वेदान्ते अध्यारोपापवादन्यायस्य सञ्चालनम्
उपनिषत् किमर्थम् अध्यारोप-अपवादन्यायमनुसरति इति अवगमः महत्प्रयोजनाय कल्पते । प्रश्नोपनिषत् (६.२) मन्त्रः एवं पठ्यते –
“ | ’तस्मै स होवाच । इहैवान्तःशरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ।। २ । | ” |
इति ।
तत्र भाष्ये श्रीशंकराचार्याः कथयन्ति -
इहैव अन्तःशरीरे हृदयपुण्डरीकाकाशमध्ये हे सोम्य स पुरुषो न देशान्तरे विज्ञेयो यस्मिन् (पुरुषे) एताः उच्यमानाः षोडश कलाः प्राणाद्याः प्रभवन्ति उत्पद्यन्त इति षोडशकलाभिः उपाधिभूताभिः सकल इव निष्कलः पुरुषो लक्ष्यतेऽविद्यया इति तदुपाधिकलाध्यारोप-अपनयेन विद्यया स पुरुषः केवलो दर्शयितव्य इति कलानां तत्प्रभवत्वमुच्यते । प्राणादीनाम् अत्यन्तनिर्विशेषे ह्यवद्वये शुद्धे तत्त्वे न शक्योऽध्यारोपमन्तरेण प्रतिपाद्य-प्रतिपादनादि-व्यवहारः कर्तुमिति कलानां प्रभव-स्थिति-अप्यया आरोप्यन्ते अविद्याविषयाः । चैतन्याव्यतिरेकेणैव हि कला जायमानाः तिष्ठन्त्यः प्रलीयमानाश्च सर्वदा लक्ष्यन्ते । इति ।
भाष्यस्यास्य मुख्यांशाः एवं वर्ण्यन्ते -
- १. परमसद्वस्तु ब्रह्म, पुरुष इति प्रोक्तः, अस्माभिः स्वीयशरीरे एव उपलब्धव्यतया उपदिश्यते, न तु अन्यत्र क्वचित् । इयम् उपनिषदां सामान्या सरणिः ।
- २. यतो हि तद्वस्तु सर्वविशेषवर्जितम्, तस्य यथावद्रूपम् अवगमयितुम् अशक्यम् ।
- ३. ततः, तं गोचरयितुम् उपाधयः तस्मिन् आरोप्य आश्रितव्याः भवन्ति ।
- ४. यदा उपाधयः आरोपिताः सन्ति, तदा तादृशवस्तुनः अस्तित्वं स्थापितं भवति । यदि उपाध्यारोपः न कृतः तर्हि तस्मिन् विषये नास्ति इति बुद्धिर्वा अस्ति वा न वा इति शंका वा स्यात् ।
- ५. आत्मनः अस्तित्वेऽभ्युपगते सति अध्यारोपितोपाधीनां निराकरणं न केवलम् आवश्यकम् अपि तु सुलभसाध्यं च, सम्यज्ज्ञानविशिष्टबुद्धिद्वारा ।
- ६. सर्वोपाधिनिराकरणे तु अवशिष्यमाणात्मनोऽस्तित्वस्य निराकरणं न शक्यं केनचिदपि यतो हि निराकर्तुः आत्मैव तत् इति । न कोऽपि स्वस्य आत्मनोऽस्तित्वनिराकरणे समर्थः ।
- ७. श्रीगौडपादाचार्यवचनादपि अवगम्यते यत् उपनिषत्सु अग्न्यादिदृष्टान्तमादाय प्रपञ्चसृष्टिः उपदिश्यते तत् आत्मनस्तत्त्वम् सुखेन अवगतं स्यात् इत्यर्थम् उपायत्वेनैव न तु प्रयोजनान्तरबोधनाय इति –
“ | मृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदिताऽन्यथा ।
उपायः सोऽवताराय नास्ति भेदः कथञ्चन ॥ ३.१५ ॥ |
” |
- ८. अत्रापि अस्यां प्रश्नोपनिषदि माण्डूक्योपनिषदि यथा, षोडश कलाः (त्रय अवस्थाः माण्डूक्ये) उपनिषदा एव उपदिष्टाः उत्पद्यमानतया, अनुभवगोचरतया च पूर्वम्, तथा पश्चात् निराकृताः अशक्यनिराकरणब्रह्मावगत्यर्थम् (अवस्थानां निराकरणं यथा माण्डूक्ये सप्तमे मन्त्रे ’नान्तःप्रज्ञम्..’ इत्यादिना, तुरीयावगमनप्राप्त्यर्थम्)
- ९ तथा च इयं सरणिः द्रष्टव्या उपनिषत्सु सर्वासु यत्पूर्वं कलाः अवस्थाः सर्वं च जगत् ब्रह्मणो उत्पद्यमानतया दर्शयित्वा अध्यारोपेण, पश्चात् ब्रह्मस्वरूपयाथात्म्यबोधनाय तस्यापवादः क्रियते इति ।
- १०. कलानाम् , कृत्स्नस्य वा जगतः, सृष्टिस्थितिलयाः सर्वदा चैतन्यात्मकब्रह्मसम्बद्धमेव बोध्यते यत्र सृष्टं वस्तु तु अचेनतमेव ।
- ११. अत्र चेतनब्रह्म-जडवर्गयोः मध्ये आधार-परतन्त्ररूपसम्बन्धः व्यवस्थितः ।
- १२. अत्र पराधीनस्य जडस्य परतन्त्रत्वं तथा आधारस्य चेतनस्य स्वतन्त्रत्वम् इति विवेकः ।
- १३. यथा मृत्कार्यं मृद्व्यतिरेकेण उत्पत्तिं स्थितिं वा लयं वा नैव लब्धुं शक्नोति तथैव परतन्त्रं जगत् तदाधारस्वतन्त्रब्रह्मव्यतिरेकेण उत्पत्त्यादिकं नैव प्राप्तुं पारयति । इदमेव कार्यकारणानन्यत्वम् इति प्रसिद्धः शास्त्रे ।
- १४. अस्मिन्विषये रज्जुसर्पः एक एव दृष्टाआत्मनन्तः । अरोपितसर्पः तदाधाररज्जुसत्त्वमन्तरेण नैव उदेति । यावत्कालं भ्रमः स्थास्यति तावत्पर्यन्तं सर्पः रज्जुसत्त्वमेव अवलम्ब्य तिष्ठति ।नूनम् अस्य सर्पस्य ’अपसरणे’ आवश्यकम् आधारत्वेन आवश्यकम् ।
कदापि तत्र रज्जुरिति सर्प इति च वस्तुद्वयं वर्तते इति नैव वक्तुं शक्यते । सर्वस्यामपि अवस्थायां एकम् एव वस्तु गण्यते, तत्तु रज्जुरेव ।अध्यस्तसर्पः कदापि द्वितीयत्वेन गणयितुं पार्यते ।
- १५. एवं च युक्तियुक्तमेव यत् उपनिषत् अध्यारोप-अपवादप्रक्रियाम् अवलम्बते इति ।यतो हि यद्वस्तु अध्यारोप्यते पूर्वम् , पश्चाच्च निराक्रियते, तत् न
सारभूतम् । आत्मैव तत्र विद्यमानत्वेन सत्यवस्तु ।
उपनिषदः लक्ष्यं न सृष्टप्रपञ्चज्ञापने, अपि तु स्रष्टृविषयकयाथात्म्यबोधने ।
न एका अपि उपनिषत् सृष्टप्रपञ्चज्ञानेन पुरुषार्थलाभं प्रतिजानीते ।
वस्तुतः क्षेत्रं ज्ञेयम्, क्षेत्रज्ञात् ज्ञातुः सकाशात् भिन्नत्वेन हि बोध्यते, तज्ज्ञानमेव मोक्षकारणम् इति । उक्तं च भगवता –
“ | क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥भगवद्गीता १३.३४ ॥ |
” |
आख्यायिका
[सम्पादयतु]<poem> अस्मिन्नर्थे प्रसिद्धा आख्यायिका वर्तते -
कश्चन नृपः सप्तदशगजपतिः मृतः । तस्य त्रयः पुत्राः आसन् । तस्य मृत्युपत्रे एवम् आदेशः दृष्टः – प्रथमपुत्रः अर्धभागी, द्वितीयः तृतीयांशभागी तथा तृतीयः नवांशभागी गजानां भवेदिति । भागपरिमाणं तु न परिणमेत् इति च ।
सप्तदश विषमसंख्या इति हेतोः, तद्गजसमूहविभजनं कष्टकरम् इति च ते पुत्राः समास्यापरिहारे असमर्थाः च चिन्ताक्रान्ताः च अभवन् ।
दैवात् तेभ्यः प्राज्ञः चतुरः च नृपस्य चिरमित्रं च एकः महाभागः तत् राज्यम् उत्तरति स्म ।
ते राजसूनवः तस्मै स्वीयसमस्यां विज्ञापितवन्तः तस्याः परिहारे साहाय्यं च प्रार्थितवन्तः । स प्राज्ञः तान् आश्वासयन् समस्यापरिहारे मग्नः च अभवत् ।
स स्वीयगजं तत्सप्तदशसमूहेन अयोजयत् यथा अष्टादश हस्तिनः आसन् ।
ततः नव गजान् पृथक्कृत्य अष्टादशस्य अर्धभागत्वेन आद्यपुत्रं प्रति प्रायच्छत् ।
द्वितीयः राजकुमारः करिणषट्कं प्राप्तवान् स्वीयभागत्वेन (अष्टादशस्य तृतीयांशत्वेन ) ।
अन्ते तृतीयः पुत्रः हस्तिद्वयं गृहीतवान् , अष्टादशस्य नवांश्वत्वेन ।
आहत्य वितरितगजानां संख्या सप्तदश ( ९ + ६ + २ )
अवशिष्टः अष्टादशः गजः तत्प्राज्ञस्य, यं सः स्वायत्तीकृत्य ततो निर्गतवान् । सर्वे च सन्तुष्टाः अभवन् ।
अन्तिमः गजः वेदान्तशास्त्रीयमायातत्त्वस्थानीयः । स समस्यापरिहाराय आनीतः, तत्पूरणादूर्ध्वं ततो बहिर्नीतः, तस्य पूर्वसत्त्वं निरवशेषं परिमार्जयन् ।
इदमेव प्रयोजनम् अध्यारोप-अपवादन्यायस्य वेदान्ते ।