सामग्री पर जाएँ

शाकम्भर्याः लावणजलाशयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शाकम्भर्याः लावणजलाशयः
स्थानम् राजस्थानराज्यं, भारतम्
निर्देशांङ्कः २६°५८′ उत्तरदिक् ७५°०५′ पूर्वदिक् / 26.967°उत्तरदिक् 75.083°पूर्वदिक् / २६.९६७; ७५.०८३
जलसङ्ग्रहक्षेत्रम् 5700 km²
जलसङ्ग्रहस्थानस्य देशः भारतम्
महत्तमलम्बता 35.5 km
महत्तमविस्तारः 3 to 11 km
तलक्षेत्रफलम् 190 to 230 km²
अगाधत्वस्य प्रतिशतम् 0.6 m to 3 m
महत्तमम् अगाधत्वम् 3 m
तलस्य अभ्युच्छ्रयः 360 m
नगराणि साम्भर, जब्दीनगर, गोविन्दी, गुधा, झख, नवा, जोपक, उलना

शाकम्भरीजलाशयः ( /ˈsɑːkəmbhərəjɑːhɑː lɑːvənəjəlɑːshəjəh/) (हिन्दी: शाकम्भर नमकीन जलाशय, आङ्ग्ल: Sambhar Salt Lake) शाकम्भर्याः लावणजलाशयत्वेन सम्पूर्णे विश्वे प्रसिद्धः अस्ति । 'साम्भर' इत्येतस्य अपभ्रंशशब्दस्य मूलनाम 'शाकम्भरी' इत्यासीत् । साम्भर इत्याख्यं प्राचीननगरं राजस्थानराज्यस्य जयपुरमण्डलस्य मुख्यपत्तनेषु अन्यतमम् अस्ति । सद्यः तत् नगरं 'साम्भर लेक्' उत 'साम्भर लेक् टाउन्' इति प्रसिद्धम् अस्ति । 'साम्भर लेक् टाउन्' इत्याख्यं नगरं राजस्थानराज्यस्य जयपुरात् ९५ कि.मी. दूरे अस्ति । तस्मिन् पत्तने लावणजलाशयः वर्तते । सः जलाशयः निखिले भारते बृहत्तमः लावणजलायशयः विद्यते । सः जलाशयः ७५°११ पूर्वदेशान्तरे, 26°55 उत्तरदेशान्तरे समुद्रतलात् ३६४ मी. उद्यते स्थितः अस्ति । तस्य जलाशयस्य क्षेत्रफलं १५० चतुरस्रकिलोमीटर्मितम् अस्ति । तस्य जलाशयस्य जलग्रहणक्षेत्रम् २५० चतुरस्रकिलोमीटर्मितम् अस्ति । रूपनगर-मेघना-खादी-खण्डेल-नदीनां जलं तस्मिन् जलाशये पतति । ग्रीष्मर्तौ सः जलाशयः शुष्कः भवति । परन्तु तस्य जलाशयः भूभागे २२ मी उद्यतः एकः आद्रलावणमुत्तिकायाः बृहत् भागः अवशिष्टः भवति । तया आद्रलावणमृत्तिकया 'हिन्दुस्थान सॉल्ट् लिमिटेड्' [] इत्याख्या सर्वकारीयसंस्था प्रतिवर्षं २ लक्षं टन् [] परिमतं लवणस्य उत्पादनं करोति । तस्य लावणजलाशयस्य उत्पत्त्याः विषये अनेकाः कथाः सन्ति ।

इतिहासः

[सम्पादयतु]

शाकम्भर्याः ५ कि.मी. दूरे पश्चिमदिग्भागे कोरसीना इत्याख्यः प्राचीनः ग्रामः वर्तते । सः ग्रामः कस्यचित् जलाशयस्य समीपे विकसितः अस्ति । सः ग्रामः कदा अस्तित्वं प्राप्तम् इत्यस्य प्रमाणानि तु न प्राप्यन्ते, परन्तु सर्वेक्षणेन सिध्यति यत्, नलियासर-रूपनगढ-ग्रामयोः मध्ये स्थितः सः ग्रामः कदाचित् षष्ठ्याः शताब्द्याः आरम्भिके काले अस्तित्वं प्रापत् । इतिहासविदां मतानुसारं यदा मालववंशजाः चौहानजनाः शाकम्भर्यां स्वराजनैतिकसत्ताम् अस्थापयन्, तदा तस्य ग्रामस्य अस्तित्वम् आसीदिति ।

कोरसीना इत्याख्यस्य ग्रामस्य पश्चिमदक्षिणभागे अरावलीपर्वतमालायाः एका लघ्वी शाखा विद्यते । तस्याः लघ्व्याः पर्वतमालिकायाः नाम 'सिरथला' इत्यस्ति । जयपुरमण्डले स्थितः 'सारथ' इत्याख्यः ग्रामः वास्तव्येन सिरथला एवास्ति । जयपुरमण्डलस्य 'गेजेटियर्' मध्ये 'सिरथला' इत्यस्य शब्दस्य लघुप्रयोगः 'सारथ' अस्ति । 'सिरथला' इत्येषः शब्दः संस्कृतशब्दस्य अपभ्रंशशब्दः वर्तते । तस्य मूलशब्दः "श्रीस्थलम्" इत्यासीत् । कोरसीना इत्याख्यात् ग्रामात् किञ्चित् दूरे पर्वतस्य उपत्यकायां (घोटी में) प्राचीनग्रामस्य ध्वंशावशेषान् अधुनापि दृष्टुं शक्नुमः । तत्र जर्जरावस्थायां भित्तिकाः, पेयस्थानाकानि, कूपाः इत्यादीनां स्थानानाम् अवशेषान् दृष्टुं शक्नुमः [] । तैः अवशेषैः सिध्यति यत्, तत्र प्रचीनकाले कोऽपि ग्रामः आसीदिति ।

शाकम्भरीलावणजलाशयस्य उत्पत्तिः

[सम्पादयतु]

ऋषित्र्यम्बकेश्वरः, वासुदेवकथानकश्च

[सम्पादयतु]

अनुश्रुत्यनुसारं श्रीस्थलस्य अनेकाः प्राचीनकथाः श्रूयन्ते । अनुश्रुतिरस्ति यत्, श्रीस्थलस्य सुरम्ये परिवेशे अम्बिकेश्वराख्यस्य कस्यचित् देव्युपासकस्य साधोः कुटिरम् आसीत् । अम्बिकेश्वरस्य दिनचर्या अतिसरला आसीत् । सः कन्दमूलं, पीलूफलं, कन्कन्धुः इत्यादि भुञ्जानः अहोरात्रम् अम्बिकादेव्याः उपासनायां रतः भवति स्म । अम्बिकादेव्या प्ररिता एका गौः नित्यं गोधूलिकाले (सायङ्काले) अम्बिकेश्वरस्य कुटिरस्य प्राङ्गणे स्थित्वा पात्रमेकं दुग्धेन पूरयित्वा गच्छति स्म । अम्बिकेश्वरः तेन दुग्धेन स्वजीवननिर्वाहं करोति स्म । परन्तु कृपाशीलायाः गोः मूलस्वरूपस्य दर्शनम् अम्बिकेश्वर एतावता नाकरोत् ।

अम्बिकेश्वरस्य कुटिरस्य समीपे एव एकस्य ब्राह्मणस्य गृहम् आसीत् । सः ब्राह्मणः ग्रामे भिक्षाटनं कृत्वा स्वपरिवारस्य पोषणं कुर्वन् आसीत् । सा गौः तस्य आसीत् । यदा सः ब्राह्मणः सन्ध्याकाले पात्रं नीत्वा गोः दुग्धं स्वीकर्तुं प्रयत्नं करोति स्म, तदा तस्य ज्ञानं भवति स्म यत्, गोः गोस्तनेषु दुग्धमेव नास्ति इति । अतः तस्य मनसि विचारः समुद्भूतः यत्, आदिनं ग्रासं भुक्त्वा आगतवती गौः सायङ्काले दुग्धं कथं न यच्छति ? कदाचित् कोऽपि मार्ग एव गोः दुग्धस्य चौर्यं कुर्वन् अस्ति इति ।

ब्राह्मणः स्वगाम् एकस्य गोपालस्य गाभिः सह चरितुं प्रेषयति स्म, अतः सः तं गोपालकम् उपागच्छत् । गोपालकस्य गृहं गत्वा ब्राह्मणः क्रोधेन अवदत्, प्रतिदिनं त्वं मे गोः दुग्धं चौर्यं कृत्वा स्वीकरोषि, ततः तां मे गृहं प्रेषयसि । किमर्थँ त्वम् एतादृशं निम्नकार्यं करोषि ? इति । ब्राह्मणस्य वचनं श्रुत्वा गोपालकः विनम्रभावेन न्यवेदयत् यत्, अहमेतादृशम् अपराधं नाचरामि इति । तस्य उत्तरं श्रुत्वा ब्राह्मणः अति क्रोधेन अवदत्, तर्हि अहम् असत्यं भाषे किम् ? गोपालकः अनुक्षणम् अवदत्, हे ब्राह्मण ! अहं जाने भवान् असत्यं न वदति । परन्तु अहम् ईश्वरं साक्षिणं कृत्वा वदामि यत्, अहं निर्दोषः अस्मि । अहं स्वयं न जाने यत्, गोः दुग्धं कथं लुप्तं भवति । मम पार्श्वे एतावत्यः गावः सन्ति, अहं किमर्थं भवतः गोः दुग्धस्य चौर्यं कृत्वा मे परलोकगमनस्य मार्गम् अवरोधयामि ? इति ।

गोपालकस्य वचनं श्रुत्वा ब्राह्मणः किंकर्तव्यमूढः अभवत् । गोपालकः स्वं निर्दोषं परिगणन् आसीत् । परन्तु गोस्तनेषु दुग्धस्य अभावः अपि सत्यता आसीत् । ततः ब्राह्मणः श्रीस्थलस्य राज्ञः राजसभां गत्वा न्याययाचनाम् अकरोत् । तस्मिन् काले बासदेव चौहान इत्येषः श्रीस्थलस्य राजा आसीत् । ब्राह्मणस्य वचनं श्रुत्वा राजा अवदत्, भोः विप्र ! एषा जटिला समस्या नास्ति । परन्तु यावत् एतस्याः समस्याः समाधानं न भवति, तावत् भवान् राजकीयगौशालायाः एकां गां स्वीकरोतु, येन भवतां परिवारस्य पोषणं भवेत् इति । राज्ञः निर्णयेन सन्तुष्टः ब्राह्मणः राजकीयगौशालायाः गां नीत्वा गृहम् अगच्छत् । ततः राजा विशिष्टाय गुप्तचराय ब्राह्मणस्य समस्यानिवारणस्य दायित्वम् अयच्छत् ।

स्वल्पेषु दिनेषु एव गुप्तचरः ब्राह्मणस्य समस्यायाः कारणम् अजानात् । सः राजसभायां राज्ञः सम्मुखं सम्पूर्णं विवरणम् अवदत् । सः अवदत्, हे अन्नदातः ! यदा द्वितीये दिने तस्य ब्राह्मणस्य गौः गोपालकस्य गोदले सम्मिलिता अभूत्, तस्मात् पूरा एव अहं तस्याः शृङ्गे एकं रक्तं वस्त्रम् अबध्नाम् । ततः अहं समीपस्थायां गिरिकायां स्थित्वा गवि दृष्टिपातं कुर्वन् आसम् । यदा सन्ध्याकालः अभवत्, तदा सा गौः विचित्ररीत्या रम्भन्ती दलात् भिन्ना अभवत् । ततः सा अति वेगेन धावन्ती एकस्य ऋषेः कुटिरमुपागच्छत् । अहमपि तस्याः पृष्ठे अति वेगेन अगच्छम् । ततः मया यद्दृष्टं तस्योपरि अहं विश्वासं कर्तुमेव असमर्थः आसम् । अहम् अपश्यं यत्, गौः स्वयमेव दुग्धं पात्रे निषकासयत् । ततः सा गौः सामान्यरीत्या तस्य गोपालकस्य गौदले सम्मिलिता अभूत् इति ।

गुप्तचरस्य वचनं श्रुत्वा राज्ञः मनसि रोमाञ्चः समुदभवत् । द्वितीये दिने राजा तस्य साधोः दर्शनाय तस्य कुटिरम् अगच्छत् । आश्रमपरिसरे अश्वानां ध्वनिं श्रुत्वा साधुः कुटिरात् बहिः निर्गतः । तस्मिन्नेव काले राजा तत्र प्राप्तः । साधोः दर्शनं कृत्वा राजा साष्टाङ्गनमस्कारेण सह साधोः पूजाम् अकरोत् । राज्ञः शिष्टतां दृष्ट्वा अम्बिकेश्वरः अपि प्रसन्नः अभवत् । अतः सः राज्ञे वरं दातुम् उद्युक्तः अभवत् । राजा अवदत्, हे ऋषिश्रेष्ठ ! मम पार्श्वे सर्वम् अस्ति । अहं तु केवलम् अम्बिकादेव्याः साक्षाद्दर्शनं कर्तुम् इच्छामि इति । राज्ञः याच्ञां श्रुत्वा ऋषिः प्रसन्नः अभवत् । सः अवदत्, अम्बिकेश्वर्षेः आशीर्वादं प्राप्तुम् अनेके लालायिताः भवन्ति । कोऽपि पुत्रं, कोऽपि धनं कोऽपि शत्रुविनाशम् अपि अयाचत् । परन्तु अद्य एषा विचक्षणा घटना एव अस्ति यत्, भवान् अम्बिकादेव्याः साक्षाद्दर्शनस्य कामनां करोति इति । किञ्चित् मौनं साधयित्वा ऋषिः अवदत्, हे राजन् ! भवतः मनोरथः पूर्णः भविष्यति । ततः ऋषिः शाकम्भरीदेव्याः अवतरणस्य पौराणिककथां राजानम् अश्रावयत् ।

शाकम्भरीदेव्याः अवतरणकथा []
[सम्पादयतु]

फलकम्:Detail3

प्राचीनकाले दुर्गम-नामकः कश्चन दैत्यः आसीत् । तस्य अत्याचारेण जनाः त्रस्ताः आसन् । त्रिषु लोकेषु तस्य भयं व्याप्तम् आसीत् । वैदिककार्याणि, अनुष्ठानानि, धार्मिककार्याणि च कोऽपि न करोति स्म । यतो हि सर्वत्र हिंसायाः, असुरक्षितायाः च वातावरणम् आसीत् । राक्षसस्य अत्याचारेण सह जनाः अन्यसमस्यया अपि पीडिताः आसन् । बहुभ्यः वर्षेभ्यः अकालः आसीत् । वर्षायाः अभावेन अन्नादीनाम् अभावः, पुशूनां मृत्युः, बालकानाम् आर्तनादः च चतसॄषु दिक्षु व्याप्तः आसीत् । तस्मात् दैत्यात् मोचयितुं शाकम्भरीदेव्याः अवतरणम् अभवत् ।

भूशास्त्रिणां मते लावणजलाशयः

[सम्पादयतु]

स्वाभाविकम् अस्ति यत्, आधुनिकवैज्ञानिकाः शाकम्भर्याः लावणजलाशयस्य पौराणिककथाः प्रमाणत्वेन न स्वीकुर्वन्ति । अतः तेषां मतम् अस्ति यत्, एतस्य लावणजलाशयस्य उत्पत्याः पृष्ठे वैज्ञानिककारणानि सन्ति इति । हॉलेण्ड, क्राइस्ट् इत्याख्यौ द्वौ भू-वैज्ञानिकौ 'वायुसञ्चरणद्वारा उत्पत्तिः' इत्याख्यस्य मतस्य प्रतिपादनं कुर्वन्तौ उदलिताम्, शाकम्भरीं परितः सुधाप्रस्तराणां (Lime Stone) गिरिकाः सन्ति । कच्छमरुभूमितः आगतेन लवणयुक्तेन वायुना, गिरिकायाः मार्गेण वर्षायाः जलं सुधामिश्रितं भुत्वा जलाशये पतनेन च जलाशयस्य जलं लावणिकं भवति इति । उक्तस्य तर्कस्य अनेके भूवैज्ञानिकाः समर्थनं कुर्वन्ति । तेषु गाडबोले इत्याख्यः विद्वान् अपि अन्तर्भवति । परन्तु हॉलेण्ड-क्रइस्ट् इत्येतयोः मतात् किञ्चित् विशिष्टं प्रतिपादयन् सः अवदत्, शाकम्भर्याः जलाशये यत् लवणं प्राप्यते, तत् सामुद्रिकलवणम् अस्ति । तद् लवणं कच्छप्रदेशात् वायुमाध्यमेन राजस्थानराज्यस्य जलाशये मिश्रितं भवति इति ।

इतिहासविदां मतम् अस्ति यत्, वैज्ञानिकाः पर्यावरणस्य गम्भीरतया संशोधनं कृत्वा निष्कर्षं प्राप्नुयुः चेत् उचितम् । यतो हि तैः प्रदत्तः तर्कः योग्यः नास्ति । शाकम्भरीदेव्याः मन्दिरस्य १० मि. दूरे यः लावणजलाशयः अस्ति, तस्मिन् कच्छप्रदेशात् वायुना लवणं मिश्रितं भवति । परन्तु शाकम्भरीदेव्याः मन्दिरात् ५ कि.मी. दूरे स्थिते नलियासर-जलाशयस्य जलं लवणयुक्तं नास्ति । तेन सिध्यति यत्, आधुनिकवैज्ञानिकैः शाकम्भरीदेव्याः आशीर्वादेन उत्पन्नस्य लावणजलाशयस्य विषये अधिकम् अन्वेषणं करणीयं भविष्यति ।

अन्न भगवान रो, लूण चौहान रो

[सम्पादयतु]

'अन्न भगवान रो, लूण चौहान रो' इत्येषा राजस्थानीभाषायाः उक्तिः अस्ति । एतस्याः उक्तेः आधारः चौहानवंशस्य शाकम्भर्याः लावणजलाशयस्योपरि अधिकारः अस्ति । यतो हि लावणजलाशयस्य उत्पत्तिकालात् ११९२ पर्यन्तं सः जलाशयः चौहानवंशस्य साम्राज्ये अन्तर्भवति स्म । साम्प्रते काले यथा परिवहनस्य आधुनिकसाधनानि सन्ति, तथा तस्मिन् काले परिवहनस्य सुलभसाधनानि नासन् । तथापि लावणजलाशयात् प्राप्तलवणस्य वितरणं स्थानिकव्यापारिणः निखिले भारते कुर्वन्ति स्म । एवं न केवलं चौहानशासितप्रदेशेषु अपि तु अन्यवंशीयानां साम्राज्येषु अपि लवणस्य आपूर्तिः शाकम्भर्याः लावणजलाशयेन एव भवति स्म । शाकम्भर्याः लवणस्य व्यापारः एतावान् विस्तृतः अभवत् यत्, "भगवता दत्तम् अन्नं तु वयं सर्वे खादामः, परन्तु लवणं तु चौहानवंशीयानामेव खादामः" इति जनेषु मान्यता उद्भूता । ततः 'अन्न भगवान रो, लूण चौहान रो' इति उक्तिः प्रचलिता अभूत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]

उद्धरणम्

[सम्पादयतु]
  1. "संग्रह प्रतिलिपि". Archived from the original on 2015-08-03. आह्रियत 2015-07-27. 
  2. "संग्रह प्रतिलिपि". Archived from the original on 2015-07-26. आह्रियत 2015-07-27. 
  3. https://www.flickr.com/photos/hindiwater/17118614021/in/photostream/
  4. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ८-१५. ISBN 978-81-86103-09-1 Check |isbn= value (help).