शिरोमणि अकालीदलम्
दिखावट
(शिरोमणि अकाली दलम् इत्यस्मात् पुनर्निर्दिष्टम्)
शिरोमणि अकालीदलम् ਸ਼੍ਰੋਮਣੀ ਅਕਾਲੀ ਦਲ | |
---|---|
अध्यक्षः | सुख्बीर सिं बादल् |
निर्माणम् | १४ डिसेम्बर्, १९२० |
महिलाविभागः | परम्जीत कौर् गुल्सन् |
विचारधारा | सिक्खवादः |
वर्णः | कपिलवर्णः |
मैत्रीकूटः | राष्ट्रियगणतान्त्रिकमैत्रीकूटः (एन् डि ए) |
लोकसभासदस्यसंख्या |
४ / ५४५ |
राज्यसभासदस्यसंख्या |
३ / २४५ |
विधानसभासदस्यसंख्या |
५६ / ११७ |
निर्वाचनचिह्नम् | |
तुलायन्त्रम्(ਤੱਕੜੀ) | |
जालस्थानम् | |
http://www.shiromaniakalidal.org.in |
शिरोमणि अकालीदलम् (English: Shiromani Akali Dal,गुरुमुखी लिपिः : ਸ਼੍ਰੋਮਣੀ ਅਕਾਲੀ ਦਲ) इति सिक्ख्-जनकेन्द्रिक एकः भारतीयराजनैतिकपक्षः । वस्तुतस्तु शिरोमणि अकालीदलमिति नामसमन्विताः वहवः पक्षाः सन्ति । तेषु निर्वाचनायोगस्य अनुमोदनं सुख्बीर सिं बादल् परिचालितः पक्षः एव शिरोमणि अकालीदलम् इत्यविधा प्राप्तवान् ।
विवरणम्
[सम्पादयतु]अकाली आन्दोलनम्
[सम्पादयतु]- १९२० वर्षस्य डिसेम्बर् मासस्य विंशतिदिनाङ्के अकालीदलमित्यं पक्षः संस्थापितः । सिक्खधर्मीयसंस्था सिरोमणिप्रबन्धकसमितेः विशेषकर्मीवाहिनीरूपेण अस्य पक्षस्य स्थापना अभवत् । अकालीदलम् सिक्खजनानां प्रतिनिधित्वम् अकरोत् । सर्दार सर्मुख सिं झाभल्-महोदयः पक्षस्य प्रथमोऽध्यक्षः आसीत् । परन्तु अकालीदलस्य प्रचारःगुरु तारा सिं नेतृत्वे अभवत् ।
- अयं पक्षः पृथक् पञ्जाबराज्यम् अभियाच्य "पञ्जाबी सुबा आन्दोलनम्" अकरोत् । सन्तः फतेह् सिं महोदयस्य नेतृत्वे आन्दोलनमिदं घटितमासीत् । परिणामस्वरूपं १९६६ तमे वर्षे पञ्जाबराज्यस्य गठनम् अभूत् । नवनिर्मितपञ्जाबराज्यस्य सर्वकारः अकालीदलेन संरचितासीत् । परन्तु किञ्चित्कालानन्तरं स्वदलीयमतविरोधात् सर्वकारस्य पतनम् अभवत् ।
वर्तमानराजनैतिकस्थितिः
[सम्पादयतु]- वर्तमाने पञ्जाबराज्ये 'शिरोमणि अकालीदलस्य' सर्वकारः अस्ति । अस्मिन् प्रदेशे राज्यस्तरीयभारतीयजनतापक्षेण सह अकालीदलस्य मैत्रीकुटः अस्ति । पञ्जाबराज्यविधानसभायां शिरोमणि अकाली दलस्य ५६, भारतीयजनतापक्षस्य १२ सदस्याः सन्ति । शिरोमणि अकालीदलस्य ४ लोकसभासदस्याः सन्ति ।
- शिरोमणि अकालीदलस्य भूतपूर्वाऽध्यक्षः, वरिष्ठनेता प्रकाश सिं बादल् महोदयः राज्यस्य मुख्यमन्त्रीरूपेण विराजमानः अस्ति । तथा पक्षाऽध्यक्षः सुख्बीर सिं बादल् महोदयः उपमुख्यमन्त्री पदे विराजमानः अस्ति ।
पक्षाऽध्यक्षणां नामानि
[सम्पादयतु]- सुर्मुख सिं झाभल्
- बाबा खरक् सिं
- गुरु तारा सिं
- गोपाल सिं कुर्मि
- तारा सिं थेथर्
- तेजा सिं अकर्पुरि
- बाबु लाभ सिं
- उदाम् सिं जी नागोके
- गियानी कर्तार सिं
- प्रितम सिं गोद्रान्
- हुकम् सिं
- सन्त फतेह सिं
- अचार सि
- भुपिन्दर सिं
- मोहन सिं तुर्
- जगदेव सिं तलवाण्डि
- सन्त हरचरण सिं लोङ्गोयाल्
- सुर्जीत सिं बर्नला
- प्रकाश सिं बादल्
- सुख्बीर सिं बादल्
पक्षस्य मुख्यमन्त्रीगणः
[सम्पादयतु]क्रमः | नाम | दायित्वकालः |
---|---|---|
प्रथमः | गुरुनाम सिं | १९६७–१९६७ |
द्वितीयः | लछमन् सिं गील् | १९६७–१९६८ |
तृतीयः | गुरुनाम सिं | १९६९–१९७० |
चतुर्थः | प्रकाश सिं बादल् | १९७०–१९७१ |
पञ्चमः | प्रकाश सिं बादल् | १९७७–१९८० |
षष्टः | सुर्जीत सिं बर्नला | १९८५–१९८७ |
सप्तमः | प्रकाश सिं बादल् | १९९७–२००२ |
अष्टमः | प्रकाश सिं बादल् | २००७- |