अलङ्कारशास्त्रस्य इतिहासः
अलङ्कारशास्त्रस्य इतिहासः गुरुतमः वर्तते न कस्या अपि भाषायाः अलङ्कारसाहित्यमद्यापि तज्जेतुं पारयति । कस्याः अपि भाषायाः आलङ्कारिकग्रन्थाः विचारक्षमतायाम् उत शब्दावलीगणनायां विशालतराः न स्युः। अस्यां भाषायां विरचिताः आलङ्कारिकग्रन्थाः स्वसारशालितया इतरभाषाणां ग्रन्थान् सलीले पराभवन्ति । अस्याः भाषायाः काव्यशास्त्रीयेषु ग्रन्थेषु यद्व्यापकत्वं, यद्गभीरत्वं, यद्भिन्नार्थकत्वं, यत्प्रकृष्टत्वं, यन्निशितत्वं यदोजत्वं, यत्सूक्ष्मत्वं यच्च कामधुक्त्वं विद्योतते, न तत्कस्याः अपि भाषायाः आलङ्कारिकग्रन्थेषु सन्निहितमस्ति । संस्कृतभाषायाः निर्दिष्टमलङ्कारसाहित्यं सकलमपि संस्कृतभाषायाः गरिमाणं व्यापकतां सर्वाङ्गीणताचास्मत्पुरत उपस्थापयति।
संस्कृतभाषायाम् अलङ्कारशास्त्रशब्देन अत्र तत्साहित्याङ्गं विवक्षितं यत्र काव्यभेदः तत्स्वरूपतगतानां दोष-गुण-अलङ्कारादीनां निरूपणं क्रियते। काव्यस्वरूपनिरूपणप्रसङ्ग एव तद्विभावादिरूपतया नायिकानां नायकांनाञ्च भेदा अपि प्राप्तनिरूपणा भवन्ति, तेन तदप्यस्य शास्त्रस्याङ्गभावं भजते । शास्त्रमिदं वेदानां, लौकिककाव्यग्रन्थानाञ्च ज्ञानाय नितान्तमपेक्षितम् । इदमेव शास्त्रं प्राग् अलङ्कारशास्त्रनाम्ना व्यवह्रियते स्म, यतः पुरा काव्यजीवनतया अलङ्कारा एव मन्यन्ते स्म । अलङ्कारशास्त्रमपि शास्त्रान्तराणीव परमोपादेयं शास्त्रमस्ति । वैदिकानां लौकिकानाञ्च शास्त्राणां सर्वाङ्गीणतया ज्ञानं तावन्न भवितुमर्हति, यावदलङ्कारशास्त्रस्य ज्ञानं न वर्तते। वेदवेदाङ्गादिषु उक्तम् अस्ति -
प्रपर्वतानामुशतीं उपस्थादश्वे इव विषितेहासमाने।
गावेव शुभ्रे मातरारिहाणे विपाट्छुतुद्री पयसा जवेते॥ [१]
अभ्रातेव पुंस एति प्रतीची गर्त्तारुगिव सनये धनानाम्।
जायेव पत्य उशती सुवासा उषाहस्रेव विरिणीते अप्सः॥ [२]
अत्र शृङ्गार-वात्सल्यरसयोः अभिव्यक्तिः, माधुर्यगुणस्योत्कर्षः, उपमालङ्कारस्य चमत्कारश्च दर्शनीयः । अनेन प्रकारेणैव -
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति॥ [३]
अत्र चातिशयोक्तिः विशेषरूपेण दर्शनीया । एवञ्च -
‘उतत्वः पश्यन् न ददर्श वाचम्।।
इत्यादिकानि सन्ति सहस्राणि वाक्यानि एतादृशानि, येषां भावान्नालङ्कारशास्त्रानभिज्ञो ज्ञातुं प्रभवति।
अथ च यो जनः शास्त्रेऽस्मिन् न निष्णातोऽस्ति स व्यञ्जना-प्रतिपाद्यमानान् अर्थानपि नावबोधुं शक्नोति । एवं स्थिते तस्य गतिस्तेषु स्थानेषु केन प्रकारेण स्यात्, यानि व्यङ्गयार्थविलसितानि व्यञ्जकपदावलिपेशलानि च स्थलानि विद्यन्ते। तस्मादलङ्कारशास्त्रस्य अनिवार्यत्वेनाध्येतव्यतापेक्षते । शास्त्रस्यास्यानेकविशिष्टताः विलोक्यैव राजशेखरः शास्त्रमिदं वेदाङ्गमिव मन्यते । स ब्रूते -
“उपकारकत्वादलङ्कारः सप्तममङ्गमिति, ऋते च तत्स्वरूपपरिज्ञानादेव अर्थानवगतिः" इति।
सः साहित्यशिक्षां स्वतन्त्रविद्यामेव न मन्यते, अपि तु तर्कत्रयीवार्तादण्डनीतिनामधेयानां चतसृणामपि विद्यानां निष्यन्दमवगच्छति । स्वकीयायां काव्यमीमांसायां लिखति सः
‘पञ्चमी साहित्यविद्या इति यायावरीयाः, सा हि चतसृणामपि विद्यानां निष्यन्दः।"
शब्दार्थकाव्य-स्वरूप-रस-गुण-रीति-दोष-ध्वनि-भाव-अलङ्कारादीनां विषयाणां निरूपणं प्रतिपादनम् उत शास्त्रस्यास्य प्रयोजनम् । रसास्वादनं किं वा ‘सद्यः परनिवृत्तिः'–इत्येतद्धि तज्जीवनस्य प्रमुखं लक्ष्यमतः यः कोऽपि वेदादिशास्त्रीय मर्म सर्वविधतयाधिजिगमिषति; किं वा आत्मकल्याणकामनया यद्वा यशोऽर्थसमवाप्तीच्छया अथवा लोकव्यवहाराभिज्ञतावगमनवाञ्छया आहोस्वित् मनः परितोषणाकाङ्क्षया वा अमङ्गलविनाशनलालसया काव्यं चिकीर्षति तत्र च शब्दार्थयोर्मध्ये सौन्दर्यमाधित्सति तस्य कर्त्तव्यमाद्यमिदं यदसावस्मिन्नेव साहित्यशास्त्रं शरणं गच्छेत् । वस्तुतस्तदलङ्कारशास्त्रमहिम्नो गानं केन विधिना कार्यं येन पुसां गिरो धूयन्ते । नमो नमः अलङ्कारशास्त्रवाङ्मयाय ।
अन्यशास्त्रेतिहासानां विलोकनेन प्रतीयते यत्तानि साहित्यानि परिस्थितावनुकूलायामूदयन्ते, जगति कियन्तं कालं यावदग्रेसरन्ति, किञ्च परिस्थितिवैषम्ये प्रवाहः शिथिलीभवति, स चायं दोषः शास्त्रमिदं न स्पृशति । वेदानां रचनायां जातायां तद्व्याख्यानभूता ब्राह्मणग्रन्था अरच्यन्त, ब्राह्मणग्रन्थेभ्यः पश्चाद् आरण्यकानि, तदनन्तरम् उपनिषदः, ततो रामायणं महाभारतं पुराणानि च । सेयं परम्परा कियता स्वरूपविपर्ययेण सह काव्य-नाटक-गद्य-चम्पू-कथा-स्मृति-तन्त्रादिनिर्माणविधयाचिरमन्वर्तत । सेयं संस्कृतसाहित्यस्य अविच्छिन्ना परम्परा न्यूनान्न्यूनमष्टसहस्रसंवत्सरेभ्यः समायातीति नितान्तसत्यं वचः । नास्ति विश्वस्मिन् किमपि साहित्यमन्यद् यदविच्छिन्नधारमियन्ति दिनानि जीवित समर्थयेत । अतिव्यापकं च संस्कृतालङ्कारशास्त्रम् । इदं सर्वाङ्गपूर्णं यतोऽत्र मानवजीवनोद्देश्यभूताः धर्मार्थकाममोक्षाख्यश्चत्वारोऽपि पुरुषार्थाः काव्यरूपेण विवेचिताः । अतिमहत्त्वपूर्णमपीदमलङ्कारशास्त्रम् । इदं प्राचीनतायां निजविशिष्टतायाञ्च सर्वातिशायीति पूर्वमावेदितमेव ।
अलङ्कारशास्त्रस्योपयोगिता
[सम्पादयतु]भाषायां व्युत्पत्तिविवर्धनाय यथा व्याकरणशास्त्रमपेक्ष्यते तथैव काव्ये नैपुण्यायालङ्कारशास्त्रमपि । अलङ्कारशास्त्रं विना केवलं काव्ये नैपुण्यमेव न सम्पद्यते अपि तु वाक्यदोषदृष्टिरपि नोत्पद्यते । यः खलु अलङ्कारशास्त्रज्ञानरहितो व्याकरणादिकं जानन्नपि -
'चिन्तारत्नमिव च्युतोऽसि करतो धिङ्मन्दभाग्यस्य मे।' [४]
एवम् -
‘गुणैरनर्घ्यै प्रथितो रत्नैरिव महार्णवः।'[५]
इति चानयोस्तुल्येऽपि, उपमानोपमेययोलिङ्गभेदे पूर्वं दुष्टं न परमिति सः कथं जानीयात् । अत्रोपमेये पुंसि च्युत इति वाच्यो धर्मः, उपमाने चिन्तारत्ने त च्युतमिति लिङ्गविपरिणामेन प्रतीयमानो धर्मः । तथा चात्र च्युत इति साधारणधर्मः पुंस्त्वविशिष्टे, उपमेयमात्रेऽन्वेति न तु नपुंसकत्वविशिष्टे, उपमाने विशेष्यविशेषणभावान्वये समानलिङ्गवचनयोस्तन्त्रत्वादिति वाच्यधर्मविशिष्ट-प्रतीयमान-धर्म-विशिष्टयोरुपमेयोपमानत्वप्रतीतिः भग्नप्रकमत्वमेव । अनेनैव प्रकारेण गुणैः अनर्घ्यैः इत्यत्र उपमेयोपमानवाचकयोः गुणरत्नशब्दयोः लिङ्गभेदेऽपि, अनर्घ्यैरिति साधारणधर्मवाचकपदस्य तृतीयाबहुवचनान्तस्य लिङ्गद्वयेऽपि तुल्यरूपत्वान्न भग्नप्रकमत्वदोषः । एवमनयोस्तुल्येऽपि, उपमानोपमेययोः लिङ्गभेदे पूर्वं दुष्टं न परमिति स कथं जानीयात् । एवम् - 'जघनकाञ्च्यादिपदकर्णावतंसादिपदयोः'[६], अवशिष्टेऽपि पौनरुक्त्ये पूर्वं दुष्टं परमदुष्टमिति । तस्माद् एतदपि शास्त्रं व्याकरणादिवत् अवश्यम् अध्येतव्यकोटौ अन्तर्भाव्यं भवति।
एतच्च शास्त्रं वैदिकलौकिक-ग्रन्थानां पूर्णज्ञानाय अत्यन्तम् आवश्यकम्। नैतद्विना पूर्णरूपेण अर्थावगतिः। वचसः व्यङ्ग्यार्थविलसितत्वम् उत व्यञ्जकपदावलिपेशलत्वम् अलङ्कारशास्त्राधीनं भवति । शास्त्रमिदं वस्तुतः 'चलनी' वर्तते । यथा चलनी वस्तु निर्मलं करोति, तद्द्वारेण तृणकणादिका दूरीक्रियन्ते। अत एव अलङ्कारशास्त्रस्य निम्नानुसारम् उपयोगिता वर्तते।
अलङ्कारशास्त्रस्य अंशशः उपयोगिता
[सम्पादयतु]१) अलङ्कारिको विचक्षणः अपशब्दान् अपसार्य स्वकीयं वाक्यं व्यङ्गयार्थबोधकं करोति
२) अपरस्य वाक्ये सुशब्दललितं विद्यते इति परीक्षति।
३) स्वयं सुशब्दललितं गृह्णाति।
४) एतस्य साहाय्येन यथार्थमर्थम् उपस्थापयति।
५) सुशब्दप्रयोगे यथार्थार्थावगमनं प्राप्नोति।
६) शब्दार्थयोर्मध्ये ऐक्यभावनायाः निर्माणं जानाति ।
७) तस्याः ऐक्यभावनायाश्च फलमिदं मधुरं समुत्पद्यते यत्, अलङ्कारशास्त्रज्ञाता सुधीरनुभवतीदं यत्तस्य वस्तुभिः सर्वैः सार्धम् ऐक्यमेव न सः किञ्च वस्तु भिन्नभिन्न-पदार्थस्तद्वयमपि वस्तुतः एकमेवाऽभिन्नमेव इति अवगच्छति।
८) यत् स तदेव वस्तु, यद्वस्तु तदेव स इत्येतेन ऐक्यानुभवनं भवति स ब्रह्मज्ञानवान्।
९) एतस्य ब्रह्म आस्वादसहोदरस्य परमपदलाभस्य साधनभूतं यद् अलङ्कारशास्त्रमस्ति तस्याध्ययनम् अतः अवश्यमेव कर्तव्यम्।
१०) यस्मिन् खल्ववगते काव्यस्य निर्माणे स्वरूपदोषगुणालङ्कारादिनामवधारणे च शक्तिरुन्मिषति तदलङ्कारशास्त्रम् । शब्देन सह तादात्म्ये सति शब्दस्य परब्रह्मभूतेन अर्थेन सहापि तादात्म्यं भवितुं शक्नोति इत्येतस्मादपि अलङ्कारशास्त्रस्य ज्ञानं ग्राह्यमस्ति।
११) प्रसङ्गानुसारोपितशब्दप्रयोगस्य यथायथबोधनिमित्तेन च अलङ्कारशास्त्रं पठनीयम् ।
१२) यावच्छब्दार्थयुगलस्य समीचीनतया ज्ञानं न जायते तावन्न श्रुतेन वा लिखितेन वाक्येन किमपि कार्यं सिद्धयति । वस्तुतः तदनवगतार्थं वाक्यन्तु तिरश्चां वच इव निरर्थकमेव । अतः सिद्धमिदं यद्रमणीयार्थप्रतिपादकस्य शब्दस्य सुप्रयोगाय अलङ्कारशास्त्रज्ञता काङ्क्षते इति।
अलङ्कारशास्त्रस्य प्राचीनता
[सम्पादयतु]साहित्यप्रतिपाद्यमलङ्कारमधिकृत्य -
‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषष्वजाते।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति॥'[७]
‘यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्त्वरन्ति।
इतो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्राविवेश॥'[८]
‘इयुषी रागमुपमा शाश्वतीनाम्।[९]
‘तदप्युपमाऽस्ति'[१०]
इत्यादिना अलङ्काराणां वेदे विद्यमानत्वात् अन्यशास्त्रवद् अलङ्कारशास्त्रस्याऽपि वेदोपजीवकत्वम् अङ्गीकरणीयम्। ततः एव साहित्यमूलस्य वेदाङ्गोपांङ्ग-समानकालिकत्वं च प्रतिपत्तव्यम् ।
आग्नेये तु श्रव्यदृश्ये उभे अपि काव्ये सम्यग् व्युत्पादिते किन्त्वेतत् प्राचीनतायामाधुनिकगवेषकसमीक्षया पर्याप्तसन्देहः समुदेति ।
नाट्यस्य उत्पत्तिः ब्रह्माद्वारा त्रेतायुगे समभूत्, यतो हि सत्ययुगे जनानां मनोरञ्जनसाधनस्य आवश्यकता एव नासीत् । त्रेतायुगे देवाः ब्रह्माणमुपगम्य तं प्रार्थितवन्तः यत्, तादृशवेदस्य विधेहि रचनां यया शुद्रा अपि अनुशीलिताः सन्तो निःश्रेयस-भागिनो भवेयुरिति एतन्निशम्य चतुर्भ्यो वेदेभ्यः सारमादाय पञ्चमनाट्यवेदं रचितवान् प्रजापतिः । इदमेव भगवता भरतेन तु स्पष्टम् आम्नातम् -
‘जग्राहपाठ्यमृग्वेदात्सामभ्यो गीतमेव च।
यजुर्वेदादभिनयान् रसानाथर्वणादपि॥'[११]
राजशेखरेण काव्यमीमांसायाम् एतच्छास्त्रस्य प्राचीनता प्रमाणिता । तदनुसारेण शास्त्रमेतदुपदिष्टवान् भगवान् शङ्करो ब्रह्मणे, तदनन्तरं ततो देवोदय ऋषयश्च शिक्षिताः । अष्टादशोपदेशकद्वारा चैतस्य शास्त्रस्य अष्टादशाधिकरणेषु रचना सञ्जाता ।
१) तत्र दृश्यकाव्यस्य निरूपणं भरतेन कृतम् ।
२) नन्दिकेश्वरेण रसस्य,
४) उपमन्युना गुणस्य निरूपणं कृतमिति ।
तथ्यमिदमस्ति न वेति अत्र समालोचका एव प्रमाणम् । काव्यादर्शात्पूर्वं काश्यपवररुचिभिः अलङ्कारग्रन्थाः निर्माता इति तद्धृदयङ्गमानामकटीकातोऽवगम्यते । श्रुतानुपालिनीटीकायाम् अपि दण्डिनः पूर्वालङ्कारिकेषु काश्यपब्रह्मदत्तनन्दस्वामिना नामान्युद्धृतानि विद्यन्ते ।
परन्त्वेतैः निर्मिताः ग्रन्थाः नेदानीन्तनसमये समुपलभ्यन्ते प्रेक्षकाणां पुरतः । द्वितीय-शतकशिलालेखतः स्पष्टं प्रतीयते यद्, अस्मिन्समये अलङ्कारशास्त्रस्य उदयः समभूदेव । रुद्रदामन् शिलालेखे तु भाषालङ्कारपूर्णा नास्ति, किन्तु अलङ्कारशास्त्राणां कतिपयसिद्धान्तस्य निर्देशस्तत्र विद्यत एव ।
पाणिनिना ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' कर्मन्दकृशाश्वादिनिः' इति सूत्राभ्यां शिलालिकृशाश्वद्वारा निर्मितनटसूत्रविषये निर्देशो विहितः । एतत्पूर्ववत्तना यास्केन स्वनिरुक्ते विविधोपमानां निरूपणमध्ये कर्मोपमायाः लक्षणं विहितम् -
‘यथा वासो यथा वनम् यथा समुद्र सृजति'[१२]
पूर्ववत्तनाऽपि गाग्र्येण उपमायाः वैज्ञानिकं लक्षणमुपनिबद्धम् -
‘उपमा यत् अतत् तत्सदृशम्'[१३] इति ।
निरुक्ते च उपमाविषये बहूनि उदारणानि प्रदर्शितानि सन्ति । इत्थञ्च सिद्धत्यस्य नितरां प्राचीनत्वमिति ।
संक्षेपतः आस्तां प्राचीनाः कथा द्वितीयशतकस्य शिलालेखास्तत्काले अलङ्कारशास्त्रस्य उदये साक्षिणः। रुद्रदाम्नः शिलालेखस्य केवला न अलङ्कारपूर्णा अपि तु तत्र अलङ्कारशास्त्रसिद्धान्तानां निर्देशोऽपि प्रायते। हरिषेणः समुद्रगुप्तं प्रतिष्ठितकविराजशब्दं लिखित्वा अलङ्कारशास्त्रस्य सद्भावं व्यञ्जयति । पाणिनिसूत्रेषु कृशाश्वशिलालिभ्यां निर्मितानि नाटयशास्त्रीयसूत्राणि स्मर्यन्ते पाणिनेरपि पूर्वकालिको गार्ग्यः उपमां साधु लक्षितवान्। निरुक्तेऽपि उपमाया उदाहरणतयाऽनेके मन्त्रा उद्धृताः । तदित्थम् अलङ्कारशास्त्रस्य प्राचीनता प्रमाणिता भवति इति मन्यते।
अलङ्कारशास्त्रस्योद्गमः
[सम्पादयतु]भारतेऽलङ्कारशास्त्रस्य उत्पत्तिः कदाऽभवत् ? किमुपादानं गृहीत्वा अलङ्करारशास्त्रस्योदयो जातः? प्रश्नोऽयं जटिलः । अनेकविद्वद्भिरस्य मीमांसा कृता। अस्य उत्पत्तिमधिकृत्य काव्यमीमांसाकारो राजशेखरो यामाख्यायिकां समुपस्थापयति। सा कथयति यत्, श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः उपदिदेश । एतेन कथनेन शास्त्रस्यास्याविर्भावो भगवतः शङ्कराद् बभव इति ज्ञायते। तदनन्तरं ततो देवादय ऋषयश्च शिक्षिताः । अष्टादशोपदेशकद्वारा चैतस्य शास्त्रस्य अष्टादशाधिकरणेषु रचना सञ्जाता तद्यथा -
अथातः काव्यं मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठि वैकुण्ठ्यादिभ्यश्चतुःषष्टये शिष्येभ्यः । सोऽपि भगवान् स्वयम्भूरिच्छाजन्मेभ्यः स्वान्तेवासिभ्यः । तेषु सारस्वते यो वन्दीयसामपि वन्द्यः काव्यपुरुष आसीत् । तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हितकाम्यया प्रजापतिः काव्यविद्यां प्रवर्तनाय प्रायुक्त । सोऽष्टादशाधिकरणीं दिव्येभ्यः काव्यविद्यां स्नातकेभ्यः सप्रपञ्च प्रोवाच ।[१४]
तत्रैव पुनः राजशेखरो वदति -
तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकम् उक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेताः, यमकं यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पाराशरः, अर्थश्लेषम् उतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रूपकनिरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणौपादानिकम् उपमन्युः, औपनिषदिकं कुचमारः इति । ततस्ते पृथक् पृथक् स्वशास्त्राणि विरचयाञ्चक्रुः ।'[१५]
क्रमः | अधिकरणम् | रचयिता |
१ | कविरहस्यं | सहस्राक्षः |
२ | औक्तिकम् | उक्तिगर्भः |
३ | रीतिनिर्णयं | सुवर्णनाभः |
४ | आनुप्रासिकं | प्रचेताः |
५ | यमकं | यमः |
६ | चित्रं | चित्राङ्गदः |
७ | शब्दश्लेषं | शेषः |
८ | वास्तवं | पुलस्त्यः |
९ | औपम्यम् | औपकायनः |
१० | अतिशयं | पाराशरः |
११ | अर्थश्लेषम् | उतथ्यः |
१२ | उभयालङ्कारिकं | कुबेरः |
१३ | वैनोदिकं | कामदेवः |
१४ | रूपकनिरूपणीयं | भरतः |
१५ | रसाधिकारिकं | नन्दिकेश्वरः |
१६ | दोषाधिकरणं | धिषणः |
१७ | गुणौपादानिकम् | उपमन्युः |
१८ | औपनिषदिकं | कुचमारः |
परमेतादृशीषु आख्यायिकासु न साम्प्रतिको वैज्ञानिकः कालः श्रद्धते । काव्यसौन्दर्यस्य आधायकानि यानि गुणरीतिध्वन्यलङ्कारादितत्त्वानि अलङ्कारशास्त्रं विविनक्ति तानि सर्वाण्यपि तत्त्वानि मूलतो वेदेषु प्राप्तानि भवन्ति । तस्माद् अलङ्कारशास्त्रमपि स्वोत्पत्त्यर्थम् उपादानानि, सामग्रीं वा वेदेभ्य एव लेभे इत्येतदेव सत्यमस्ति ।
वेदः स्वयमेव 'अमरकाव्यम्' इत्येतेन नाम्ना भुवनविदितः -
१) ‘पश्य देवस्य काव्यं न ममार न जीर्यति ।”
२) ‘अग्निवश्वानि काव्यानि विद्वान्'[१६]
३) “आदेवानामभवः केतुरग्ने मन्द्रोविश्वानि काव्यानि विद्वान्'[१७]
४) “तं गाथया पुराण्या पुनानभ्यनुषत"[१८]
एवं स्थिते साहित्यशास्त्रस्य जन्मदात्री श्रुतिमाता एव सिद्धयति । इदन्त्ववश्यं वेदवेदाङ्गादिषु केवलं साहित्यशास्त्रस्य अलङ्कारशास्त्रस्य वा तत्त्वानि समुपलभ्यन्ते न च तानि शास्त्राणि प्रत्यक्षतयाऽप्रत्यक्षतया वा तस्य शास्त्रीय-निरूपणं कुर्वाणानि दृष्टानि जायन्ते । तदीयं शास्त्रीय-निरूपणन्तु भरतमुनिसमयात् प्रारब्धं भुवति।
भरतात् काव्यविद्यायाः शास्त्रनिर्माणारम्भः
[सम्पादयतु]पौराणिकवंशक्रमानुसारेण भरतो व्यास-वाल्मीकिभ्यां पश्चाद्वर्ती भवन्नपि इतरेभ्यः समेभ्यः संस्कृतभाषायां लेखकेभ्यः प्राचीनः प्रतीयते । भरतकृतस्य नाटयशास्त्रस्य राहुलककृता टीका अभिनवगुप्तेन स्मर्यते। राहुलकस्य नाम तमिलमहाकाव्ये 'मणिमेकलये' (Manimekalai) समायातम् । 'मणिमेकलये' नामकस्य तस्य तमिलग्रन्थस्य रचनाकालः चतुर्थशताब्दी ई० पू० मन्यते, अतो भरतस्य तत्पूर्वकालिकता समायाति। भरतस्य प्राचीनाष्टीकाकारा एव अतिप्राचीनास्तस्य प्राचीनतरतां साधयन्ति। कालिदासोऽपि भरतं स्मरतीति तदप्यस्य प्राचीनतां प्रमाणयति।
भरतद्वयं प्रथमे – एको वृद्धभरत आदिभरतो वा, अपरो भरतः । वृद्धभरतस्य कृतिः द्वादशसाहस्रीशब्देन व्यवहृता, भरतस्य कृतिश्च शतसाहसी शब्देन । भरतस्य प्राचीनतयैव तं मुनिमाहुः ।
सम्प्रति उपलभ्यमानं नाट्यशास्त्रं भरतस्य कृतिः । इदं क्वचित् ३६ अध्यायात्मकं, क्वचिच्च ३७ अध्यायात्मकं कथ्यते । मन्यते यत्, लेखकप्रमादात् कोप्यध्यायो विभक्तः स्यात् । अभिनवगुप्तः स्वीयायां भरतसूत्रस्य टीकायां सप्तत्रिंशतोऽध्यायांल्लिखितवान् ।
नाट्यशास्त्रे त्रयोंऽशाः विद्यन्ते-
१. सूत्रं भाष्यञ्च - अयमंशः प्राचीनतमः ।
२. कारिका - मूलाभिप्रायं बोधयितुं कारिका व्यरच्यन्त,
३. अनुवंश्यश्लोकाः - इमे श्लोकाः भरतादपि प्राचीनैराचार्यैः रचिता स्वमतं प्रमाणयितुं भरतेनोपन्यस्ताः इत्युक्तमभिनवगुप्तेन ।
भरतो रससम्प्रदायस्य आचार्यः । एतन्मते नाटकेषु रस एव प्रधानम् । अलङ्कारास्त्वनेन प्रसङ्गतो निरूपिता ६, ७, १७ अध्यायेषु ।
अनेन प्रकारेण भरतमुनेः समयमधिकृत्य विदुषां सन्ति भिन्नभिन्नानि मतानि। तस्य भरतस्य कालो विक्रमात् प्राग्वर्तिशतकद्वयमारभ्य तदर्वाग्व शतकद्वयं यावत् यो विद्यते तस्यान्तराले सुधीभिः प्रायेण विचिन्त्यते । अलङ्कारशास्त्रस्यातः निर्माण प्रारब्धन्त्वभूत् भरतसमयात् परं तन्निर्माणस्य अवसानं हि ईशवीयाष्टादशशतकेऽभवत् । तस्येतिहासः वर्षाणां सहस्रद्वयमभिव्याप्य विततः संल्लक्ष्यते ।
व्याकरणशास्त्रेव अलङ्कारशास्त्रस्य विवेचनम्
[सम्पादयतु]तत्र तत्रान्यग्रन्थदर्शनेन निश्चीयते यद् इदमलङ्कारशास्त्रं व्याकरणशास्त्रान्तःपात्येवेति । साहित्यदर्पणस्य द्वितीयपरिच्छेदे - “सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ।” इति कारिकया तत् वृत्तिग्रन्थे च वैयाकरणसम्मतोज्यात्यादिरिति पक्षः स्वाभिमतत्वात् ग्रन्थकृता प्रदशतः । किञ्च साहित्यदर्पणस्य दशमपरिच्छेदे विद्यमानं विरोधालङ्कारविभाजकं “जातिश्चतुर्भिजात्याद्यै'रितिकारिकया जात्यादिरिति पक्ष एव ग्रन्थकारेण प्रदर्शितः ।
यदिदमलङ्कारशास्त्रम् वैयाकरणमतानुयायि न स्यात्, किन्तु मीमांसकमतानुयायि नैयायिकमतानुयायि वा स्यात्तदा मीमांसकादिमते पदार्थचतुष्टयाभावेन दशानां विभागानुपपत्तौ ‘असौ दशाकृतिः' इति दशत्वसंख्याकथनपूर्वकं तत्कारिकोद्धरणमेवासंगतं स्यात् ।
'क्षीरोदजा वसति जन्मभुवः प्रसन्नाः' इत्यादि सप्तमपरिच्छेदीयक्लिष्टपदोदाहरणमपि वैयाकरणमतानुसार्येव, अन्यथा ‘सुप्तिङन्तं पदम्'[१९] इति पाणिनिमुनिप्रणीतं पदलक्षणमनादृत्य 'शक्तं पदम्' इति पदलक्षणमङ्गीकुर्वतां समासे शक्त्यभावं च वदतां नैयायिकादीनां मते 'क्षीरोदजा' इत्यादौ शक्त्यभावात् पदत्वाभावेन तस्य पदत्वोदाहरणत्वमनुपपन्नमेव स्यात् । एवं ‘ख्यातिविरुद्धत्वादिकमपि' “आजघ्ने विषमविलोचनस्य वक्षः' इत्यादि।
मम्मटेनाऽपि काव्यप्रकाशे बहुषु स्थलेषु वैयाकरणानां पारिभाषिकशब्दैः व्यवहारः कृतः । यथा - असंगत्यलङ्कारे "अपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः" इति । अत एव च - 'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना” इति सूत्रव्याख्यानावसरे प्रदीपकारैरुक्तम् -
"वैयाकरणमते क्रियैव हेतुरिति क्रियेत्युक्तम् ।
वस्तुतस्तु कारणप्रतिषेधेऽपि विभावना" इति ।
अत एव मम्मटेन दशमोल्लासे, उपमायाः पूर्णालुप्ताविभागो वैयाकरणमतमवलम्ब्य वाक्य-समास-क्विप्-क्यच्-क्यङ्-णमुलादिप्रत्ययविशेष-विषयतया पञ्चविंशति विधो व्युत्पादितः । अतएव च तत्रैव नागोजिभट्टाः प्राहुः -
“वस्तुतोऽयं पूर्णालुप्ताविभागो वाक्यसमास-क्यच्-क्यङ्-आदिप्रत्ययविशेषगोचरतया शब्दशास्त्रव्युत्पत्ति-कौशलप्रदर्शनपरत्वादत्र शास्त्रे न व्युत्पाद्यतामर्हति" इति।
एवं चायं मम्मटो वैयाकरणसिद्धान्तानुसार्येव । नेदमेवाभिनवमलङ्कारशास्त्रं व्याकरणमतानुसारं किन्तु, भामहभट्टोद्भट्टप्रभृतिनिर्मितमपि । काव्यप्रकाशस्य प्रथमोल्लास एव प्रतिपादयति यत्,
‘बुर्धर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः, ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य' इति।
किञ्च साहित्यदर्पणे ‘लिम्पतीव तमोऽङ्गानि' इत्युदाहरणे क्रियास्वरूपोत्प्रेक्षाया वर्णनकर्तृतादात्म्योत्प्रेक्षायाश्च यन्निरसनं कृतं वर्तते तदपि वैयाकरणानां सिद्धान्त इवाऽलङ्कारिकाणां सिद्धान्तेऽपि क्रियामुख्यविशेषकशाब्दबोधम् । अत एव अस्मिन्नेवोदाहरणे तिङन्तपदप्रतिपाद्यस्य कर्तुः उपमायामुपमानतयान्वयः दण्डिना काव्यादर्शे -
'कर्ता यथुपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे ।
स्वक्रियासाधनव्यग्रो नालमन्यद् व्यपेक्षितुम् ॥
इत्यादिना निराकृताः । अतएव 'च वा' इत्यादिनिपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च भर्तृहर्यादिभिरुक्ता । द्योतकत्वञ्च क्वचित्समभिव्याहृतपदीयशक्तिव्यञ्जकत्वमिति वैयाकरणानामप्येतत्स्वीकार आवश्यकः, इत्याकांक्षावादः उक्तवैयाकरणसिद्धान्तमञ्जूषाग्रन्थोऽपि वैयाकरणानामालङ्कारिकाणाञ्च मतैक्यमेव धोतयति । तदेत्समभिप्रेत्येवाभिज्ञाः - 'इदमलारशास्त्रं व्याकरणशास्त्रस्यैव परिशिष्टो भागः' इति वदन्ति । युक्तं चैतत् । अतएव व्याकरणशास्त्रेण साधुत्वेनान्वाख्यातानामपि शब्दानां प्रयोगनियमः प्रयोगनिषेधश्चानेन शास्त्रेण विधीयते । तत्र प्रयोगनियमो यथा -
‘अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा।।[२०]
अत्र ‘कार्त्तार्थ्यमिति श्रुतिकटुशब्दः सहृदयैः, रौद्रादिरसे, एव प्रयोक्तव्यः न तु शृङ्गारादौ रसे' इति । एवं रणितक्वणितशिञ्जितगुञ्जितादिशब्दाः, सप्तमोल्लासस्य २४२ कारिकायां यथाक्रमं मञ्जीररशनाघण्टाभ्रमरादिध्वनिष्वेव प्रयोज्याः, नान्यत्र । तथा 'महाप्रलयमारुतादि' सप्तमोल्लासस्य कारिकायां प्रयुक्ता रवादिशब्दाः मण्डकादिशब्देष्वेव प्रयोक्तव्याः, न तु सिंहनादादाविति । तथैवास्मिन्नेवोल्लासस्य ३०२ कारिकायां प्रयुक्ता अश्लीलादिशब्दाः सुरतारम्भ गोठ्यादेव प्रयोक्तव्याः नान्यत्रेति यथायथं प्रयोगनियमो बोध्यः । प्रयोगनिषेधो यथा 'यथायं दारुणाचारः' इत्युदाहरणे दैवतशब्दः पुंस्याम्नातोऽपि विदग्धैर्न प्रयोज्य इति । एवं कर्णावतंसादिशब्दानां[२१] जघनकाञ्च्यादिशब्दानां[२२] च तुल्येऽपि पौनरूक्त्ये कर्णावतंसादयः प्रण्डितैः प्रयोक्तुं योग्याः, न तु जघनकाञ्च्यादय इति यथायथं प्रयोगनिषेधोऽवगन्तव्यः ।
अत एव च वैयाकरणशिरोमणिना भट्टिकविना तृतीयं प्रसन्नं काण्डं स्वकृतभट्टिकाव्ये प्रवेशितम् । तथा हि भट्टिकाव्यस्य द्वाविंशतिः सर्गाः । ते प्रकीर्ण-अधिकार-प्रसन्न-तिङन्त-काण्डैः चतुर्धाविभक्ताः । तत्र प्रथमे प्रकीर्णकाण्डे व्याकरशास्त्रानुसारेण सामान्यविशेषकार्याण्युदाहृतानि । द्वितीयोऽधिकारकाण्डे पाणिनीयाष्टकान्तर्गताधिकारानुसारेण कार्याण्युदाहृतानि । तृतीये प्रसन्नकाण्डे साहित्यशास्त्रानुसारतः अनुप्रासयमकादिशब्दालङ्कारा माधुर्यादि गुणांश्च सन्दर्शिताः । चतुर्थे तिङन्तकाण्डे सर्वेषु लकारेषु नियतान्यपोहितानि च धातुरूपाणि सङ्कलितानि ।
तद्यदीदमलङ्कारशास्त्रं व्याकरणशास्त्रान्तःपाति न स्यात्तदा व्याकरणार्थनिरूपणैक तात्पर्येऽस्मिन् काव्ये व्याकरणशास्त्रानुसार्युदाहरण-प्रपञ्चप्रदर्शन-प्रसङ्गेऽनुप्रासादीनामलङ्काराणां माधुर्यादीनां गुणानां च प्रदर्शनं किं प्रसङ्गकं स्यात् ?
प्रसन्नकाण्डारम्भे भट्टिकाव्यटीकाकर्ता जयमङ्गलेनापि 'शब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थं प्रसन्नकाण्डमुच्यते काव्यस्य प्रसन्नत्वात्' इत्युक्तम् । स्वयं भट्टिकविनाऽपि द्वाविंशे सगे -
"दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम् ।
हस्तादर्श इवान्धानां भवेत् व्याकरणादृते ।।”
इति पद्येन स्वीयकाव्यस्य साहित्यशास्त्रानुसार्यलङ्कारादिदर्शकस्याऽपि व्याकरणविदेकादरणीयत्वं प्रदर्शितम् । तदेतत्सर्वमभिप्रेत्यैवाभिज्ञाः वदन्ति —
'व्याकरणशास्त्रस्यैव पुच्छभूतमिदं शास्त्रं न तु न्यायादेर्मीमांसादेर्वा शास्त्रस्य'
अत एव न्यायादिशास्त्रे कण्ठरवेणैव निरासितायाः मीमांसादिशास्त्रे नामतोऽप्यश्रूयमाणाया व्यञ्जनाया खपुष्पायमाणतया व्यञ्जकशब्दस्य व्यङ्गयार्थस्य चाभावेनात्र ‘शब्दोऽपि वाचक तद्वल्लक्षकस्य त्रिधा मतः' इति त्रिविधस्य शब्दस्य अर्थो ‘वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति' त्रिधा मतः इति त्रिविधार्थस्य ‘त्रिस्रः शब्दस्य शक्तयः' इति त्रिविधायाः शक्तेश्च प्रतिपादनं सङ्गच्छत ।
नामाभिधानम्
[सम्पादयतु]अलङ्कारशास्त्रं स्वजन्मसमयादेव नितरां लोकप्रियतां गतम् । तस्मादेतत् अलङ्कारशास्त्र-काव्यशास्त्र(काव्यालङ्कार)-साहित्यशास्त्र(साहित्यविद्या)-सौन्दर्यशास्त्र-क्रियाविधिः-क्रियाकल्प-आदिकतिपय-नामभिः ससम्मानं सानुरागञ्च समाहूतमभूत्।
अलङ्कारशास्त्रम्
[सम्पादयतु]आधुनिकेषु सर्वप्रथमोऽलंकारशास्त्रग्रन्थो भामहप्रणीतः काव्याऽलङ्कार एव। अतोऽस्य शास्त्रस्य अलङ्कारशास्त्रनाम्ना प्रसिद्धिः। पुरा काव्यजीवनतयाऽलङ्काराः एव मन्यन्ते स्म । तेनेदमेव शास्त्रं प्रागलकारशास्त्रनाम्ना व्यवह्रियते स्म । सत्यप्यस्मिन् शास्त्रे काव्यस्वरूपरस-दोष-गुण-रीत्यलङ्काराणामपि निरूपणीयत्वेऽस्य अलङ्कारनाम्नैव व्यपदेशस्य बीजं तत्त्वतः प्रच्छन्नमस्ति। तथापि -
‘अलङ्क्रियतेऽनेनेति करणव्युत्पत्तिनिष्पन्नो यमकोपमादिबोधको नायमलङ्कारशब्दः किन्तु ‘‘अलङ्कृतिरलङ्कारः"
इति भावव्युत्पन्नो दोषापगमगुणालङ्कारसंवलनकृतसौन्दर्यपरः, तत्प्रतिपादकत्वादेवास्य अलङ्कारनाम्ना व्यपदेश इति । अत्र मानन्तु ‘काव्यं ग्राह्यमलङ्कारात्’ ‘सौन्दर्यमलङ्कारः' ( अलङ्कृतिरङ्कारः ) ‘सदोषगुणालङ्कारहानोपादानाभ्याम्' इत्यादि वामनसूत्रमेव ।
काव्यालङ्कारसूत्रवृत्तेः कामधेनुटीकायाः लेखकेन गोपेन्द्रतिप्पभूपालेन अलङ्कारशास्त्रनामकरणस्य औचित्ये निजमतं निम्नप्रकारेण प्रतिपादितं -
“योऽयमलङ्कारः काव्यग्रहणहेतुत्वेन उपन्यस्यते तद्व्युत्पादकत्वाच्छास्त्रमपि, अलङ्कारनाम्ना व्यपदिश्यत इति शास्त्रस्यालङ्कारत्वेन प्रसिद्धिः प्रतिष्ठिता स्यादिति सूचयितुमयं विन्यासः कृतः ग्राह्यमलङ्काराद्" इति ।
केचित्तु - प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थान-रूपाणां षोडशपदार्थानां प्रतिपादकमपि गोतमशास्त्रं परार्थानुमानपर्यायस्य न्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधकतया च तत्र शास्त्रे प्रधानत्वेन न्यायशास्त्रमिति व्यपदिश्यते ‘प्राधान्येन व्यपदेशा भवन्ति' इति न्यायात् । तद्वत् दोषगुणादीनां प्रतिपादकमपीदं शास्त्रं यमकोपमादीनामलङ्काराणां भूयोविषयकतया काव्यव्यवहार-प्रयोजकतया चात्र शास्त्रे प्रधानत्वेन तत्प्रतिपादकत्वादेवालङ्कारशास्त्रतयाकाव्यव्यवहारप्रयोजकतया चात्र शास्त्रे प्रधानत्वेन तत्प्रतिपादकत्वादेवालङ्कारशास्त्रमिति व्यपदिश्यते अलङ्काराणां काव्यव्यवहारप्रयोजकत्वञ्च ‘काव्यवृत्तेस्तदाश्रयात्' इति ग्रन्थेन ध्वनिकारोक्तं पञ्चमोल्लासे मम्मटभट्टैरेव प्रतिपादितम् ।
किञ्चालङ्कारशास्त्रमिति व्यपदेशे ये दण्डि-भामह-भट्टोद्भट-रुद्रट-वामनान्ताः प्राञ्चोऽलङ्कारशास्त्रनिर्मातारो बभूवुः, तैः ध्वन्यमानमर्थं वाच्योपकारकतया अलङ्कारपक्षनिक्षिप्तं मन्यमानैः ‘अलङ्कारा एव काव्ये प्रधानम्' इति सिद्धान्तितम् । अतस्तत्समये 'प्राधान्येन व्यपदेशाः भवन्ति' इति न्यायेन तच्छास्त्रस्य अलङ्कारशास्त्रमिति व्यपदेशः सप्रमाणमेवासीत् ।
ततस्तेभ्यः अर्वाचीनैः अन्तस्तत्त्वपरामर्शशालिभिः आनन्दवर्द्धनाचार्यैः ध्वन्यालोकाख्यस्वप्रणीते प्रबन्धे ध्वन्यमानस्य एवार्थस्य गुणालङ्कारोपस्कर्तव्येन मुख्यत्वे व्यवस्थापिते अलङ्काराणां मुख्यत्वाभावेऽपि तत्प्रबन्धस्य चिरन्तनव्यपदेशप्रणाल्यनुसारेणालङ्कारनाम्नैव व्यपदेशः प्रचलितः आसीत् ।
प्रतापरुद्र-यशोभूषण-रत्नापणटीकायां मल्लिनाथस्य पुत्रेण कुमारस्वामिना नामकरणस्यास्यानेन रूपेणौचित्यं प्रदर्शितम् -
‘यद्यपि रसालङ्काराद्यनेकविषयमिदं शास्त्रं प्रतिपादयति, तथापि छत्रिन्यायेनालङ्कारशास्त्रमुच्यते ।'
आनन्दवर्द्धनोऽपि आलङ्कारिकान् काव्यलक्षणविधायिनः कथयति । तद्यथा -
"किञ्च वाग्विकल्पानामानन्त्यात् सम्भवत्यपि वा कस्मिंश्चित् काव्यलक्षणविधायिभिः प्रसिद्धैरप्रदर्शिते' इति।
अत्र ध्वन्यमानस्यैवाऽर्थस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्ये संस्थापिते, अलङ्काराणां प्राधान्याभावेऽपि तत्प्रबन्धस्य प्राचीनव्यपदेश-प्रणाल्यनुसारेण अलङ्कारनाम्नैव व्यपदेश इति प्रचरति स्म । झलकीकरादीनामाचार्याणामपीदमेव मतमस्त्यस्मिन् व्यपदेशे इति ।
काव्यशास्त्रम्
[सम्पादयतु]अलङ्कारशास्त्रस्य पूर्वोक्तार्थे एव काव्यशास्त्रशब्दस्यापि प्रयोगो भवति । काव्यस्य जीवनाधायकरसगुणाऽलङ्कारादीनां सर्वेषां तत्त्वानां निरूपणमस्मिन्नेव भवति । रसगुणादीनां काव्यव्यवहारप्रयोजकत्वं च ‘काव्यवृत्तेस्तदाश्रयात्' इति ग्रन्थेन ध्वनिकारोक्तं पञ्चमोल्लासे मम्मटभट्टैरेव प्रतिपादितम् । व्याख्यातं च तत्रैवोद्योतकारैः "काव्यवृत्तेरिति । काव्यपदवृत्तेरित्यर्थः । रसगुणादिकृतचारुत्वेनैव शब्दार्थयोः काव्यत्वनिर्वाहादिति भावः । एवमेव चक्रवत्तभट्टाचार्यप्रभृतिभिरपि व्याख्यातमिति तत्रैव द्रष्टव्यम् । काव्यस्य सर्वेषामुपकराणां शासनमर्थात् शास्त्रीय-विवेचनमस्मिन् शास्त्रे प्राधान्येन भवति, तेन काव्यशास्त्रमिति व्यपदिश्यते । अनेन लोकव्यवहारज्ञाने सौकर्यं भवति, परवर्त्तिकालेऽपि च लोकयात्रा प्रवर्त्तते । तदित्यै भोजराजैन स्पष्टीकृतम् - यद् विधौ च निषेधे च व्युत्पत्तेरेव कारणम् ।
तद्धेयं विदुस्तेन लोकयात्रा प्रवर्तते ।।[२३]
सत्यपि भेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरभगोचरः विधिप्रतिषेधयोरपि ज्ञानस्य त्रीणि साधनानि सन्ति - काव्यम्, शास्त्रम्, इतिहासः चेति । भोजदेवेन तु -
काव्यं शास्त्रेतिहासौ च काव्यशास्त्रं तथैव च ।
काव्येतिहासः शास्त्रेतिहासस्तदपि षड्विधम् ।।[२४]
अत्रेदं ध्यातव्यमस्ति काव्यमात्रेण काव्यशास्त्रेण च न केवलं विधिनिषेधयोः शासनं भवति, प्रत्युत् अस्मिन् सद्यः परमानन्दस्यानुभूतेः शंसनमर्थात् प्रशस्तप्रतिपादनमपि भवति । अतः वेदान्तशास्त्रे यथा शास्त्रशब्दस्य शासनं मुख्यतः शंसनमेवार्थः क्रियते, तथैव काव्यशास्त्रेऽपि शास्त्रशब्दस्य शासनं प्रधानतः शंसनार्थमेवाभीष्टमस्ति। काव्यशास्त्रस्य प्रतिपाद्यविषयं न केवलं दोषगुणानाञ्च हानमादानकथनं भवति, अपि तु गूढतत्त्वध्वनिरसादिकस्य शंसनं प्रतिपादनमेव मुख्यविषयमस्ति । यतो हि काव्यस्य मुख्यप्रयोजनं सद्यःपरमानन्दस्य प्राप्तिरस्ति । कान्तासम्मतस्वरूपे हितोपदेशस्तु–अस्यानुषङ्गिकलाभः एवाऽस्ति।
वस्तुतस्तु, 'काव्यशास्त्रमिति व्यपदेशे वाच्योपकारकतया काव्याङ्गपक्षनिक्षिप्तं मन्थमानैः रसगुणाऽलङ्कारादिका एव काव्ये प्रधानम्' इति सिद्धान्तितम् । अतस्तदानीं ‘प्राधान्येन व्यपदेशाः भवन्ति' इति न्यायेन ‘काव्यशास्त्रम् इति व्यपदेशः सप्रमाण एवाऽसीत् । आनन्दवर्द्धनाचार्यैः स्वप्रणीतध्वन्यालोके ध्वन्यमानस्य एवार्थस्य प्रधाने संस्थापितेऽपि तत्प्रबन्धस्य प्राचीनव्यपदेशप्रणाल्यनुसारेण काव्यशास्त्रनाम्नैव व्यपदेशः प्रचरति स्म ।
साहित्यशास्त्रम्
[सम्पादयतु]यद्यपि सम्प्रति साहित्यशब्दो वाङ्मयमित्यर्थे प्रयुज्यते, परन्तु संस्कृतभाषायां साहित्यशब्दस्येयं व्युत्पत्तिः । तथाहि – सहितं रसेन युक्तं विशिष्टं साहित्यम् तस्य भावः साहित्यम् । अथवा हितेन निरतिशयप्रेमास्पदेन इतरेच्छानधीनेच्छा विषयेण रसेन सहितमुभयत्र व्यञ्जकत्वप्रतिपादकत्व-अन्यतरसम्बन्धेन विशिष्टं तस्य भावः । किं वा – हितं पिहितमावृतं तत्सहितम् । अपि वा – हितं सन्निहितं नेदिष्ठम् -
‘हिरण्मयेन पात्रेण सत्यस्य पिहितं मुखम्', 'तद्रे चान्तिके च यत्' इति च श्रुतेः । सद्भिः महाकविभिस्सम्यङ् निहितं रक्षितं वा तत्सन्निवेशेनैव महाकाव्यत्वलाभात्' प्रहितं प्रेषितं साक्षात् परमानन्दरूपेण, परमेश्वरेण वा। अवहितं निगृहीतेन मनसा ध्यातं प्राचेतसद्वैपायनप्रभृतिभिः महर्षिभिर्वा, हितं सुहितम् - 'यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः' इति स्मरणात् अक्षय्य-तृप्तिसम्पादनं वा तत्सहितं तस्य भावः । सर्वथा चेदृश्यो व्युत्पत्तयो रसरूपमर्थं न व्यभिचरन्ति । यद्यपि साहित्यपदं वाङ्मये प्रयुज्यते तथाऽपि 'साहित्ये सुकुमारवस्तुनि’ ‘नमोस्तु साहित्यरसाय तस्मै' इत्येवं प्रभृतीनि लक्ष्ये व्यवहृतमनेकार्थमपि व्यञ्जकत्वप्रतिपादकत्व-अन्यतरसम्बन्धेन लोकोत्तरचमत्कारकारिरसनीयवस्तुविशिष्टं काव्यालङ्काररूपं सन्मग्न-सौन्दर्यसारं सुधामहादसब्रह्मचारिशास्त्रमत्र प्रतिपाद्यम् । तेन साहित्यशब्दस्य 'शब्दर्थौ' इत्यर्थः सहितयोर्भावः यदि साहित्यम् र्ताह सहितयोः कयोः ? शब्दार्थयोः तच्च साहित्यं क्वचिदन्यत्रशास्त्रे न भवति किन्तु काव्यशास्त्र एव । तत्र हि शब्दः अर्थश्च इत्युभयं मिलितं सदेव कमपि आह्लादं जनयति, न केवलः शब्दो नाऽपि वा केवलोऽर्थः, तथा चोक्तमपि - 'न च काव्ये शास्त्रादिवत् अर्थप्रतीत्यर्थं शब्दमात्रं प्रयुज्यते, सहितयोः शब्दार्थयोस्तत्र प्रयोगात् । साहित्यं तुल्यकक्षत्वेन अन्यूनानतिरिक्तवृत्तित्वम्' इति व्यक्तिविवेकटीकायाम् । एतेन साहित्यशब्दस्य काव्यस्वरूपमर्थम् इति सङ्कोचः कृतो वेद्यः । वक्रोक्तिजीवितकारेणाऽपि -
शब्दार्थौ सहितौ वक्रकविव्यापारशालिनी।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणी ॥[२५]
अन्यदपि -
साहित्यमनयोः शोभाशालितां प्रति काव्यसौ ।
अन्यूनानतिरिक्तत्वमनोहारिव्यवस्थितिः ॥ [२६]
अपि च राजशेखरेण ‘पञ्चमी साहित्य विद्येति यायावरीयः' अन्यदपि - 'शब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या' इति काव्यमीमांसायामुक्तम्, आधुनिकप्रथानुसारेण तु सर्वासामपि विधानां साहित्यपदाभिलष्यत्वे काव्यमात्रपरकत्वेनात्र साहित्यशब्दप्रयोगोऽयुक्तः स्यात् । किञ्च विह्नणेन -
साहित्यपाथोनिधिमन्थनोत्थं काव्याऽमृतं रक्षत हे कवीन्द्राः ।
यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ।।
इति स्वीये विक्रमाङ्कदेवचरितनामके महाकाव्ये प्रोक्तं, तदपि साहित्यशब्दस्य काव्यार्थतां व्यञ्जयति । साहित्यदर्पणादिककाव्यलक्षणस्वरूपादिबोधकलक्षणग्रन्थानां नामकरणमपि विद्यान्तरव्यावृत्तकाव्यमारवाचकस्य साहित्यशब्दस्य प्रयोगं प्रमापयति । तदित्थं साहित्यशब्दोऽत्र काव्यमात्रपरक इति प्रतिपत्तव्यम् ।
साहित्यस्य शास्त्रत्वम्
[सम्पादयतु]शास्त्रं हि नाम शासनकरणम् । शासनञ्चानधिगतार्थज्ञापनम् - ज्ञानविषयत्वाभाववदर्थबोधनम् । ज्ञानविषयतायाः केवलान्वयित्वेन तत्सामान्यभावस्या सम्भवेऽपि स्वानुपजीविप्रमाणाप्रयोज्यज्ञानविषयत्वसामान्याभाववत् सकलपुमर्थसाधनार्थविषयकज्ञानसाधनत्वं तदिति ध्येयम् । स्वानुपजीवीनि प्रमाणानि न्यायवेदान्तप्रभृतीनि, तत्प्रयोज्यज्ञानविषयता द्रव्यगुणादिषु ब्रह्ममायादिषु च, तत्सामान्याभाववन्तः सकलपूमर्थसाधनानि च रसादयः । तद्विषयकज्ञानसाधनत्वं साहित्यस्येति तस्य शास्त्रत्वे कः सन्दिहीत ? विशेषतश्च ध्वन्यालोकस्य प्रमाणान्तरेण अनधिगतध्वनिस्वरूपप्रतिपादकत्वात् शास्त्रत्वम् असन्दिग्धमेव । कविकुलशेखरः श्रीराजशेखरोऽपि काव्यमीमांसायाम् - ‘पञ्चमी साहित्यविद्या इति यायावरीयः । सा हि चतुष्टयीनामपि विद्यानां निष्यन्दः'
इति उपवर्णयन्नस्य शास्त्रत्वं विचिकित्समभिप्रेति । साहित्यस्य परमं रहस्यं रसञ्च साक्षाद्भगवती श्रुतिः प्रतिपादयति - 'रसो वै सः' 'रसं ह्येवायं लब्ध्वानन्दी भवति' इति । उपमादयश्च अलङ्काराः अग्निपुराणे परमर्षिणा निरूपणकर्मतां नीताः । एवञ्च कमनधिगतमर्थं प्रतिपादयत्साहित्यं दवीयसीं शास्त्रपदवीमासादयेदिति ‘साहित्यशास्त्रम्' प्रमाणितमेव ।
सौन्दर्यशास्त्रम्
[सम्पादयतु]सौन्दर्यशास्त्रशब्देन तत् सौन्दर्याङ्गं विवक्षितं यत्र काव्यभेदतत्स्वरूपतगतदोषगुणालङ्कारादिनिरूपणं क्रियते । सौन्दर्यशास्त्रस्वरूपनिरूपणप्रसङ्ग एव तद्विभावादि रूपतया नायिकानां नायकानां च भेदा अपि प्राप्तनिरूपणा भवन्ति, तेन तदप्यस्य सौन्दर्यशास्त्रस्याङ्गभावं भजते । इदमेव शास्त्रं प्राक् अलङ्कारकाव्यादिशास्त्रनाम्ना व्यवह्रियते स्म, यतः पुरा काव्यजीवनतया अलङ्कारा एव मन्यन्ते स्म । तेन च काव्यालङ्कारसूत्रकारेणोक्तम् ‘सौन्दर्यमलङ्कारः' इति । काव्यादर्शोऽपि - 'काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्षते ।' अनेन काव्येषु सौन्दर्यस्य अनिवार्यता स्पष्टतयैव प्रतिभाति । ध्वन्यालोकस्य लोचनटीकायामभिनवगुप्तेन प्रतिपादितम् - ‘तथा जातीयानामिति । चारुत्वातिशयवतामित्यर्थः । सुलक्षिता इति यत् किलैषां तद् विनिर्मुक्तं रूपं न तत् काव्येऽभ्यर्थनीयम् । उपमा हि ‘यथा गौस्तथा गवय' इति एवमन्यत् । न चैवमादिकाव्योपयोगीति ।'
अभिनवगुप्तस्तु अलङ्कारान् एव सौन्दर्यस्य वास्तविकोपकरणं न स्वीकरोति, अपि तु ध्वनावेव सौन्दर्यस्यापेक्षां करोति । मम्मटेन तु वाच्यार्थापेक्षया व्यङ्ग्यार्थसौन्दर्यस्य एव महत्त्वं प्रतिपादितम् । तद्यथा -
‘इदमुत्तममतिशायिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः' ।
अत्र काव्यं वाच्याद् अभिधावृत्तिप्रतिपाद्यादर्थात् व्यङ्ङ्गे व्यञ्जनावृत्तिप्रतिपाद्येऽर्थे, अतिशायिनि अधिकचमत्कारजनके सति, उत्तमम्; तदेव बुधैः ध्वनिरित्युच्यते । ध्वन्यालोकोलोचननटीकायां तु -
'गुणालङ्कारौचित्य सुन्दरशब्दार्थशरीरस्य सति ध्वन्यात्मनि आत्मनि काव्यरूपताव्यवहारः'।
तत्रैव -
‘अर्थो वा शब्दो वा, व्यापारो वा । अर्थोऽपि वाच्यो वा ध्वनतीति, शब्दोप्येवम् । व्यङ्ग्यो वा ध्वन्यत इति व्यापारो वा शब्दार्थयोर्ध्वननमिति । प्राधान्येन समुदाय एव काव्यरूपो मुख्यतया ध्वनिः' इति प्रतिपादितम् ।
अथ च योजनः सौन्दर्यशास्त्रे न निष्णातोऽस्ति स व्यञ्जना प्रतिपाद्यमानान् अर्थान् अपि नावबोधुं शक्नोति । सौन्दर्यशास्त्रस्य ज्ञानाभावे तस्य गतिस्तेषु स्थलेषु केन प्रकारेण स्यात्, यानि व्यङ्ग्यार्थविलसितानि व्यञ्जकपदावलिपेशलानि च स्थलानि विद्यन्ते। तस्मात् सौन्दर्यशास्त्रस्य महत्ता स्पष्टतयैव प्रतिभाति । सौन्दर्यशास्त्रस्य विशिष्टता विलोक्यैवाभिनवगुप्तः शास्त्रमिदं महत्त्वपूर्णमिव मन्यते -
'यच्चोक्तम् - चारुत्वप्रतीतिः तर्हि काव्यस्यात्मा' इति तदङ्गीकुर्म एव । नास्ति खल्वयं विवाद इति ।'
यत्र सौन्दर्यस्य प्रतीतिर्भवति, तदेव सः काव्यस्यात्मा मन्यते – 'तेन सर्वत्र न ध्वनन सद्भावेऽपि तथा व्यवहारः' ।
सौन्दर्यशास्त्रमिति काव्यलक्षणस्वरूपादिबोधकस्यास्य ग्रन्थस्य नामकरणमपि विद्यान्तरव्यावृत्तकाव्यमात्रवाचकस्य सौन्दर्यशास्त्रस्य औचित्यं प्रमापयति । तदत्र सौन्दर्यशब्दोऽत्र काव्यमात्रपरक इति प्रतिपत्तव्यम् । वामनस्तु सौन्दर्यमलङ्कार इत्युक्त्वा काव्यगतान् सर्वानेव ध्वनिरसगुण-तदलङ्कारादीन् सौन्दर्यशब्देन सञ्जग्राह । तदत्र सौन्दर्यशब्दः साहित्यमात्रपरक इति बोधव्यम् । अधुना सौन्दर्यशास्त्रं नृत्यगीतम् उत चित्रादिकसम्पूर्णललितकलाक्षेत्रमभिव्याप्य विस्तृतेऽर्थे प्रयुज्यते, यत्रार्थ aesthetics 'ईस्थैटिक्स' शब्दो वैदेशिकैः प्रयुज्यते । तेन हि तन्नाम न समुचितं प्रतिभाति । यतस्तत्र रसगुणालङ्कारातिरिक्तानां नृत्यगीतानामपि ललितकलानां सौन्दर्याङ्गानां विवेचनं क्रियत एव । इमामनुपपत्तिमधिकृत्यैवोपयुक्तमपीदं नाम न प्रचारमभजत ।
क्रियाविधिः, क्रियाकल्पश्च
[सम्पादयतु]अतिप्राचीनकाले शास्त्रमिदं क्रियाकल्पनाम्ना व्यवह्रियते स्म । वात्स्यायनेन कामसूत्रे चतुष्षष्ठिकलासु क्रियाकल्पस्य गणना कृता । ललितविस्तर-नामक-बौद्धग्रन्थे कलानां गणनाप्रसङ्गे क्रियाकल्पस्याऽपि गणना विद्यते । अस्यैव जयमङ्गलाटीकायाम् -
‘क्रियाकल्प इति काव्यकरणविधिः काव्यालङ्कार इत्यर्थः ।
अत्र क्रियया काव्यग्रन्थाः, कल्पेन च विधानमभिप्रेतं, तदिदं क्रियाकल्पपदं साहित्यविद्यापरं पर्यवस्यति । आचार्यदण्डिनाप्यत्र स्वकाव्यादर्शे प्रोक्तम् –
‘वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिम् ।
अत्र क्रियाविधिशब्दात् काव्यक्रियायाः विधिः अर्थात् काव्यक्रियायाः प्रतिपादकं काव्यशास्त्रमेवाभिप्रेतमस्ति । वाल्मीकिरामायणस्य उत्तरकाण्डे अपि क्रियाकल्पविदशब्दस्य प्रयोगो मिलति । तद्यथा -
कलामात्रविशेषज्ञान् ज्यौतिषे च परं गतान् ।
क्रियाकल्पविदश्चैव तथा कार्यविशारदान् ।।[२७]
वात्स्यायनस्य कामशास्त्रे परिगणितचतुःषष्ठिकलाष्वपि क्रियाकल्पनामिकैकाकलाऽस्मिन्नेवार्थेप्रयुक्तमासीत्। तद्यथा-
‘अभ्यासप्रयोज्यांश्च चातुःषष्ठिकान् योगान् कन्या रहस्येकाकिन्यभ्यसेत् ।'[२८]
तदा वेश्याऽपि कलायां प्रवीणासीत्। सम्पाठ्यं मानसी काव्यक्रिया, अभिधानकोषः, छन्दोज्ञानम्, क्रियाकल्पः, ललितकयोगश्चेति । अनेन ज्ञायते यत्, क्रियाकल्पस्य तात्पर्यं काव्यरचनायाः प्रक्रियातः एवाऽसीत् । क्रियाविधिशब्दे क्रियाशब्दस्य काव्यक्रियाऽर्थे प्रयोगः महाकविना कालिदासेनाऽपि समर्थितोऽस्ति । तद्यथा-
‘प्रथितयशसां भास-सौमिल्ल-कविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां बहुमानः । मालविकाग्निमित्रस्य प्रस्तावनायामप्यनेनैव प्रकारेण शास्त्रमिदं काव्यालङ्कार-काव्यशास्त्र-साहित्यविद्यासौन्दर्यशास्त्र-अलङ्कारशास्त्र-क्रियाविधिभिः कतिपयनामभिः समाहूतमभूत् । किञ्चेदमपि । नाम न प्रचरितम् ।
अलङ्कारशास्त्रस्य सम्प्रदायाः
[सम्पादयतु]अलङ्कारशास्त्रग्रन्थानाम् अनुशीलनेन अयम् अवगतो भवति यत्, यत्र अनेके सम्प्रदायाः आसन् । काव्यस्यात्मा कः ? इत्यस्मिन् विषये एवालङ्कारिकाणां समक्षे प्रधानतया विवेचनीयं कर्त्तव्यमासीत् । किमिदं तादृशं वस्तु विद्यते यद्विद्यमाने काव्ये काव्यत्वं तिष्ठति तद्रहिते च तदपसरतीति जिज्ञासाम् अवलम्ब्य स्वस्वबुद्ध्यनुसारेणोत्तरदानम् एव नानाविधसम्प्रदायानाम् उत्पत्तिरभूदिति पर्यालोचयन्त्येतिहासिककुशलाः।
अलङ्कारशास्त्रस्य कालविभाजनम्
[सम्पादयतु]काव्यसौन्दर्यस्याधायकानि यानि गुणरीतिध्वन्यलैङ्कारीदितत्वानि शास्त्रेदं विविनक्ति तानि सर्वाण्यपि तत्वानि मूलतः वैदेषु प्राप्तानि भवन्ति,, तस्मादलङ्कारशास्त्रमपि स्वोत्पत्यर्थमुपादानानि सामुग्री वा वेदेभ्य एव लेभे / वेदः स्वयमेव ‘अमरकाव्यम्' इत्येतेन नाम्ना भुवनविदितः ‘देवस्य पश्य काव्य न ममार न जीर्यति ।" एवं स्थिते अलङ्कारशास्त्रस्यापि जन्मभूमिः वेद एव प्रमाणयति । इदन्त्ववश्यं वेदवेदाङ्गादिषु केवलमलङ्कारशास्त्रस्य तत्त्वानि समुपलभ्यन्ते, न च तानि शास्त्राणि प्रत्यक्षतयाऽप्रत्यक्षतया वा तस्य शास्त्रीय निरूपणं कुर्वाणानि दृष्टानि जायन्ते । तदीयं शास्त्रीय निरूपणन्तु भरतमुनिसमयात् प्रारब्धं भवति ।
भरतमुनेः समयमधिकृत्य विदुषां सन्ति विभिन्नमतानि । भरतस्य काल: ख्रीष्टाब्दात् प्राग्वत्तशतकद्वयमारभ्य तदर्वाग्वत्त शतकद्वयं यावत् यो विद्यते तस्यान्तरांले सुधीभिः प्रायेण विचिन्त्यते । अतः अलङ्कारशास्त्रस्य निर्माण प्रारब्धन्त्वभूत् भरतसंमयात् परं तन्निर्माणस्यावसानं हि ईशवीयाष्टदशशतकेऽभवतु तस्येतिहासः वर्षाण सहस्रद्वयमभिव्याप्य विततः संलक्ष्यते । तस्मात्तद्विरचनानेहातावान् महान् स्वीक्रियते सुधीभिः । विद्वांसस्तं चतुषु भागेषु विभजन्ते
१. आदिमः कालः ( अज्ञातकालात भामहं यावत् )
२. रचनात्मकः कालः ( भामहात् आनन्दवर्धनं यावत् ६०० तम ख्रीष्टा| ब्दात् ८०० तम ख्रीष्टाब्दपर्यन्तम् )।
३. निर्णयात्मकः कालः । ( आनन्दवर्धनात् मम्मटपर्यन्तम् ८०० तमाब्दात् ---- १००० तमाब्दपर्यन्तम् )।
४. व्याख्यात्मकः कालः–( मम्मटात् विश्वेश्वरपण्डितं यावत्-१००० . * तमाब्दातु, १७०० ख्रीष्ट्राब्दपर्यन्तम् ) । |
आदिमः कालः
[सम्पादयतु]प्रारम्भकाले भरतभामहावेव मुख्यावाचायौं प्राप्येते । भरतः स्वकीये नाट्यशास्त्रे रसे नाट्यस्येतत्त्वनि सुन्दरतयावर्णयन् दृग्गोचरो भवति । स तत्र चतुरोऽलङ्कारान् दश गुणान् दश दोषांश्चोल्लिखनु प्राप्यते । तदीयं नाट्यशास्त्रं वस्तुतो बीजभूतमेव गच्छतो कालेन विद्वांसः आचार्यास्तद्गतान् वयान वितेनुः । भरतानन्तरं मेधाविरुद्र-प्रभृतयः कतिपये विद्वांसोऽजायन्त, द न तेषां ग्रन्था उपलभ्यन्ते । भामह एवालङ्कारशास्त्रस्यातः प्रथम आचार्यो काव्याऽलङ्काराभिधस्तदीयो ग्रन्थः अलङ्कारशास्त्रस्य मुख्यः प्रथमो वा ग्रन्थः स्मृतः।
रचनात्मकः कालः
[सम्पादयतु]रचनात्मकः कालोऽलङ्कारशास्त्रस्य महत्त्वमयः कालो गण्यते । अस्मिन् कालै सज़ाता रचनाः वस्तुतौऽलङ्कारशास्त्रस्य गौरवशालिन्य रचनाः सन्ति । एतस्मिन्कालेऽलङ्कारजगति ‘अलङ्काररीतिरसध्वनिनामकाश्चत्वारः सम्प्रदायाः वीक्षिता अभूवन् । अलङ्कारसम्प्रदाये भामहोद्भटरुद्रटाः, रीतिसम्प्रदाये दण्डि| वामन, रससम्प्रदाये लोल्लटशङ्कुकादयः, ध्वनिसम्प्रदाये चानन्दवर्धनः समजायन्त ।
निर्णयात्मकः कालः
[सम्पादयतु]निर्णयात्मकः कीलोऽपि महीयान् कालः अलङ्कारशास्त्रसंसारे मतो भवति । एतस्मिन्काले बहवः अलङ्कारशास्त्रपारावारीणा उदपद्यन्त । ध्वन्यालोकलोचनटीकाकारः अभिनवभारतीनिर्माता आचार्योऽभिनवगुप्तः, वक्रोक्तिजीवितकारः कुन्तकः, व्यक्तिविवेककारो महिमभट्टः कालस्यास्य प्रधानाः आचार्याः सन्ति । रुद्रभट्ट-भोजराज-धनिक-धनञ्जयाऽपि कालमिमधितस्थुः । आचार्य कुन्तकोऽपि वक्रोक्ति प्रतिपाद्य प्रामुख्येन्, वक्रोक्तिसम्प्रदायं प्रतिष्ठापयामास, महिमभट्ट स्वरचनया ध्वनिसिद्धान्तं निराचका
व्याख्यात्मकः कालः
[सम्पादयतु]व्याख्यात्मकः कालोऽपि नैर्ज महिमानं निदधाति । कालोऽयं दीर्घतमः। प्रायेण ७५० वर्षाणि अभिव्याप्य सन्तिष्ठते-अस्मिन्काले हेमचन्द्रविश्वनाथजयदेवादिकाः साहित्यस्य सर्वाङ्गानि समीचीनतया वर्णयामासुः प्रतिपादयामासुश्च । रुय्यकः अप्पयदीक्षितः अन्ये च कतिपये अलङ्कारेष्वेव रुचि दर्शयामासुः शारदातनय-शिङ्गभूपाल-भानुदत्त-प्रभृतयश्वालङ्कारसिद्धान्त-विवेचने प्रशंसनीयमुद्योगं चक्रुः रूपगोस्वामी दिशायमस्यां यं प्रयत्नं कृतवान् सोऽपि श्लाघनीयः । राजशेखर-क्षेमेन्द्रादिका विद्वद्वरेण्याः कविशिक्षाविषये ग्रन्थान् अजग्रन्थन् ।
विशेषम्
[सम्पादयतु]आचार्यमम्मटस्त्वलङ्कारशास्त्रसंसारेऽवतारत्वेन कल्प्यते । १००० तमे शतके प्रादुर्भूता प्रतिभेयमलौकिकी अलङ्कारशास्त्रसम्बन्धिनः सिद्धान्त विषय यांश्च समन्वयात्मिकायां शैल्या “निरूपितैवती। आचार्य-निन्दवैर्द्धनौं यदि ध्वनिविरोधिनः सिद्धान्तान् प्रत्याख्याय ध्वनिसिद्धान्तस्थापनद्वारण अलङ्कारशास्त्रस्य सत्तां शास्त्रजगति द्रढयामास, तदाऽचार्यमम्मटः काव्यप्रकाशं प्रणीयालारिकानां समक्षे स्वस्मात् प्राग्वत्तियां सहस्राब्द्यां सजाताना कृतीः सम्यगंवगाह्य तासां सारभाग निहितवानालङ्कारिकानु विषयांश्च सर्वान्। दोषेविरहितायां सर्वाङ्गसुन्दरायां भाषायां प्रस्तुतीकृतवान्, किञ्च रसध्वनि-गुणाऽलङ्कारादीनां सर्वेषां महत्त्वमुपादेयत्वं वैशिष्ट्यं च यद् यदस्ति तत् तत्सकलं साधुतया दर्शितवान् इत्थं तत्सम्प्रदायगताः आचार्याः, सर्वेऽप्यलङ्कारशौस्त्रं प्रतिष्ठापयितुं तस्य शास्त्रत्वं साधयितुं तस्य सर्वाणि चाङ्गानि निष्पादयितुं निरूपयितुञ्च पूर्ण मनोयोगपूर्वक प्रयासं विदधुः । तेषां प्रयासादविरामात् यस्याऽलङ्कारशास्त्रस्य बीजानि तत्त्वानि वा वेदादिषु विकीर्णान्यासंस्तानि शास्त्रीय रूपमधिजग्मुः ।
अलङ्कारशास्त्रस्य विकासक्रमे ध्वनेरुद्भावनैकाऽभिनवी घटनाऽस्ति । आनन्दवर्धनस्तु ललितोचितसुन्निवेशचारुणः काव्यस्य शरीरस्येवात्मनं सहृदयश्लाघ्यं सारभूतं गुणालङ्कास्व्यतिरिक्तः ध्वनि प्रतिपादितवान् अनया दृष्ट्या ऽलङ्कारशास्त्रस्येतिहासं त्रिषु वर्गेषु-विभजन्ते ।
१. ध्वनेः पूर्वयुगम् वैदिकयुगात् अष्टमशताब्दिपर्यन्तम् ।
२. ध्वनियुगम् अष्टमशताब्दितः दशमशताब्दिपर्यन्तम् ।
३. ध्वनेः व्याख्यायुगम् दशमशताब्दितः अष्टादशशताब्दिपर्यन्तम् ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणानि
[सम्पादयतु]- ↑ ऋग्वेदः ३।३३।१
- ↑ ऋग्वेदः १।१२४॥७॥
- ↑ ऋग्वेदः १।१६४॥२०॥
- ↑ काव्यप्र. द. उ. ४९०
- ↑ का० प्र० द० उ० ५९२
- ↑ का० प्र० स० उ० सू० सं० ७७-७८
- ↑ ऋग्वेदः १।१६४।२०
- ↑ ऋग्वेदः १।१६४।२१
- ↑ ऋग्वेदः १॥११॥५५
- ↑ शतपथब्राह्मणम् १२/५/१५
- ↑ नाट्यशास्त्रम् १।१७
- ↑ निरुक्त ५/७/८८
- ↑ Nir III.13
- ↑ का० मी० पृ० १-३
- ↑ काव्यमीमांसा पृ० ३-५
- ↑ ऋग्वेद ३.१.१८
- ↑ ऋ०३।१।१७
- ↑ ऋ० १०॥६॥४३
- ↑ १॥४॥३४
- ↑ का० प्र० ७॥१४१
- ↑ द्रष्टव्य का० प्र० पृ० ४०६
- ↑ पृ० ४०९
- ↑ सरस्वतीकण्ठाभरणम् २, १३८
- ↑ स० के० २, १३९
- ↑ वक्रोक्ति ० १/७
- ↑ वक्रोक्ति०, १।१७
- ↑ बा० रा० उ० ९४/७
- ↑ का० सू० १।३।१४।