विश्वनाथकेशवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विश्वनाथकेशवः
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः प्रतापशाक्तम्, सिद्धार्थप्रवजनम्, शिक्षणम्

विश्वनाथकेशवः ठाणे-मण्डल-वास्तव्यः महाकविः नाटककारश्च सुप्रसिद्धः । अस्य बहुविधाः रचनाः संस्कृतेन मराठीभाषया च विलसन्ति । तस्य नाटकेषु प्रतापशाक्तं, सिद्धार्थ-प्रव्रजनं, शिक्षणं, नन्दिनीवरप्रदानं च विशिष्टानि सन्ति ।

प्रतापशाक्तम्[सम्पादयतु]

राजस्थानस्येतिहासे स्वातन्त्र्योपासको महाराणाप्रतापः सुप्रसिद्धः । तस्यानुजः शाक्तसिंहः आसीत्। अनयोः परस्परं मनोमालिन्यं समुत्पन्नम् । उभावपि परस्परं हन्तुमुद्यातावभवताम् । किन्तु कुलगुरोरात्महत्यया तौ शान्तौ बभूवतुः।

शाक्तसिंहः प्रतापशत्रुम् अकबरमाश्रितवान् । अथापमानितो मानसिंहो महत्या सेनया प्रतापमाक्राम्यत् । शौर्येण युध्यन्नपि प्रतापः प्राणारक्षार्थमेकदा पलायितवान् । तस्याश्चेतको मार्गे मृतः । प्रतापस्य तात्कालिको महाविपत्तिमालोक्य शाक्तः प्रतापं शत्रुद्वयस्याक्रमणात् ररक्ष ।

सिद्धार्थ-प्रव्रजनम्[सम्पादयतु]

नाटकेऽस्मिन् सिद्धार्थस्य मातुर्गर्भे आगमनकालतः प्रव्रज्याग्रहणं यावत्कथा प्रपञ्चिता। १९६४ ई० वर्षे प्रकाशितम् ।

शिक्षणम्[सम्पादयतु]

आधुनिकशिक्षणपद्धतेस्तीक्ष्णालोचनं नाटकेऽस्मिन् प्रपञ्चितम् । अमृतलतायां १९६५ खीष्टाब्दे प्रकाशितम् । अस्य प्रथमोऽङ्कः विद्यार्थिवर्गस्याध्यापकवर्गस्य च दुष्प्रवृत्तीनां परिचायको वर्तते । संवादैः छात्राध्यापकेषु व्याप्तभ्रष्टाचारः समालोचितः । प्रथमाङ्कस्य घटनायाः पात्राणाञ्च द्वितीय-तृतीयाङ्काभ्यामत्यल्प एव सम्बन्धो वर्तते इति न समीचीनम् । सम्पूर्णेऽपि नाटके कार्यस्याभावोऽसंगतमेव।

जवाहर-स्वर्गारोहणम्[सम्पादयतु]

जवाहरस्वर्गारोहणमित्येकाङ्करूपकस्येतिवृत्तमुत्पाद्यमेव । जवाहरस्य मृत्युना लोको भृशं दुःखितः। तस्य स्वागतं कर्तुं देवाः समुत्सुका अभूवन् । चित्रगुप्तेन जवाहरस्य कृतित्ववर्णनात्मकं मानपत्रं श्रावितम् । स हि स्वलोके पूर्वजानां मध्ये सुप्रसन्नोऽभूत् ।

नन्दिनीवरप्रदानम्[सम्पादयतु]

विश्वनाथस्यैकाङ्कमिदं १९६४ ई० वर्षे प्रणीतम् । रूपकेऽस्मिन् रघुवंशस्य प्रथम-द्वितीय-सर्गयोः कथा प्रथिता ।

कीचक हननम्[सम्पादयतु]

कीचकहननमिति रूपकं महाभारतमुपजीवति । अस्याभिनयः कल्याणस्य रामबागे संजातः । पश्चात् नभोवाणीतः प्रसारितमेतत्।

अन्वर्थको लालबहादुरोऽभूत्[सम्पादयतु]

इदं रूपकं १९६६ ख्रीष्टाब्दे विरचितम् । एतस्मिन् पाकिस्तानं शमयितुं नायकस्य योजना कार्यान्विता । लालबहादुरेण प्रोत्साहिता सेना प्राणपणेनायुध्यत।

अपूर्वः शान्तिसंग्रामः[सम्पादयतु]

नाटकस्यास्य वर्ण्यविषयः श्रीगान्धिनो लवणसत्याग्रहो वर्तते। पञ्चप्रवेशेषु विभक्तेऽस्मिन्नेकाङ्के नाट्यतत्त्वस्याभावः प्रतिभाति।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

महाराणा प्रताप

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विश्वनाथकेशवः&oldid=435810" इत्यस्माद् प्रतिप्राप्तम्