राष्ट्रियस्वयंसेवकसङ्घः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(राष्ट्रीयस्वयंसेवकसङ्घ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
राष्ट्रियस्वयंसेवकसङ्घः
२00px
राष्ट्रियस्वयंसेवकसङ्घस्य ध्वजः
संस्थापकः केशव बलिराम हेडगेवार
निर्माणम् विजयदशमी१९२५
केन्द्रम् नागपुरम्
भौगोलिकस्थितिः २१°०२′उत्तरदिक् ७९°१०′पूर्वदिक् / 21.04°उत्तरदिक् 79.16°पूर्वदिक् / २१.०४; ७९.१६
ध्येयम् "भारतस्य परमवैभवम्"
जालस्थानम् rss.org/hindi/

राष्ट्रियस्वयंसेवकसङ्घः (संक्षेपेण आर्.एस्.एस् ) विश्वस्य बृहत्तमं सङ्घटनम् अस्ति। सङ्घस्य कार्यम् आभारते मण्डलस्तर(पञ्चग्रामस्य समुहः) पर्यन्तं अस्ति। सङ्घे राष्ट्रकार्यं कुर्वन्तः बहवः प्रचारकाः, विस्तारकाः स्थानिककार्यकर्तारस्सन्ति। राष्ट्रस्य उपरि यदा-यदा कष्टम् आगतं तदा-तदा तत्र सङ्घेन सेवाकार्याणि कृतानि। सङ्घः नाम किञ्चन व्यक्तिवादिसङ्घटनं न , ध्येयवादिसङ्घटनम् अस्त्येतत्। राष्ट्रियस्वयंसेवकसङ्घः विचारमात्रं नास्ति , संस्थामात्रम् अपि नास्तिराष्ट्रियस्वयंसेवकसङ्घस्तु एका जीवनपद्धतिः अस्ति। सङ्घे सर्वे समानाः भवन्ति सङ्घे अधिकारिणः अपि भवन्ति किन्तु व्यवस्था द्रष्टया। सङ्घे जातिभेदः नास्ति। सङ्घः कुटुम्बम् अस्ति अतः सङ्घे गुणानां चर्चा सामुहिकम् ,दोषाणां चर्चा वैयेक्तिगतं भवति। सरलं जीवनं सङ्घस्य विशिष्टं लक्षणम् अस्ति। इदानीं सङ्घस्य सर्वत्र स्वीकारः अस्ति। राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः राष्ट्रियस्वयंसेवकसङ्घस्यआधारः अस्ति अतः प्रथमतः एव स्वयंसेवकस्य योग्य संस्काराः भवन्तु इति सङ्घस्य आग्रहः भवति। व्यक्ति निर्माणेन राष्ट्र निर्माणम् इति सङ्घस्य लक्ष्यम् अस्ति भारतस्य परमवैभवं सङ्घस्य अन्तिमं लक्ष्यम् अस्ति।

स्थापना[सम्पादयतु]

सङ्घस्य स्थापना १९२५तमे वर्षे नागपुरे डॉ.केशव बलिराम हेडगेवारद्वारा जाता। डॉ.केशव बलिराम हेडगेवारजी बाल्यकालात् एव राष्ट्रभक्तः आसीत्। तदानीङ्काले भारतं पराधिनम् आसीत् , भारतीयाः सङ्घटिताः न आसन्। तदानीङ्काले भारते स्वतन्त्रतार्थं रीतिद्वयम् आसीत् - १) काङ्ग्रेसदलः२)क्रान्तिकारिणां दलः , इत्युक्ते हिंसकदलः - अहिंसकदलः। डॉ.हेडगेवारजी उभयत्र कार्यम् अकरोत्।

सः यदा चिकित्सकपदवीं पठितुं कलकत्तानगरं गतवान् तदा क्रान्तिकारिणां सम्पर्के आगतः। क्रान्तिकारिणाम् एका संस्था " अनुशीलन-समिति " आसीत्। तस्यां युवा केशवः सदस्यः जातः। केशवः तत्र शिक्षाद्वयं प्राप्तवान् , चिकित्सायाः स्वतन्त्रतायाः च। केशवःझटिति एव अनुभूतवान् यत् हिंसकआन्दोलनेन किमपि न भविष्यति। अतः ततः निर्गतः।

केशवः चिकित्सकपदवीं प्राप्य नागपुरं प्रत्यागतः। डॉ.हेडगेवारजी धनार्जनविषये विवाहविषये वा चिन्तनम् अकृत्वा राष्ट्रकार्ये एव संलग्नः अभवत्। १९१४तमे वर्षे लोकमान्यतिलकस्य आह्वाहनेन डॉ.हेडगेवारजी काङ्ग्रेसदले आगतः। काङ्ग्रेसदलस्य कार्यं कुर्वन् डॉ.हेडगेवारजी कारावासम् अपि प्राप्तवान्। डॉ.हेडगेवारजी काङ्ग्रेसदलस्य हिन्दु- मुस्लिम एक्ताविषये चिन्तनात् दुःखी आसीत्। सः वदति स्म यत् भारते हिन्दु , पारसी ,यहुदि ,मुस्लिम इत्यादयः सर्वे सन्ति, तर्हि हिन्दु - मुस्लिम एक्ताविषये एव किमर्थं चिन्तनम् ? १९१८तमे वर्षे महायुद्धः समाप्तः। तुर्किदेशः पराजितः। कमालपाशा राष्ट्रप्रमुखः जातः। सः खलिफापदं( मुस्लिमसम्राट ) निष्काषितवान्। तदा मुस्लिमजनान् आकर्षयितुं गान्धिः आन्दोलनं कृतवान्। आन्दोलनं खलिफात नाम्ना प्रसिद्धः आसीत्। आन्दोलनम् असफलं जातं यतोहि स्वयं तुर्किजनाः खलिफापदं न इच्छन्ति स्म। किन्तु एतेन आन्दोलनेन भारते हिन्दु - मुस्लिम मध्ये वैरभावः वर्धितः। एतत् कारणात् डॉ.हेडगेवारजी काङ्ग्रेसदलं त्यक्तवान्।

डॉ.हेडगेवारजी इदानींभारतस्य पराधिनतायाः विषये मूलतः चिन्तनम् आरब्धवान्। प्राचीनस्य भारतीयराष्ट्रस्य पराभवः किमर्थं जातः? एवञ्च कथम् एतत् राष्ट्रं बलवत् सङ्घटितं च भवेत् ? इत्यन्योः प्रश्नयोः समाधानं कश्चित् स्वप्नदृष्टवत् सः आजीवनम् अन्विष्यन् आसीत्। सः ज्ञातवान् यत् भारतीयाः सङ्घटिताः न सन्ति अतः पराधिनाः सन्ति। अतः राष्ट्रहिताय सङ्घटननिर्माणं कुर्मः। इदं कार्यम् ईश्वरीयं कार्यम्। " राष्ट्राय जीवदानं सरलं किन्तु राष्ट्राय एव जीवनं कठिनम् "। वयं कठिनं कार्यं कुर्मः। एतेन विचारेण १९२५तमे वर्षे विजयादशम्याः दिने गोष्ठिद्वारा सङ्घस्य आरम्भः जातः। गोष्ठ्याम् उपस्थितेषु प्रमुखाः आसन् भाऊजीकावरे, अण्णासोहोनी, विश्वनाथकेलकर .बालाडीहुद्दार , बापूराभेदी च। सङ्घस्य स्थापनां तु नागपुरस्य निर्जनायां भूम्यां " मोहितेवाड " इति स्थाने जाता किन्तु अधुना सङ्घः आभारते अस्ति।

नामकरणम्[सम्पादयतु]

राष्ट्रियस्वयंसेवकसङ्घस्य नाम्नि त्रयः शब्दाः वर्तन्ते। १) राष्ट्रिय २)स्वयंसेवकः ३)राष्ट्रियस्वयंसेवकसङ्घः। १) वयं वदामः यत् कार्यं करणीम् , किन्तु कस्य कृते ? उत्तरम् आगच्छति राष्ट्रार्थम्। को नाम राष्ट्रः ? केवलभूभागः ? केवलजनानां समुहः वा? न , राष्ट्रः इत्युक्ते समान इतिहासः येषाम् अस्ति , येषां कृते समानपरिमाणाः सन्ति तादृशानां समुहः। ये राष्ट्रं स्वमातृभूमिं गण्यते तादृशानां राष्ट्रियानां समुहः एव राष्ट्रः।

२)स्वयंसेवकः धनपेक्षा विना एव समाजकार्यं करोति। वयं मातुः सेवां कृत्वा धनं याचयामः वा ? न , तर्हि मातृभूम्याः कार्यार्थम् अपि धनं नावश्यकम्। स्वयंसेवकः इत्युक्ते नेतुः कृते व्यवस्था कर्ता,जयघोषकर्ता वा न , डॉक्टरजी वदति स्म स्वयंसेवकः अर्थात् राष्ट्रभक्तः जनः। राष्ट्रियस्वयंसेवकसङ्घस्य पूजनीयद्वितीयः सरसङ्घचालकः श्रीगुरुजी आत्मानं स्वयंसेवकरुपेण ?????????।

३)सङ्घः अर्थात् सङ्ग्रहणमात्रं न। संस्कारयुक्तानां जनानां सङ्ग्रहणम्। शाखायाम् आज्ञा भवति " एकशः सम्पत् " तदा जातिभेदं विना सर्वे एकपङ्कत्यां तिष्ठन्ति। सङ्घस्य अर्थः अस्ति सामाजिकानां राष्ट्रियानां सङ्ग्रहणम्। राष्ट्रियस्वयंसेवकसङ्घस्य नामद्वारा एव सङ्घस्य उदेश्यः स्पष्टः भवति। राष्ट्रार्थं सामाजिकानां समुहः राष्ट्रियस्वयंसेवकसङ्घः।

राष्ट्रियस्वयंसेवकसङ्घस्य कार्यक्रमाः[सम्पादयतु]

राष्ट्रियस्वयंसेवकसङ्घस्य बहवः कार्यक्रमाः सन्ति। तेषां विभागत्रयम् अस्ति-

१) नित्यकार्यक्रमाः २) नैमितिककार्यक्रमाः ३) उत्सवाः।

१) नित्यकार्यक्रमाः सङ्घस्य नित्यकार्यक्रमः शाखा अस्ति। शाखायां ये कार्यक्रमाः भवन्ति ते नित्यकार्यक्रमाः। ते यथा सूर्यनमस्काराः , निःयुद्धः , दण्डयुद्धः इत्यादयः। पुनः ये विविधाः वर्गाः भवन्ति ते अपि नित्यकार्यक्रमाः। यथा दीपावलिवर्गः, सङ्घशिक्षावर्गाः। एते कार्यक्रमाः करणियाः एव।

२) नैमितिककार्यक्रमाः

सङ्घकार्यवर्धनार्थं विविधाः

३) उत्सवाः

पारिभाषिकशब्दाः[सम्पादयतु]

सङ्घस्य केचन पारिभाषिकशब्दाः सन्ति , यथा

सरसङ्घचालकः - सङ्घस्य मार्गदर्शकः।

सरकार्यवाहः - राष्ट्रियस्वयंसेवकसङ्घस्य निर्वाचितः सर्वोच्चः पदाधिकारी।

सङ्धचालकः - स्थानीयकार्यस्य ,स्थानीयकार्यकतृणां च पालकः।

मुख्यशिक्षकः - नित्यशाखायाः कार्यक्रमाणां सञ्चालकः।

कार्यवाहः - शाखा‌क्षेत्रस्य प्रमुखः।

गटनायकः - शाखा‌क्षेत्रस्य एकस्य लघुभौगोलिकभागस्य प्रमुखः।

प्रचारकः - साकल्येन सङ्घकार्याय समर्पितः अवैतनिकः अविवाहितः कार्यकर्ता।

चन्दनम - सपीतिः।

सङ्घशिक्षावर्गः - सङ्घस्य कार्यपद्धतेः पाठनस्य क्रमबद्धा वर्षत्रयीया प्रशिक्षण योजना।

सरसङ्घचालकाः[सम्पादयतु]

शाखाः[सम्पादयतु]

मातृभूम्याः रक्षणस्य प्रतिज्ञां कुर्वाणः स्वयंसेवकः

रा.स्व सङ्घस्य प्रमुखः कार्यक्रमः शाखा। रा.स्व.सं तावत् शाखाद्वारा चलति। शाखा प्रतिदिनं घण्टां यावत् सार्वजनिकेषु स्थानेषु चलति। प्रायः राष्ट्रे अधुना ६०,००० शाखाः सन्ति। रा.स्व.सङ्घस्य शाखासु स्वयं सेवकानां व्यक्तित्वनिर्माणस्य विकसनस्य दृष्ट्या बहूनि कार्याणि आयोज्यन्ते। देहस्य दृढतासम्पादनाय योगः तथा व्यायामः अपि भवति। प्रतिदिनं क्रीडा अपि भवति। नागरिकज्ञानं, समाजसेवा, समुदायजीवनं, देशभक्तिः इत्यादयः गुणाः अत्र कार्यक्षेत्रे योजिताः सन्ति। स्वयं सेवकानां प्रथमचिकित्साविषये आपत्काले जनानां रक्षणं, पुनर्वसतिः इत्यादीनां कार्याणां विषये प्रशिक्षणं दीयते अत्र। शाखाः यत्र चलन्ति ताद्शग्रामेषु अथवा प्रदेशेषु स्वच्छताकार्येषु अभिवृद्धिकार्येषु प्रवृत्ताः भवितुं सङ्घः स्वयंसेवकान् प्रेरयति।

राष्ट्रियस्वयंसेवकसङ्घस्य ध्वजः[सम्पादयतु]

श्रीगुरुजी सङ्घस्य ध्वजम् एवं वर्णयति " सङ्घः स्वस्य पुरतः कञ्चन मनुष्यं अथवा किञ्चन पुस्तकम् अधिकरपदव्याम् न अस्थापयत् अपितु राष्ट्रजीवने विद्यमानायाः साधुतायाः श्रेष्ठतायाः प्रज्जवलन् प्रतीकः भगवध्वजः (केसरध्वजः) एव सङ्घस्य कृते प्राधिकारी। अनेन सङ्घ्ः राष्ट्रं  प्रति निश्चलां भक्तिं वर्धयितुं प्रयतते।

स शाश्वतो भगवध्वजः अस्माकम् नयनोः पुरतः प्रान्तजातिभाषाप्रथादीन् अपाहाय पुरातनस्य पवित्रस्य संहितस्य राष्ट्रजीवनस्य विमलं, विशुद्धं, कृत्स्नं सजीवितं चित्रम् आनयति। अयं भगवध्वजः वस्तुतः अस्माकं धर्मसंस्कृतपरम्परादर्शाणां प्रतीको भवति "

सङ्घस्य प्रार्थना[सम्पादयतु]

सङ्घस्य प्रार्थनायां त्रयः श्लोकाः सन्ति। प्रथमश्लोकस्य वृत्तं भुजङ्गप्रयात , अन्यद्वयस्य मेघनिर्घोष अस्ति। प्रार्थनायां त्रयोदशपंक्तयः सन्ति। द्वादशपंक्तयः संस्कृते सन्ति , अन्तिमा हिन्दिभाषायाम् अस्ति। १९४०तमे वर्षे अस्याः संस्कृतप्रार्थनायाः आरम्भः जातः। तस्मात् पूर्वं प्रार्थना मराठि - हिन्दि भाषयोः आसीत् , किन्तु कार्यवर्धनान्तरं प्रार्थनायाः भाषा परिवर्तनीया इति एका गोष्ठि जाता। तस्यां गोष्ठ्याम् आद्य सरसङ्घचालकः डॉ.हेडगेवारजी, श्रीगुरजी, श्री अप्पाजी ,श्री बाबासाहेबजी , श्रीबाळासाहेबजी इत्यादयः गणमान्याः उपस्थिताः आसन्। प्रार्थनायाः संस्कृत रुपातरं श्री नरहरनारायणभिडे द्वारा १९३९तमे वर्षे फरवरीमासे जातम्। एतस्याः प्रथमवारं गानं १९४०तमस्य वर्षस्य पुणे - शिक्षावर्गे अभवत्। श्री यादवरावजोषी स्वरं दत्तवान् , सः एव प्रथमं प्रार्थनायाः गानं कृतवान्।

सङ्घस्य प्रार्थना
नमस्ते सदा वत्सले मातृभूमे
त्वया हिन्दुभूमे सुखं वर्धितोहम् ।
महामङ्गले पुण्यभूमे त्वदर्थे
पतत्वेष कायो नमस्ते नमस्ते ।। १ ।।
प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता
इमे सादरं त्वां नमामो वयम्
त्वदीयाय कार्याय बद्धा कटीयम्
शुभामाशिषं देहि तत्पूर्तये ।
अजय्याञ्च विश्वस्य देहीश शक्तिम्
सुशीलं जगद्येन नम्रं भवेत्
श्रुतञ्चैव यत्कण्टकाकीर्णमार्गम
स्वयं स्वीकृतं नः सुगं कारयेत् ।। २ ।।
समुत्कर्षनिःश्रेयसस्यैकमुग्रम्
परं साधनं नाम वीरव्रतम्
तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा
ह्रदन्तः प्रजागर्ततुतीव्रा निशम् ।
विजेत्री च न संहता कार्यशक्तिः
विधायास्य धर्मस्य संरक्षणम्
परं वैभवं नेतुमेतत् स्वराष्ट्रम्
समर्था भवत्वाशिषा ते भृशम् ।। ३ ।।
।। भारत माताकी जय ।।


राष्ट्रियस्वयंसेवकसङ्घस्य सहयोगीसंस्थाः[सम्पादयतु]

बाह्यतन्तुः[सम्पादयतु]

विशेष

बाह्यानुबन्धः[सम्पादयतु]