मायुराजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
मायुराजः
जननम् मध्यकालीनः कविः
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः उदात्तराघवम्, तापसवत्सराजम्

मायुराजः उदात्तराघवस्य तापसवत्सराजस्य च नाटकयोः प्रणेता वर्तते। तं राजशेखरः प्राशंसत् -

मायुराजसमो नान्यो जज्ञे कलचुरिः कविः

उदन्वतः समुत्तस्थुः कति वा तुहिनांशवः।।

सोऽयं मायुराजोऽनङ्गहर्षापरनामासीत्, पिता चास्य राजा नरेन्द्रवर्धनः। कालजरस्थां कलचुरिशाखामयं समलञ्चकार, इति मिराशिमहोदयानां मतम् । कदायं प्रादुरभूदिति न यथावन्निश्चेतुं शक्यम् । नवमशताब्द्याः मध्ये आनन्दवर्धनस्तापसवत्सराजं चर्चितवान् । भवभूतेः कृतीश्चायमुपजीवतीति । नवमशताब्द्द्याः प्रारम्भे क्वचित् मायुराज आसीदित्यनुमीयते । सहृदयंमन्योऽसौ स्वमेवमवर्णयत् -

सद्वृत्तानुगतो गतो गुणवतामाराधनेऽनुक्षणं

कर्तुं वाञ्छति सर्वदा प्रणयिनां प्राणैरपि प्रीणनम्।

मात्सर्येण विनाकृत: परकृतीः शृण्वन् वहत्युच्चकै-

रानन्दाश्रु-जलप्लवप्लुतमुखो रोमाञ्च-पीनां तनुम्॥

उदात्तराघवम्[सम्पादयतु]

उदस्तराघवं तावदभिनवगुप्त-कुन्तक-भोज-हेमचन्द्रप्रमुखैराचार्यैः ससम्मानमुद्धृतमिति मायुराजस्य रामकथाविषयं गौरवमुदघाटयति । दशरूपके धनञ्जयस्तु बहुशस्तदंशानुदाहरत् । तत्र कथावस्तु इत्थं सङ्क्षेपितं राजते।

रामो मूर्ध्निं निधाय काननमगान्मालामिवाज्ञां गुरो-

स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम्।

तौ सुग्रीवविभीषणानुगतौ नीतौ परां सम्पदं

प्रोद्वृत्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः।।

तापसवत्सराजम्[सम्पादयतु]

तापसवत्सराजमिति कृतिमयुराजस्योदयनकथाकोविदत्वं सूचयति, यत्रासौ यौगन्धरायणस्य मन्त्रगुप्ति-नैपुणीं वासवदत्तायास्तपोनिष्ठां पद्मावत्याः प्रणयपरवशतां प्रद्योतस्य च राजनीतिकौशलमवर्णयत् । आरुणेः पराभवाय वत्सराजोदयनस्यावरोधेऽवरोधं निराकर्तुं महामंत्री यौगन्धरायणोऽन्यैः सह संमन्त्य प्रद्योतं वासवदत्तां च संगमयांचकार । महासेनो हि प्रद्योतम् आत्मजं वासवदत्तां पत्रेण निर्दिशति।

अपि जीवितसंशयेन वत्से, हृदयात् स्त्रीसुलभं विहाय मोहम्।

उपमानपदं पतिव्रतानां, चरितैर्यासि यथा तथा विधेहि॥

अन्ते च संन्यासिनीवेषा वासवदत्ता तापसी च पद्मावती उदयनेन प्राप्ते इति अर्थकामौ पुरुषार्थौ प्राप्य राजा सफलोऽभवत् । तापसवत्सराजे मायुराजो विशिष्यते, यन्न भासस्य स्वप्नवासवदत्तात्मकं कथावस्तु समधिकं संशोभते । पारावती-व्यापारमुखेन पद्मावत्याः प्रणयलीलां निबन्धानः कविर्जयति -

किंणित्-कुञ्चित-चञ्चु-चुम्बन-सुख-स्फारीभवल्लोचना

स्वप्रेमोचित-चारु-चाटुकरणैश्चेतोऽर्पयन्ती मुहुः।

कूजन्ती विततैक-पक्षति-पुटेनालिङ्ग्य लीलालसं

धन्यं कान्तमुपान्तवर्तिनमयं पारावती चुम्बति॥[१]

सौगताचारस्तुतिव्याजेन निन्दां प्रस्तुवन् हास्यमेव पुष्णाति लामकायनो भिक्षुः -

पूर्वाह्णे कृतभोजन-व्यतिकरान्नित्यैव नीरोगता

कण्डुतिस्त्वकचादपैति शिरसः स्नानं यदा रोचते।

जात्याचारकर्षना-विरहितं ब्राह्मण्यमात्मेच्छया

धूर्तैः सत्त्वहिताय कैरपि कृतं साधु ऋतं सौगतम्॥[२]

श्लिष्टोपमा द्वारेण नाटकीयं कथावस्तु सूचयन् मायुराजः कामपि नवां काव्य-प्रतिभामुन्मेषयति -

आदौ मान-परिग्रहेण गुरुणा दूरं समारोपितां

पश्चात्ताप-भरेण तानवकृता नीतां परं लाघवम्।

उत्सङ्गान्तरवर्तिनीमनुगमात् सम्पिण्डिताङ्गीमिमां

सर्वाङ्ग-प्रणयां प्रियामिव तरुश्छायां समालम्बते॥[३]

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाकाव्यानि

काव्यशास्त्रेतिहासः

संस्कृतम्

उद्धरणम्[सम्पादयतु]

  1. ३.१३
  2. ३.३
  3. ३.१७
"https://sa.wikipedia.org/w/index.php?title=मायुराजः&oldid=436842" इत्यस्माद् पुनः प्राप्तिः