"पट्टदकल्लु" इत्यस्य संस्करणे भेदः
प्रथमशब्दः using AWB |
कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि using AWB |
||
पङ्क्तिः ३०: | पङ्क्तिः ३०: | ||
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । |
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते । |
||
==चित्रशाला== |
==चित्रशाला== |
||
<gallery> |
<gallery> |
||
पङ्क्तिः ४६: | पङ्क्तिः ४५: | ||
* [http://www.world-heritage-tour.org/asia/south-asia/india/pattadakal/map.html पट्टदकल्लु कीर्तनाणां चित्राणि] |
* [http://www.world-heritage-tour.org/asia/south-asia/india/pattadakal/map.html पट्टदकल्लु कीर्तनाणां चित्राणि] |
||
* [http://maps.google.co.in/maps?f=q&source=s_q&hl=en&geocode=&q=Pattadakal&aq=&sll=15.92025,75.685887&sspn=0.003312,0.005397&g=Badami,+Bagalkot,+Karnataka&ie=UTF8&hq=&hnear=Pattadakal,+Bagalkot,+Karnataka&ll=15.950797,75.814912&spn=0.004683,0.006877&t=h&z=17 पट्टदकल्लु Google map] |
* [http://maps.google.co.in/maps?f=q&source=s_q&hl=en&geocode=&q=Pattadakal&aq=&sll=15.92025,75.685887&sspn=0.003312,0.005397&g=Badami,+Bagalkot,+Karnataka&ie=UTF8&hq=&hnear=Pattadakal,+Bagalkot,+Karnataka&ll=15.950797,75.814912&spn=0.004683,0.006877&t=h&z=17 पट्टदकल्लु Google map] |
||
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]] |
[[वर्गः:भारतस्य विश्वपरम्परास्थानानि]] |
||
[[वर्गः:बागलकोटेमण्डलस्य प्रेक्षणीयस्थानानि]] |
[[वर्गः:बागलकोटेमण्डलस्य प्रेक्षणीयस्थानानि]] |
||
[[वर्गः:कर्णाटकराज्यस्य प्रेक्षणीयस्थलानि]] |
|||
[[वर्गः:कर्णाटकस्य प्रेक्षणीयस्थानानि]] |
|||
[[वर्गः:विषयः वर्धनीयः]] |
[[वर्गः:विषयः वर्धनीयः]] |
०६:१२, १ मार्च् २०१६ इत्यस्य संस्करणं
पट्टदकल्लु | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | भारतम् |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | iii, iv |
अनुबन्धाः | 239 |
क्षेत्रम् | Asia-Pacific |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | 1987 (11th सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
पट्टदकल्लु (Pattadakallu) कर्णाटकस्य बागलकोटेमण्डले विद्यमानं किञ्चन क्षेत्रम् । पूर्वं चालुक्यवंशीयानां प्रशासनम् अत्र आसीत् । अत्र दशदेवालयाः सन्ति । तेषु पापनाथः-विरूपाक्ष-मल्लिकार्जुनदेवालयाः मुख्याः सन्ति । विरूरुपाक्षदेवालयः विशालः अष्टमे शतके निर्मितः शिलादेवालयः । पट्टदकल्लु कन्नडशिल्पिनां प्रयोगालयः इति प्रसिद्धः अस्ति ।
कर्णाटके प्रशासनम् कृतवत्सु बादाम्याः चालुक्याः प्रमुखाः आसन्। एते क्रिस्ताब्दस्य ५३५ तः ७५७ वर्षाणि यावत् शासकाः आसन् । एते कला -संस्कृतिरक्षकाः शिल्पकलासक्ताः च । शिल्पानां विषये आसक्तियुक्ताः इति कारणादेव अनेकान् सुन्दरदेवालयान् निर्मितवन्तः । ग्रीक् भूगोळज्ञः टालेमी एतं प्रदेशं ज्ञातवान् आसीत् । सः एतं पर्तुगल् इति उल्लिखितवान् अस्ति । चालुक्याः एतत् नगरम् किसुवोळल् इति उक्तवन्तः । अत्र पट्टाभिषेकोत्सवम् आचरन्तः आसन् इति कारणात् पट्ट्दकल्लु इति नाम आगतम् अस्ति । विश्वसंस्था अपि विश्वपरम्परास्थानानां पट्टिकायाम् एतत् नगरं समायोजितवती अस्ति ।
मलप्रभानद्याः वामनाला प्रदेशे एतत् नगरम् अस्ति । शिल्पकलासम्पद्युक्तं नगरमिदम् । अत्र नवदेवालयाः सन्ति । सर्वे शिवदेवालयाः । गळगनाथ-जङ्गमेश्वर-विरूपाक्ष-मल्लिकार्जुन- त्रिलोकेश्वर-पापनाशदेवालयाः प्रमुखाः सन्ति ।
श्रीविरूपाक्षदेवालयः (लोकेश्वरदेवालयः) बृहदस्ति । क्रिस्ताब्दे ६४० तमे वर्षे निर्मितः । देवालयस्य वास्तुविन्यासः अतीव सुन्दरः अस्ति । पूर्वाभिमुखः देवालयः एषः । महाद्वारं, नन्दिमण्डपः, मुखमण्डपः, विशालसभामण्डपः, प्रदक्षिणपथम्, अन्तरालः, गर्भगृहम् इत्येते भागाः विशिष्टाः सन्ति । नन्दिमण्डपे ९ पाददीर्घः, ७ पादविस्तृतः, कृष्णशिलानन्दिविग्रहः अस्ति । सभाभवने १८ स्तम्भाः सन्ति । १८ जालन्ध्राः सन्ति । एतेषु सुन्दरशिल्पानि सन्ति । शिखरं ५८ पादमितोन्नतम् अतीव सुन्दरं च अस्ति । एतत् कञ्चीकैलासेश्वरदेवालयस्य साम्यं भजते इति मतम् अस्ति । हेवेल् नामकः चरित्रकारः पट्टदकल्लु स्थलं दृष्ट्वा 'चालुक्यविक्रमादित्यः चोळानां पल्लवानां केरलराजानां विषये साधितस्य विजयस्य अपेक्षया विरूपाक्षमन्दिरं निर्माय अपूर्वां कीर्तिं सम्पादितवान्’ इति उक्तवान् अस्ति।
मार्गः
धूमशकटमार्गः
गदग-बिजापुरमार्गे बादामी निस्थानम् अस्ति । ततः २९ कि.मी ।
वाहनमार्गः
बेङ्गळूरुतः ५०० कि.मी, बिजापुरतः १२० कि.मी। पट्टदकल्लु उत्सवः प्रतिवर्षं प्रचलति । सङ्गीत-नृत्य-जानपदसङ्गीतानाम् अपूर्वं मेलनं तदा भवति । समीपे बादामी शिलागुहाः पर्वते (२९ कि.मी) सन्ति । बनशङ्करीदेवालयः (२० कि.मी) दूरे अस्ति । महाकूटेश्वरदेवालयः अपि अतीव सुन्दरः महाकूटस्थले(२० कि.मी) अस्ति । बादामी चालुक्यानां राजधानी आसीत् । बादामीनगरे वसति व्यवस्था अस्ति ।
अत्र सर्वकारेण ‘पट्टदकल्लु उत्सवः’ प्रतिवर्षं सञ्चाल्यते ।
चित्रशाला
-
मल्लिकार्जुनकाशीविश्वनाथमन्दिरे
-
काशीविश्वनाथमन्दिरम्
-
विरूपाक्षमन्दिरम्
-
७४५तमे वर्षे संस्थापितस्य विजयस्तम्भस्य उपरितनः लेखः
-
अष्टमशतकस्य विजयादित्यस्य शिलाशासनम्
-
पापनाथमन्दिरम्