रससम्प्रदायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

रससम्प्रदायः अलङ्कारशास्त्रस्य कश्चन सम्प्रदायः। वैदिकसाहित्ये रसशब्दस्योल्लेखः कृतो वर्तते सोमरसस्यार्थे – 'दधानः कलशे रसम्'[१] आनन्दार्थेऽपि - ‘रसो वै सः' 'रसं ह्येवायं लब्धानन्दी भवति'[२] यद्यपि वैदिकसाहित्ये रसादिशब्दानामुल्लेखोऽवश्यं वर्तते, किन्तु आलङ्कारिकसम्प्रदायरूपे चैतत्स्वरूपनिश्चयकरणे सर्वप्रथमं श्रेयोभागिनं नाट्यशास्त्रकर्तारं भरतमुनिमेव वक्तुं शक्यतेऽस्माभिः। राजशेखरेण तु सर्वप्रथमं रसस्योपदेशो ब्रह्मणा नन्दिकेश्वराय प्रदत्तः इति प्रतिपादितः, परन्तु तत्प्रतिपादितः रससिद्धान्तः इदानीं पर्यन्तमभ्युपलब्धो न वर्तते।

वाल्मीकिरामायणस्थैः[३] रसैः शृङ्गारकरुणरौद्रवीर-भयानकैः इति पद्येन अष्टरसानामुल्लेखो वर्तते, इति भरतादेव कथमुल्लेख इति शङ्काऽत्र न युक्ता, वाल्मीकीयरामायणादिकाण्डस्थानां बहूनां श्लोकानां प्रक्षिप्तत्वैनैव निर्णयात् । एवं सत्यपि -

निषादविद्धाण्डजदर्शनोत्त्थः श्लोकत्वमापद्यत यस्य शोकः ।[४]

'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।

क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥[५]

कालिदासस्य रघुवंशे; ध्वनिकारस्य ध्वन्यालोके, भवभूतेः उत्तररामचरितेऽपि क्रौञ्चवधस्योपलम्भात् वाल्मीकीय-रामायणस्य 'शोकः श्लोकत्वमागतः' इति तु सम्यगेव । तथा सति आदिकाव्यस्योदयः करुणरस एव सञ्जात इत्यत्र न मनागपि सन्देहलेशः । वस्तुतस्तु रसपरम्परायाः प्राचीनतायां न काऽपि विप्रतिपत्तिः । स्वयं भरतेनैव नाट्यशास्त्रस्य षष्ठाध्याये-

‘एते ह्यष्टौरसाः प्रोक्ता द्रुहिणेन महात्मना'

इत्यादिना पूर्वाचार्याणां सङ्केतः कृतः । परम्परायाः उल्लेखोऽपि तत्रैव ‘अथानुवंश्ये आर्य भवतः' अथवा ‘श्लोकी भवतः' इत्यादिना स्पष्टरूपेण कृतः ।

रसः इत्युक्ते किम्[सम्पादयतु]

अथ कोऽयं 'रस' इति जिज्ञासायां काव्यपठनेन अथवा श्रवणेनाथ च अभिनयदर्शनेन यादृशः आनन्दो भवत्यस्मादृशां स एवाऽनन्दो 'रस' इति सार्वजनीनानुभवः। कानि साधनानि सन्ति, यानि रसं निष्पादयन्तीति चेद् ? विभाव-अनुभाव-व्यभिचारि-संयोगादिभिः तन्निष्पादनस्य प्रतिपादितत्त्वात् । मुनिना भरतेन स्वीयनाट्यशास्त्रस्य षष्ठे सप्तमे चाध्याये रसस्य विषये स्वमतं प्रकाशितम्। ‘विभावानुभावव्यभिचारिसंयोगात् रसनिष्पत्तिः' इति भरतसूत्रं बहुभिव्यख्यातम् । तत्र मतभेदोऽप्युत्पन्नः । इदम् अल्पाकारमप्यनेकव्याख्याकतॄणां तर्कमूलिकां, हृदयङ्गमां सारभूतां युक्तियुक्तां व्याख्याम् अवलोक्य अतिमहत्त्वाधायकमित्यामनन्ति सर्वे।

विभावः[सम्पादयतु]

अथ के ते विभावादयः इति चेत्? शकुन्तलानाटके प्रथमदृश्यदर्शने रङ्गमञअचे चागत्य दुष्यन्त आश्रमपादपान् सिञ्चन्तीं शकुन्तलां पश्यति। शकुन्तला च प्रकृत्या लावण्यमयी, सा हि यदा घटमुत्थाप्य नवमल्लिकां जलं पाययति, तदा तदङ्गानाम् आकुञ्चनप्रसारणे भवतः, येन तस्याः सौन्दर्यमधिकं वर्धते। मुखसौरभलोलुपा भ्रमरास्तां भृशमाघ्रातुमाक्रमन्ति, ततस्त्रस्ता सा इतस्ततो धावति, कम्पते नेत्रे सञ्चारयति तथा क्रन्दति। दुष्यन्तश्चैनामेवं विधाम् अवलोक्य नितराम् आकर्षितो भवति। महर्षिः कण्वः आश्रमस्य एकान्तोपमवनं तथा मालिनीतीरादिकमपि स्वदर्शनेन दुष्यन्तस्य मानसे शकुन्तलां प्रति रतिभावमभिव्यज्य तं शृङ्गाररूपे परिणमयितुं हेतुर्भवति । एवञ्च दुष्यन्तमनसि रसव्यक्तिः सञ्जायतेऽतो दुष्यन्तः शृङ्गाररसस्य आस्वादकर्ता रतिभावस्याश्रयो वर्त्तते । एतद्भावस्य रसरूपे परिणमयितुं शकुन्तलैव प्रमुखसाधनं, किन्तु अनेन साकं शकुन्तलायाश्चेष्टास्तथा तदृश्यस्य देशकालादयोऽपि सहायतां कुर्वन्ति । उभावप्येतौ ‘विभाव' इत्युच्यते । शकुन्तलायाः आलम्बनं दुष्यन्तगतरतिभावस्य देशकालादयश्च उद्दीपनानि।

अनुभावः[सम्पादयतु]

यदा दुष्यन्तस्य मनसि रतिभावस्य आविर्भावो भवति, तदा तच्छरीरे प्रसन्नतादयो बहवश्चेष्टा समुत्पद्यन्ते ता एव पश्चाज् भावितत्त्वेनानुभावपदव्यपदेशभाजो भवन्ति । एतादृशी रतिः भावानुभुतेः अनन्तरं समुत्पद्यते अथवा तादशस्य ‘भाव'स्य अनुभवं सामाजिकान् कारयतीति भवति पश्चाद्भावितत्वम् ।

व्यभिचारी उत व्यपदेशः[सम्पादयतु]

दुष्यन्तस्य शकुन्तलाम्प्रति समुत्पन्ने रतिभावे स कदाचित् विचारयति इयमृषिपुत्री इति तथा सति नेयं परिणययोग्याः, ततो निराशायाः चिन्तायाः च अनुभवं करोति । कदाचित्तस्य स्वमनसि विश्वासो भवति । एवञ्च ताः समस्ताः भावानुभूतयः अस्थायिभावाः सन्ति, ये किञ्चित् कालमेव तिष्ठन्ति पुनलुप्ताः भवन्ति । अनेन प्रकारेण एकस्थायिभावे कियन्तोऽत्यल्पभावाः सञ्चरणं कुर्वन्तः तिष्ठन्ति । एते च भावाः स्थायिभावस्य सहकारिकारणाः सन्ति । तादृशी च एव एतेषां स्थितिः यादृशी समुद्रे तरङ्गोदयावसानानाम् । समुद्रस्थानीयः स्थायिभावः । तरङ्गस्थानीयश्च सञ्चारिभावः । यत् एते भावाः क्षणिकास्तथा अस्थिरा अतः सञ्चारिणो व्यभिचारिणो वा व्यपदेशभाजो भवन्ति ।

इत्थञ्च भाव एव रसस्य बीजं मूलरूपमित्युपलब्धं भवति । तत्र क्व तिष्ठति भावः, किञ्च स्वरूपमेतस्येति चेत् ? सहृदय-सामाजिकानां हृदये तिष्ठत्ययं भावः । प्राक्तनजन्मनः संस्कारस्वरूप एव । एत एव भावाः काव्येषु वर्णितविभावादिद्वारा पुष्टीभूय रसरूपे परिणताः, भवन्ति एते च चेतनाचेतनमानसं किञ्चित्कालमेकीकृत्य तन्मध्यगतां यवनिकाम् अपहृत्य अस्मद्धृदयस्य तच्चरमसोपानसीमापर्यन्तं प्रापयन्ति यत्र वयं मनोराज्ये विचरणं कुर्मः तत्र केवलानन्द एवानन्दो वर्त्तते । अयमानन्दः ‘रस' संज्ञया व्यपदिश्यते । लौकिकः सन्नप्यलौकिक एवायम् । तथा दिव्यरूपो ब्रह्मास्वादसहोदरः ।

अलङ्कारशास्त्रे सम्प्रत्युपलभ्यमानो रससिद्धान्तो भरतेनैव प्रवत्ततः । तदीयम् - विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः' इति सूत्रमेव रसस्वरूपनिर्णायकेष्वादिमं प्रसिद्धम् । अस्य सुत्रस्य बहवो व्याख्यातारः सञ्जाताः । तेषु चत्वार एव सर्वतः प्रधानाः । तेषां ‘भट्टलोल्लट-शङ्कुक-भट्टनायक-अभिनवगुप्तपादा इति नामान्यवगन्तव्यानि । रससम्प्रदायश्चैतेषामेव मतमादाय साम्प्रतं प्रचलति।

वादाः[सम्पादयतु]

भट्टलोल्लटस्य उत्पत्तिवादः[सम्पादयतु]

अभिनवगुप्तपादाचार्येण स्वकीयाम् अभिनवभारत्यां भट्टलोल्लटस्य मतस्योल्लेखः कृतः । अनेनैव सम्भाव्यते यदेतेनाऽपि नाट्यशास्त्रस्योपरि काचित् व्याख्या कृता या साम्प्रतं नोपलभ्यते । रससूत्रस्याऽपि सर्वप्रथमोऽयमेव व्याख्याताऽसीत् । एतेन हि संयोगात् इत्यस्य 'कार्यकारणभावरूप-सम्बन्धात्' इत्यर्थः, ‘निष्पत्तिः' इत्यस्य उत्पत्तिरित्यर्थः, अनेनरूपेणैव व्याख्यातम् । मुख्यतः अयं संयोगादित्यस्य जन्यः जनकभावरूपात्सम्बन्धादित्यर्थं कृत्वा रसं विभावादीनां कार्यमाहुः । अयम् आसीत् मीमांसकोऽभिधावादी च, समस्तकाव्यार्थस्य साधनमभिधाशक्तिरेवेति स्वीकृतवान् । एतस्य मतमासीत् यच्छब्दस्य प्रत्येकार्थप्रतिपत्तिरभिधया एव तथा भवति यथा एक एव बाणः कवचं निभिद्य शरीरे प्रविश्य प्राणानपहरतीति । एतन्मतं मम्मटो ह्येवमुद्धृतवान् -

“सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापारः ।"

विश्वनाथेनाप्येवमेवोक्तम् । लोल्लटमतस्य प्रभावो हि दशरूपककारधनञ्जयस्यावलोककार धनिकस्योपरि स्पष्टरूपेण सञ्जातः ।

एतन्मत सारांशः[सम्पादयतु]

( १ ) स्थायीभावस्य सूत्रे उल्लेखो नास्ति, किन्तु मतेऽस्मिन् तस्य रसमूलरूपेण पृथगुल्लेखः सञ्जातः । स्थायीभावेन सह संयोगः स्वीकृतः ।

( २ ) अयञ्च स्थायीभावः आलम्बनविभावेभ्यः उत्पन्नो भवति । अत एवमुत्पत्तिवाद नाम्ना व्यवहरन्ति । एवं व्यभिचारिभावैः पुष्टीभूय अनुभवद्वारा व्यक्तीभूयानुकार्ये रसरूपेण तिष्ठति ।

( ३ ) नटेनायं स्थायीभावस्तिष्ठति किन्तु, रूपसमानतायां विद्यमानत्वेन नटे एतस्यारोपो भवति।

(४) अभिनयकुशलतया आरोपितः स्थायीभावः सामाजिकेषु चमत्कारहेतुः सञ्जायते । नटस्यानुकृत्तिः सफलतयोत्पन्नः सामाजिकमनसि चमत्कारजन्यः आनन्दात्मकरसो निष्पद्यते ।

मतसमीक्षा[सम्पादयतु]

भरतसूत्रे स्थायीभावस्य पृथगुल्लेखो न वर्तते । इदं च तादृशं वस्तु नास्ति यत्पूर्वमपुष्टरूपेण विद्यमानं सत् पश्चात् पुष्टीभूय रसरूपं धत्ते । विभावादिकं विना मुलाश्रये स्थायीभावो भवितुमेव नार्हति, कुतः पुनस्तेन पुष्टिरिति ?

मतेऽस्मिन् द्वितीयो दोष एवमापतति यत्स्थायीभावोऽयं न कार्यरूपः । यदि कार्यरूपः स्यात्तदा निमित्तकारणक एव स्यात् । तथा च सति निमित्तकारणव्यपगमे नटादिकं कार्यं स्वात्मना तिष्ठति, किन्तु न ह्येवं तथा, विभावादिनष्टे सति रसोऽपि न तिष्ठति । अत एव विभावादिः कारकहेतुर्न वा जनकहेतुः । पूर्वमविद्यमानत्वान्न ज्ञापकहेतुरपि । रस उत्पद्यते इति यद्येतन्मृतं तर्हि दर्शके केन प्रकारेण सङ्क्रमितो भवति ? रतिर्यत्र, तिष्ठेत्तत्रैव रसोऽपि भवितुर्युक्तः, कार्यकारणयोः एकाधिकरणवृत्तित्वनियमात् । अनुकार्योऽस्मद्दृष्टिगोचरात्परः । अनुकर्तरि तस्यारोपो भवति । आरोपितो रसो दर्शकेषु कथं चमत्कारमुत्पादयेत्; तत्राधारत्वस्य मिथ्यात्वं स्पष्टमेव भवेदिति ।

श्रीशङ्कुकस्य अनुमितिवादः[सम्पादयतु]

अभिनवभारत्यामेव श्रीशङ्कुकस्यापि मतोल्लेखो वर्तते । अनुमितिवादनाम्ना भरतसूत्रस्य व्याख्या चैतस्य प्रसिद्धा । अयञ्च नैयायिकः सन् विभावादिसाधनेषु रसरूपसाध्येषु च अनुमाप्यानुमापकभावं कल्पयतीति । यथा पर्वते धूमं दृष्ट्वा ‘पर्वतोऽयं वह्निमान्' यतो धूमवान् एतत्परामर्शद्वारा पर्वते वह्निस्थितेरनुमितिरिति तथैव नटे रामादिवदनुभावादिकं दृष्ट्वा सामाजिकास्तत्र रसस्थितिमनुमिन्वन्ति । एवञ्च रसोऽनुमेयोऽनुमितिगम्यो वेति श्रीशङ्कुको मनुते । अथ चैतदतिरिक्तां ‘चित्रतुरगादिन्यायस्य कल्पनां करोति । एतत्कल्पनानुसारेण नटो न वास्तविको दुष्यन्तः, किन्तु चित्रे लिखिताश्ववत् दुष्यन्तः । कल्पनामेनां दशरूपककारोऽपि स्वीकरोति । सहृदये सामाजिके वा रसस्य स्थितिः तथैव स्वीकरोति श्रीशङ्कुको यथा - अश्वस्य चित्रं दृष्ट्वाऽनुभवो भवति। श्रीशङ्कुक एवं हि सर्वप्रथमं लोल्लटस्योत्पत्तिवादं सहृदयेषु रसानुभवाभावसिद्धान्तं खण्डितवान् । एवञ्चैतन्मते सामाजिकेऽपि रसानुभवो भवतीति पूर्वस्माद्विशेषः ।

मतसारांशः[सम्पादयतु]

( १ ) वास्तविकरूपेण अनुकार्यरूपान् एव विभावपदव्यपदेश्यान् वक्तुं शक्यते अस्माभिः । तदनुभावान् सञ्चारिणश्चानुभावान् सञ्चारिणः कथयिष्यते ।

( २ ) नटो ह्येतामनुकरोति । सामाजिकास्तु चित्रतुरगन्यायेन नटमेवानुकार्यं बुध्वा तत् अनुभावादिद्वारा नटे स्थायिभावस्य अनुमानं कुर्वन्ति ।

मतसमीक्षा[सम्पादयतु]

श्रीशङ्कुकेन हि अनुकरणानुमानयोरुपयॆवाग्रहः कृतः । तत्र न स्थायिभावस्य न वा सहचारिणः अनुकरणं भवितुमर्हति । वेशभूषानुभावानामेवानुकरणसम्भवात् । समुद्रलङ्घनाद्युत्साहस्य मानसिकप्रत्यक्ष तु साधारणमनुष्यस्य कथं कथमपि न भवितुमर्हति । वास्तविकं तु नटः स्ववेशभूषायां तन्नायकस्थितेः साधारणरूपेण धारणं करोति । अनुमाने चित्रतुरगादिन्यायानुसारणेना सत्याधारात्सत्यं प्रतिष्ठापयितुकामोऽयं बालकानां यथाकथञ्चित् प्रतीयते भवेन्नान्येषां मृगतृष्णाजलेन न कस्यापि पिपासाशान्तिः स्नानं वा सम्भवितुम् अर्हति। अथ चानुमानं बद्धेः विषयो व्यवहितञ्च । अन्यस्य रतिरन्यं कथा सङ्गच्छत्। तथाभावे रसानुमितिः कथम् ?

भट्टनायकस्य भुक्तिवादः[सम्पादयतु]

रसविषये भक्तिवादस्य परिपोषकोऽयम्। काव्यादिद्वारा रसनिष्पत्तौ व्यापारत्रयमामनन्ति । तत्र प्रथमाभिधा, यया शब्दार्थयोः ज्ञानं भवति, भावकत्वव्यापारः येन विभावादयो रत्यादिस्थायिभावाश्च साधारणीकृताः सन्तः 'परस्य न परस्य मम न मम' इत्यादि बन्धनान्मुक्ता उपभोगयोग्याः भवन्ति । सीता जनकतनया रामकान्ता भूत्वा साधारणतया रमणीमात्र व्यपदेशयोग्या भवति । अयमाचार्यो भोगव्यापारं भोजकत्वमिति कथयति । नाटके च नोक्तव्यापारत्रयं किन्त्वाद्य द्वयमेव । भोजकत्वव्यापारेण हि रजस्तमसी अभिभूय सत्त्वस्योद्रेकः भवति । चित्तवृत्तिनां शान्ततया स एवानन्दस्य कारणं भवति । मतमिदं साङ्ख्यमतस्य अनुकूलम् । एवञ्च रससूत्रस्थ 'संयोगात्' इत्यस्य 'भोज्यभोजकभावसम्बन्धात्' 'निष्पत्तिः' इति, अस्य भुक्तिरित्यर्थः । तथा चोक्तं काव्यप्रदीपे – तस्मात् विभावादिभिः संयोगात् भोज्यभोजकभावसम्बन्धात् रसस्य निष्पत्तिरिति सूत्रार्थः । केचिदेतन्मतानुसारिणस्तु संयोगादित्यस्य साधारणीकृत विभावादिभिः सह सम्यग् योगादित्यर्थं निरूपयन्ति ।

मतसारांशः[सम्पादयतु]

भट्टनायकस्येयमेव विशेषता यदेतेन स्वमनस्येवं चिन्तितं दुःखेन कथं सुखमिति ? नायकादिविभावेषु सामाजिकानाम् आनन्दावाप्त्यर्थम् अभिधादिव्यापारत्रयमङ्गीकृतम् । तत्र भावकत्वद्वारा निजपरादिभेदं दूरीकृत्य तद्भागस्य पूर्तिर्भवति । एतन्मतानुसारेण काव्यनाटकादौ विभावादयोऽभिधाद्वारा बोधगम्या भवन्ति। तदनन्तरं विभावादयो भावकत्वद्वारा निजपरबन्धनाद्विमुच्यार्थात् साधारणीकृताः सन्तः सहृदयोपभोगयोग्या भवन्ति ।

मतसमीक्षा[सम्पादयतु]

मतेऽस्मिन् भावकत्वभोजकत्व-व्यापारद्वयकल्पने मानाभावात् व्यापारद्वयमपि व्यञ्जनायामेवान्तर्भावयन्त्यभिनवगुप्तपादाः। तदुक्तं ध्वन्यालोकलोचने -

"त्र्यंशानामपि भावनायां कारणांशे ध्वननमेव निपतति । भोगोऽपि न काव्यशब्दे क्रियते अपितु........ लोकोत्तरो ध्वननव्यापार एव मूर्धाभिषिक्तः इति ।

अभिनवगुप्तस्य अभिव्यक्तिवादः[सम्पादयतु]

भरतसूत्रव्याख्यानविषये व्यञ्जनावादिनोऽभिनवगुप्तस्यैवान्तिमं मतम् । रसशास्त्रालङ्कारशास्त्रयोर्मध्ये मतमिदं दार्शनिकमनोवैज्ञानिकाधारभित्तिहेतुनात्यधिकं प्रसिद्धत्वमुपगतम् । अयमभिनवगुप्तो व्यञ्जनावादी तथा ध्वनिवादी आलङ्कारिकः । आनन्दवर्धनद्वारा प्रतिष्ठापितसिद्धान्तानुसारेणायं रसं ध्वनेरेवैकं प्रमुखभेदमर्थात् रसध्वनिं स्वीकरोति । अत एव रसो व्यङ्ग्यः, अभिधावृत्तित्रयागम्यः केवलं व्यञ्जनावृत्तिद्वाराऽभिव्यक्तो भवति । काव्यनाटकादिषु प्रयुक्ता विभावादयो रसव्यञ्जका रसश्चाभिव्यङ्ग्यः । इत्त्थमभिनवगुप्तपादोऽयं रसविभावादिषु परस्परं व्यङ्गयव्यञ्जकभावं स्वीकरोति ।

मतसारांशः[सम्पादयतु]

( १ ) रसनिष्पत्तिः (रसाभिव्यक्तिः) सामाजिकेषु।

( २ ) सामाजिकेषु स्थायीभावो वासना वा संस्काररूपेण स्थिरतया तिष्ठति।

( ३ ) साधारणीकृतविभादिद्वारा स्थायीभाव उद्बुद्धो भवति । विभावादि संयोगादव्यक्तरूपेणाभिव्यक्तो भवति, यथा जलबिन्दुपतनेन मृत्तिकायाः गन्धस्याभिव्यक्तिर्भवति तद्वत् ।

( ४ ) काव्यादीनां पाठो नाटकानामभिनयः सहृदयानां स्थायीभावस्य जागृतिसाधनम् । पाठकदर्शकयोः स्वोद्बुद्ध-स्थायीभावस्य शुद्धरूपे तन्मयतया चित्तवृत्तीनामेकाग्रत्वात्, ब्रह्मानन्दसहोदराखण्डस्यानन्दप्राप्तिर्भवति ।

( ५ ) रससूत्रस्थस्य ‘संयोगादित्यस्य व्यङ्ग्यव्यञ्जकभावात्' निष्पत्तिरित्यस्य च ‘अभिव्यक्तिरित्यर्थः । एतन्मतानुसारेण सामाजिकहृदयेषु वासनारूपेण स्थितो रत्यादिस्थायीभावो विभावादिद्वारा व्यङ्ग्यव्यञ्जकभावेन तथाभिव्यक्तो भवति, यथा मृद्गन्धाभिव्यक्तिर्भवति जलबिन्दुसम्पर्कात् । अस्यां दशायां सहृदय-आनन्दघनस्यानुभवं करोति । योगवद्रससन्ततिं प्रमिणोति । द्वयोरपि दर्शनयोर्मध्ये पूर्णानन्दस्यानुभवो भवति । अभिनवगुप्तस्येयं तुलना शैववेदान्तस्य विमर्शावस्थया सञ्जायते, यत्र साधकः ‘शिवोऽहम्' इत्यस्यानुभवं करोति । रसानुभूतिश्चालौकिकः । प्रपाणकरसवदास्वादोऽत्र विभाव्यते । तत्र साधारणीकरणस्यैव प्रभावः । वैयक्तिकरागद्वेषादीनां लोपात् साधारणीकरणकारणेनैव रसानुभूतिर्भवति ।

अस्यां दशायामवस्थितये चात्यावश्यकमिदं यद्विभावादयः स्वस्ववैयक्तिकरूपं परित्यजेयुः, अथ च सामाजिका अपि स्वस्य निर्वैयक्तिकत्वमवश्यं धारयेयुः। तस्मिन्समये रामसीतादयः स्वव्यक्तित्वं परित्यज्य केवलं नायकनायिका-रूपेणास्मत्समक्षे आयान्ति । अथ च वयं तत्र रसानुभवकर्त्तारो भवामः । इत्थं विभावादयः केवलं विषयमात्रं, सामाजिकाश्च केवलं विषयि-मात्रमवतिष्ठन्ते इदमेव साधारणीकरणम् । एतस्य जन्मदाता भट्टनायक एवेतिर निरूपितम् ।

काव्यरसो न प्रणालिकया प्रवहति, नापि ईक्षुरसवन्नीपीडितो भवति किन्तु काव्यगतविभावादिद्वारोबोधितो रजोगुणतमोगुणविमुक्तः सत्वगुणप्रधानात्मप्रकाशेन प्रकाशमानः सहृदयवासनागतस्थायीभावस्य आस्वादजन्यानन्दः । व्यक्तिगतसंस्कारो हि साधारणीकृतो भूत्वा शीशकाक्षररूपोऽथवा तदाधाररूपः सजायते । शीशकाक्षरं व्यक्तिसाधारणयोः मध्यवर्त्तिवस्तु । एतदाधारमिलनहेतुनाखण्डचिन्मयात्मप्रकाशेऽपि वीरशृङ्गारादीनां भेदा अवलोक्यन्ते । स चानन्दः यतः प्रसरति चित्तं व्याप्नोति, अतो 'रस' पदव्यपदेश्यो भवतीति बोध्यम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. ९/६३/१३ ऋग्वेदे
  2. ११।७।१ तैत्तरीयोपनिषदि
  3. बा० का० २।९
  4. ( १४।२७ )
  5. ध्व० १/५
"https://sa.wikipedia.org/w/index.php?title=रससम्प्रदायः&oldid=460359" इत्यस्माद् प्रतिप्राप्तम्