संयोगितास्वयंवरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
संयोगितास्वयंवरम्  
Turning Point of Indian History.jpg
संयोगिताहरणस्य दृश्यम्
लेखकः मूलशङ्कर-माणिकलाल-याज्ञिकः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

संयोगितास्वयंवरम् इति मूलशङ्करस्य द्वितीयं नाटकं १९२८ ख्रीष्टाब्दे प्रकाशितमभूत् । अस्याभिनयो राजसूययज्ञावसरे समवेतानां नरपतीनां मनोरञ्जनार्थमभवत्। संयोगितास्वयंवरं विंशशतकस्य श्रेष्ठं नाटकं मन्यते।

विषयवस्तु[सम्पादयतु]

कन्नोजाधिपतिः जयचन्दो राजसूययज्ञं कुर्वाणोऽस्ति । तेन दिल्लीश्वरः पृथ्वीराजोऽप्यामन्त्रितः किन्तु पृथ्वीराजः पत्रद्वारा तं राजसूययज्ञस्य अनधिकारिणं सूचयति । जयचन्दो राजसूययज्ञावसरे स्वकीयकन्यायाः संयोगितायाः स्वयंवर कर्तुमभिलषति । संयोगिता पृथ्वीराजे बद्धानुरागा वर्तते । क्रोधान्धेन पित्रा सा गङ्गातटे वनदुर्गे कारागारे प्रेषिता। प्रेमविह्वलहृदया संयोगिता मदनलेखं लिलेख तं च मदनिकाद्वारा पृथ्वीराजसन्निधौ प्रेषितवती । तत्रेदं लिखितमासीत् -

निर्घृणमनसिजविशिखैः विलुप्यमानां त्वदाश्रयामबलाम्।

प्राणेश्वर परिपालय परमशरण्यः श्रुतस्त्वमार्तानाम्॥

पृथ्वीराजोऽप्येतत्पठित्वा स्नेहपरायणो जातः । तेनापि निम्नाङ्कितं प्रणयपत्रमेकं तदन्तिकं प्रेषितम् -

अयमागतो जनस्ते प्रणयपरवशः स्मरोषितः शरणम्।

को नु यदृच्छोपगतं पीयूषरसं न सेवते दयिते।।[१]

पृथ्वीराजः छल-प्रबन्धरचनां विधाय कर्णाटकीसाहाय्येन संयोगिताबन्दीगृहान्तिकं गच्छति । तत्र दुर्गाभ्यन्तरे तयोर्विवाहः संवृत्तः । संयोगिता सत्वरम् अश्वारूढस्य पृथ्वीराजस्य अङ्कमाश्रित्य गतवती । प्रतिक्रियार्थं समुपस्थिता जयचन्दस्य महती सेना तेन सपद्येव मृत्युपदं प्रापिता । अन्ततोगत्वा जयचन्दः स्वयमेव पृथ्वीराजाय कन्यादानार्थं समुत्कण्ठितो जातः । स पृथ्वीराजं प्रशंसति -

मिथोऽनुरागाभ्युदयप्रहर्षितः, स्वयंवरां मे तनयां समर्प्य।

सम्राट स्वयं विक्रमशालिने ते कृतार्थतामद्य गतोऽस्मि सान्वयः।।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. ३.१३
"https://sa.wikipedia.org/w/index.php?title=संयोगितास्वयंवरम्&oldid=435056" इत्यस्माद् पुनः प्राप्तिः