५)
- जै सन्तोषि माँ (क्रि.श.१९७५)
- दास् म्नाम्बति (क्रि.श.१९७६)
- मेहबूब (क्रि.श.१९७६)
- अमर अक्बर् अन्थोनि (क्रि.श.१९७७)
- अनुरोध्(क्रि.श.१९७७)
- मीनू (क्रि.श.१९७७)
- मै तुलसी तेरे अङ्गन की (क्रि.श.१९७८)
- सत्यं शिवं सुन्दरम्(क्रि.श.१९७८)
- जुर्माना (क्रि.श.१९७८)
- 'ಅಬ್ದುಲ್ಲಾ’ (क्रि.श.१९८०)
- चोरोङ्की कारात्
- क्रान्ति
- कर्झ् (१९८०)
- लावारिस् (१९८१)
- प्रभार् (१९९०)
- गुरिय (१९९७)
- उमर् (२००८)
प्रशस्तिपुरस्काराः
[सम्पादयतु]- क्रि.श. १९६९ अत्युत्तमनेपत्थगायकः इति राष्ट्रियचलच्चित्रप्रशस्तिः । मेरे हुज़ूर्
- क्रि.श. १९७१ अत्युत्तमनेपत्थगायकः इति राष्ट्रियचलच्चित्रप्रशस्तिः । निशि पद्मा अपि च मेरा नाम जोकर्
- क्रि.श. १९७१ सर्वकारस्य पद्मश्रीप्रशस्तिः
- क्रि.श. १९७२ अत्युत्तमनेपत्थगायकः इति फिल्म फेर् प्रशस्तिः । चलच्चित्रम् मेरा नाम जोकर्
- क्रि.श. १९८५ लता मङ्गेशकर् प्रशस्तिः । मध्यप्रदेशसर्वकारः ।
- क्रि.श. १९८८ मैचाले साहित्यो पुरस्कारः ।
- क्रि.श. १९९० श्यामल मित्र प्रशस्तिः । मिथुन् अभिमानीसङ्घः ।
- क्रि.श. १९९१ सङ्गीतस्वर्णचुर् प्रशस्तिः । श्रीक्षेत्र कला प्रकाशिका पुरि ।
- क्रि.श. १९९३ पि.सि.चन्द्र प्रशस्तिः । पि.सि.चन्द्र समूहोद्यमः ।
- क्रि.श. १९९९ कमल देवि रोय् प्रशस्तिः । कमलादेवीसमूहः ।
- क्रि.श. २००१ आनन्दलोकप्रशस्तिः । आनन्दबज़ार् समूहः ।
- क्रि.श. २००२ स्वरालय येसुदासप्रशस्तिः ।
- क्रि.श. २००३ अल्लवुद्दीन् खान् प्रशस्तिः । पश्चिमबङ्गालसर्वकारः ।
- क्रि.श. २००४ नेपथ्यगायकस्य राष्ट्रियप्रशस्तिः । केरळराज्यसर्वकारः ।
- क्रि.श. २००४ हनी डि. प्रशस्तिः । रवीन्द्रभारतीविश्वविद्यालयः ।
- क्रि.श. २००५ आजीवनोपलब्धिपुरस्करः । महाराष्ट्रसर्वकारः ।
- क्रि.श. २००५ पद्मभूषणप्रशस्तिः । भारतसर्वकारः
- क्रि.श. २००७ प्रथमा अक्षयाप्रशस्तिः । ओडिशासर्वकारः ।
- क्रि.श.२००७ ददासहेबफाल्के प्रशस्तिः । भारतसर्वकारः
- क्रि.श २००८ हनी डि.साहित्यप्रशस्तिः । जादवपुरविश्वविद्यालयः ।
- क्रि.श २०११ आजीवनोपलब्धिः । फिल्म् फेर् ।
- क्रि.श २०११ बङ्गविभूषणः । पश्चिमबङ्गालसर्वकारः ।
अन्यभाषासु अस्य जीवनेतिहासः
[सम्पादयतु]मन्ना डे बहुषु भाषासु स्वजीवनगाथां लिखितवान् ।
- आङ्ग्लभाषया - मेमोरी केम् अलैव् ।
- हिन्दीभाषया - यादें जी उठी ।
- मराठीभाषया - जिबोनेर् जल्स् घोरे ।
विशेषावलोकनम्
[सम्पादयतु]टिप्पणी
[सम्पादयतु]- ↑ "Padmabhusan Manna Dey". Mannadey.in. आह्रियत 22 October 2012.