शान्तरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


शान्तस्य शमश्च स्थायिभावो भवति । वैराग्यादिना निर्विकारचित्तत्वं शमः । नित्याऽनित्यवस्तुविचारजन्मा विषयविरागाख्यो निर्वेदः इति रसगङ्गाधरकारः । गृहकलहादिजस्तु निर्वेदः व्यभिचारी भवति । साहित्यदर्पणे साहित्यदर्पणकारः शान्तरसम् एवं वर्णयति,
शान्तः शमस्थायिभावस्तूत्तमप्रकृतिर्मतः।
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः॥ इति।
शान्तरसस्य शमः स्थायिभावः भवति। अस्य रसस्य वर्णः शुक्लः भवति। नारायणदेवतात्मकः रसः भवति। सकलवस्तूनि अनित्यानि अतः तेषु निस्सारत्वबुद्धिः उत परमात्मस्वरूपम् आलम्बनविभावः भवति। पुण्याश्रमाः, पुण्यतीर्थक्षेत्राणि, सुन्दरारण्यानि, सत्पुरुषाणां सहवासादयः उद्दीपनविभावाः भवन्ति। रोमाञ्चनम्, दयादयाः अनुभावाः भवन्ति। भूतदया, निर्वेदः, हर्षः, स्मरणादयाः व्यभिचारिभावाः भवन्ति। विभावानुभावव्यभिचारिभावैः मिलितः स्थायिभावः (शमः) शान्तरसमाप्नोति। अरिषड्वर्गान् जित्वा, मनसि देवं स्थापयामः चेत् तदा शान्तरसभावः उत्पद्यते। देवस्य पादाम्बुजे शरणभावम् (मानसिकः) अर्पयामश्चेत् शान्तिः प्राप्यते। मोक्षपदम् आलम्बनभावः भवति। सद्गुरोः उपदेशः, वैराग्यादयाः उद्दीपनविभावाः भवन्ति। समरसभावः तथा यमनियमादयः अनुभावाः भवन्ति। स्तम्बनम्, आनन्दाश्रु इत्यादयः सात्विकभावाः भवन्ति। धृति, स्मृति, मति, निर्वेदादयः व्यभिचारिभावाः भवन्ति। एतैः शमस्थायिभावः उत्पद्यते। शमः स्पष्टं भवति चेत् शान्तरसः दृश्यते। भरतमुनेः नाट्यशास्त्रे केवलम् अष्टौ रसाः वर्णिताः सन्ति। शान्तिरसस्य निरुपणं नास्ति। संस्कृतलक्षणग्रन्थेषु प्रप्रथमतया शान्तरसम् उद्भटकविः निरूपितवान् अस्ति। समनन्तरं आनन्दवर्धनः ध्वन्यालोके अस्य रासाय अधिकतया महत्वं दत्तवान् अस्ति। ५ शतकस्य प्राकृत अणुयोगद्वारसूत्रग्रन्थे प्रशान्तरसस्य निरूपणं दृश्यते। सर्वेषाम् अपेक्षया अस्य रसस्य वैशिष्ट्यं अधिकतया अभिनवगुप्तः स्वग्रन्थे निरूपितवान् अस्ति। श्रेष्ठस्थानञ्च दत्तवान् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=शान्तरसः&oldid=372759" इत्यस्माद् पुनः प्राप्तिः