शङ्करशङ्करम्
शङ्करशङ्करम् | |
---|---|
'राजा' रविवर्मणा निर्मितम् आदिशङ्कराचार्यचित्रम् | |
लेखकः | डॉ. रमा चौधुरी |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
शङ्करशङ्करस्य प्रथमः प्रयोगः प्राच्यवाण्याः १९६५ ईसवीयस्य द्वाविंशत्तमे प्रतिष्ठादिवसे विहितः । इदं तावद्रमाया द्वितीयं नाटकम् । कवयित्र्याः प्रथमं नाटकं यतीन्द्र-यतीन्द्रमस्ति । भारतीयदूतावासस्य समाश्रयेणास्याभिनयः संवृत्तः । अस्य प्रेक्षकेषु नेपालनरेशो महाराज महेन्द्रः सपरिवारो विराजते स्म । महाराजेनास्य सर्वेऽभिनेतारः पुरस्कृताः।
कथावस्तु
[सम्पादयतु]शिवगुरुर्महादेवे प्रत्यक्षे पुत्रस्योत्पत्तेर्वरमयाचत । शिवः सर्वज्ञं, किन्त्वल्पायुषं पुत्रं तस्मै प्राददात् । शङ्करस्य कृपया समुपलब्धस्य पुत्रस्याभिधानं शङ्कर इति कृतम्। अष्टवर्षीयः शङ्कर उपनीतो ब्रह्मचारिवेषमवाप्तवान् । एकस्मिन् दिने केरलनृपती राजशेखरस्तस्य दर्शनायागतः । भवन्तः श्रेष्ठाः संन्यासिनः सन्तीति तेनाभिहितम् । एकं हस्तिनम् , बहवश्च स्वर्णमुद्रास्तस्मै समर्पितवान् । शङ्करस्तत्सर्वं नास्पृशत् । राजा तस्मादुपदेशं गृहीत्वा गतः । तदानीमेव तस्य जननी तत्रागता । तया कथितम् अष्टमे वर्षे तव मृत्युयोगो वर्तते । एतस्मादेव भयात् तव समीपमागतास्मि । शङ्करेण कथितम् - भवती मां संन्यासायादिशतु । संन्यासी मृत्युभयाद्विमुक्तो भवति । जनन्या कथितम् - अहं विधवास्मि । नास्ति कोऽपि ममाश्रयः। अथ शङ्करो मातुराज्ञया स्नातुं गतः । तत्र नद्यां तं ग्राहो जग्राह । स मातरमाह्वयामास । कोऽपि शङ्करं मोचयितुं न शशाक । ततस्तेन कथितम्भवतीं संन्यासस्यानुमतिं प्रददातु, एतेन मम मोक्षो भवितुमर्हति । कृपणा सती माता तथा स्वीचकार । शङ्करो ग्राहान् मुक्तः । अथ पुनरपि जननी तं न परित्यजति स्म । अन्ततः समयपूर्वकं स मुक्तो यत् स्मरणसमकालमेव समागन्तव्यं भवता । शङ्करः प्रव्रज्यां गृहीतवान् ।
तृतीयदृश्यस्यारम्भः शङ्करस्यैकोक्त्या सम्पद्यते । तत्र स गुरुवन्दनं, दिवसलक्ष्म्याश्चर्चां, मासद्व यस्याश्रमवासस्य विमर्शं, तपोवर्णनं नर्मदास्तुतिश्च प्रकुरुते । ओङ्कारनाथनाम्नि स्थले कतिपय संन्यासिनस्तेन सह मिलन्ति । एकेन शङ्करः दृष्ट्वा कथितम् -
कान्तेः स्फुटत्वान्न शशाङ्क एष द्युतेतैक्ष्ण्यान्न सहस्ररश्मिः।
स्फुटप्रकाशोऽखरदीप्तिरम्यः क एष तेजस्विवरोऽतिसौम्यः॥
संन्यासिनस्ते शङ्करं वीक्ष्याश्चर्यचकिता आसन् यदयं बालसंन्यासी अतिदूरमध्वानं पद्भ्यां समागतः । शङ्करस्तान् समादधौ यद् भगवता सह मेलनकामि प्रेमैव तत्र कारणम्" इति। शङ्करस्य मनोनीता आचार्यागोविन्दपादाः चिराय समाधिलीना आसन् । अनेके संन्यासिनस्तेषां तस्याः स्थितेः समाप्तिं कामयमाना अवर्तन्त । अन्धकारावृतायां गुरुगुहायां शङ्करो दीपमादाय प्रविष्टवान । तत्र तांस्तुष्टाव। अथ तैः पृष्ट आत्मपरिचयं ददौ -
नादिर्ममान्तो न च देशकालौ न नामरूपे विदिते मम स्तः।
द्वितीयहीनं पुनरस्मि तत्त्वं सत्तास्मि सत्यं च तथाद्वितीयम्।।
तादृशं नाम श्रुत्वाचार्यास्तमूचुः – चिरकालात् तवैव प्रतीक्षा मम । अथ गोविन्दपादात् “सर्वं खल्विदं ब्रह्म” “तत्त्वमसि” इति श्रुत्वा व्युत्पन्नः शङ्करो जीवन्मुक्तो बभूव । ततो गुर्वादेशात् लोकहिताय पार्थिवजीवनधारणं स्वीकृतवान् । तत्कृते आचार्यादेशः आसीत्दिग्विजयं कुरु, प्रचाराय महिममयं ब्रह्मतत्त्वम् सर्वमेव ब्रह्मेति।
चतुर्थे दृश्ये शङ्करो वाराणसीमागच्छति | पद्मपाद-सनन्दननामानौ शिष्यौ तेन सार्धमास्ताम् । अथ स तत्रैकां सद्योविधवां ददर्श, या पतिशबस्य पार्श्वे रोदिति स्म । शङ्करस्तां पत्युः शवं परित्यक्तुमुपदिदेश । तयाभिहितम - अयमपि ब्रह्मरूपः । ततस्तस्या उपदेशाच्छङ्करेणावगतं यद्ब्रह्मातिरिक्ता शक्तिस्वरूपिणी जगज्जननी एव कर्त्री, धर्त्री, हर्त्री च । जगति सर्वमेव सा | सा हि केवलम् ।
ततोऽग्रे स चतुभिः कुक्कुरैः सह चाण्डालराजमपश्यत् । शङ्करशिष्येण स भर्त्सितः – अपवित्रैः सारमेयैः सार्धमपसर । चाण्डालः चुक्रोध | अथ शङ्करं पप्रच्छ प्रश्नान् । चाण्डालेन कथितम् - त्वं मद्विग्रहम् आत्मानं वा कुक्कुरान् दूरयितुमादिशसि । अहं मम कुक्कुराश्चापि ब्रह्मैव सन्ति । तर्हि कीदृशी जुगुप्सैतेभ्यः इत्यभिधाय सोऽन्तर्दधौ । शङ्करेणाधिगतं यत् सर्वं खल्विदं ब्रह्मेति ज्ञानं व्यवहारेऽसाध्यम्।
ततः पश्चात् स प्रत्यक्षं शिवमपश्यत् । शिवस्तमादिदेश त्वया ब्रह्मसूत्राणां नवीनं भाष्यं लिख्यताम् । अथ शिवाज्ञानुसारं स ब्रह्मसूत्रभाष्यलेखनाय बदरिकाश्रमं प्रति प्रातिष्ठत। पञ्चमदृश्ये शङ्करो बदरिकाश्रमस्य व्यासतीर्थे विद्यते । तेन ब्रह्मसूत्रभाष्यं निष्पादितम् । स शिष्यैः समं दिग्विजयार्थं प्रातिष्ठत । अस्मिन्नन्तराले तेन उपनिषदां भाष्यं प्रणीतम्। षष्ठे दृश्ये शङ्करो गोमुखीतीर्थं गतवान् । तत्र हिमाचलस्य आकाशेन संस्थितिः प्रकामरुचिरासीत्।
सप्तमे दृश्ये शङ्करस्यानन्दगिरि-गुरुणा वृद्धब्राह्मणेन साकं विवादो भवति । गुरुणोक्तं यच्छङ्करस्य वयः षोडशवर्षाण्यवर्धत । तस्य जीवनावधिः सम्प्रति द्वात्रिंशद्वर्षाणि वर्तते । स वृद्धब्राह्मणो वेदव्यास आसीत् । व्यासेन शङ्करकृतं ब्रह्मसूत्रभाष्यं समवलोकितम्।
अष्टमे दृश्ये शंकरः कुमारिलेन समं शास्त्रार्थमैच्छत् ? कुमारिलः तुषानले आत्मदाहं चिकीर्षुरासीत्। स शङ्करं हृष्यन्तं विलोक्य तस्य प्रसन्नतायाः कारणमपृच्छत् । शङ्करेणोक्तं —अद्याहं तव बलिं दास्यामि | वेदान्तयज्ञाय भवान् सर्वोत्तमो बलिः । कुमारिलोऽब्रवीत् - अहं तु पापद्वयं प्रायश्चित्ताय चितारोहणं करोमि । मीमांसामधीय निरीश्वरवादिता मम प्रथमं पापं, बौद्धगुरुधर्मपालवधाय प्रेरणा द्वितीयं पापम् । कुमारिलो बौद्धविहारे धर्मपालाचार्यादधीतवान् । धर्मपालो वेदं निनिन्द । एतत् सर्वं कुमारिलस्य कृतेऽसह्यमासीत् । तस्य प्रतिवादेनाप्रसन्न आचार्यस्तमुच्चप्रासादान्नीचैः पातयामास परन्तु कुमारिलोऽक्षत आसीत् । ततो धर्मपालस्तेन सह शास्त्रार्थमकरोत् । अथ शास्त्रार्थे पराजितः तुषानल आत्मदाहं चकार इत्यखिलं वृत्तान्तं निवेद्य कुमारिलेनोक्तम् - मम शिष्येण मण्डनेन शास्त्रार्थोऽनुष्ठीयताम् । तस्य पराजयो मम पराजयो भवेत् । एतदनन्तरं कुमारिलः तुषानले दग्धः। माहिष्मत्याम् अष्टादशदिवसानि मण्डनेन शास्त्रार्थोऽभूत् । यदा शङ्करस्य पराजयो नाभूत्तदा मण्डनः स्वपत्न्या उभयभारत्याः सहायतां गृहीतवान् । साब्रवीत् - अहं मण्डनस्यार्धाङ्गिणी वर्ते । ममापि पराजयान्मम पत्युः पराजयो भविष्यति । अथ पुनः शास्त्रार्थायोजनं बभूव । उभयभारती आत्मनः पक्षं शिथिलमवलोक्य कामशास्त्रीयं प्रश्नं शङ्करमपृच्छत् । शङ्करेणोक्तं - ब्रह्मचारित्वात्तदुत्तरं दातुं न शक्नोमि । मासावधियताम् । तदनन्तरं तदुत्तरमपि दास्यामि।
दशमे दृश्ये शङ्करश्शैलतीर्थे कापालिकमुग्रवैभवं पश्यति । उग्रभैरवस्तमवलोक्याब्रवीत् –शिवेनोक्तोऽस्मि यद् यदि मोक्षमभिलषसि, तर्हि कस्यचित् सर्वज्ञस्य बलिं प्रयच्छ । शङ्करस्तेन समं बल्यर्थं भैरवपीठं गतः । अथ यावदुग्रभैरवः शङ्करस्य बलिं दातुमियेष तावदेव शङ्करशिष्यास्तमेव कापालिकं यमसदनातिथिं कृतवन्तः ।
एकादशे दृश्ये शङ्करः काश्मीरेषु शारदापीठं गतवान् । तत्र विविध-शास्त्रज्ञान् पण्डितान् पराजित्यैव स शारदापीठं प्रवेष्टुं शक्नोति स्म । अतः तत्रत्यान्निखिलान् पण्डितान् पराजितवान्। द्वादशे दृश्ये शङ्करः कामरूपेषु तान्त्रिकान् जिगाय । त्रयोदशे दृश्ये नेपालस्य पशुपतिमन्दिरे वामाचारबौद्धश्रमणान् पराजितवान् । तत्र कश्चन श्रमणो मारणमन्त्रमुच्चार्य शङ्करं भीषयितुमैच्छत् , किन्तु तस्य मन्त्रास्तमेव ज्वालयितुं प्रारभन्त। नेपालराजेन कथितं वस्तुतो भवान् दिग्विजयी शङ्करो वर्तते।
चतुर्दशे दृश्ये शङ्करः केदारनाथं जगाम । तत्र द्वात्रिंशद् वर्षाणां वयसि सम्पूर्णं स्वस्य परमात्म-सायुज्यदिवसे प्रकृतजीवनस्योपलब्धीः प्रकटितवान् । भारतस्य चतुर्दिक्षु मया चत्वारो मठाः संस्थापिताः। यथा - द्वारकायां शारदामठः, पुर्यां गोवर्धनमठः, विष्णुप्रयागे ज्योतिर्मठः, रामेश्वरे च शृङ्गेरिमठः। तत्र मठेषु ऋग्यजुःसामाथर्वणामध्ययनस्य विशिष्टा व्यवस्था विहिता।
शिल्पम्
[सम्पादयतु]डा० रमा चौधुरी संस्कृते आधुनिकशैलीमधिकृत्य नाटकप्रणयने निष्णाता विद्यते, यद्यपि सा पाश्चात्त्यशैल्या समं भारतीयशैल्या नान्दीं, प्रस्तावना, भरतवाक्ययावश्यं योजयति । तस्या नाटकानां विभाजनं दृश्येषु विलसति। पट-परिवर्तनमपि तत्र विद्यते । डा० सतकारी-मुखर्जीमहोदयः शङ्करशङ्करस्य वैशिष्ट्यमाकलयन् कथयति -
"But what has surprised me most is the wonderful ease and flow with which the present work represents to us the most obstruse philosophy of the great Advaitin Šankara. Who could have even thought that any one would be able to serve the same under the guise of a Drama ? But the supremely efficient and infinitely courageous. Who could have thought her capable of producing such a superb dramatic work on Sankara's holy life and teachings, in such a beautiful, poetic, enchanting easily intelligible language ? Further the numerous verses in different metres as well as songs add much to the great glory of this exhilarating work of great literary and other kinds of merits." इति।