व्याडिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

व्याडिः पाणिनिव्याकरणस्य आधारेण सङ्ग्रहग्रन्थम् अरचयत्। कात्यायनः पाणिनिशब्दानुशासनोपरि वार्तिकानि कृतवान् । तयोरन्तराले हि व्याडिर्नाम काश्चिदपरो विचक्षणो बभूव यो हि पाणिनीयव्याकरणमधिकृत्य संग्रहग्रन्थं प्रणीतवान् । व्याडेः समग्रः परिचयस्तु नैव ज्ञातमस्माकम् । तं हि पुरुषोत्तमदेवस्त्रिकाण्डशेषे विन्ध्यस्थः, नन्दिनीसुतः, मेधावी इति त्रिभिः पर्यायैः परिचाययति । हेमचन्द्रश्च तं विन्ध्यवासी इति केशवश्व विन्ध्यनिवासी इतिः कथयति ।

स्मरणम्[सम्पादयतु]

यद्यपि तस्य कृतिः सम्प्रति नैवोपलभ्यते तथापि ग्रन्थान्तरे स बहुत्र समुद्धतः दृश्यते । संग्रहलक्षणं यथा-

विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।

निबन्धो यः समासेन संग्रहं तं विदुर्बुधाः ।।[१]

स च संग्रहः पाणिनीयशास्त्रमधकृत्य कृत आसीदिति विश्वस्यतेः । यथोक्त महाभाष्यदीपिकायां भर्तृहरिणा - संग्रहोऽप्यस्यैव शास्त्रस्यैकदेशः इति ।

यथा च वाक्यपदीयटीकायां पुष्पराजः - ‘इह पुरा पाणिनीयेऽस्मिन् व्याकरणे व्याड्युपरचितं लक्ष्यग्रन्थपरिमाण संग्रहाभिधानं निबन्धमासीत् ।' इति । तथा च कृष्णचरिते समुद्र गुप्तः -

रसाचार्यः कविडिः शब्दब्रह्म कवाङमुनिः ।

दाक्षीपुत्रवचोव्याख्यापटुर्मीसांसकाग्रणीः॥ इति । तथा च महाभाष्ये -

‘शोभना खलु दाक्षायणस्य संग्रहस्य कृतिः'[२] संग्रहपदञ्च पाणिनिगणपाठे पठितमस्ति । तद्धि संक्षिप्तवचनार्थकम् । संग्रहश्च लक्षसँख्यो ग्रन्थः । यथोक्त उद्द्योते - संग्रहो व्याडिकृतो लक्षसंख्यो ग्रन्थः' इति । मेधावी हि भामहेन काव्यालङ्कारे[३] अलङ्कारशास्त्रप्रवक्तृत्वेन स्मृतः । स एव अग्निपुराणेऽपि अलङ्कारशास्त्राचार्यत्वेन स्मृतः ।

व्याडिः वैयाकरणः ऋक्प्रातिशाख्ये बहुत्र, महाभाष्ये आषिशलपाणि नीयव्याडीयगौतमीयाः[४] द्रव्याभिधानं व्याडिः[५] इति काशिकावृत्तौ, ‘इको यण्भिर्व्यवधानं व्याडिगालवयोरितिवक्तव्यम्' इति भाषाः वृत्तौ च स्मृतः । सायणाचार्यानुसारेण व्याडिपदस्य निरुक्ति व्यडस्यापत्यमिति। व्यडशब्दात् ‘अत इन' इति इत्रि उपधावृद्धौ व्याडिः ‘स्वागतादीनाञ्च' इति वृद्धिप्रतिषेधैः जागमयोनिषेध इति ।

व्याडयः[सम्पादयतु]

व्याडिनामका अनेके आचार्या अभूवन् । कश्च प्राचीनः कश्चार्वाचीन इति परिच्छेत्तु न सुकरम् । ते च ऋक्प्रातिशाख्ये स्मृतो व्याडिः, संग्रहकारो व्याडिः रसशास्त्रज्ञो व्याडिश्च। दाक्षीपदेन वा दाक्षायणपदेन सङ्केतितो व्याडिश्चापरः।

तत्रैको व्याडिः पाणिनिपूर्ववर्ती ऋक्प्रातिशाख्यादिषु स्मृतः । एकश्च व्याङिः पाणिनिसमकालिकः कोशकारः । एकश्च व्याडिः पाणिन्यपरवर्ती पाणिनीयशब्दानुशासनस्य द्वितीयो वृत्तिकारः । एकश्च व्याडिः प्रकरणगतः संग्रहकारः । स किदेशिकः किंकालिक इति चास्माकं न किमपि ज्ञातम् ।

व्यडिः संग्रहः शोभन आसीदिति ‘शोभना खलु, दाक्षायणस्य संग्रहस्य कृतिः' इति महाभाष्यकारस्यं[६] वचनाज्ज्ञायते । संग्रहश्च पञ्चस्वध्यायेषु विभक्त आसीदिति ‘‘पञ्चकः संग्रहः । अष्टकं पाणिनीयम्” इति चान्द्रव्याकरणस्य वृत्तौ कथनेन ज्ञायते । स च लक्षश्लोकात्मक आसीदितिं संग्रहो ब्याडिकृतो लक्षश्लोकसंख्यो ग्रन्थ इंति प्रसिद्धिः' इतिः नागेशभट्टवचनाज्ज्ञायते । स हि सूत्रात्मक असीदिति -सांग्रहसूत्रिकः' इति महाभाष्यवचनात् ।[७] ज्ञायते । संग्रहश्च प्रधान्येन व्याकरणदर्शनसम्बद्ध आसीदितिः । ‘संग्रहे तावत्प्राधान्येन परीक्षितम् । नित्यो वा स्यात् कार्यों वा । तत्रोक्ता दोषाः प्रयोजनान्यप्युक्तानिः। तत्र त्वेषं निर्णयः यद्येव नित्योथापिं कार्यं उभंयथा पि लक्षणं प्रवर्यम्। संग्रहे तावतु कार्यप्रतिद्वन्द्विभावात्संन्यामहे नित्यपर्यायवाचिनो ग्रहणमिति । संग्रहे च अष्टाध्यायीस्थसूत्रेभ्य उदाहरणान्यपि प्रस्तुतान्यासन्निति । एवञ्च संग्रहादिषु तदुदाहरणदानमसङ्गतं स्यात्' इति नागेशवच“नाद्[८] ज्ञायते ।

न्यासकारो जिनेन्द्रबुद्धिः काशिकाविवरणपञ्जिकायां लिखति - ‘श्वोभूतिव्याडिप्रभृतयः श्रुयुकः किंतीत्यत्र द्विककारनिर्देशेन हेतुना चर्वभूतो गकारः प्रश्लिष्ट इत्येवमाचक्षते' इति । व्याडेरिदं कितीत्यत्र क्कितीति पाठेन गित्वस्यापि ग्रहणस्य साधकं मतं संग्रहे एव निरूपितं सम्भवति । इदमपि सम्भवति यद् व्याडिना संग्रहग्रन्थातिरिक्तमपि अष्टाध्याय्या वृत्तिरपि प्रणीता भवेत् । तथ्यमिदं दाक्षीपुत्रवचोव्याख्यापटुरिति विशेषणेनाऽपि ज्ञायते । संग्रहग्रन्थे चतुर्दशसहस्राणि वस्तूनि परीक्षितान्यासन्निति ‘संग्रहे तावत्प्राधान्येन परीक्षितम्' इति महाभाष्यकथनस्य चतुर्दशसहस्राणि वस्तूनि अस्मिन् संग्रहग्रन्थे परीक्षितानि' इति भतृहरिव्याख्यया ज्ञायते । तथा सत्यस्य लक्षश्लोकवत्त्वं सिध्यति ।

संग्रहग्रन्थस्य प्रतिष्ठा तदा सर्वोत्कृष्टाऽऽसीत् । जनाश्च तदाऽऽत्मानं '... दाक्षिव्याकरणदक्ष इति प्रदर्शने गौरवमनुभवन्ति स्म । काशिकायां[९] कुमारीदाक्षाः ‘इति पदं प्रयुक्तमस्ति यस्याशयो जनाः कुमारीलाभार्थमात्मानं दाक्षिव्याकरणविज्ञं कथयन्ति स्म । संग्रहस्यास्य सवोंत्कृष्टत्वं निम्नाङ्कितेन महाभाष्योद्धृतवचनेनापि ज्ञायते -

किरति चर्करीतान्तं पचतीत्यत्र यो नयेत्।

प्राप्तिज्ञ तमह वन्दे प्रारब्धस्तेन संग्रहः ।। इति ।

अथ कानिचित्संग्रहवचनानि युधिष्ठिरमीमांसकेन सङ्कलितानि-

न हि किञ्चित्पदं नाम रूपेण नियतं क्वचित् ।

पदानां रूपमर्थो वा वाक्यार्थादेव जायते।।

अर्थात् पदं साभिधेयं पदाद् वाक्यार्थनिर्णयः ।

पदसंघातजं वाक्यं वर्णसंघातजं पदम् ।

शब्दार्थयोरसम्भेदे व्यवहारे पृथक्रिया।

यतः शब्दार्थयोस्तत्वमेकं तत्समवास्थितम् ।।

सम्बन्धस्य न कर्ताऽस्ति शब्दानां लोकवेदयोः ।

शब्दैरेव हि शब्दानां सम्बन्धः स्यात कृतः कथम् ।

शब्दस्य ग्रहणं हैतुः प्राकृतो ध्वनिरिष्यते।।

स्थितिभेदै निमित्तत्वं वैकृतः प्रतिपद्यते।।

असतश्चान्तराले याञ्छब्दानस्तीति मन्यते ।।

प्रतिपत्त रशक्तिः सा ग्रहणोपाय एव सः ।।

यथा ऽऽद्यसङ्ख्याग्रहणंमुपायः प्रतिपत्तये ।

सङ्घयान्तराणां भदेऽपि तथा शब्दान्तश्रुतिः ।

शुद्धस्योच्चारणे स्वार्थः प्रसिद्धोयस्य गम्यते ।

स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ।।

यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।

तमप्रसिद्ध मन्यन्ते गौणार्थाभिनिवेशिनम् ।।

किं कार्यंः शब्दोऽथ नित्य इति ।

संग्रहस्य महत्वमुद्धौषयन् भतृहरिविलपति तल्लोपे--

प्रायेण सङ्क्षेपरूचीनल्पविद्यापरिंग्रहान् ।

सम्प्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ।

कृतेऽथ पतञ्जलिना गुरुणा तीर्थदशना ।

सर्वेषां न्यायबीजानां महाभाष्ये निबन्धने ।

एतदतिरिक्तं दशाध्यायात्मकं व्याकरणशास्त्र, बलचरितं नाम महाकाव्यं, परिभाषापाठः, लिङ्गानुशासनं, विकृतवल्ली (ऋक्परिशिष्टम्) कोशेश्च

व्याडिप्रोक्तप्रणीतत्वेन प्रद्धिसाः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. भरतनाट्यशास्त्रे ६॥९
  2. २।३।६६
  3. २॥४०॥८८
  4. ६।२।३६
  5. १।२।६८
  6. २।३।६६
  7. ४।२।६०
  8. ४।३।३९
  9. ६।२।९९
"https://sa.wikipedia.org/w/index.php?title=व्याडिः&oldid=443964" इत्यस्माद् पुनः प्राप्तिः