व्यासराजशास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
व्यासराजशास्त्री
जननम् विंशतिशताब्दी
वृत्तिः लेखकः
राष्ट्रीयता भारतीयः
प्रकारः नाट्यकारः
विषयाः पौराणिक-ऐतिहासिकनाटकानि
प्रमुखकृतयः विद्युन्माला, लीलाविलासप्रहसनम्, चामुण्डा, शार्दूलसम्पातः, निपुणिका

व्यासराजशास्त्री 'विद्यासागर' इत्युपाधिना विभूषितः । उपाधिरयं शास्त्रिणः सारस्वतमुत्कर्षम्। कविनानेन रामायणमुपजीव्य प्रायः पञ्चविंशतिः लघूनि रूपकाणि प्रणीतानि । संस्कृतं प्रति भारतवासिनामुपेक्षा तस्य मानसं दुनोति स्म । व्यासराजस्य रूपकेषु विद्युन्माला, लीलाविलासप्रहसनम्, चामुण्डा, शार्दूलसम्पातः, निपुणिका च प्रख्यातानि।

विद्युन्माला[सम्पादयतु]

विद्युन्माला एकाङ्करूपकमनेकेषु दृश्येषु विभक्तमस्ति । रामराज्याभिषेकस्य सज्जां प्रवर्तमानाम् अवलोक्य मन्थरा कैकेयीभवनं प्रविवेश । तदानीमेव लङ्का भूकम्प-समाकुला बभूव । रावण-प्रासादस्य केतुर्निपपात। धूमकेतुश्च रावणहर्म्यशिखरे न्यपतत्।

द्वितीये दृश्ये मन्थरा शयानां कैकेयीम् उद्बोधयति स्म । भाविनीं विपत्तिञ्च न्यवेदयत् । तस्याः कर्तव्यपालनात् प्रसन्ना कैकेयी तस्यै कण्ठहारं प्रायच्छत् । अथ च मन्थरा ब्रवीत् - भवत्याः भ्राता भवदीयामापदं दूरयितुमेव मां भवत्याः सविधवर्तिनीमकरोत् । मन्थराभारती कैकेय्या मनसि भेदभावनामुत्पादयितुं न शशाक ।

तृतीये दृश्ये बृहस्पतिरिमं वृत्तान्तं रावणाय निवेद्य अकथयत्। अस्माकं नीतिबीजं विनष्टम् । श्रुत्वैतदिन्द्रः कैकेयीं प्राशंसत् -

अभिरूपान्वयजाता सा सूक्तानि गिरतीति किं चित्रम्।

जातीलता हि सूते सुमनोजालानि सुरभिगन्धीनि।।

यदि च रामो राज्याभिषेके अभिषिक्तो भवति, तर्हि राजकर्मणि तथा व्यापृतो भविष्यति यथा रक्षोविनाशचिन्तामेव विस्मरिष्यति। सम्प्रत्ययमेव उपायो यद् वयं विद्युन्मालां नाम पिशाचिकां साकेतं प्रेषयित्वा कैकेयीहृदयं क्षुब्धं कुर्म इति बृहस्पतिनोक्तम्। चतुर्थेऽङ्के कैकेयी रामराज्याभिषेकवैभवं वीक्ष्य क्षुब्धा सती तद्विघातोपायं मन्थरामपृच्छत् । मन्थरामतम् अनुसृत्य सा कोपभवनम् अविशत् ।

अथ च दशरथेन प्रसाद्यमाना सा वरद्वयचर्चां चकार । नृपतिं वरं दातुकामं सा भरतस्याभिषेकं चीरजटाधारिणः सतो रामस्य चतुर्दशहायनमितं वनवासं च ययाचे । दशरथोऽब्रवीत् -

नूनं वरद्वयोद्भिन्नौ राहुकेतू रविद्विषौ।

यौ सूर्यवंशं ग्रसितुं युगपद् भुवमागतौ।।

इति कथयित्वा राजा मूमूर्छ । तदानीमेवागतेन सुमन्त्रेण कैकेयी राममानयति स्म । रामस्य पुरतः वरद्वयस्य च चर्चां कृतवती । रामस्तदनुसारं वनं प्रतस्थे । दशरथेनोक्तम् - अयि दुर्वृत्ते ! अद्य विच्छिन्नः त्वया सह दशरथस्य संसारबन्धः । इदं पश्चिमं ते दर्शनम्।

षष्ठे दृश्ये वनगमनमुद्दिश्य सीतारामयोः तर्क-वितर्को विद्यते । राम एकल एव वनं जिगमिषुरासीत् । तदानीन्तनः सीतायास्तर्कोऽवलोक्यताम् -

त्वदर्धमङ्गं यदि मां विहाय प्रयाति वन्यां भुवमार्यपुत्रः।

गुरोर्न वाक्यं परिपालितं स्यादर्धं कृतं चेदकृतेन तुल्यम्।।

अन्ततः सीतायाः सत्याग्रहः फलितः। सप्तमे दृश्ये रामः खड्गहस्तं पितृवधोद्यतं लक्ष्मणं दैवकृतमिदमित्युक्त्वा शमयामास । शान्तो लक्ष्मणो वनगमनायोद्यतोऽभूत्। अष्टमे दृश्ये वनगमनोद्यतायै सीतायै कैकेयी वल्कलानि प्रायच्छत् । रामस्तानि सीतायाः प्रार्थनया अंशुकानाम् उपर्येव बबन्ध अथ वसिष्ठः समागतः । तस्मै सीतायाः वनवासो नारोचत । सीता तमुवाच - आर्यपुत्र एव मम साम्राज्यम् ।

शिल्पम्[सम्पादयतु]

रूपकेऽस्मिन् दृश्यानामारम्भे एकोक्तिरास्ते । प्रथमदृश्यस्य प्रारम्भो वज्रदंष्ट्रस्य एकोक्त्या भवति । तृतीयं दृश्यम् इन्द्रस्यैकोक्त्या प्रारभ्यते । दृश्यस्य मध्येऽपि एकोक्तिर्विद्यते । तृतीयदृश्यस्य मध्ये बृहस्पतेः एकोक्तिविलसति । चतुर्थदृश्यस्य मध्ये सुमन्त्रस्यैकोक्तिरस्ति । गीतानां समावेशोऽस्मिन् बाहुल्येन विद्यते । संवादा लघु-वाक्येषु राजन्ते ।

लोकोक्तिः[सम्पादयतु]

(१) कुक्कुट्या वशमापन्नोऽयम्। (२) अलोहमयी श्रृंखला खलु कलत्रं नाम।

रूपकस्यास्य प्रकाशनं मद्रासस्य विद्यासागर-वाचनालयस्य १७४ संख्यायां ‘मइनरोडा राजा अण्णामलैरपुरतः १६५५ ख्रिष्टाब्दे संवृत्तम् ।

लीलाविलासप्रहसनम्[सम्पादयतु]

सप्ताङ्कके लीलाविलासे गौतमस्य पण्डितस्य कन्याया लीलायाः परिणयो विलासेन सह कठिनतया सम्पद्यते । गौतमो लीलाया विवाहं वेदान्तभट्टेन सरलपण्डितेन सार्धं चिकीर्षुरासीत् । किन्तु पत्नी चन्द्रिका तां सेमिलाभिधानाय मद्यसेविने दातुकामासीत् । लीला वेदान्तभट्ट सेमिलं च मनसा नाभिनन्दति स्म । तस्या भ्राता सत्यव्रतः तस्या रुचिं ज्ञात्वा तद्विवाहं स्वसहाध्यायिना विलासकुमारेण समं निरणयत्। विवाहात् प्रागेव दस्यवो देव्यै बलिं प्रदातुं लीलां भैरवी-मन्दिरं नयन्ति स्म । तत्र स्वप्राणान् पणीकृत्य विलासकुमारः तां ररक्ष । पुरस्काररूपेण स लीलां लभते स्म। लीलाविलासप्रहसनस्य प्रकाशनं १९३५ ख्रिष्टाब्दे पालघाटतः सञ्जातम् ।

चामुण्डा[सम्पादयतु]

चामुण्डायां चत्वारोऽङ्का विलसन्ति । प्रथमेऽङ्के दृश्यद्वयं द्वितीये, तृतीये, चतुर्थे चाङ्के एकैकं दृश्यं राजते । अस्य रूपकस्य कथानुसारं ग्रामवासिनः आधुनिकसभ्यतायाः उपलब्धिं विगर्हन्ति, किन्तु तदुपभोगं स्वीकुर्वन्ति । ग्रामीणानां मध्ये विधवैका लन्दन-नगरात् चिकित्सकशिक्षां गृहीत्वा समायाति । ग्रामजनास्तां तिरस्कर्तुं योजनां विदधति । एकस्मिन् दिने विरोधिनां नेतुर्वधूः रोगाक्रान्ता भवति । सा विधवा तां वधूं निःस्वार्थभावनया समुपचर्य स्वस्थां सम्पादयामास । तदा सर्वे विरोधिनः तस्यै साधुवादं प्रयच्छन्तस्तत्पक्षपातिनोऽभूवन्। रूपकस्यास्य प्रकाशनं मद्रासस्य चिन्ताद्रिपेटतः सम्पन्नम् ।

शार्दूलसम्पातः[सम्पादयतु]

प्रस्तुतं रूपकमेकाङ्कि विद्यते । अस्मिन् नान्दी, प्रस्तावना, भरत-वाक्यञ्च विद्यन्ते । शादूलचर्मधारी विश्वामित्रो दशरथं रामं भिक्षते । स खलु यज्ञरक्षायै राक्षसान् हन्तुं परमवीरमपेक्षते । दशरथो ब्रूते -

कृशतनुः खलु मे तनयोऽधुना

न स विमुञ्चति मातृजनान्तिकम्।

विहरणैकपरो हि ममार्भकः

कथमयं दनुजानभियास्यति।।

विश्वामित्रो ब्रूते - रक्षःप्रहरणं नाम केवलं विहरणमेव रामस्य। पुत्रवात्सल्याद् गरीयः शिष्यवात्सल्यम्। विश्वामित्रो रोषमप्याहरति यदा दशरथो रामदानं निषेधति ।

कृतिरियं वस्तुतो व्यायोगकोटिकं रूपकं भवितुमर्हति, यतो ह्यस्मिन् वैचारिकं वैषम्यं के धपूर्णया शब्दावल्याभिव्यक्तं, युद्धस्य वातावरणमपि च शोभते ।

सम्बद्धाः लेखाः[सम्पादयतु]

नाट्यशास्त्रम्

महाभारतम्

रामायणम्

संस्कृतम्

उद्धरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=व्यासराजशास्त्री&oldid=435397" इत्यस्माद् पुनः प्राप्तिः