विकिपीडिया:संस्कृतविकिसम्पादकानां विकिचिन्तनगोष्ठी, २-४ मार्च् २०१५

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिकार्यस्य वेगवर्धनाय संस्कृतविकिसम्पादकानां विकिचिन्तनगोष्ठी मार्च् २-४ दिनाङ्कयोः आयोजिता आसीत् । अत्र विकिसम्बन्धिताः वहवः विषयाः चर्चिताः जाताः । अग्रिमा परिकल्पना अपि अस्याः गोष्ठ्याः अंशत्वेन आसीत् । एतेन विकिकार्यं सुस्थिरतां प्राप्नोति इति गोष्ठेः अभिप्रायः । CIS संस्थातः रहमानुद्दिनः गोष्ठेः सुष्ठुनिर्वहनाय उपस्थितः आसीत् ।

उपस्थिताः सदस्याः[सम्पादयतु]

गोष्ठेः निर्णयाः[सम्पादयतु]

लेखसम्बद्धनिर्णयाः[सम्पादयतु]

1 . लेखः विश्वकोशस्तरीयः विश्वस्तरीयः स्यात् । तन्निमित्तं विकिविषयाणां मुख्यनियमाः अवश्यं अनुसर्तव्याः । ते यथा-

2. लेखः सर्वदा तथ्यसंयुक्तः (Informative) स्यात् ।
3. उपशीर्षकानि मुख्यविषयाणामेव दातव्यं न तु गौणविषयाणाम् ।
4. एकस्मिन् लेखे एकस्य विषयस्य परिसन्धिः(Hyper Link) सर्वाधिकं त्रिवारं भवितुमर्हति । यथा- भारतम् इति परिसन्धिः कश्चिल्लेखे त्रिवारमेव भवेत् न तदधिकम् ।
5. टिप्पण्यः (Reference) साधारणतया एकस्मिल्लेखे ५-१० स्युः । संख्याधिक्येन न कापि हानिः ।
6. प्रायशः सर्वलेखेषु चित्रं, सारमञ्जूषा, भाषासन्धिः (Language Link), बाह्यसम्पर्कसन्धिः (External Links) स्यादिति साधारणनियमः ।

निर्वहणसम्बद्धनिर्णयाः[सम्पादयतु]

1. विकिकार्येषु उत्पन्नाः साधरणसमस्याः सम्पादकाः परस्परं सम्भाषणं कृत्वा समाधयेत् इति प्राथमिकापेक्षा । यत् कार्यं साधारणयोजकेन कर्तुम् अशक्यं, तत् योजकेषु एकः प्रबन्धकं सूचयेत् ।
2. प्रबन्धकाय सूचना तस्य सम्भाषणपृष्ठे लिख्यते चेद् वरम् ।
3. योजकसम्भाषणं कथं लेखनीयमिति विषये नियमाः विकिजालस्थाने सन्ति । तेऽत्र द्रष्टुं शक्याः-

4. प्रवेशद्वारम्: भारतम् तथा प्रवेशद्वारम्: संस्कृतम् इति मुख्यकार्यद्वयं अग्रिमषण्मासनिमित्तं स्वीकृतं वर्तते । अस्य कार्यस्य सफलीकरणे योजकाः अवश्यं आत्मानं योजयेयुः इति अपेक्षा ।


उपर्युक्तेषु विषयेषु स्वाभिमतं भवन्तः सम्भाषणपृष्ठे ज्ञापयितुं प्रभवन्ति ।