यामिनी कृष्णमूर्तिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(यामिनी कृष्णमूर्ति इत्यस्मात् पुनर्निर्दिष्टम्)
यामिनी कृष्णमूर्तिः

यामिनी कृष्णमूर्तिः (जननम् - क्रि.श.१९४०, चिदम्बरम्, तमिळुनाडु कस्मिंश्चित् तेलुगु कुटुम्बे) भारतस्य काचित् सुप्रसिद्धा भरतनाट्यस्य कूचिपुडीनृत्यप्रकारस्य च नृत्याङ्गना । पौर्णिमातिथौ जातायाः अस्याः पितामहः प्रीत्या 'पूर्णतिलका' इति नाम अङ्कयतु इति सूचितवान् । क्रि.श.१९५७तमे वर्षे चेन्नैनगरे (पूर्वतनं नाम मद्रास्) आरब्धा यामिन्याः नृत्यकलासेवा अनेकमुखयुत्का अस्ति । अनया तिरुमलदेवालयस्य अस्थाननृत्याङ्गनायाः गौरवं प्रापम् । एषा क्रि.श.१९७७तमे वर्षे पद्मश्रीःप्रशस्त्या क्रि.श.२००१तमे वर्षे पद्मभूषणप्रशस्त्या क्रि.श.१९७७तमे वर्षे सङ्गीतनाट्याकादमीप्रशस्त्या विभूषिता अभवत् । एताभिः सः अन्याः प्रशस्तयः पुरस्कृतियः एतया प्राप्राः ।

बाल्यं शिक्षा च[सम्पादयतु]

अतिविशिष्टे कूचिपुडीनृत्यप्रकारस्य प्रदर्शनेन भारतीयनृत्यपरम्परायां नूतनाध्ययस्य आरम्भं कृतवती इयं नृत्याङ्गना यामिनी कृष्णमूर्तिः ।तमिळुनाडुराज्यस्य चिदम्बरम् इति नगरे क्रि.श.१९४०तमे वर्षे अस्याः जन्म अभवत् । अस्याः पितरौ तेलुगुब्राह्मणजातीयौ । यदा यामिनी ५वर्षीया आसीत् तदा मद्रास् नगरे तदानीन्तनकालस्य सुप्रसिद्धा नृत्याङ्गनायः श्रीमती रुक्मिणीदेवी अरुण्डेल् इत्यस्याः गुरुत्वेन नृत्यविद्याम् आरब्धवती । अग्रिमविद्याभ्यासं विविधगुरूणां मार्गदर्शनेन शिक्षितवती ।

नृत्यकलाप्रशिक्षा[सम्पादयतु]

यामिनी मूलभूयाः प्राथमिकशिक्षायाः अनन्तरं तञ्जावूरुप्रदेशस्य किट्टप्प पिळ्ळै महोदयस्य मार्गदर्शनेन नृत्यकलायाः अभ्यासं कृतवती । दण्डायुधपिळ्ळै कञ्चीपुरम् एल्लप्प पिळ्ळै मैसूरु गौरम्म इत्यादयः प्रसिद्धः नृत्यविद्वांसः नामिन्याः नृत्यासक्तिम् उतेजनेन पोषितवन्तः । क्रि.श.१९५७तमे वर्षे मद्रास्नगरे स्वस्याः नृत्यस्य प्रथमप्रदर्शनम् अकरोत् । इयम् अनुपमसौन्दर्येण आकर्षकव्यक्तित्वेन कलाकौशलेन च अल्पेनैव कालेन कलाराधकानाम् अतीव प्रीतिपात्रम् अभवत् । क्रि.श. १९९०तमवर्षस्य कालखण्डपर्यन्तं सा नृत्यकलक्षेत्रे नूतनं रूपं दत्तवती । भारतदेशस्य कोणे कोणे अपि नृत्यकलाक्षेत्रे अस्याः नाम प्रतिध्वनितम् । तां कीर्तिं रक्षितुम् इतोऽपि उन्नतस्थानं प्रप्तुं सा सदा प्ररिश्रमं करोति स्म । इदानीमपि सार्धचत्वरिदशकस्यानन्तरम् अपि अपारप्रशस्तिभिः सम्माननैः च तस्य तृप्तिः नास्ति । इतोऽप्यतिशयेन यशसः शिखरम् आरोढुम् इच्छति । देहलीनगरे वासं कुर्वती तत्र एव नृत्यशिक्षा शालाम् आरब्धवती । तत्र भारतस्य भविष्यस्य कालाविदां निर्माणे निरन्तरं प्रयत्नशीला अस्ति ।

आत्मकथनम्[सम्पादयतु]

“A Passion For Dance” यामिन्या इति आङ्ग्लभाषया स्वजीवनगाथाग्रन्थः लिखितः । एतत् पुस्तकं साहित्यासक्तानां प्रियतमम् अभवत् ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

अस्याः नृत्यकलासेवा बहून् प्रशस्तिपुरस्कारान् आनयत् । क्रि.श.१९७७तमे वर्षे पद्मश्रीःप्रशस्त्या क्रि.श.२००१तमे वर्षे पद्मभूषणप्रशस्त्या क्रि.श.१९७७तमे वर्षे सङ्गीतनाट्याकादमीप्रशस्त्या विभूषिता अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=यामिनी_कृष्णमूर्तिः&oldid=478980" इत्यस्माद् प्रतिप्राप्तम्