शुद्धिकौमुदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शुद्धिकौमुदी
परिष्कृतं परिवर्धितं संस्करणम्  
Shuddhi koumudi.jpg
लेखकः जनार्दन हेगडे
देशः भारतम्
आई॰ऍस॰बी॰ऍन॰ 978-81-88220-45-0

शुद्धिकौमुदी ( /ˈsʊdðɪkɔːmʊd/) (हिन्दी: शुद्धिकौमुदी, आङ्ग्ल: Suddhikaumudi) इत्येतत् संस्कृतभाषया शुद्धरीत्या लेखितुं, पठितुं, वक्तुं च सन्दर्भात्मकं पुस्तकम् अस्ति । संस्कृतसम्भाषणमाध्यमेन, संस्कृतविकिपीडिया-जालस्थानस्य माध्यमेन, संस्कृतप्रत्रिकाणां माध्यमेन, संस्कृतवर्तमानपत्राणां माध्यमेन, संस्कृतवार्ताणां माध्यमेन, संस्कृतकक्षाणां माध्यमेन च आविश्वं संस्कृतस्य विस्तारः वर्तते । लेखकानाम्, अनुवादकानां, परिष्कर्तॄणां, संस्कृतकाव्यरचयितॄणां, विद्यार्थिनां च कृते शुद्धिकौमुदी अतीव उपयोगि पुस्तकं वर्तते । अस्य लेखकः श्रीजनार्दन हेगडे-महोदयः वर्तते । तेन एतस्य पुस्तकस्य रचना स्वानुभवानाम् आधारेण कृता अस्ति । तस्य गहनसंशोधनस्य फलश्रुतित्वेन एतत् पुस्तकं जनानां सम्मुखं वर्तते । यतो हि तस्य मतम् अस्ति यत्,

भाषाशुद्धिः यदि परिरक्षिता न भवेत्, तर्हि साधुशब्दानाम् अभावे वाग्व्यवहारः एव क्लेशाय भवेत् [१] इति

एकादशसु अध्यायेषु गुम्फिता शुद्धिकौमुदी असंस्कृतशब्दानां स्थाने संस्कृतशब्दानाम् उपयोगः कथं कर्तव्यः ? इति बहुधा बोधयति । अन्तिमे स्थितानि षट्परिशिष्टानि सम्पूर्णस्य पुस्तकस्य सारतत्त्वम् उपस्थापयन्ति । तेषु षट्षु परिशिष्टेषु क्रमेण असाधुशब्दानाम् आवली (आवरणे साधुशब्दाः प्रदत्ताः), पुस्तके चिन्तितानाम् असाधुवाक्यानां विभक्तिशः आवली (साधूनि वाक्यानि आवरणे प्रदत्तानि), सूत्रानुक्रमणिका, वार्तिकज्ञापकवचनगणसूत्राणाम् आवली, उदाहृतानां श्लोक-वाक्यखण्डादीनाम् आवली, लघुप्रकरणानाम् आवली च अन्तर्भवन्ति । ततः पाठकानां ज्ञानपरीक्षणाय अभ्यासः अतिसरलमाध्यमेन प्रदत्तः । ततः अभ्यासस्य उत्तराणि स्वमूल्याङ्कनाय प्रदत्तानि । एवं शुद्धिकौमुदी पाठकेभ्यः अतिसुलभा, सरला, ज्ञानप्रदा च सिध्यति [२] । विश्वविद्यालयेषु शोधच्छात्राणां कृते पाठ्यपुस्तकत्वेन पुस्तकमिदम् उपयुज्यमानम् अस्ति । अनेके शोधच्छात्राः विद्यावारिध्युपाधिनिमित्तम् एतस्य पुस्तकस्य अवलम्बनं कुर्वन्ति । एतादृशैः उदाहरणैः ज्ञायते यत्, भाषाशुद्धीच्छुकेभ्यः पुस्तकमिदं विशेषलाभप्रदम् अस्ति [३] इति ।

प्रस्तावनाधारेण पुस्तकस्य प्रयोजनम्[सम्पादयतु]

प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति लोकोक्तिः सुविदिता एव । ग्रन्थस्यास्य मुख्यप्रजोजनं लेखकेन प्रस्तावनायाम् एव प्रतिपादितम् अस्ति । लेखकः श्लोकमाध्येमेन प्रयोजनम् उद्घोषयति यत्,

शास्त्रेषु नैपुणी येषां, तेऽपि मुह्यन्ति कुत्रचित् ।
किं पुनः शिक्षमाणानां, वाक्प्रपञ्चो विलक्षणः ।।
किं शुद्धं किमशुद्धं स्यात्, इति कष्टं विवेचनम् ।
तस्मादेषालम्बयष्टिः, प्रकृता शुद्धिकौमुदी ।।

प्राप्तस्नातकोत्तरपदवीकैः, पारम्परिकं संस्कृतस्य अध्ययनकर्तृभिः, विविधेषु उन्नते स्थलेषु विराजमानैः च क्रियमाणानां भाषाप्रयोगाणां दर्शनेन, लेखकेन अनुभूतं यत्, संस्कृतभाषाक्षेत्रे शुद्धिस्तरे प्रतिदिनं ह्रासः जायमानः अस्ति । भविष्यत्काले संस्कृतभाषायाः अधिकह्रासः न भवेत् इत्युद्देशेन भाषाशुद्धिः इत्यस्य ग्रन्थस्य रचना लेखकेन कृता । पाणिनिव्याकरणसम्मतं लेखनम् अकृत्वा स्वच्छन्दप्रवृत्या कृतः लेखनप्रयासः कदापि आदरणीयः न भवति । भाषाक्षेत्रे तु विचिन्त्य कृतः व्यवहारः एव शोभते । अशुद्धशब्दानां प्रयोगं कृत्वा रचितानां लेखानां पठने अपि नितरां खिन्नता समुद्भवति । सम्भाषणे अपि तथैव । संस्कृतमाध्यमेन ये अपठन्, तेषाम् एतादृशी स्थितिः अस्ति चेत्, सामान्यानां तु किं भवति इति विचिन्त्य लेखकस्य मनः नितरां विषादग्रस्तं भवति स्म । पत्रिकासु, पुस्तकेषु च असंस्कृतप्रयोगानां बाहुल्यं दृष्ट्वा लेखकः अचिन्तयत्, "कथमस्य संस्कृतजगतः परिष्कारः ?, हे भगवन् ! एतेषां परिष्कारः कथं वा शक्येत ?" इति । उक्तयोः प्रश्नयोः उत्तरत्वेन, तथा च उक्तेन लेखकस्य संस्कृतजगति व्याप्तदोषान् प्रति या व्यथा प्रत्यक्षीभवति, तस्याः व्यथायाः निवारणत्वेन भाषाशुद्धिः इत्याख्यस्य ग्रन्थस्य रचनां लेखकः अकरोत् [४]

भावाभिव्यजनेन सह भाषाशुद्धिः आवश्यकी[सम्पादयतु]

यदि भावाभिव्यक्तिः एव पर्याप्ता स्यात्, तर्हि भाषाशुद्धिः किमर्थं चिन्तनीया ? इति लेखकः निरूपयति ।

अज्ञो वदति विष्णाय, ज्ञानी वदति विष्णवे ।
द्वयोरपि फलं तुल्यं भावग्राही जनार्दनः ।।

उक्ते श्लोके विष्णोः भावग्राहित्वं यथा प्रतिपादितं, तथैव लोके जनाः अपि भावग्राहिणः भवन्ति इत्यपि सत्यम् अस्ति । यथा – गोणीम् आनय इति यदि कोऽपि वदेत्, तर्हि शणसूत्रनिर्मितं बृहदाकारकं स्यूतविशेषम् आनयतु इति बोधः तु भवति । अत्र अपभ्रंशात् अशुद्धात् गोणी-शब्दात् यः अर्थः अवगतः, सः साधुशब्दसादृश्यादेव अवगतः । साधुशब्दम् अन्तरा अर्थबोधः न भवितुम् अर्हति । यत्र अपशब्दात् अपि अर्थबोधः भवति, तत्र सर्वत्र साधुशब्दस्य स्मरणम् एव कारणं भवति ।

अद्यत्वे सर्वेषां मातृभाषा भवति काचित् प्रादेशिकभाषा । संस्कृतं तु द्वितीयभाषास्थानम् आवहति । तेन संस्कृतव्यवहारे अपि प्रदेशिकभाषाणां महान् प्रभावः भवति । संस्कृताभासाः बहवः शब्दाः, वाक्यप्रयोगाश्च प्रादेशिकभाषासु भवन्ति, येषां प्रयोगं वयं संस्कृतभाषायाम् अपि कुर्मः । तस्मात् अस्माकं प्रयोगाः दोषबहुलाः भवन्ति ।

संस्कृतं तु समग्रे देशे, विश्वे च अस्ति । अतः एकस्य प्रदेशस्य रचनायाः अन्यस्मिन् प्रदेशे समानभावाभिव्यजनं स्यात् इति आवश्यकम् । पूर्वदेशीयेन लिखितं, पश्चिमदेशीयेन अवगम्येत, दक्षिणात्येन लिखितः ग्रन्थः उत्तरदेशीयेन अवगम्येत इति व्याकरणनियमानुसरणेन एव भवितुम् अर्हति । अतः भाषाशुद्धेः नितराम् आवश्यकता वर्तते [५]

सरललेखनम् अर्थात् अशुद्धलेखनं न[सम्पादयतु]

संस्कृतस्य सरलता तु नितान्तम् अपेक्षितम् । परन्तु सा सरलता पाणिनिसीमायाम् एव भवेत् । सरलीकरण-नाम्ना पाणिनिसीमायाः भङ्गः न करणीयः । यथा – एवं-शब्दः "अनया रीत्या" इत्यर्थे प्रयुज्यते । परन्तु हिन्दीभाषायां -शब्दवत् उभयान्वयी अव्ययत्वेन प्रयुज्यते । अनेन प्रभावितः रचनाकारः यदि रामः एवं लक्ष्मणः इति लिखति चेत् पाणिनिसम्मतं न स्फुटम् एव ।

इतिहासः[सम्पादयतु]

लोके असाधवः शब्दाः, असाधूनि वाक्यानि च यानि दृष्टानि श्रुतानि वा, तानि लेखकेन सङ्गृह्य 'किमर्थम् असाधुता', 'कः साधुप्रयोगः' च इति निरूपयितुं ग्रन्थस्य रचना कृता । परन्तु ग्रन्थस्य आरम्भे काले लेखकस्य चिन्तनम् आसीत् यत्, ग्रन्थोऽयं जनसामान्येभ्यः, अधीतव्याकरणेभ्यः अपि उपयुक्तः भवेत् इति । परन्तु गुणः, वृद्धिः, शरि परे, कित्त्वात् इत्यादीनां शब्दानां प्रयोगः आवश्यकः इति ग्रन्थे प्रमाणदानसमये लेखकेन अनुभूतम् । उक्तानां शब्दानां प्रयोगे अकृते निरूपणम् अशक्यम् इत्यपि लेखकस्य विडम्बना आसीत् । अतः लेखकेन ग्रन्थस्य रचना नवविचारैः कृता । ये अधीतव्याकरणाः सन्ति, ते सूत्रादिनां गहनाध्ययनेन तर्कसङ्गतरीत्या शब्दानां साध्वसाध्वोः ज्ञानं प्राप्नुवन्तु । तथा च ये केवलं साध्वसाध्वोः भेदं ज्ञातुम् इच्छन्ति, ते अन्तिमनिष्कर्षं दृष्ट्वा साधुशब्दानां ज्ञानं प्राप्तुं शक्नुयुः इत्थं प्रकारेण लेखकः पुस्तकस्य रचनाम् अकरोत् [६]

ग्रन्थस्य चौर्ये सति पुनः निर्माणम्[सम्पादयतु]

चारुदेवशास्त्रिणां पुस्तकयुगलेन प्रेरितः लेखकः श्रीजनार्दनः १९९० तमदशकस्य अन्तिमेषु वर्षेषु विषयसङ्ग्रहम् आरब्धवान् । दशवर्षाणां अविरतपरिश्रमानन्तरं पुस्तकलेखनम् अपि आरब्धं तेन । चेन्नै-महानगरस्य प्रवासे यदा श्रीजनार्दनः आसीत्, तदा असाधुवाक्यानां महासङ्ग्रहः केनापि चोरितः । ततः पुनः त्रिचतुराणां वर्षाणाम् अविरतपरिश्रमेण उदाहरणानि सङ्गृहीतानि तेन । स्वकट्वनुभवेने सतर्कः लेखकः स्वोदाहरणानि सङ्गणके संस्थाप्य रक्षितवान् [७]

सङ्गणके ग्रन्थस्य भागः नष्टः[सम्पादयतु]

चौर्येण सतर्कः लेखकः स्वरचनां सङ्गणके अरक्षयत् । परन्तु यदा (भाग्यं.....) । सङ्गणके स्थापितस्य ग्रन्थस्य महान् भागः सङ्गणकदोषत्वात् नष्टः अभवत् । तेन पुनः प्रयासः आरब्धः लेखकेन । द्वितीयवारम् अपि महता परिश्रमेण लब्धाः अंशाः सङ्गणके पुनरारोपिताः [७]

एवं द्विवारं महाकण्टककष्टम् अनुभूय शुद्धिकौमुदी पुस्तकं प्राकश्यम् आनीतम् ।

उद्धरणम्[सम्पादयतु]

  1. जनार्दन हेगडे (2008). शुद्धिकौमुदी. संस्कृतभारती, बैङ्गलूरु. p. vii. ISBN 9788188220450. 
  2. शुद्धिकौमुदी 2008, पृष्ठम् 263-314
  3. शुद्धिकौमुदी 2008, पृष्ठम् v
  4. शुद्धीकौमुदी, जनार्दन हेगडे, पृ.xi
  5. शुद्धीकौमुदी, जनार्दन हेगडे, पृ.vi-xii
  6. शुद्धीकौमुदी, जनार्दन हेगडे, पृ.xv-xvi
  7. ७.० ७.१ शुद्धीकौमुदी, जनार्दन हेगडे, पृ.xv
"https://sa.wikipedia.org/w/index.php?title=शुद्धिकौमुदी&oldid=437049" इत्यस्माद् पुनः प्राप्तिः