श्रीधर भास्कर वर्णेकर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
श्रीधर भास्कर वर्णेकर
जननम् (१९१८-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-१८)१८ १९१८
नागपुरम्
वृत्तिः प्राध्यापकः
भाषा संस्कृतम्, मराठी
पतिः/पत्नी कमला


डा. श्रीधरभास्करवर्णेकरः कश्चन सुप्रसिद्धः संस्कृतज्ञः आसीत् । सः आधुनिकसंस्कृतसाहित्यनिर्मातृषु अन्यतमः ।

बाल्यम्[सम्पादयतु]

१९१८ जुलै १८ तमे दिनाङ्के सः महाराष्ट्रस्य नागपुरे जन्म प्राप्तवान् । सम्प्रदायस्थमराठीपरिवारे वर्णेकरः जन्म प्राप्तवान् । तस्य जन्मग्राम सताराजनपदस्य वर्णे । वर्णेकरस्य पितामहः नागपुरमागतः । वर्णेकरस्य पिता भास्करराववर्णेकरः भवननिर्माणउत्तरदायित्वानि पश्यति स्म । तस्य माता अन्नपूर्णेश्वरी गृहिणी आसीत् [१]

शिक्षणम्[सम्पादयतु]

श्रीधरः बाल्यकालतः एव संस्कृतभाषाम् इच्छति स्म । स्वातन्त्र्यान्दोलने अपि भागं गृहीतवान् । तत्पिता संस्कृतपाठनार्थं हनुमन्तशास्त्रिखेवाले इति काशीपण्डितस्य सकाशे श्रीधरं प्रेषयति स्म । श्रीधरः राष्ट्रियस्वयंसेवकसङ्घस्य कार्यपद्धत्या बाल्ये एव आकृष्टः अभवत् । प्रथमसरसङ्घचालकं केशवबलिरामहेडिगेवार् वर्येण सह धैर्येण सम्भाषणं कृत्वा प्रथमः शिशुस्वयंसेवकः अभवत्[१]। तस्मिन् समये स्वतन्त्रतान्दोलनकारणतः शालाः पिहिताः आसन् । अतः शास्त्रीयपद्धत्या शिक्षणप्राप्तिः अनिवार्या अभवत् । केवाले शास्त्रिणः सकाशात् श्रीधरः अमरकोषं पञ्चमहाकाव्यानि, व्याकरणम्, नाटकानि च पठितवान् । तस्मिन् काले पुस्तकानि विरलानि महार्घानि च आसन् इति कारणतः श्रीधरः सर्वं विषयं कण्ठे स्थापयति स्म । तेन गायने, शास्त्रीयसङ्गीते च तस्य रुचिः अवर्धत । अग्रे सङ्गीताधारितं तीर्थभरतम् इति कृतिं च सः लिखितवान् । ततः दशमकक्ष्यापरीक्षालेखनार्थं श्रीधरेण अनुमतिः प्राप्ता । तदनन्तरं शिक्षणाय धनसमस्या तेन अनुभूता । परन्तु अन्धशालायां शिक्षकरूपेण कार्यं कुर्वता, गृहपाठान् च चालयता तेन महाविद्यालयशिक्षणं प्राप्तम् । तदन्तरं नागपुरविश्वविद्यालयतः एम् ए पदवीं च प्राप्तवान् [१]

कार्यक्षेत्रम्[सम्पादयतु]

वर्णेकरः संस्कृतप्राध्यापकरूपेण नागपुरविश्वविद्यालये नियुक्तः । संस्कृतविभागाध्यक्षः भूत्वा निवृत्तः अभवत् । संस्कृतविश्वपरिषदः अखिलभारतीयप्रचारमन्त्रीरूपेण १९५० तः १९६२ पर्यन्तं कार्यम् अकरोत् । अस्मिन् काले बहुत्र संस्कृतविषये अनेकानि भाषणानि तेन कृतानि । भारतीयसाहित्य-अगाडम्याः सदस्यः अपि आसीत् । नागपुरविश्वविद्यालयस्य हस्तलेखविभागेस्य प्रमुखः आसीत् । भारतीयवैज्ञानिकभाषापरिषदः सदस्यः अपि आसीत् । संस्कृतभवितव्यम् इत्यस्याः संस्कृतसाप्ताहिकपत्रिकायाः राष्ट्रशक्ति इत्यस्याः मराठीसाप्ताहिकपत्रिकायाश्च सम्पादकः आसीत् । योगाभ्यासी मण्डलस्य अध्यक्षरूपेण अपि कार्यं कृतवान् । ततः योगप्रकाशः इति मासपत्रिका बहुवर्षं यावत् प्रकाशिता । एतेन सह सः अनेकानि पुस्तकानि संस्कृतेन मराठीभाषया हिन्दीभाषया च रचितवान् । संस्कृतवाङ्मयकोषः इत्यस्य संस्कृतसाहित्यिकविश्वकोषस्य रचना वर्णेकरस्य सङ्ग्रहात्मककार्येषु प्रसिद्धा वर्तते । सामाजिक-सांस्कृतिककार्येषु अफि सः सक्रियरूपेण भागम् ऊढवान् [१]

कृतयः[सम्पादयतु]

तेन बहूनि काव्यानि रचितानि, बहवः श्लोकाः च रचिताः ।

  1. शिवराज्योदयम् – महाकाव्यम्
  2. विवेकानन्दविजयम् – नाटकम्
  3. शिवराज्याभिषेकः – नाटकम्
  4. मन्दोमिमाला – खण्डकाव्यम्
  5. वात्सल्यरसायनम् – खण्डकाव्यम्
  6. रामकृष्णपरमहंसीयम् – खण्डकाव्यम्
  7. कालिदासरहस्यम् – खण्डकाव्यम्
  8. विनायकवैजयन्ती – खण्डकाव्यम्
  9. जवाहरतरङ्गिणी – खण्डकाव्यम्
  10. कथावल्लरी – गद्यम्
  11. श्रीरामसङ्गीतिका – गीतकाव्यम्
  12. श्रीकृष्णसङ्गीतिका – गीतकाव्यम् [२]

[३]

श्रीशिवराज्योदयम्[सम्पादयतु]

तस्य सुप्रसिद्धं महाकाव्यमस्ति “श्रीशिवराज्योदयम्” यत् १९७४ तमे वर्षे संस्कृत साहित्य अकादमी पुरस्कारेण सम्मानितमस्ति । एतत् महाकाव्यं श्रीशिवाजेः जननं, बाल्यं, यौवनं, तस्य साहसकार्याणि, राज्यस्थापनम् इत्यादि विषयान् रमणीयरीत्या वर्णयति । इदं ६८ सर्गात्मकं महाकाव्यं दशवर्षाणां परिश्रमस्य फलमस्ति । अस्मिन् महाकाव्ये ३८५० अधिकाः श्लोकाः सन्ति ।

पुरस्काराः[सम्पादयतु]

  • राष्ट्रपतिपुरस्कारः
  • कालिदासपुरस्कारः
  • बिर्ला फौण्डेशन् सरस्वती सम्मान
  • प्रज्ञाभारती
  • श्रीवाण्यलङ्करणप्रशस्तिः
  • मराठीभाषया लिखितस्य “संस्कृत साहित्य चा इतिहास” ग्रन्थस्य कृते सः डि. लिट् उपाधिना सम्मानितः अस्ति ।

मृत्युः[सम्पादयतु]

वर्णेकरः ८३ तमे वयसि संस्कृतसम्मेलने भाषणं कर्तुं गच्छन् आसीत् । तदा यानापघातेन सः दिवङ्गतः[१]

उल्लेखाः[सम्पादयतु]

बाह्यसम्पर्कः[सम्पादयतु]

Warnekar's Network

सम्बद्धाः लेखाः[सम्पादयतु]