वीणावासवदत्तम्
वीणावासवदत्तम् | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | अज्ञातः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
वीणावासवदत्तं केन कदारचयदिति न सुनिश्चितम् । वल्लभदेवः पञ्चदश्यां शताब्द्यां स्वकृतौ सुभाषितावली वीणावासवदत्तस्य नान्दीमुदाहरति । ततः प्राचीनतामेवास्य सूचयति । द्वादश्यां शताब्द्यां रामचन्द्रेण रचितस्य नलविलासस्य नायकयोः समागममनुहरति। वीणावासवदत्तमिति ततः परस्तात् त्रयोदश्यां शताब्द्यामिदं रचितं भवेदित्यनुमीयते । स्यादेतत्-गर्भनाटकं व्यक्तिद्वैधमौत्सुक्यसातत्यमित्येवमादि वीणावासवदत्तं परां कोटिमाटीकयति । भासस्य रूपकेषु वा मुद्राराक्षसे वा न तथा वस्तुविन्याससामञ्जस्यं गाढनाट्यबन्धनैपुण्यं च दृश्यते।
कथावस्तु
[सम्पादयतु]उज्जयिन्या राजा प्रद्योतश्चित्रमण्डपे मन्त्रिणं शालङ्कायनं सूर्यदत्तं वसुवर्माणं भरतरोहतकं च समेत्य स्वप्नमकथयत्शिवो मम दुहितुर्वासवदत्तायाः सर्वगुणगणालंकृतेन राज्ञा विवाहं भाविनमसूचयत् । वसुवर्मा वत्सराजमुदयनमेव तथा योग्यं निवेदयामास । अभिमानिने तस्मै न कन्या देयेति प्रद्योत उवाच । तस्य गर्वोऽपनेयः । तमत्र निगृह्यानीतं परीक्षेत भवान् – के वा गुणाः अवगुणाः वेति भरतरोहतकस्य मतमभूत् । हस्तिनो ग्रहीतुं वत्सराजो वनाय प्रस्थित इति विदितवृत्तः शालङ्कायन एव तत् सम्पादयितुं राज्ञा नियुक्तः।
आखेटको वत्साधीशो यमुनातीरस्थं शिलीन्ध्रकवनं प्राविशत् । तन्मन्त्री यौगन्धरायणः कार्यतः कौशाम्ब्यामेव विलम्बितः । सैन्याध्यक्षो रुमण्वान् पुलिन्दान् शमयितुं व्याघ्रवनं गतोऽभूत् । यान्त्रिकं नीलगजराजमारूढे शालङ्कायने सचतुरङ्गसैन्ये तत्रायाते राज्ञः प्रद्योतस्य चरो वत्सराजं संगम्य सालवने योजनद्वये भ्रमन्तं नखदन्तर्वाजतं नीलं गजराजं प्रति सूचयामास । विष्णुव्रातं मन्त्रिणं तत्रैव विहाय नीलगजं ग्रहीतुमुदयनः प्रहरशेषेऽहनि सालवनं प्राप्तश्चरेण नीलगजो दर्शितः । पटहादिकं वाद्यमानं श्रुत्वा कृतकं च गजराजमाकलय्य प्रद्योतसैनिकान् पुरतो निभाल्य निग्रहीष्यमाणमात्मानं विचिन्त्य वीणामौपगायकाय समर्प्य युद्धाय समुद्यतः।
ततो वत्सराज-शालङ्कायनौ कूट-वार्ताचर्यायां निष्फलायामयुध्यताम्। सर्वेषु वत्सराजसैनिकेषु पराहतेषु विक्षत उदयनो निगृहीत उज्जयिनीमानीयत। सांकृत्यायन्याः परिव्राजिकायाः पत्रेण हतशेषेण वत्सराजसैनिकेन हंसकेन च निवेदित-वृत्तान्तो यौगन्धरायण उदयनस्य मरणं प्रति डिण्डिमघोषमकारयत्, स्वयं च कुटाक्षरबद्धं पत्रं रुमण्वते प्रेष्य मन्त्रबद्धदृष्टीनां जनानां समक्षमात्मनोऽग्निपातं नाटयित्वा भृशं निगूढ उज्जयिनीं गतः।
आपन्नविक्लवां कौशाम्बीं पाञ्चालाधीश्वरो हस्तगतविभवां चकार। युद्धात् पलायनमभिनीय रुमण्वान् आ कौशाम्ब्या आ चोज्जयिन्याः स्वसैनिकान् कृषिकर्मादिव्याजगूढान् सर्वत्र नियोजयामास । अन्तर्भेदकुशलो यौगन्धरायणो मायाच्छन्नस्वरूप उज्जयिन्यां चारेण सह वसन् विशाखेन सेनानायकेन प्रतिपालितानां सैनिकानां पञ्चशतीमाज्ञाप्रतीक्षापरायणान् स्थापयति स्म । प्रद्योतस्य प्रियं गजराजं नलगिरं च तथौषधेर्मत्तमकारयद्, यथा सोऽतिक्रान्तसकलश्वासितवती। पश्चात् राजानं तां गन्धर्वगृहीतामवेद्य ‘गन्धर्वाचार्य उदयनस्तुम्बरोः शापेन मनुष्यतां गतः, तत्समीपे गन्धर्वा न प्रभवन्ति' इत्युपायं च प्रशस्य सा वत्सराजं स्वतन्त्रं कारयामास।
तत उपचितवात्सल्यस्य प्रद्योतस्य सद्मसु लब्धबहुमान उदयनो विदूषकमेकदा नाटकमेकं प्रयोजयितुं प्रोक्तवान् । तत्र यौगन्धरायणः सूत्रधारस्य, सांकृत्यायनी नट्याः, उदयनो नायकस्य, वासवदत्ता च नायिकायाः पात्रतामभिनेष्यन्तीति विदूषकस्तद् यौगन्धरायणस्यानुमतं विज्ञाप्य नायिकया सह नर्तनेच्छां प्रकटयामास । पाञ्चालराजेनारुणिनाधिकृतां च कौशाम्बीमसूचयत् । अथ भरतरोहतकोऽधिगम्य प्रद्योतो भवता गान्धर्वविद्यां शास्यमानां वासवदत्तामिच्छतीति निवेदितवान् । ततः कन्यान्तःपुरं प्रविष्टाः सर्वे । उदयनश्च वासवदत्ताया अन्तःपुरं भूषयन् गान्धर्वं शिक्षयति स्म । सांकृत्यायनीसमुपस्थितौ प्रथमं वीणां वादयन् राजा संगीतकमारभत -
चतुरुदधि-जलाम्बरां परां फलभर-पिञ्जर-शालि-मालिनीम्।
चिरमवतु नृपो हताहितां हिमगिरि-विन्ध्य-पयोधरां धराम्।। [१]
हविषा कृष्णवर्त्मेव वीणाशिक्षणेन प्रणयोन्मादः सानुबन्धमवर्धत । विदूषकः सुहृदमाचार्यं घोषयित्वा वासवदत्तां तस्य भाविनीमाचार्यां सम्भाव्यानृत्यत । वासवदत्तायाः पारितोषिकाङ्गलीयकात् प्रतिमोदकान् ग्रहीतुकामाय तस्मै मोदकान् प्रदाय नायिकाङ्गलीयकं स्वीचकार । तेन स्पृष्टेन प्रियास्पर्शसुखमनुभवन्नसौ चिन्तितवान् प्रणयव्यतिकरोऽयमनुमतो यदि नाम प्रद्योतस्य न स्यादिति स कामजनितमवसादं च गोपायितुं विदूषकेण नर्मदया नाम बन्धक्या सह स्वप्रेमव्यापारं प्रचारयामास, तस्यै चोपायनानि प्रेषितवान् । चेटीमुखात् तद् विदित्वा वासवदत्ता तत्प्रियस्यैव लेखमाहरन्तीं सांकृत्यायनीं पृष्ट्वा रहस्यमजानात् । उदयनो हि सांकृत्यायनीं यमुनाह्रदे निमज्जन्तीमरक्षदिति सा राज्ञ सदाशयास्ति । राजा तु प्रयोजनवशादेव नर्मदायां प्रेमाभिनयं दर्शयतीति सान्त्वयित्वा सा नायिकायै पत्रमर्पितवती । तत्र च लिखितं पद्यद्वयमभूत् -
दृष्टा यदा त्वमुडुराज-समान-वक्त्रे नष्टा तदाप्रभृति मे क्षणदा सुनिद्रा।
सर्वेष्वभूदरतिरेव मनोहरेषु जातं निदाधदिवसः श्वसितं समानम्।।
दहति मदनवह्निः स्नेहहव्यो मनो मे
प्रतिवचनजलैस्तं साधु निर्वापय त्वम्।
वरतनु तव शय्या वेश्मदाहेत्युपेक्षा
भवति हि सुदति त्वां तेन विज्ञापयामि।।[२]
इति प्रकाशितमष्टमाङ्कान्तं कथानकम् -
उदयनवासवदत्तयोः कथा भासेन प्रतिज्ञायौगन्धरायणे स्वप्नवासवदत्ते चादायोत्कर्षं गमिता। कालिदासेनापि ‘उदयन कथाकोविदान् ग्रामवृद्धान्' इति तस्याः लोकख्यातिः उररीचक्रे । वीणावासवदत्तं तामेव परम्परामनुरुन्धदभिनयमयेन नाट्यविन्यासेन संवादांश्च कार्यव्यापार-समर्थितान् विधायोपनिबद्धमित्यनुत्तमं कौशलम् । अयमपरो विशेषो यदिदं कुटघटनाभिरौत्सुक्यं कौतूहलं च जागरयत् स्वान्तं तन्मयीभावं नयति।