वीरेन्द्र पाटील

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वीरेन्द्र पाटीलः इत्यस्मात् पुनर्निर्दिष्टम्)

हैदराबाद्(भाग्यगनगरम्)कर्णाटकप्रदेशः यदा निजामैः दुराक्रान्तः नैके युवानः विमोचनार्थं सङ्ग्रामे निपतिताः । तेषु अन्यतमः वीरेद्रपाटीलमहोदयः ।

जन्म शिक्षणं च[सम्पादयतु]

गुल्बर्गामण्डलस्य चिञ्चोळीग्रामे क्रि.श. १९२४तमे वर्षे फेब्रवरिमासस्य २८तमे दिने एतस्य जन्म अभवत् । चिञ्चोळीग्रामः निजामानां शासने आसीत् । तेषां सामन्तः राजा भीमसेनरावधर्मपालदेशमुखः तं शास्ति स्म । तस्य आस्थाने बसप्पपाटीलः ’मुन्शि’आसीत् । अस्य बसप्पमहोदयस्य कनिष्ठः पुत्रः एव वीरेन्द्रपाटीलः । ज्येष्ठः पुत्रः शरणप्पः, पुत्री महादेवी । प्रथमिकीं शिक्षां चिञ्चोळीग्रामे समाप्य माध्यमिकशिक्षां गुल्बर्गापत्तनस्य उस्मानिया इण्टर्मिडियेट् सर्वकारीयशालायां प्राप्तवान् । शालायाम् उर्दूमाध्यमस्य प्रभावः असीत् तथापि आङ्ग्लमाध्यमेन तस्य अध्ययनम् अभवत् । बालकः वीरेन्द्रः आङ्ग्लभाषायां प्रावीण्यं सम्पादितवान् । दशमकक्ष्यां हैदराबाद्नगरस्य विवेकवर्धिनीशालायां समापितवान् । एषः राष्ट्रियविचाराणां पृष्ठभूमौ सञ्चालितायाः शालायाः विशेषं संस्कारं प्राप्तवान् । तदेव तस्य जीवनस्य नान्दी अभवत् । उस्मानियामहाविद्यालयात् पदवीं प्राप्तवान् । तत्रैव आङ्ग्लभाषां नीतिशास्त्रं च पठित्वा बुद्धेः प्रौढत्वं सम्पादितवान् । देशमुखराजस्य मरणानन्तरं चिञ्चोळिसंस्थाने उत्तराधिकारिणः सहकारिणः न अभवन् । अतः बसप्पमहोदयः उद्योगं त्यक्त्वा कृषिकार्यम् आरब्धवान् । तादृशस्य स्वावलम्बिनः स्वाभिमानिनः बसप्पस्य पुत्रः वीरेन्द्रपाटीलः आधुनिकन्यायशास्त्रे पदवीं उस्मानियामहविद्यालयतः एव प्राप्य पाण्डित्यं सम्पादितवान् ।

क्रीडासक्तिः[सम्पादयतु]

वीरेन्द्रस्य कन्नडभाषायाः विषये अतीव प्रीतिः, कर्णाटकराज्यनिर्माणविषये च उन्नता आसक्तिः आसीत् । क्रीडायाम् अपि अस्य रुचिः आसीत् । वालीबाल्-क्रीडां (करकन्दुकक्रीडां), फुट्बाल्-क्रीडां( पादकन्दुकक्रीडां) टेनिस्-क्रीडां फलककन्दुकक्रीडां च वाल्लिबाल्, टेन्निस्, फुट्बाल्, क्रीडाः खेलति स्म । क्रि.श. १९४३तमे वर्षे करकन्दुकक्रीडास्पर्धायां भागं गृहीत्वा निर्णायकपात्रम् ऊढवान् । क्रि.श.१९४७तमे वर्षे न्यायवादिनः वृत्तिम् आरब्धवान् ।

"https://sa.wikipedia.org/w/index.php?title=वीरेन्द्र_पाटील&oldid=363909" इत्यस्माद् प्रतिप्राप्तम्