विविधसंस्थानां ध्येयवाक्यानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जगति प्रायः सर्वासामपि संस्थानां घोषणवाक्यानि भवन्ति एव । कतिपय संस्थानां घोषणवाक्यानि एवं प्रसिद्धानि सन्ति यत् तेषां वाक्यानां दर्शनानुक्षणणमेव संस्था का इति वक्तुं शक्यते । तत्रापि कासाञ्चित् संस्थानां घोषणवाक्यानि संस्कृतेन सन्ति । तादृशीनां भारते, नेपाले, इण्डोनेशियायां च विद्यमानानां शिक्षणसंस्थानां सामाजिकसंस्थानाम् इतरासां च संस्थानां संस्कृतघोषणवाक्यानि अत्र सङ्गृहीतानि सन्ति ।