चौहानवंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
चाहमानसाम्राज्यम्
चौहानसाम्राज्यम्
५३२ ई.–११९२ ई.
सम्पूर्णसपादलक्षसाम्राज्यस्य विस्तारः
राजधानी शाकम्भरी, (आधुनिके काले साम्भर), अजयमेरुः (आधुनिके काले अजमेर)
भाषाः भाषाः (उदा. संस्कृतम्, प्राकृत्, मारवाडी)
धर्मः हिन्दुः
शासनम् मनुस्मृत्यादीनां नीतिशास्त्राणाम् आधारेण शासनम्
सम्राट् (सपादलक्षेश्वरः)
 - ई. ५३२ चाहमानः
 - ई. ६५१ वासुदेवः
 - ई. ७२५ सामन्तराजः
 - ई. ११०५ पृथ्वीराजप्रथमः
 - ई. १११०-११३२ अजयराजद्वितीयः
 - ई. ११३३-११५३ अर्णोराजः
 - ई. ११५३-११६४ विग्रहराजः
 - ई. ११६६ सोमेश्वरः
 - ई. ११७७-११९२ पृथ्वीराजतृतीयः
ऐतिहासिकयुगम् भारतस्य मध्यकालीनेतिहासः
 - स्थापना ५३२ ई.
 - विस्थापनम् ११९२ ई.
मुद्रा दुम्म
भागत्वेन विद्यते  India
 Iran
 Pakistan
 Afghanistan
   Nepal
 Bangladesh

चौहानवंशः ( /ˈxɔːhɑːnəvənʃhəh/) (हिन्दी: चौहान वंश, आङ्ग्ल: Chauhan dynasty) राजपूतानां प्रसिद्धेषु वंशेषु अन्यतमः । 'चौहान' इति उत्तरभारतस्य आर्याणां कश्चन वंशः । चौहान-आख्यं गोत्रं राजपूतेषु अन्तर्भवति । इतिहासविदां मतम् अस्ति यत्, चौहानवंश्याः जयपुरस्य साम्भरतडागसमीपे, पुष्कर-प्रदेशे, आमेर-नगरे निवसन्ति स्म । सद्यः ते उत्तरभारते विस्तृताः सन्ति । उत्तरप्रदेशराज्यस्य मैनपुरी इत्याख्ये प्रदेशे, अलवरमण्डले च बहुधा निवसन्ति ।

अन्तर्विषयाः

प्रसिद्धशासकाः[सम्पादयतु]

चौहानवंशस्य अनेकासु शाखासु 'शाकम्भरीचौहान' (साम्भर-अजमेर इत्यस्य समीपस्थं क्षेत्रं) इत्यस्य वंशस्य स्थापना सप्तम्यां शताब्द्याम् अभवत् इति मन्यते । वासुदेवः, पूर्णतल्लः, अजयपालः, विग्रहराजः (प्रथम), चन्द्रराजः, गोपराजः इत्यादयः अनेके सामन्ताः शासनम् अकुर्वन् । अजयपालः ‘अजमेरू’-नगरस्य स्थापनाम् अकरोत् । तेन अजयमेरू-नगरे दुर्गस्य स्थापना अपि कारिता ।

चौहानवंशस्य मुख्यशासकाः -

  1. अजयपाल चौहान
  2. अर्णोराज चौहान (११३३-११५३ ई.)
  3. विग्रहराजचतुर्थः (बीसलदेव) (११५३-११६४ ई.)
  4. सोमेश्वर चौहान (ई. ११६६)
  5. पृथ्वीराज चौहान (११७७-११९२ ई.)

चौहानवंशस्य इतिहासः[सम्पादयतु]

मालववंशस्य विशालपरिवारे अनेकाः शाखाः अभूवन् । तासु सप्त प्रमुखाः शाखाः मन्यन्ते ।

१. उज्जयिन्याः गर्दभिल्लवंशः

२. नान्दसायाः राजर्षिवंशः

३. वियजदुर्गस्य वरिकवंशः

४. बर्नाला-बडवा-प्रदेशयोः मौखरिवंशः

५. मन्दसौर-गङ्गाधार-रिस्थल-प्रदेशानाम् औलिकरवंशः

६. छाटी सादडी इत्याख्यस्य प्रदेशस्य मानवयाणीवंशः

७. चित्तौड-प्रदेशस्य मोरीवंशः

नान्दसायाः राजर्षिवंशस्य विरोचन-आख्यः एकः सामन्तः (General) आसीत् । तस्य विरोचनस्य पुत्रः आसीत् चाहमानः इति । पृथ्वीराजविजयमहाकाव्यानुसारं, चाहमानः हूण-वंशं विरुध्य युद्धम् अकरोत् । तस्य सेनायाः सञ्चालनं तस्य भ्राता धनञ्जयः कुर्वन् आसीत् । तस्मिन् युद्धे कदाचित् तस्य पितुः विरोचनस्य मृत्युः अभवत् (इतिहासे प्रमाणं नास्ति) । यतः युद्धानन्तरं चाहमानः सत्ताप्रमुखस्य स्थाने विराजितः । हुणवंशस्य राजभिः सह चाहमानस्य युद्धं पुष्करे अभवत् । ई. ५३२ तमे वर्षे तत् युद्धं पूर्णम् अभवत् ।

चाहमानात् एव चौहानवंशः समुद्भूतः इति इतिहासविदां मतम् [१] । जिनविजय-आख्यस्य इतिहासविदः मतानुसारं चौहानवंशस्य मूलपुरुषस्य प्रादूर्भावः अमृतकूपायमानात् पुष्करतीर्थात् अभवत् ।


चौहान को वंश उजागर है,जिन जन्म लियो धरि के भुज चारी,
बौद्ध मतों को विनास कियो और विप्रन को दिये वेद सुचारी॥

सपादलक्ष-साम्राज्यस्य शाकम्भरी-नगरी, तस्य चौहानवंशस्य राजधानी आसीत् । ततः पुष्करस्य समीपम् अजयमेरू-नगरस्य रचनां कृत्वा तत्र राजसिंहासनस्य स्थापनाम् अकरोत् । मरूभूमेः बृहद्भागः तेषाम् आधिपत्ये आसीत् । ततः कालान्तरे पुराणभारतस्य राजनधान्यां देहल्यां तेषाम् आधिपत्यम् अभवत् ।

चाहमानः[सम्पादयतु]

चाहमानस्य जन्म मालवावंशान्तर्गते सूर्यवंशे अभूत् [२] । तस्य पितुः नाम विरोचनः, भ्रातुश्च नाम धनञ्जयः आसीत् । चाहमानस्य नामकरणं तस्य गुणाधारेण एव अभवत् । पृथ्वीराजविजये उक्तम् –


करेण चापस्य हरेर्मनीषया, वलेन मानस्य मन्त्रिभिः ।
धृतस्य नामग्रिवर्णनिर्मिता, स चाहमानोपयमिति प्रथां ययौ ।। सर्गः २, श्लो. ४० ।।

अर्थात् हस्ते चापधारी, मनसि रिधारी (हरिनाम इत्यर्थः), बले मानधारी, यधारी (राजनीतिनिपूणः इत्यर्थः) अस्ति, अत एतेषां गुणानाम् अग्रिमवर्णैः निर्मितः चा-ह-मा-न इत्येव तस्य संज्ञा अभवत् । तस्य पुत्रः वासुदेवः अभवत् ।

वासुदेवः[सम्पादयतु]

शाकम्भर्यां चौहाणवंशस्य प्राथम्येन सत्तास्थापनस्य श्रेयः वासुदेवाय गच्छति । राजशेखर सूरि इत्याख्यस्य इतिहासविदः मते एतस्य समयः ई. ६५१ आसीत् [३] । १२२६ तमे वर्षे अङ्किते बिजौलिया-शिलालेखे एतस्य नाम विष्णुः प्राप्यते । वासुदेवः दानी राजा आसीत् । तस्य आधिपत्ये यानि नगराणि आसन्, तेषु सर्वेषु तेन जलाशयाः, देवालयाः, आश्रमाः च निर्मापिताः । पर्वतेषु, मरुभूमिषु, वननगरीषु अपि तेन जलाशयादीनां निर्माणं कारितम् ।

वासुदेवः शाकम्भरीदेव्याः मन्दिरस्य निर्माणं कारितवान् । शाकम्भरीदेव्याः मन्दिरं राजस्थानराज्यस्य सकराई इत्याख्ये धामनि स्थितम् अस्ति । उदयपुरात् १५ कि.मी. दूरे, सीकर-तः ३० कि.मी. दूरेऽस्ति । तत्र ब्रह्माणी, रुद्राणी च इत्यनयोर्देव्योः मूर्ती स्तः | उभे देवीमूर्ती व्याघ्रारूढे स्तः । तथा च उभे महिषासुरस्य वधं कुर्वत्यौ स्तः । मूर्त्योः अष्टभुजाः सन्ति । ब्रह्माणीदेव्याः मूर्तिः श्वेतशैलैः ('मार्बल'), रूद्राणीमातुः मूर्तिः 'मेडस्टोन' इत्येनन निर्मिता अस्ति ।

"नाथ"-मतानुयायिनः साधवः मन्दिरस्यास्य पूजकत्वेन दायित्वं वहन्ति । तत्र द्वारमण्डपस्य रचना प्रप्रथमे ६९९ वैक्रमाब्दे (ई. ६४७) निर्मितम् आसीत् । ततः एकादश्यां, द्वादश्यां च शताब्द्यां तस्य मण्डपस्य पुनरोद्धारस्य कार्यम् अभवत् । सद्यः यः मण्डपः अस्ति, तस्य पुनरोद्धारकार्यं १९७० (ई. १९१३) वैक्रमाब्दे आरब्धं तथा च १९८० वैक्रमाब्दे (ई. १९२३) पूर्णम् अभवत् । यद्यपि अद्य तत् स्थलं ध्वंसप्रायम् अस्ति, तथापि हस्तिशालायाः, दुर्गस्य च भित्तौ कानिचन चिह्नानि अद्यापि द्रष्टुं शक्यन्ते [४]

वासुदेवस्य पुत्रः आसीत् सामन्तराजः । सामन्तराजस्य पुत्रः नरदेवः अभवत् । नरदेवस्य पराक्रमी पुत्रः अजयराजः आसीत् । अजयपालः "चक्री" इत्यपि प्रसिद्धः आसीत् । तेन तारागढ-दुर्गस्य निर्माणं कारितं, तत् दुर्गं स्थापत्यकलायाः अद्वितीयम् उदाहरणम् अस्ति । अजयपालस्य पुत्रः आसीत् विग्रहराजः । सः विग्रहराजप्रथमः इत्यपि प्रसिद्धः । तस्य चन्द्रराजः (प्रथमः), गोपेन्द्रकः च पुत्रौ अभवताम् । चन्द्रराजस्य पुत्रः दुर्लभराजः (प्रथमः) अभवत् । तस्य पुत्रः गोविन्दराजः (प्रथमः) अभवत् । सः गुवकः (प्रथमः) इत्यपि प्रसिद्धः । तस्य पुत्रः चन्द्रराजः (द्वितीयः) अभवत् । चन्द्रराजस्य पुत्रः गुवकः (द्वतीयः), कलावती आख्या पुत्री च आसीत् । कलावत्याः विवाहः कान्यकुब्जस्य राज्ञा सह अभवत् । गुवकस्य (द्वीतीयस्य) पुत्रः चन्दनः आसीत् । चन्दनस्य पत्न्याः नाम रूद्राणी आसीत् । सा सिद्धा योगिनी आसीत् । कुत्रचित् तस्याः नाम आत्मप्रभा इत्यपि प्राप्यते । चन्दनान्तरं वाक्पतिः (प्रथमः) राजा अभवत् । सः पुष्करे शिवस्य भव्यं मन्दिरं निर्मापितवान् । वाक्पतेः पुत्रौ सिंहराजः, लक्ष्मणश्च आस्ताम् । ततः विन्ध्यनृपति-नामकस्य एकस्य राज्ञः उल्लेखः बिजौलिया-शिलालेखे प्राप्यते । परन्तु कदाचित् सः स्वल्पकालं यावदेव शासनम् अकरोत् । अतः तस्य अधिकः उल्लेखः न प्राप्यते । सिंहराजः शाकम्भर्याः प्रप्रथमराजा आसीत्, यः "महाराजाधिराजः" इति पदव्या विभूषितः । सिंहराजस्य पुत्रौ विग्रहराजः (द्वतीयः), दुर्लभराजः (द्वितीयः) अभवताम् । विग्रहराजः प्रतापी राजा आसीत् । सः गुजरातप्रदेशस्य भडौच-आख्यं प्रदेशं मूलराज-नामकात् राज्ञः जित्वा स्वाधीन्ये अकरोत् । ततः तस्य प्रदेशस्य भृगुकच्छ इत्याख्ये स्थाने आशापुरादेव्याः भव्यं मन्दिरं निर्मापितवान् । तस्य मन्दिरस्य सोपानानि नर्मदानद्याः जलं स्पृशति स्म । १०३० तमे वैक्रमाब्दे (ई. ९७३) हर्षनाथमन्दिरस्य निर्माणम् अपि एतस्य कार्यकाले पूर्णम् अभवत् । हर्षराजस्य मन्दिरस्य समीपे एव शिलालेखस्य निर्माणम् अपि एषः कारितवान् [५]

विग्रहराजस्य (द्वितीयस्य) अनुजः दुर्लभराजः (द्वतीयः) ततः राजा अभवत् । ततः गोविन्दराजः राजा अभवत् । तस्य पुत्रः गोविन्दराजः (द्वितीयः) आसीत् । गोविन्दराजस्य पुत्रः वाक्पतिः (द्वितीयः) अभवत् । गोवन्दराजः अति प्रतापी राजा अभवत् । शिलालेखेषु तस्य उल्लेखः प्राप्यते यत्, तेन स्वराज्यं स्वर्गवत् सम्पन्नं कृतम् आसीत् । शत्रवः तस्मात् भयभीताः सन्तः कदापि तेन सह युद्धं कर्तुं साहसं न कुर्वन्ति स्म । तस्य पुत्रौ वीर्यरामः, चामुण्डराजश्च अभवताम् । राजाभोजेन (ई. १०१०-१०५५) वीर्यरामः युद्धक्षेत्रे हतः । वीर्यरामस्य मृत्योः अनन्तरं चामुण्डराजः राजा अभवत् । चामुण्डराजेन स्वभ्रातुः स्मृतिहेतवे नरपुरे (राजस्थानराज्यस्य अजयमेरू-तः २४ कि.मी. दूरे किसनगढ-पार्श्वे स्थितम् अस्ति, अधुना तस्य नगरस्य नाम नरवर इति) विष्णोः मन्दिरं निर्मापितम् । चामुण्डराजस्य पुत्रौ दुर्लभराजः, विग्रहराजः (तृतीयः) अभवताम् । दुर्लभराजः शौर्यवान् आसीत्, परन्तु मातङ्गैः (मुसलमानों) सह युद्धकाले सः हुतात्मा अभवत् [६] । दुर्बलराजस्य मृत्योः अनन्तरं विग्रहराजः (तृतीयः) राजा अभवत् । सः "वीरवीसलः" इति प्रसिद्धः अभवत् । तस्य राज्ञ्याः नाम राजदेवी आसीत् । तयोः पुत्रः पृथ्वीराजः (प्रथमः) अभवत् । पुष्करप्रदेशे ब्राह्मणान् लुण्ठयितुम् आगतानां ७०० चालुक्यवंशीयानां वधं कृत्वा पृथ्वीराजः ब्राह्मणानां रक्षणम् अकरोत् । तस्य जीवनस्य सा महती उपलब्धिः आसीत् इति पृथ्वीराजविजये उल्लिखतम् [७] । एतस्य काले चौहानवंशस्य आधिपत्यं दक्षिणस्य रणथम्भौरपर्यन्तं विस्तृतम् आसीत् । ११६२ तमे विक्रमसंवत्सरे (ई. ११०५) निर्मिते जीणामातायाः सभामण्डपस्य शिलालेखे एतस्य उपाधिः "परमभट्टारकमहाराजाधिराजपरमेश्वरः" इति अङ्कितः अस्ति । अनेन ज्ञायते यत्, भारतवर्षे साम्राज्यवादिप्रवृत्तीनाम् आरम्भः एतस्य काले एव अभवत् । सोमनाथस्य यात्रिकेभ्यः अनेन अन्नादिव्यवस्था विपुलमात्रायां कृता आसीत् [८]

पृथ्वीराजस्य पुत्रः अजयराजः अभवत् । 'सल्हण' इत्यपि सः प्रसिद्धः । बिजौलिया-शिलालेखस्यानुसारं सः मालवा-प्रदेशस्य सेनापितिं सल्हण-इत्येनं बन्दिनं कृत्वा उष्ट्रे संस्थाप्य अजयमेरू-प्रदेशम् अनयत् । चाचिग-यशोराज-सिन्धुलादिराज्ञां वधम् अकरोत् सः । तुर्क-राजानः पराजित्य अजयमेरू-प्रदेशे स्वनाम्ना दुर्गस्य स्थापनाम् अकरोत् सः । तेन स्वपत्न्या सह मिलित्वा मुद्रा प्रकाशिता, सा 'अजयप्रिय द्रुम्म' इति प्रसिद्धा । अजयराजस्य मृत्योः अनन्तरं तस्य तिस्रः पत्न्यः सोमल्लदेवी, स्थलदेवी, श्रीदेवी च पतिमार्गानुगमनम् (सती) अकुर्वन् ।

स्वजीवनस्य अन्तिमवर्षेषु स्वराज्यम् अर्णोराज-आख्याय पुत्राय समर्प्य सः वानप्रस्थं स्व्यकरोत् । ततः चौहानवंशे संन्यासपरम्परायाः आरम्भः अनेन अजयराजेन एव कृतः आसीत् । पुष्कर-प्रदेशस्य समीपवर्तिवनेषु विचरन् सः शिवाराधनायां लीनः अभवत् [९]

अर्णोराजः[सम्पादयतु]

मुख्यलेखः : अर्णोराज चौहान

अजयराजस्य पुत्रः अर्णोराजः आसीत् । अर्णोराजस्य द्वे पत्न्यौ आस्ताम् । मारोठ-राज्यस्य राजकन्या सुधवा, सिद्धराजस्य पुत्री काञ्चनदेवी च । सुधवायाः त्रीणि अपत्यानि आसन् । तानि जगद्देवः, विग्रहराजः (चतुर्थः), देवदत्तश्च । काञ्चनदेव्याः एकः पुत्रः आसीत् । तस्य नाम सोमेवश्वरः आसीत् [१०]

शैवमतानुयायिनः अर्णोराजस्य अनलः, आवेल्लदेवः, आनाकः इत्येतानि अपरनामानि । पुष्करस्य सुप्रसिद्धं वराहमन्दिरस्य निर्माणम् अर्णोराजः कारितवान् । अर्णोराजः यदा सत्तारूढः अभवत्, तदा सः विंशतिवर्षीयः (२०) आसीत् । युवावस्थायाम् एव विश्वविजेतृसम्राट्त्वेन न सः प्रसिद्धः अभवत् । तस्य विजये तुरुष्कवंशीयानां नाशः, मालवाविजयः, सिन्धु-सरस्वती-हरितानक-कुश-वारन-अभियानं च अन्तर्भवन्ति । यद्यपि अर्णोराजः अति शौर्यशाली राजा आसीत्, तथापि गुजरातराज्यस्य चालुक्यवंशीयस्य कुमारपालस्य, सिद्धराजजयसिंहस्य च सम्मुखं तस्य यः पराजयः अभवत्, तेन तस्य कीर्तिः धूमला अभवत् । परन्तु तस्य पराक्रमी पुत्रः विग्रहराजः पितुः पराजयस्य वैरोद्धारम् अकरोत् । अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशीभूय अर्णोराजस्य हत्याम् अकरोत् । जगद्देवस्य पितृवधस्य उल्लेखः पृथ्वीराजविजये प्राप्यते यत्, परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवेन स्वपितुः सेवा कृता इति [११]

विग्रहराजः[सम्पादयतु]

मुख्यलेखः : विग्रहराज चौहान

महान् हिन्दुराजा विग्रहराजः वीसलदेवः, विश्वलः, वीसलः, कविबान्धवः, विग्रहराजचतुर्थः इति अपि प्रसिद्धः । भारतदेशस्य उत्तरभागात् तुर्क-जनानां समूलं निकन्दनकर्ता विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजमेर-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । अधुना तस्य विद्यापीठस्य स्थाने 'मस्जिद्' अस्ति । अनेकेषां राज्ञां गर्वहन्ता विग्रहराजः चौहानवंशस्य पराक्रमी राजा आसीत् ।

अर्णोराजस्य हत्यायाः, पराजयस्य च वैरोद्धारः विग्रहराजेन कृतः । पराशक्त्या वशीभूतो जगद्देवः यदा अर्णोराजस्य हत्याम् अकरोत्, तदा स्वज्येष्ठभ्रातुः धर्मविरुद्धस्य कृत्यस्य कृते विग्रहराजः स्वज्येष्ठभ्रातरं पराजित्य पितुः हत्यायाः वैरोद्धारम् अकरोत् । अर्णोराजः यशस्वी राजा आसीत्, परन्तु युद्धे द्विवारं पराजितः अभवत् । सिद्धराजस्य सम्मुखं पराजयः, कुमारपालस्य सम्मुखं पराजयः च । अतः विग्रहराजः कुमारपालस्य दर्पं विनश्य स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् (प्रतिशोध लिया) । देहलीविजयः, तुर्कविजयः, पितुः वैरोद्धारणं च विग्रहराजस्य मुख्यकार्येषु परिगण्यन्ते ।

धर्मप्रियः विग्रहराजः शिवभक्तः आसीत् । परन्तु सः सर्वेषां धर्माणां, पन्थानां, सम्प्रदायानां च सम्माननं करोति स्म । विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजमेर-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय तस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना तस्य विद्यापीठस्य स्थाने 'अढाई दिन का झोपडा' इति 'मस्जिद्' अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसे सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [१२] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वंसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तः एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।

विग्रहराजस्य एकः स्वप्नः आसीत् यत्, "आर्यावर्तस्य पवित्रभूमौ एकतायाः, अभयस्य, धर्मरक्षायाः, ब्राह्मणानां, तीर्थानां, गवां पवित्रतायाः च स्थितेः निर्माणं करणीयम्" इति । तस्य विचारधारायाः प्रभावः भारतीयविचारधाराभूयिष्ठः अपि अभवत् । तेन शपथं स्वीकृतम् आसीत् यत्, "अहम् आर्यावर्तस्य पवित्रभूमेः प्रत्येकं म्लेच्छं (यवनाः, वैदेशिकाः च) निष्कासयिष्यामि" इति [१३] । स्वस्य सैन्यबलेन उत्तरदिशि तु सः प्रतिज्ञां पूर्णाम् अकरोत्, परन्तु पश्चिमोत्तरदिशि तुर्क-जनानाम् उपद्रवं शान्तं कर्तुं न शक्तवान् । अतः स्ववंशजान् अपि सः असूचयत् यत्, "मम अवशिष्टं कार्यं भवन्तः येन केन प्रकारेण पूर्णं कुर्वन्तु" इति ।

विग्रहराजस्य त्रयः भ्रातरः आसन् । तेषां नामानि क्रमेण जगद्देवः, देवदत्तः, सोमेश्वरश्च । जगद्देवः ज्येष्ठः, देवदत्तः अनुजः च आसीत् । सोमेश्वरः विग्रहराजस्य विमातुः काञ्चनदेव्याः पुत्रः आसीत् । विग्रहराजस्य पत्न्याः नाम देशलदेवी आसीत् ।


तस्मिन्नुदग्ररिपु वर्ग जये निसर्ग,
वैयग्रवान जनि विग्रहराज देवः ।
यद्विग्रह जगद्सम्भविन विभाव्य,
वैरी व्रजो अपि मदनो अपि मदं मुमोच ।। पृ. २६७ [१४]

सा देहल्याः इन्द्रप्रस्थ-प्रदेशस्य राज्ञः वसन्तपालस्य पुत्री आसीत् । तयोः द्वे अपत्ये आस्ताम् । तयोः नामनी क्रमेण अपरगाङ्गेयः, नागार्जुनश्च [१५]

जगद्देवः[सम्पादयतु]

जगद्देवस्य विवाहः गुहिलवंशस्य राजकुमार्या सह अभवत् । तस्याः राजकुमार्याः नाम इतिहासे न प्राप्यते, परन्तु तस्याः भातुः नाम किल्हण इति आसीत् [१६] । जगद्देवस्य पृथ्वीभट्ट-आख्यः पुत्रः अभवत् । जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशीभूय अर्णोराजस्य हत्याम् अकरोत् । परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवन स्वपितुः सेवा कृता इति उल्लेखः पृथ्वीराजविजये प्राप्यते ।

अपरगाङ्गेयः, पृथ्वीभट्टश्च[सम्पादयतु]

विग्रहराजस्य मृत्योः अनन्तरं तस्य अवयस्कः पुत्रः अपरगाङ्गेयः शाकम्भर्याः राजा अभवत् । अर्णोराजस्य जगद्देव-आख्यः ज्येष्ठपुत्रः अर्णोराजस्य हत्याम् अकरोत् । स्वपितुः वैरोद्धारार्थं विग्रहराजः जगद्देवस्य वधम् अकरोत् । जगद्देवस्य पुत्रः आसीत् पृथ्वीभट्टः । पृथ्वीराजद्वितीयः इत्यपि सः प्रसिद्धः । विग्रहराजस्य जीवति सति तूष्णीम् अतिष्ठत्, परन्तु तस्य मरणोत्तरं सः शाकम्भर्याः सत्तां प्राप्तुम् अधीरः अभवत् । यतो हि शाकम्भर्याः वास्तविकोत्तराधिकारी अहं स्वयम् अस्मि इति तस्य विश्वासः आसीत् ।

पृथ्वीभट्टः गुहिलवंशीयस्य किल्हण-आख्यस्य स्वमातुलस्य साहाय्येन शाकम्भर्याः उपरि आक्रमणम् अकरोत् । अपरगाङ्गेयस्य मातुलः वास्तुपालः यः देहल्याः तोमरवंशीयः राजा आसीत्, सः स्वस्य भोगिनेयस्य साहाय्यार्थं शाकम्भरीं गतः । परन्तु तस्मिन् युद्धे वास्तुपालः पराजितः, अपरगाङ्गेयः हतश्च । शाकम्भर्यां स्थिता देशलदेवी नागार्जुनाख्यं स्वपुत्रं नीत्वा देहलीम् अगच्छत् । एवं शाकम्भर्याः शासनं पृथ्वीभट्टाधीनम् अभवत् ।

पृथ्वीभट्टः स्वल्पकालं यावदेव शाकम्भर्यां सत्तारूढः आसीत् । यतः शासनप्राप्तेः अनन्तरं स्वल्पे काले एव सः मृतः । परन्तु तस्य मृत्योः विषये इतिहासे कोऽपि प्रसङ्गः उत उल्लेखः अप्राप्तः । १२२६ तमस्य विक्रमसंवत्सरस्य फाग्लुगन-मासस्य शुक्लपक्षस्य तृतीयायाः तिथेः प्राक् एव अजयमेरू-प्रदेशस्य इतिहासात् सः विलुप्तः अभवत् । ततः तस्य स्थाने सोमेश्वराख्यः राजा शाकम्भर्याः राजा अभवत् । सः सोमेश्वरः अर्णोराजस्य द्वितीयपत्न्याः गर्भात् समुत्पन्नः [१७]

सोमेश्वरः[सम्पादयतु]

मुख्यलेखः : सोमेश्वर चौहान

सोमेश्वरस्य जन्म अण्हिलपाटणे अभवत् । सोमेश्वरस्य माता काञ्चनदेवी सिद्धराजस्य पुत्री आसीत् । अर्णोराजस्य प्रथमपत्न्या सुधवया सह काञ्चनदेव्याः सम्बन्धः कटुः आसीत् । अजमेरू-प्रदेशस्य राजनीतौ अपि कलहपूर्णा स्थितिः आसीत् । सिद्धराजः अपि अजमेरू-प्रदेशस्य अन्तःपुरस्य, राजनैतिकलहस्य च विषये जानाति स्म । अतः यदा काञ्चनदेवी गर्भवती अभवत्, तदा सिद्धराजः स्वपुत्रीम् अण्हिलपाटणम् अनयत् । एवं सोमेश्वरस्य जन्म अण्हिलपाटणे अभवत् । अपरत्र अजमेरू-प्रदेशस्य शासनव्यवस्थायां बृहत्परिवर्तनम् अभवत् । अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः अर्णोराजस्य हत्याम् अकरोत् । पत्युः मरणोपरान्तम् अजमेरू-प्रदेशम् अगत्वा काञ्चनदेवी अण्हिलपाटणे एव न्यवसत् । सिद्धराजस्य मरणोपरान्तं सिद्धराजस्य भातृजः कुमारपालः गुजरातराज्यस्य सम्राट् अभवत् । एवं स्वमातुलस्य छायायां सोमेश्वरः सर्वविद्यासु निपुणः अभवत् ।

इतिहासविदां मतम् अस्ति यत्, अजमेरू-प्रदेशस्य शासनं प्राप्तुं कदाचित् सोमेश्वरः स्वमातुलात् साहाय्यं स्व्यकरोत् इति । १२२६ तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य शुक्लीतृतीयायाः पुरा सोमेश्वरः अजमेरूप्रदेशस्य राजा अभवत् ।

सोमेश्वरः स्वपितुः नाम्ना एकस्य नगरस्य स्थापनाम् अकरायत् । तस्मिन् नगरे पञ्च मन्दिराणि अस्थापयत् । तेषु वैद्यनाथमन्दिरस्य प्राङ्गणे सोमेश्वरः स्वपितुः मूर्तिम् अस्थापयत् । स्वपितुः मूर्तेः सम्मुखं सः स्वस्य मूर्तिम् अपि अस्थापयत् । सोमेश्वरस्य विवाहः अजमेरू-प्रदेशस्य शासनारूढनात् प्रागेव कर्पूरदेव्या सह जातः आसीत् । तयोः पृथ्वीराजः, हरीराजश्च द्वौ पुत्रौ अभवताम् । पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, सोमेश्वरः यदा स्वपत्न्या, पुत्राभ्यां सह अजयमेरू-प्रदेशं प्रविष्टः, तदा तेन सह विशालसेना अपि आसीत् । सोमेश्वरेण सह सोढ-आख्यः मन्त्री, स्कन्द-आख्यः सेनापतिः, वामन-आख्यः सन्धिविग्रहकः, कैमास-आख्यः कूटनीतिज्ञः चापि आसन् [१८] । सोमेश्वरस्य मृत्योः अनन्तरं तस्य ज्येष्ठपुत्रः पृथ्वीराजः अजयमेरू-प्रदेशस्य राजा अभवत् । सः पृथ्वीराजः भारतवर्षस्य "अन्तिमः हिन्दुराजा" इति प्रसिद्धः अस्ति ।

पृथ्वीराजः[सम्पादयतु]

पृथ्वीराजः सोमेश्वरस्य ज्येष्ठः पुत्रः । सः पृथ्वीराजतृतीयः, हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । पृथ्वीराजस्य जन्म गुजरातराज्यस्य अण्हिलपाटण-प्रदेशे अभवत् । भारतीयपञ्चाङ्गानुसारं तस्य जन्म १२२० तमस्य विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णद्वादश्यां (१२/०३/१२२०) तिथौ अभवत् । आङ्ग्लपञ्चाङ्गानुसारं तस्य जन्म ११६३ तमस्य वर्षस्य जून-मासस्य प्रथमे (१/६/११६३) दिनाङ्के अभवत् । भारतस्य अन्तिमहुन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः १२३५ तमे विक्रसंवत्सरे यदा पञ्चदशवर्षीयः (१५) आसीत्, तदा तस्य राज्याभिषेकः अभवत् । अतः माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।

पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च युद्धम् आरभन्त । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठीं कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।

नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः ११७७ तमे वर्षे भादानकदेशीयान्, ११८२ तमे वर्षे जेजाकभुक्तिशासकं, ११८३ तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया ११७५ तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरभत । ततः ११७८ तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसि चालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशिकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म ।

पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि तस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघूनि युद्धानि पृथ्वीराजस्य घोरी इत्येतयोः अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः ७, १७, २१, २८ च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि 'इस्लाम्'-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारिरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयम् अन्यथाकर्तुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् ।

चौहानवंशस्य विस्तारः[सम्पादयतु]

चौहानवंशस्य सीमायाः क्षयः, वृद्धिः च समयानुसारम् अभवत् । स्वसीमारक्षायाः, स्वसीमाविस्तारस्य च कृते चौहानवंशस्य सर्वेऽपि राजानः प्रयत्नशीलाः आसन् । पृथ्वीराजप्रथमस्य (ई. ११०५) कालात् चौहानवंशस्य सामरिकशक्तेः प्रदर्शनस्य आरम्भः अभवत् । पृथ्वीराजप्रथमस्य, तस्य सामरिशक्तेः च अनुसरणम् अजयराजः, अर्णोराजः, विग्रहराजः, पृथ्वीराजद्वितीयः सदृशाः चौहानवंशीयाः राजानः अकुर्वन् । तेषां सीमारक्षायाः, सीमाविस्तारस्य च नीतेः फलस्वरूपतया पृथ्वीराजतृतीयस्य काले उत्तरभारतस्य अधिकांशभागः चौहानवंशस्य अधीनः आसीत् । पृथ्वीराजतृतीयस्य शासनकाले चौहानवंशस्य उत्तरसीमायां सतलजनदी, दक्षिणदिशायां च वेत्रवतीनदी वहन्ती आसीत् । पूर्वदिशायाः सीमायां कैमूरपर्वतमाला अन्तर्भवति स्म । पश्चिमदिशायाः सीमा मरुभूमौ स्थितं विक्रमपुरं यावत् विस्तृता आसीत् । जेम्स् टॉड् इत्यस्य मतानुसारं सपादलक्षसाम्राज्यस्य, कन्नौजसाम्राज्यस्य च सीमायाः मध्ये कालिन्दीनदी (यमुनानदी) प्रहन्ती आसीत् [१९] । के एम् मुंशी इत्यस्य मतानुसारं मेरठ-रामपुर-प्रदेशयोः मध्ये सपादलक्षसाम्राज्स्य, गाहडवालसाम्राज्यस्य च सीमा आसीत् [२०]

सपादलक्षसाम्राज्यस्य राजसीमायां १,२५,००० ग्रामाः अन्तर्भवन्ति स्म । अत एव तस्य साम्राज्यस्य नाम सपादलक्षसाम्राज्यम् अभवत् । साम्राज्यस्य नामानुगुणमेव अस्य सम्राजः 'सपादलक्षेश्वरः, सपादलक्षाधीशः, सपादलक्षक्षतिपतिः' इत्यादिभिः नामभिः सम्बोधिताः भवन्ति स्म । सपादलक्षसाम्राज्यस्य प्रारम्भिकराजधानी शाकम्भरी (साम्भर) आसीत् । राजधान्याः नाम्ना सपादलक्षसाम्राज्यस्य सम्राजः 'शाकम्भरीशः, शाकम्भरीनृपः, शाकम्भरीनरेशः' इत्यादिभिः नामभिः सम्बोधिताः भवन्ति स्म । ततः ई. १११०-११३२ मध्ये सपादलक्षसाम्राज्यस्य राजधान्याः स्थानन्तरणे सति अजयमेरुः (अजमेर) नवीनराजधानी अभवत् ।

सपादलक्षसाम्राज्यस्य प्रमुखनगराणि[सम्पादयतु]

यस्य कस्यापि वंशस्य उत राष्ट्रस्य इतिहासनिर्माणे तस्य भौगोलिकप्ररिप्रेक्ष्यस्य महत्त्वम् अधिकं वर्तते । दुर्गमपर्वतमालासु स्थितस्य साम्राज्यस्य उपरि तथा च मरुभूमेः उल्लङ्घनानन्तरं साम्राज्यस्योपरि आक्रमणं शत्रूणां कृते अति कष्टकरं भवति । सपादलक्षसाम्राज्यस्य पार्श्वे उक्ते द्वे विशेषते आस्ताम् । सपादलक्षसाम्राज्यस्य सीमायाम् अनेकानि महत्त्वपूर्णानि नगराणि आसन् । तेषां नगरस्य इतिहासं ज्ञात्वा चौहानवंशस्य तत्कालीनस्थितेः अनुमानं सुकरं भवति ।

१ जाङ्गलदेशः[सम्पादयतु]

पुराणे जाङ्गलदेशः[सम्पादयतु]

जाङ्गलदेशस्य नाम महाभारतेऽपि प्राप्यते, येन ज्ञायते यत्, जाङ्गलदेशः कियान् प्राचीनः प्रदेशः विद्यते । भारतीयग्रन्थेषु जाङ्गलदेशस्य व्याख्या सुस्पष्टा अस्ति । भावप्रकाशकोशे, शब्दकल्पद्रुमकोशे जाङ्गलदेशस्य व्याख्या प्राप्यते यत्,

आकाशशुभ्र उच्चश्च, स्वल्पपानीय पादपः ।

शमी करीर बल्वार्क पीलुकर्कन्धु सङ्कुलः ।।
............. देशो वातालः जाङ्गलः स्मृतः ।। भावप्रकाशकोशः ।।

अर्थात्, यत्र आकाशः स्वच्छः (मेघरहितः) उन्नतः च स्यात्, यत्र जलस्य, वृक्षाणां च न्यूनता स्यात्, यत्र शमी(Prosopsis Specigera)-कैर(Capparisaphylla)-अर्क(Colotripis procera)-बेल(Aegle Marmelos)-पीलू(Salvedora Persica)-कर्कन्धु(Gymnosporia Moutana)सदृशाः वृक्षाः भवेयुः, सः प्रदेशः जाङ्गलदेशः उच्यते ।

स्वल्पोदकतृणो यस्तु, प्रवातः प्रचुरातपः ।

स ज्ञेयो जाङ्गलो देशो, बहुधान्यादि संयुतः ।। द्वतीयः काण्डः ।। शब्दकल्पद्रूमकोशः ।।

अर्थात्, यस्मिन् स्थाने जलस्य, ग्रासस्य च न्यूनता स्यात्, वायोः, तापस्य च प्रबलता स्यात्, अन्नादि वैपुल्येन युक्तं स्यात्, सः देशः जाङ्गलदेशः उच्यते ।

जाङ्गलदेशस्य उल्लेखः मनुस्मृतौ अपि प्राप्यते ।

जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम् ।

रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ।। ७.६९ ।। मनुस्मृतिः

अर्थात्, राजानः तादृशे जाङ्गलप्रदेशे निवसेयुः, यत्र उपयुक्तं जलम्, आवश्यकतानुसारं वर्षाः च भवेयुः, यत्र पूरः (Flood) न भवेत्, यत्र सूर्यस्य पर्याप्तप्रकाशः भवेत्, यत्र धान्योत्पादने अनुकूला भूमिः भवेत्, यत्र श्रेष्ठजानानां बाहुल्यं स्यात्, यत्र सम्पन्नाः जनाः वसन्तः स्युः च ।

मनुस्मृत्यनुसारं यस्मिन् भूभागे राजभ्यः निवासः योग्यः मन्यते, सः भूभागः जाङ्गलप्रदेशः उच्यते । संयोगवशात् जाङ्गलप्रदेशे एव चौहानवंशस्य सत्तायाः प्रथमसङ्घटनम् अभवत् । महाभारते जाङ्गलप्रदेशस्य उल्लेखः भीष्मपर्वणः नवमाध्यायायस्य एकोनचत्वारिंशत्तमे, पञ्चपञ्चाशततमे च श्लोके प्राप्यते । महाभारतस्य वनपर्वणः दशमाध्यायस्य एकादशे श्लोकेऽपि जाङ्गलप्रदेशस्य उल्लेखः प्राप्यते । महाभारते माद्रेयजाङ्गला, कुरुजाङ्गला इत्यादिभिः नामभिः समासीतशब्दैः जाङ्गलदेशस्य प्रयोगः दरीदृश्यते । तेषां नाम्नां विश्लेषणं कुर्वन् डॉ. ओझा इत्येषः अकथयत्, मद्रदेशयुक्तः जाङ्गलप्रदेशः, कुरुदेशयुक्तः जाङ्गलप्रदेशः इत्येव महाभारते प्राप्तानां नाम्नाम् आशयः भवितुम् अर्हिति । बीकानेरराज्यस्य पुरातनं नाम जाङ्गलदेश एव आसीत् । परन्तु सद्यः सः बीकानेरप्रदेशस्य उत्तरदिग्भागः मद्रप्रदेशेन (मद्रप्रदेशः – पञ्जाब-प्रदेशे स्थितः चेनाब-सतलज-नद्योः मध्यस्थः भूभागः) सह युक्तः नास्ति । परन्तु सम्भावना अस्ति यत्, प्राचीनकाले मद्रप्रदेशस्य सीमा दक्षिणायां दिशि अधिकविस्तृता स्यात् उत जाङ्गलप्रदेशस्य सीमा उत्तरस्यां दिशि अधिकविस्तृता स्यात् इति [२१]

जाङ्गलदेशत्वेन सपादलक्षम्[सम्पादयतु]

जाङ्गलदेशस्य अपरं नाम सपादलक्षम् आसीत् । महाभारते, शब्दकल्पद्रुमकोशे, भावप्रकाशकोशे च जाङ्गलप्रदेशस्य यादृशं वर्णनं प्राप्यते, बीकानेर-प्रदेशस्य समीपे स्थिते प्रदेशे जाङ्गलदेशस्य वातावरणं, वनस्पतिः, जलम् इत्यादि सर्वं तथैव अस्ति । जाङ्गलप्रदेशे विकसितस्य शाकम्भरी इत्याख्ये नगरे चौहावंशस्य सत्तायाः स्थापना अभवत् । प्रारम्भे तु तस्यां सत्तायां केचन ग्रामाः एव अन्तर्भवन्ति स्म । परन्तु सीमाविस्तारस्य अनन्तरं शाकम्भर्याः शासनक्षेत्रे १,२५,००० ग्रामाः अभूवन् । अतः तस्य नाम सपादलक्षसाम्राज्यम् अभवत् । सपादलक्षसाम्राज्यस्य राजधानीत्वेन शाकम्भरी प्रसिद्धा आसीत् । कालान्तरे 'सपादलक्ष', 'जाङ्गलदेश' इत्येतयोः शब्दयोः उपयोगः समानसन्दर्भे आरब्धः । अनेकेषु ऐतिहासग्रन्थेषु सपादलक्षं जाङ्गदेशत्वेन उल्लिखितम् अस्ति । १२३० तमे वर्षे आशाधर इत्याख्यः कश्चन लेखकः "धर्मामृतम्" इत्याख्यं ग्रन्थम् अलिखत् । तस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्,

श्रीमानस्ति सपादलक्षविषयः शाकम्भरी भूषणस्तत्र ।

श्रीरतिधाम मण्डलकरं नामस्ति दुर्ग महत् ।। [२२]

अर्थात्, सपादलक्षदेशः, यस्य आभूषणं शाकम्भरी अस्ति, तस्मिन् मण्डलकरस्य (मेवाड) विशालदुर्गम् अस्ति ।

कुमारपालः यदा अर्णोराजं पारजितवान्, तदा सः चित्तौड-प्रदेशम् अगच्छत् । तस्य कुमारपालस्य आगमनस्य उल्लेखः मोकल-मन्दिरस्य शिलालेखे प्राप्यते । तं शिलालेखं कुमारपाल एव प्रास्थापयत् ।

महीभृन्नतुञ्जेषु शाकम्भरीशः ।

प्रिया पुत्र लोके न शाकम्भरीशः ।।
सपादलक्ष मामर्घ नम्री कृत भायनकः ।
स्वयंपान्महीनाथो ग्राम शालिपुरामिधे ।। [२३]

अर्थात्, राजा कुमारपालः शाकम्भर्याः राजानम् अर्णोराजम् (आनारु) पारिजित्य तस्य सपादलक्षसाम्राज्यम् उध्वस्तम् अकरोत् । ततः सः शालिपुरा इत्याख्यं (चित्तौड-प्रदेशात् ४ मील दूरे सः ग्रामः सद्यः सलोरा इति प्रसिद्धः) ग्रामम् अगच्छत् ।

ई. ९७३-९९६ मध्ये शाकम्भर्याः नरेशः विग्रहराजः गुर्जराधीशस्य मूलराजप्रथमस्योपरि आक्रमणम् अकरोत् । तस्य आक्रमणस्य वर्णनं मेरुतुङ्ग सूरि इत्येषः स्वपुस्तके अकरोत् ।

कस्मिन्नप्यवसरे सपादलक्षी य क्षितिपतिः ।

श्रीमूलराजभिषेणयितं गुर्जर् देश सन्धौ समाजगाम ।।

अर्थात्, एकस्मिन् अवसरे सपादलक्षस्य राजा गुजरातराज्यस्य सीमायां मूलराजेन सह योद्धुं सम्प्राप्तः ।

अनेन ज्ञायते यत्, चौहानवंशस्य कोऽपि राजा शाकम्भर्याः उपरि शासनं कुर्वन् यस्मिन् देशे शासनं करोति स्म, तं सपादलक्षम् इत्येव कथ्यते स्म । चौहानवंशीयानां सपादलक्षसाम्राज्यं 'देश' एव उच्यते स्म इत्यस्य उदाहरणत्वेन द्वौ ग्रन्थौ प्राप्येते । प्रप्रथमः तु कुमारपालस्य गुरोः हेमचन्द्रसूरि इत्यस्य द्वाश्रमयमहाकाव्यग्रन्थः [२४], द्वितीयः जयानकेन लिखितः पृथ्वीराजविजयमहाकाव्यग्रन्थः [२५] च स्तः । सपादलक्षसाम्राज्यस्य शासकः यद्यपि सपादलक्षराजत्वेन अभिहितः भवति स्म, तथापि जाङ्गलेशत्वेन सम्बोधनं प्राप्यते । वीसलपुरात् १२४४ तमे विक्रमसंवत्सरे प्राप्ते शिलालेखे पृथ्वीराजतृतीयः स्वं सपालक्षमहाराजाधिराजत्वेन सम्बोधयति । तस्मिन् शिलालेखे उल्लिखितम् –

महाराजाधिराज परमेश्वर श्रीपृथ्वीराज देव राज्य तस्मिन् काले सं. ११४४ श्रावण पूर्व्वं सपादलक्षे....[२६]

पृथ्वीराजतृतीयस्य प्रतिद्वन्द्वी चन्द्रवत्याः, आबूप्रदेशस्य च राजा धारवर्ष परमार इत्यस्य अनुजः पह्लाददेवः "पार्थपराक्रमव्यायोगः" [२७] इत्याख्ये स्वग्रन्थे पृथ्वीराजतृतीयं "जाङ्गलेश" इति सम्बोधयति । सोमेश्वर सूरि इत्यनेन लिखितयोः "कीर्तिकौमुदी", "सुरथोत्सवः" इत्येतयोः ग्रन्थयोः अपि "जाङ्गलक्षोणिपालः" (जाङ्गलदेशस्य राजा) इति सम्बोधनं प्राप्यते । कीर्तिकौमुद्याम् उल्लिखितं यत्, "जाङ्गलक्षोणिपालेन व्याचक्षणेः परैरपि" इति ।

उक्तविवरणैः सिध्यति यत्, जाङ्गलप्रदेशस्य सपादलक्षसाम्राज्यस्य च नाम समानार्थकत्वेन बहुधा उपयुज्यते स्म । जाङ्गदेशस्य, सपादलक्षदेशस्य च सम्बन्धः चौहानवंशेन सह अस्ति । सर्वप्रथमं चौहानवंशस्य राजधानी शाकम्भरी अभवत् । ततः राजधान्याः स्थानान्तरणे सति अजयमेरु तस्य वंशस्य राजधानी अभवत् ।

२ शाकम्भरी[सम्पादयतु]

'साम्भर' इत्येतस्य अपभ्रंशशब्दस्य मूलनाम 'शाकम्भरी' इत्यासीत् । साम्भर इत्याख्यं प्राचीननगरं राजस्थानराज्यस्य जयपुरमण्डलस्य मुख्यपत्तनेषु अन्यतमम् अस्ति । सद्यः तत् नगरं 'साम्भर लेक्' उत 'साम्भर लेक् टाउन्' इति प्रसिद्धम् अस्ति । 'साम्भर लेक् टाउन्' इत्याख्यं नगरं राजस्थानराज्यस्य जयपुरात् ९५ कि.मी. दूरे अस्ति । तत् पत्तनं लावणजलाशयत्वात् अति प्रसिद्धम् अस्ति । सः जलाशयः भारते बृहत्तमः लावणजलायशयः विद्यते ।

शाकम्भर्याः लावणजलायशयः[सम्पादयतु]

शारम्भर्यां स्थितः शाकम्भरीजलाशयः लावणजलाशयत्वेन सम्पूर्णे विश्वे प्रसिद्धः अस्ति । सः जलाशयः ७५°११ पूर्वदेशान्तरे, 26°55 उत्तरदेशान्तरे समुद्रतलात् ३६४ मी. औन्नत्ये स्थितः अस्ति । तस्य जलाशयस्य क्षेत्रफलं १५० चतुरस्रकिलोमीटर्मितम् अस्ति । तस्य जलाशयस्य जलग्रहणक्षेत्रम् २५० चतुरस्रकिलोमीटर्मितम् अस्ति । रूपनगर-मेघना-खादी-खण्डेल-नदीनां जलं तस्मिन् जलाशये पतति । ग्रीष्मर्तौ सः जलाशयः शुष्कः भवति । परन्तु तस्य जलाशयः भूभागे २२ मी उन्नतः एकः आर्द्रलावणमुत्तिकायाः बृहत् भागः अवशिष्टः भवति । तया आर्द्रलावणमृत्तिकया 'हिन्दुस्थान सॉल्ट् लिमिटेड्' [२८] इत्याख्या सर्वकारीयसंस्था प्रतिवर्षं २ लक्षं टन् [२९] परिमतं लवणस्य उत्पादनं करोति । तस्य लावणजलाशयस्य उत्पत्त्याः विषये अनेकाः कथाः सन्ति ।

 शाकम्भरीदेवीमन्दिरम्[सम्पादयतु]

शाकम्भरीदेवीमन्दिरं राजस्थानराज्यस्य जयपुरमण्डलस्य 'साम्भर लेक् टाउलन्' इत्याख्ये पत्तने विद्यते । एतस्य पत्तनस्य नाम एव शाकम्भरी आसीत् । शाकम्भरीदेवी चौहानवंशीयानां कुलदेवी अस्ति । शाकम्भरीदेव्याः नाम्ना एव चौहावंशीयानां राजधान्याः नाम "शाकम्भरी" इति आसीत् । चौहानसाम्राज्यम् अपि शाकम्भरीसाम्राज्यत्वेन प्रसिद्धम् अभवत् । चौहानवंशीयाः शासकाः शाकम्भरीशः, शाकम्भरीनरेशः इत्यादिनामभिः प्रसिद्धाः अभूवन् ।

३ नागौर[सम्पादयतु]

मुख्यलेखः : नागौर

नागौर राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते [३०] । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिछत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि ।

नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, विभिन्नमुखेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरस्य उन्नतक्षेत्रात् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काचित् दीर्घा भित्तिः आसीत् । तस्याः भित्तेः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्-परिमिता, अन्यत्र ५ फीट्-परिमिता, अपरत्र १७ फीट्-परिमिता च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठद्वारं पूर्वदिशायां च आसीत् । एतानि षट्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः । 

 ४ अजयमेरुः[सम्पादयतु]

एतस्मिन् विषये अधिकं विवरणं प्राप्तुं, अत्र पश्यतु अजयमेरोः इतिहासः.

चौहानवंशस्य उत्कर्षस्य, पराभवस्य च जीवन्तसाक्षी अजयमेरुः वर्तते । यतो हि अजयराजस्य काले अजयमेरोः राजधानीत्वेन घोषणाोत्तरं पृथ्वीराजतृतीयस्य नरायनस्य द्वितीये युद्धे पराजयं यावत् अजयमेरुः चौहानवंशस्य राजधानी आसीत् । पृथ्वीराजतृतीयस्य मृत्युः अपि अजयमेरौ एवाभवत् [३१][३२] । अजयमेरुः एव अरावल्याः विशालपर्वतमालायां स्थितः चौहानवंशस्य केन्द्रियशक्तेः विराट् स्वरूपी आसीत् । द्वादश्यां शताब्द्यां भारतीयत्वस्य रक्षणं यः कृतवान्, सः अजयमेरुः एव आसीत् । अजयमेरोः हुङ्कारेणैव गोर-गझनी-बसरा-बगदाद इत्यादयः प्रदेशाः भयभीताः भवन्ति स्म । अजयमेरौ एव विग्रहराजेन शपथं स्वीकृतम् आसीत् यत्, "अहं भारतवर्षं म्लेच्छमुक्तं (यवनमुक्तं) करिष्यामि" इति । सः अजयमेरुः अद्यापि अजमेर इति नाम्ना विद्यते । 

 ५ नरायन[सम्पादयतु]

नरायन-नगरम् एकादश्यां, द्वाश्यां च शताब्द्यां सामरिककेन्द्रत्वात् सम्पूर्णे जम्बूद्वीपं विख्यातम् आसीत् । कालग्रस्तं तत् नगरम् अद्य लघुपत्तनत्वेन परिणतम् । अद्य तत् नगरं नरैना इति प्रसिद्धम् अस्ति । तस्य नगरस्य अन्यानि अपि प्राचीननामानि प्राप्यन्ते । यथा – नारायन, नराडा, नाराणक इत्यादीनि ।

भौगोलिकम्[सम्पादयतु]

फुलेरा-तः अजमेर-पर्यन्तं यः रेलमार्गः अस्ति, तत्र मार्गे २६.४८ उत्तराक्षांशे, ७५.१३ पूर्वदेशान्तरे स्थितस्य नरैना-पत्तनस्य लघु रेलस्थानकम् अपि अस्ति । चौहानवंशीयानां प्रप्रथमराजधानी-तः एतत् पत्तनं दक्षिणदिशायां ११ कि.मी. दूरे अवस्थितम् अस्ति । साम्भर-नगरस्य समीपे नरैना-पत्तनम् अस्ति । नरैना-पत्तनस्य समीपे श्रीस्थिलं (सिरथला), मलेटा, नलियासर इत्यादीनि प्राचीनपत्तनानि सन्ति । डॉ. दयाराम सहानी इत्याख्यः इतिहासविद् १९३६-१९३८ मध्ये अत्र उत्खननम् अकरोत् । स्वपूरातात्त्विकसर्वेक्षणे तेन सिद्धं कृतं यत्, नलियासर-पत्तनस्य स्थापना षष्ठ्यां शताब्द्याम् अभवत् इति । तस्मिन् काले एव नरैना इत्यादीनि पत्तनानि अस्तित्वं प्रापन् । तस्मिन् प्रदेशे उत्खननकार्योत्तरं यानि वस्तुनि लब्धानि, तेषां गहनाध्यनं कृत्वा दयाराममहोदयस्य निष्कर्षः आसीत् यत्, नलियासर-पत्तनस्य स्थापना हिन्दुधर्मानुयायिभिः कृता इति । ते हिन्दवः ब्राह्मणाः आसन् इत्यपि तस्य दृढमतम् ।

इतिहासः[सम्पादयतु]

चौहानवंशीयानां शासनकाले राजधानी शाकम्भरी स्यात् उत अजयमेरुः, परन्तु सामरिक-व्यापारिक-दृष्टिकोणेन नरायन-नगरम् अति महत्त्वपूर्णम् आसीत् । यतो हि नरायन-नगरं चौहानवंशीयानां सामरिकराजधानी आसीत् । महाराणा साँगा इत्यस्य शासनकालेऽपि (ई. १५०९-१५२८) नरायन-दुर्गस्य अभेद्यतात्वात् नरायन-नगरम् अति प्रसिद्धम् आसीत् । नवम्यां, दशम्याम्, एकादश्यां च शताब्द्यां नरायन-नगरस्य सम्पन्नता चरमे आसीत् । नरायन-नगरे आढ्यव्यापारिणः निवसन्ति स्म । अखिले नगरे वैभवस्य, सम्पन्नतायाः स्थितिः आसीत् । नरायन-नगरस्य विपुलतायाः चर्चा चतसॄषु दिक्षु व्याप्ता आसीत् ।

जनेषु नरायन-नगरं प्रति व्याप्तम् उन्मादं दृष्ट्वा १०२५ ई. मध्ये महमूद गझनवी इत्येषः नरायन-नगरस्योपरि आक्रमणम् अकरोत् । तस्मिन् काले शाकम्भर्याः शासकः दुर्लभराजस्य पुत्रः गोविन्दराजः (गुनकद्वितीयः) आसीत् । यदा गोविन्दरराजः महमूद गझनवी इत्यस्य आक्रमणस्य समाचारं प्रापत्, तदा सः तस्य यवनस्य विशालसेनया सह योद्धुं गतः । परन्तु तस्मिन् युद्धे गोविदन्दराजः पराजितः । ततः यवनाः नरायन-नगरं प्रविश्य आनगरम् उत्पातम् अकुर्वन् । मन्दिराणि लुण्ठयित्वा मूर्तीः चोरयित्वा सहैव अनयत् । अनेकानि मन्दिराणि लुण्ठयित्वा आग्निसात् अकुर्वन् । यवनानाम् उत्पातात् रक्षितुं नगरजनैः देवानां मूर्तयः भूर्गर्भे स्थापिताः, तथापि तेषां यवनानां नाशकप्रवृत्त्याः अतिशयितत्वात् अनेके भूगर्भस्थाः मूर्तयः अपि नष्टाः । ततः तस्य सैनिकाः समीपस्थेषु नगरेषु अपि आक्रमणम् अकुर्वन् । तेषु नगरेषु नलियासर, साम्भर, मलेटा इत्यादीनि नगराणि अन्तर्भवन्ति ।

म्लेच्छानाम् आक्रमणेन आहतेषु सन्तः अपि नगरवासिनः आक्रमणस्य समनन्तरमेव द्वयोः मन्दिरयोः निर्माणम् अकुर्वन् । पृथ्वीराजतृतीयस्य शासनकाले कालचक्रस्य विशालखण्डः व्यतीतः । अतः व्यगतस्य प्रलयस्य न कस्यापि मनसि स्मृतिः आसीत् । नरायन-नगरं पृथ्वीराजतृतीयस्य सामरिकराजधानीत्वात् युद्धकाले पृथ्वीराजः नरायन-नगरस्य दुर्गे एव युद्धयोजनायाः गोष्ठीं करोति स्म । पृथ्वीराजतृतीयः यदा दिग्विजयाभियानाय अगच्छत्, तदा पृथ्वीराजस्य नेतृत्वे सर्वेऽपि सेनापतयः स्वसेनया सह नरायन-दुर्गात् एव प्रयाणं कुर्वन्ति स्म । पृथ्वीराजस्य शासनकाले नरायन-नगरं व्यापारस्य मुख्यकेन्द्रम् आसीत् । जम्बूद्वीपे सर्वत्र नरायन-नगरात् व्यापारः भवति स्म ।

११९२ तमे वर्षे यदा पृथ्वीराजतृतीयः नरायनयुद्धस्य द्वितीये युद्धे पराजितः, ततः नरायन-नगरं देहल्याः शासनस्य भागम् अभवत् । फीरोज तुगलक इत्यस्य मृत्योः अनन्तरं १३८८ तमे वर्षे जफर खाँ इत्येषः स्वभ्रातरं शम्स् खाँ इत्यस्मै नागौर-प्रदेशस्य शासनम् अयच्छत् । ततः १४२० तमे वर्षे मोकल इत्याख्यः चित्तोड-प्रदेशस्य शासकः फीरोज खाँ इत्येनं पराजित्य नागौर-प्रदेशस्योपरि अधिकारं प्रापत् । एवं नरायन-नगरं चित्तोड-प्रदेशस्य भागम् अभवत् । १४३७ तमे वर्षे मुजैद खाँ इत्याख्यः यवनराजा नरायन-नगरे, साम्भर-नगरे च आक्रमणं कृत्वा तस्य प्रदेशस्य शासकः अभवत् । १४३७ तमस्य वर्षस्य जून-मासस्य तृतीये (३/६/१४३७) दिनाङ्के रविवासरे फारसी-लिप्या लिखितः कश्चन लेखः नरायन-नगरस्य गौरीकुण्डात् प्राप्तः । तस्य शिलालेखस्य अनुसारं मुजैद खाँ इत्यनेन नरायन-नगरे अनेकानि हिन्दुमन्दिराणि, जैनमन्दिराणि च नाशितानि । तेषां मन्दिराणां प्रस्तरैः एव तेन 'जामा मस्जिद्' इत्याख्यस्य यवनप्रार्थनागृहस्य निर्माणं कारितम् । गौरीकुण्डस्य नाम परिवर्त्य 'मुस्तफासर' इत्यकरोत् । परन्तु अपरे मासयेव महाराणा कुम्भा इत्येषः नरायन-नगरस्योपरि आक्रममण् अकरोत् ।

ई. १५५६-१६०६ मध्ये नरायन-नगरम् अकबर इत्यस्य अधिनम् आसीत् । तस्य काले अजमेर-प्रदेशशासनव्यावस्थायां नरायन-नगरम् अन्तर्भवति स्म । अजमेर-प्रदेशस्य शासनव्यवस्थां जयपुरप्रदेशस्य कछव-जनाः पश्यन्ति स्म । १६०५ तमे वर्षे अकबर इत्येषः नरायन-नगरस्य यात्राम् अपि अकरोत् । ततः भोजराजाख्यः कश्चन श्रेष्ठी नरायन-प्रदेशस्य अधिकारी आसीत् । तस्मिन् समये दादूदलाय इत्येषः प्रसिद्धि इत्याख्ये शिखरे निवसति स्म । दादूदलाय इत्येतस्य स्वभावेन प्रसन्नः भोजराजः, तस्मै नरायन-नगरम् उपायनत्वेन अयच्छत् [३३]

जैनतीर्थत्वेन नरायन[सम्पादयतु]

चौहानवंशीयनां शासनकाल एव नरायन-नगरं जैनधर्मानुयायिनां मुख्यक्षेत्रत्वेनापि प्रसिद्धम् अभवत् । द्वादश्यां शताब्द्यां सिद्धसेनसूरिमहाराजेन "सकलतीर्थस्तोत्र"स्य रचना कृता । तस्मिन् स्तोत्रे नरायन-नगरं जैनमतानुयायिनां पवित्रधामत्वेन परिलक्षितम् । बिजौलिया-शिलालेखानुसारं प्राग्वाटवंशीयेन पुण्यराशिना वर्धमान-तीर्थङ्करस्य विशालमन्दिरं निर्मापितम् [३४] । ११३५ तमे विक्रमसंवत्सरे (१०७९) निर्मितशिलालेखानुसारं प्राग्वाटवंशीयः मथन इत्याख्यः शासकः सपरिवारं बाहुबलेः मूर्तिम् अस्थापयत् [३५] । एकादश्यां शताब्द्यां जैनलेखकः धनपालः 'सत्यपुरिया महावीर' इत्याख्ये ग्रन्थे व्यलिखत् यत्, नरायन-नगरे महावीरस्य अतिभव्यं मन्दिरम् अस्ति इति [३६]

नरायन-नगरे भैरवमन्दिरस्य पुरतः भूगर्भे श्वेतप्रस्तरैः निर्मिताः मूर्तयः, स्तम्भाः, द्वाराणि च प्रापन् । इतिहासविदां मतानुसारं कदाचित् ते अवशेषाः महावीरमन्दिरस्य एव सन्ति, यस्य वर्णनं धनपालेन कृतम् अस्ति इति । तस्मात् स्थानात् प्राप्तैः श्वेतप्रस्तरैः तु सिद्धं भवति यत्, तत् महावीरमन्दिरं श्वेतप्रस्तरैः निर्मितम् अत्युत्कटं मन्दिरं स्यात् । परन्तु द्वादश्याः शताब्द्याः अन्ते तन्मन्दिरं यवनानां क्रूरतायाः कारणेन नष्टम् अभवत् ।

नरायन-नगरे उत्खननकाले ११०२ तमे विक्रमसंवत्सरे जैनमतानुगुणं निर्मितायाः सरस्वतीदेव्याः मूर्तिः प्राप्ता [३७][३८] । सरस्वतीदेवीम् अतिरिच्य अन्याः तिस्रः मूर्तयः अपि प्राप्ताः । ताः मूर्तयः जैनमतानुसारमेव निर्मिताः सन्ति । ताः सर्वाः मूर्तयः सिंहारूढायाः वाहिनीदेव्याः सन्ति । तासु तिसॄषु मूर्तिषु एका मूर्तिः श्वेतप्रस्तरैः, अपरा कृष्णप्रस्तरैः निर्मिता ।

नरायन-दुर्गस्य धवलगृहे एकं विस्तृतं साभागारम् आसीत् । तस्मिन् सभागारे कवीनां, विदुषां, नटानां, नटीनां च ज्ञानकलाप्रदर्शनं भवति स्म । १२९३ तमे विक्रमसंवत्सरे द्वयोः जैनाचार्ययोः शास्त्रार्थः अपि नरायनदुर्ग एवाभवत् । शास्त्रार्थकर्तारौ तौ आचार्यौ क्रमेण खरतकदच्छाचार्यः श्रीजिनपतिसूरिः, उपकेशगच्छीयचैत्यवासी पद्मलभश्च (पद्मलभः फलवर्धिकायाः निवासी आसीत् । सद्यः फलवर्धिका फलोदी इति प्रसिद्धम् अस्ति । तत् मडेता-नगरस्य समीपे अवस्थितम् ।) आस्ताम् । प्राच्यकालात् शास्त्रार्थस्य भारतीयजनेभ्यः अतिमहत्त्वम् अस्ति । जिनपालोपाध्यायः तस्मिन् सभागारे उपस्थितिः आसीत् यदा तौ आचार्यौ शास्त्रर्थरतौ आस्ताम् । तस्य शास्त्रार्थस्य सम्पूर्णं विवरणं जिनपालोपाध्यायः स्वस्य खरतरगच्छपट्टावल्याम् अलिखत् । तेन लिपिबद्धं कृतं कार्यम् इतिहासविदां कृते प्रमाणानां समुद्रवत् अस्ति । १९६५ तमे वर्षे आचार्यमुनिः श्रीजिनविजयः कर्णावत्यां सिङ्गीजैनमाला इत्यस्याः मासिक्याः ४२ तमायां पत्रिकायां तद्विवरणं प्रकाशितम् [३९]

 ६ त्रिपुरी[सम्पादयतु]

त्रिपुर्याः तेवर इत्येतत् नामान्तरम् अस्ति । सद्यः त्रिपुरी तेवर इति नाम्ना एव प्रसिद्धम् अस्ति । ऐतिहासिकप्रमाणानाम् आधारेण सिध्यति यत्, विन्ध्य-सतपुडा-पर्वतमालिकयोः मध्ये स्थितः भूभागः अष्टम्यां शताब्द्यां चेदिदेश इतिनाम्ना प्रसिद्धः आसीत् । ततः सः भूभागः मध्यदेश इति प्रसिद्धः अभवत् । सद्यः सः प्रदेशः मध्यप्रदेशत्वेन प्रसिद्धः । तस्य मध्यप्रदेशस्य जबलपुर-नगरस्य सदर-आख्यात् स्थलात् भेटाघट्ट-स्थलगमनमार्गे तेवर इत्याखः ग्रामः विद्यते । सः ग्रामः त्रिपुरी इति ।

तेवर-ग्रामस्य जनसङ्ख्या १५,००० अस्ति । तं ग्रामं परितः अनेके देवालयाः, प्राचीनभवनानि च अर्मकत्वेन (Ruins, खंडहर) सन्ति । अर्मके अत्र तत्र अनेकाः मूर्तयः आकीर्णाः (Scattered) सन्ति । तत्र तादृश्यः मूर्तयः वर्षाकाले तु आधिक्येन दरीदृश्यन्ते । तेवर-ग्रामः प्राचीनस्य त्रिपुरीग्रामस्य अभिन्नः भागः अस्ति, यः प्राच्यकाले कुल्चरी गाङ्गेयस्य आधिपत्ये आसीत् । महाराजाधिराजस्य कर्णस्य शासनकाले त्रिपुरी न केवलं नगरम् आसीत्, अपि तु सम्पन्नराजधानी अपि आसीत् । महाराजाधिराजस्य कर्णस्य पट्टमहिष्या हूणराजकुमार्या आनलदेव्या भेडाघाट-स्थाने भव्यातिभव्यं शिवमन्दिरं निर्मापितम् इति उल्लेखः प्राप्यते ।

अनेके आधुनिकेतिहासविदः तस्य त्रिपुरी-ग्रामस्य यात्राम् अकुर्वन् । तेषाम् इतिहासविदां मतानुसारं तेवर-ग्रामे अधुना ये जनाः निवसन्ति, ते स्वग्रामस्य अद्वितीयम् इतिहासम् अपि न जानन्ति । कालग्रस्तः सः ग्रामः स्ववैभवपराङ्मुखः अभवत् । एकादश्यां शताब्द्यां चेदिराज्यस्य द्वौ विभागौ अस्ताम् । प्रप्रथमः विभागः पश्चिमचेदिदेशः इति प्रसिद्धः आसीत् । तस्य विभागस्य राजधानी त्रिपुरी आसीत् । द्वितीयः विभागः पूर्वचेदिदेशः 'महाकौशलम्' इति प्रसिद्धः आसीत् । तस्य राजधानी रत्नपुरम् (डाहल) आसीत् । इतिहासविदां दृढमतम् अस्ति यत्, प्राचीनकाले चेदिदेशः छत्तीसगढपर्यन्तं विस्तृतः आसीत् तथा च डाहल-स्थानं तस्य प्रदेशस्य पूर्वपश्चिमीकोणे आसीत् ।

कुल्चुरीवंशीयाः स्ववंशं हैहयवंशीयत्वेन परिगणयन्ति स्म । हैहयवंशीयानाम् आदिपुरुषः सहस्रार्जुनः आसीत् । तस्य अपरं नाम कार्तवीर्यः इति । तस्य राजधानी माहिष्मती आसीत् । तेषां हैहयवंशीयानां रक्षाव्यवस्था अति सुदृढा आसीत् । स्वव्यस्थायाः बलेन तैः नवीनकालगणनायाः आविष्कारः कृतः आसीत् । सा कालगणना कुल्चुरी-संवत्सरः इति प्रसिद्धा अस्ति । तस्य संवत्सरस्य द्वे नामान्तरे स्तः । ते नामनी चेदि-संवत्सरः, त्रौकुटक-संवत्सरः च । प्रसिद्धः पुरातात्त्विकः प्रो. कीलहार्न् इत्येषः कुल्चुरी-संवत्सरस्य आरम्भः ई. २५९ तमस्य वर्षस्य अगस्त-मासस्य षड्विंशतितमात् (२६/८/२५९) दिनाङ्कात् अभवत् इति स्वपुस्तके उल्लिखति । अर्थात् भारतीयकालगणनानुसारं ३०६ तमस्य विक्रमसंवत्सरस्य आश्विनमासस्य कृष्णप्रतिपपदः आरम्भः मन्यते [४०][४१] । कुल्चुरीसंवत्सरस्य प्रप्रथमशिलालेखः २४५ संवत्सरस्य प्राप्यते । कुल्चुरीसंवत्सरस्य अन्तिमशिलालेखः ९५८ संवत्सरस्य अस्ति [४२] । कुल्चुरीसंवत्सरस्य प्रचलनं ८०० वर्षं यावत् आसीत् । हैहैयवंशीयानां संवत्सरस्य अनुकरणं मैत्रक-त्रिकूटक-गुर्जर-सेन्द्रक-चालुक्य-वंशीयाः अपि कुर्वन्ति स्म । भारतीयेतिहासे अद्वितीयस्थाने स्थितानां कल्चुरीवंशीयानां पुत्री कर्पूरदेवी आसीत् । तस्याः गर्भादेव पृथ्वीराजतृतीयस्य जन्म अभवत् ।

७ समाना[सम्पादयतु]

समाना-नगरम् अद्यत्वे पञ्जाबराज्यस्य प्रमुखपत्तनत्वेन परिगण्यते । ३०.९ उत्तराक्षांशे, ७६.१५ पूर्वदेशान्तरे स्थितं तत् पत्तनं कोहराम-नगरात् पश्चिमदिशायां २० कि.मी. दूरे अवस्थितम् । प्राचीनग्रन्थेषु कोहराम, सुनाम, हाँसी इत्यादिभिः नामभिः सह सामना-नगरस्य उल्लेखः प्राप्यते । घोरी इत्येषः प्रारम्भिककाले येषु हिन्दुदुर्गेषु आधिपत्यम् अस्थापयत्, तेषु समानादुर्गम् अपि अन्यतमम् । समाना-दुर्गस्य प्रप्रथमशासकः कुतुबुद्दीन ऐबक इत्येषः आसीत् । ततः अल्तमश, आराम शाह, सैफुद्दीन इत्येते यवनशासकाः अत्र शासनम् अकुर्वन् ।

पृथ्वीराजतृतीयस्य शासनकाले एषः प्रदेशः पुण्डीर-राजपूतानाम् आधिपत्ये आसीत् । ते पुण्डीर-राजपूताः पृथ्वीराजस्य विश्वस्तसामन्तेषु मुख्याः आसन् । नरायनस्य युद्धे पराजयानन्तरं पुण्डीर-राजपूतानां श्रीः विनष्टा । अतः तस्मात् स्थलात् विस्थापिताः सन्तः ते यमुनातीरे स्वाधिवासं निर्मितवन्तः ।

८ गुहरामः[सम्पादयतु]

गुहराम-नगरम् अत्यन्तं प्राचीनं नगरम् अस्ति । तस्य प्राचीनतमं नाम धूमर इति प्राप्यते । ३०.७ उत्तराक्षांशे, ७६.३ पूर्वदेशान्तरे अवस्थितं तत् नगरं सद्यः पटियालामण्डलान्तर्गततया तिष्ठति । परम्परानुगुणं मान्यता अस्ति यत्, गुहराम-नगरं श्रीरामस्य मातृकगृहम् (Maternal, ननिहाल) आसीत् । गुरुगोविन्दसिंहेनापि स्वग्रन्थे गुहराम-नगरं श्रीरामस्य मातृकत्वेन उल्लितम् अस्ति [४३] । ततः गुहराम-नगरस्य नाम रामगढ इति अभवत् । रामायणानुसारं श्रीरामस्य माता कौशल्या कोसल-देशस्य राजकुमारी आसीत् ।

इतिहासविदां मते पुरातात्त्विकदृष्ट्या गुहराम-नगरम् अतिमहत्त्वपूर्णं नगरम् अस्ति । गुहराम-नगरे किञ्चन प्राचीनं दुर्गम् अपि अस्ति । इतिहासविदां मतानुसारं गुप्तकाले तस्य दुर्गस्य विन्यासः (स्थापना) अभवत् । यतो हि दुर्गस्य स्थापत्यकाला गुप्तकालीनस्थापत्यकलावत् दरीदृश्यते ।

गुहरामस्य उल्लेखः हिन्दीसाहित्येषु न प्राप्यते, परन्तु फारसी-साहित्येषु कोहराम-नामत्वेन पौनःपुन्येन उल्लेखः प्राप्यते । मध्यकाले गुहरामस्य सामरिकशक्तिः प्रख्याता आसीत् । ११९२ ई. मध्ये यदा घोरी इत्येषः नरायनस्य द्वितीयवयुद्धे अजयत्, तदा सामरिकास्थितायाः भयेन घोरी इत्येषः गुहरामस्य सेनां प्रप्रथमं स्वाधीनाम् अकरोत् । ततः घोरी इत्येषः कुतुबुद्दीन ऐबक इत्यस्मै शासनकार्यं दत्त्वा गझनी-प्रदेशं प्रत्यगच्छत् । यदा हाँसी इत्यस्मिन् प्रदेशे जलवान इत्याख्यः राजा आक्रमणम् अकरोत्, तदा आक्रमणस्य समाचारं कुतुबुद्दीन ऐबक् इत्येषः गुहरामे एव प्रापत् । गुहरामात् एव सः सैन्यबलेन सह प्रस्थानं कृत्वा प्रातःकाले हाँसी-दुर्गस्योपरि आक्रमणम् अकरोत् ।

उक्तविवरणनेन सिध्यति यत्, गुहराम-नगरं चौहानवंशीयानां काले कियत् महत्त्वपूर्णं सामरिककेन्द्रम् आसीदिति । ११९२ तमे वर्षे द्वितीयनरायनयुद्धात् प्राक् घोरी इत्यस्य अनेके गुप्तचराः छद्मवंशं स्वीकृत्य याचकरूपेण, नटरूपेण च पृथ्वीराजतृतीयस्य सर्वेषु सामरिककेन्द्रेषु तीक्ष्णनरीक्षणं कुर्वन्ति स्म । तेषु गुप्तचरेषु यस्य दायित्वं गुहराम-नगरस्योपरि दृष्टिपातस्य आसीत्, तस्य नाम सैय्यद मीरान इत्यासीत् । सः चिश्तप्रदेशीयः आसीत् । सः याचनां कुर्वन् आनगरम् अटति स्म । अटनकाले सः यां सूचनां सम्पादयति स्म, तां सूचनां लाहौर-मार्गेण घोरी इत्यस्य पार्श्वे प्रेषयति स्म । अद्यापि तस्य समाधिस्थानं ('कब्र') गुहराम-नगरस्य पूर्वभागे स्थिता अस्ति ।

दीर्घकाले व्यतीते सत्यपि अत्रत्यं दुर्गं जर्जरीतं नाभवत् । दुर्गं परितः विशालाः प्राचीराः सन्ति । दुर्गं पुरतः जलकुण्डः, उद्यानं च शुशोभेते । गुहरामस्य दुर्गं पटियाला-पेहोवा-नगरयोः मध्यमार्गे अवस्थितम् अस्ति । गुहराम-दुर्गात् किञ्चित् दूरे एव हरियाणाराज्यस्य कैथलमण्डलस्य सीमा अवस्थिता [४४]

चौहानवंशसम्बद्धाः शिलालेखाः[सम्पादयतु]

१. महाराजाधिराज-सिंहराज-कालीनः थाँवला-शिलालेखः वि.सं. १०१३ । सम्पादकः - श्रीरत्नचन्द्र अग्रवाल, अधीक्षकः राजस्थानपुरातत्त्वविभागः, मरुभारती ।

२. विग्रहराजद्वितीयकालीनः हर्षशिलालेखः वि.सं. १०३० । सम्पादकः – प्रो. एफ. कीलहार्न्, एपिग्रफिया इण्डिका, भागः २, पृ. ११९-१२५ ।

३. अजयराजस्य वस्सि-स्मृति-स्तम्भ-लेखः ११८९ तस्य विक्रमसंवत्सरस्य कार्तिकशुक्लपञ्चम्यां रविवासरे लिखितः (१६/१०/११३२) । सम्पादकः – सं. श्री सी एल् सूरी, मैसूर, एपिग्रैफिया इण्डिका, भागः ३७, १६३-६४ ।

४. अढाई दिन के झोपडा, अजमेर-नगरात् प्राप्तः चौहानप्रशस्तिशिलालेखः । सम्पादकः – डॉ. दशरथ शर्मा, अर्ली चौहान डाइनेस्टीज्, पृ. २०३-२०४ ।

५. श्रीजीणमातामन्दिरस्य (रेवासा, सीकर) त्रयः शिलालेखाः । सम्पादकः – श्री राम शर्मा, मैसूर, एपिग्रैफिया इण्डिका, भागः ४२, पृ. ६०-६४ ।

  • अ. महाराजाधिराज-अर्णोराज-कालीनः शिलालेखः सं. ११९६ ।
  • आ. महाराजाधिराज-अर्णोराज-कालीनः द्वितीयः शिलालेखः ११९६ तमस्य विक्रमसंवत्सरस्य वैशाखमासस्य शुक्लैकादश्यां निर्मितः ।
  • इ. श्रीमहाराजाधिराजसोमेश्वर-कालीनः शिलालेखः । १२३० तमस्य विक्रमसंवत्सरस्य आषाढमासस्य शुक्लनवम्यायां तिथौ सोमवासरे निर्मितः ।

६. विग्रहराजचतुर्थकालीनः नरहड-शिलालेखः वि.सं. १२१५ ।

७. विग्रहराजचतुर्थकालीनः देहली-स्तम्भलेखः । अस्मिन् स्तम्भलेखेः विग्रहराजस्य उल्लेखः वीसलदेवत्वेन प्राप्यते । वि.सं. १२२० मध्ये निर्मितः । सम्पादकः – प्रो. एफ् कीलहार्न्, इण्डियन् एँटिक्वैरी, भागः १९, पृ. २१८-२२० ।

८. पृथ्वीभट्ट-कालीनः (पृथ्वीराजद्वितीयः) हाँसी-शिलालेखः, वि.सं. १२२४ । सम्पादकः – डॉ. डी डी आर् भण्डारकर, इण्डियन् एन्टिक्वैरीस भागः ४१, ई. १९१२, पृ. १७-१९ ।

९. पट्टमहिष्याः सुहवदेव्याः मेनाल-शिलालेखः, वि.सं. १२२५ । सम्पादकः – श्रीरत्नचन्द्र अग्रवाल, निदेशकः, राजस्थानपुरातत्त्वविभागः, जयपुरम्, मरुभारती, १९६५ जनवरी, पृ. १३ ।

१०. पृथ्वीराजद्वितीयस्य मेनाल-शिलालेखः, वि.सं. १२२६ । सम्पादकः – श्रीराम शर्मा, नई देहली, एपिग्रैफिया इण्डिका, भागः ३७, पृ. ३१९-३२२ ।

११. सोमेश्वरकालीनः बिजौलिया-शिलालेखः, वि.सं. १२२६ । सम्पादकः – अक्षयकीर्ति व्यास, एपीग्राफिया इण्डिका, भागः २६, पृ. १२-११२ ।

१२. आंवल्दा-क्षेत्रस्य द्वौ स्तम्भशिलालेखौ । सम्पादकः – डॉ. जी एस् घई, मैसूर, एपिग्राफिया इण्डिका, भागः ३७, पृ. २७९-२८१ ।

  • अ. सोमेश्वरदेव-कालीनः वि.सं. १२३४ ।
  • आ. पृथ्वीराजतृतीय-कालीनः वि,सं. १२३४ ।

१३. पृथ्वीराजतृतीय-कालीनः बडल्या वापी-शिलालेखः, वि.सं. १२३४ (१२३४ ?) । सम्पादकः – डॉ. डी. सी. सरकार , एपिग्राफिया इण्डिका, भागः ३२, पृ. २९९-३०४ ।

१४. फलोधी (पोकरन) शिलालेखः, वि.सं. १२३६ । सम्पादकः – डॉ. एल् पी टैसीटोरी, जर्नल् ऑफ् एशियाटिक् सोसायटी ऑफ् बंगाल (न.स.), भागः १२, ९३ ।

१५. चरलू (नागौर)-तः प्राप्ताः चत्वारः स्मारकलेखाः । वि.सं. १२३४-१२४४ मध्ये रचिताः ।

१६. पृथ्वीराजतृतीयस्य मदनपुर-शिलालेखः, वि.सं. १२३९ ।

१७. देहलीसङ्ग्रहालयस्य शिलालेखः, वि.सं. १३८४ । सम्पादकः – प्रो. जे. इङ्गलिङ्ग, एपिग्राफिया इण्डिका, भागः १, पृ. ९३-९४ ।

१८. पार्श्वनाथ फालौदी (मेडता रोड) स्थले मन्दिरात् प्राप्तः शिलालेखः, वि.सं. १५५५ । सम्पादकः – महोपाध्याय विनय सागर, राजस्थानभारती, भागः ९, अङ्कः २, पृ. २३-२५ ।

१९. विरुद्धविधिविध्वंसः । सम्पादकः – डॉ डी सी गांगुली, इण्डियन् हिस्टोपिकल् क्वार्टर्ली, भागः १६, पृ. ५८९-९० ।

२०. आशाधरस्य धर्मामृतशास्त्रम् ।

चौहानवंशावली[सम्पादयतु]


सन्दर्भग्रन्थाः[सम्पादयतु]

पुस्तकम्
लेखकः

पृथ्वीराजविजयमहाकाव्यम्

जयानकः, सम्पादकः – डॉ. ओझा एवं गुलेरी (अजमेर)

पृथ्वीराजरासो (बृहद् संस्करणम्)

सम्पादकः – मोहनलाल विष्णुलाल पण्ड्या, बाबू

श्यामसुन्दरदास (वाराणसी)  

पृथ्वीराज रासउ

सम्पादकः – डॉ. माता प्रसाद गुप्त (झांसी)

पृथ्वीराज रासो

सम्पादकः – डॉ दशरथ शर्मा एवं मीनाराम रंगा (बीकानेर)

रासो साहित्य और पृथ्वीराज रासो

सम्पादकः – मोतीलाल मेरारिया

प्रबन्धचिन्तामणिः

आचार्य मेरुतुङ्गः, सम्पादकः – आचार्य

श्रीमुनिजिनविजयः  

विधितीर्थकल्पम्

आचार्यजिनप्रभसूरिः, सम्पादकः – आचार्य मुनिजिनविजयः

प्रबन्धकोशः

श्रीराजशेखरसूरिः, सम्पादकः –

आचार्यश्रीमुनिजिनविजयः  

खरतरगच्छपट्टावली

जिनपालोपाध्यायः, सम्पादकः – आचार्य श्रीमुनिजिनविजयः

चौहानराजवंशः (मध्यकालीन भारत)

प्रो. जहूरखाँ मेरह (जोधपुर)

राजस्थान का इतिहास

डॉ गोपीनाथ शर्मा (उदयपुर)

अन्कारकालन भारतवर्ष संस्कृति

डॉ काशीप्रसाद जायसवाल

चौहाण सरित्सागर (प्रथम खण्ड)

डॉ. बिन्ध्यराज चौहान

माँ आशापुरा का मन्दिर और नाडोल का चौहान राजवंश

डॉ. बिन्ध्यराज चौहान

माँ शाकम्भरी का मन्दिर और शाकम्भर-अजयमेरु का चौहानवंश

डॉ. बिन्ध्यराज चौहान

चौहान सम्राट् पृथ्वीराज तृतीय और उनका युग

डॉ. दशरथ शर्मा

अर्ली चौहान डाइनेस्टीज्

डॉ. दशरथ शर्मा

हिस्ट्री ऑफ् चाहमान्स

डॉ रामवृक्ष सिंह

पृथ्वीराज चौहान एनण्ड् हिड् टाइम्स्

श्रीराम वल्लभ सोमानी

आइने अकबरी

अल्लामा अबुल फजल, आङ्ग्लानुवादः – कर्नल् एच् एस्

जेरेट्, सम्पादकः डॉ जे एस् सरकार ई. १९४९  

गुलशने इब्राहिमी उत तारीखे फरिश्ता

मोहम्मज कासिम हिन्दू शाह फरिश्ता (ई. १६०६)

उद्धरणम्[सम्पादयतु]

  1. एपिग्राफिया इण्डिका, खण्डः २६, श्लो. १२
  2. पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ७
  3. हिस्ट्री ऑफ् चाहमान्स्, पृ. ८५
  4. एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. २५१
  5. जयपुर डिस्ट्रिक्ट् गजेटियर्, सं.मिस् सावित्री गुप्ता, पृ. ९१८
  6. पृथ्वीराजविजयम्, सर्गः ५, श्लो. ७०, पृ. ११७
  7. पृथ्वीराजविजयम्, सर्गः ५, श्लो. ८१, पृ. ११९
  8. पृथ्वीराजविजयम्, सर्गः ५, श्लो. ८२, पृ. १२१
  9. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ४९-५१. ISBN 978-81-86103-09-1. 
  10. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 51. ISBN 978-81-86103-09-1. 
  11. पृथ्वीराजविजयम्, सर्गः ७, श्लो. १२, पृ. १८१
  12. http://facebookwarrior.blogspot.in/2012/09/blog-post_17.html
  13. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६०. ISBN 978-81-86103-09-1. 
  14. मरू भारती, वर्ष ३, अङ्कः १, पृ. ८५, गा.ओ.सि. पृ. २६९
  15. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1. 
  16. हांसी-शिलालेखः
  17. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ७१-७३. ISBN 978-81-86103-09-1. 
  18. पृथ्वीराजविजयम्, सर्गः ८, श्लो. ५७-६०
  19. एनल्स् एण्ड् एन्टिक्विटीज् ऑफ् राजस्थान, खण्डः २, पृ. ९३८
  20. ग्लोरी देट् वाज् गुर्जर् देश, खण्डः ३, पृ. २०३
  21. डॉ. गौरीशङ्कर हीराचन्द ओझा, बीकानेर राज्य का इतिहास, खण्डः १, पृ. २७
  22. डॉ आर् जी भण्डारकर, संस्कृतपाण्डुलिपियों की खोज (१८८३-८४) विवरण, पृ. ३९०
  23. एपिग्रफिया इण्डिका, खण्डः २, पृ. ४२२-२३
  24. इण्डियन् एन्टीक्वैरी, ई. १९१२, पृ. १९५
  25. पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ५१
  26. जनरल ए. कनिङ्घम्, आर्कियोलॉजिकल् सर्वे ऑफ् इण्डिया, भागः ६, प्लेट् ददख
  27. सं सी डी दलाल, गायकवाड ओरियेन्टल् सिरीज, सं. ४,पृ. ३
  28. http://www.indiansalt.com/product1.htm#raj
  29. http://www.indiansalt.com/plans.htm
  30. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २४. ISBN 978-81-86103-09-1. 
  31. इलियट् एण्ड् डाउसन्, (प्रो. हबीब संस्कररणम्), भागः २, पृ. ६६४-६५
  32. स्टडीज् इन् इन्डो मुस्लिम् हिस्ट्री, भागः १, पृ. १७९-१८०
  33. आर्कियोलाजिकल सर्वे ऑफ् इण्डिया, ई. १९०७-०८, पृ. २१६
  34. एपिग्राफिया इण्डिका, भागः २६, श्लो. ३६, पृ. ८४
  35. डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. २४
  36. डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. ३८१
  37. http://nationalmuseumindia.gov.in/prodCollections.asp?pid=31&id=2&lk=dp2
  38. डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. २६
  39. खरतरगच्छपट्टावली, प्राकृत भारती अकादमी, जयपुरम्, ई. २०००
  40. एपिग्राफिया इण्डिका, भागः २, पृ. २९९
  41. इण्डियन् एन्टिक्वैरी, भागः १७, पृ. २१५
  42. आर्कियोलाजिकल सर्वे ऑफ् इण्डिया, भागः २१, पृ. १०२, प्लेट् XXVII
  43. दर्शनग्रन्थः, छन्दः १०
  44. पञ्जाब स्टेट् गजेटियर्स्, भागः १७ अ, पटियाला स्टेट्, ई. १९०४, पृ. १९४
  45. सम्राट् पृथ्वीराज चौहान, देवसिंह मंडावा, ISBN - 978-81-86103-10-4, 2013, राजस्थानी-ग्रन्थागारम्, जोधपुरम्, पृ. १४८-१५१

अधिकवाचनाय[सम्पादयतु]

चौहानवंशः

शाकम्भरीयात्रा

"https://sa.wikipedia.org/w/index.php?title=चौहानवंशः&oldid=436301" इत्यस्माद् पुनः प्राप्तिः