भारतेश्वरः पृथ्वीराजः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
भारतेश्वरः पृथ्वीराजः
अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः

अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः
अजयमेरोः दुर्गे स्थिता पृथ्वीराजतृतीयस्य प्रतिमा
अधिकारः
कालः ११६३-११९२
राज्याभिषेकः १२३५
पूर्वजः सोमेश्वर चौहान
उत्तराधिकारी हरिराज चौहान
परिवारः
पिता सोमेश्वर चौहान
माता कर्पूरदेवी
पुत्राः गोविन्द चौहान
राज्ञ्यः
  • जम्भावती पडिहारी
  • पंवारी इच्छनी
  • दाहिया
  • जालन्धरी
  • गूजरी
  • बडगूजरी
  • यादवी पद्मावती
  • यादवी शशिव्रता
  • कछवाही
  • पुडीरनी
  • शशिव्रता
  • इन्द्रावती
  • संयोगिता गाहडवाल
दुहितारः हरिराजः, पृथा
वंशः चौहानवंशः
जन्म १२/३/१२२० भारतीयपञ्चाङ्गानुसारं,
१/६/११६३ आङ्ग्लपञ्चाङ्गानुसारम्
पाटण, गुजरातराज्यम्
मृत्युः ११/१/१२४९ भारतीयपञ्चाङ्गानुसारं,
११ ११९२(११९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११) (आयुः २८) आङ्ग्लपञ्चाङ्गानुसारम्
अयमेरुः (अजमेर), राजस्थानराज्यम्
मतम् हिन्दुधर्मः

भारतेश्वरः [१] पृथ्वीराजः ( /ˈbhɑːrətɛʃvərəh prʊθəvɪrɑːjəh xɔːhɑːnəh/) (हिन्दी: पृथ्वीराज चौहान, आङ्ग्ल: Prithviraj Chavhan) पृथ्वीराजतृतीयः, हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । भारतस्य अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः १२३५ तमे विक्रमसंवत्सरे पञ्चदशवर्षदेशीयः (१५) राज्यसिंहासने आरूढः जातः । अतः तस्य माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।

पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा तम् अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च तस्मै व्यद्रुह्यन् । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठी कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।

नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः ११७७ तमे वर्षे भादानकदेशीयान्, ११८२ तमे वर्षे जेजाकभुक्तिशासकं, ११८३ तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया ११७५ तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरब्धः । ततः ११७८ तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसि चालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशीकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म ।

पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि घोरी इत्यस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघुनि युद्धानि पृथ्वीराजस्य, घोरी इत्यस्य च अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः ७, १७, २१, २८ च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि 'इस्लाम्'-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारीरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयं परिवर्तयतुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् ।

एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।

शरीरेण समं नाशं सर्वम् अन्यद्धि गच्छति । । ८.१७ । । मनुस्मृतिः

अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तुनि शरीरेण सह एव नष्टानि भवन्ति ।

इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति [२]

अन्तर्विषयाः

जन्म, परिवारश्च[सम्पादयतु]

१२२० विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णपक्षस्य द्वादश्यां (१२/३/१२२०) तिथौ गुजरातराज्यस्य पाटण-पत्तने पृथ्वीराजस्य जन्म अभवत् [३] । क्रिस्तवर्षानुसारं ११६३ तमस्य वर्षस्य जून-मासस्य प्रथमे (१/६/११६३) दिनाङ्के पृथ्वीराजस्य जन्म अभवत् ।

ज्येष्ठत्वं चरितार्थतामथ नयन-मासान्तरापेक्षया,

ज्येष्ठस्य प्रथयन्परन्तपकया ग्रीष्मस्य भीष्मां स्थितिम् ।
द्वादश्यास्तिथि मुख्यतामुपदेशन्भोनोः प्रतापोन्नतिं,
तन्वन्गोत्रगुरोर्निजेन नृपतेर्यज्ञो सुतो जन्मना ।। सप्तमसर्गः, श्लो. ५०, पृथ्वीराजविजयमहाकाव्यम् ।।

तदा पाटण-पत्तनम् अण्हिलपाटणम् इति प्रसिद्धम् आसीत् । तथा च पाटणं न केलवं महानगरम् आसीत्, अपि तु गुजरातराज्यस्य राजधानी अपि आसीत् । पृथ्वीराजस्य पिता सोमेश्वरः, माता कर्पूरदेवी च आस्ताम् । पृथ्वीराजस्य अनुजस्य नाम हरिराजः, अनुजायाश्च नाम पृथा आसीत् । पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । पृथ्वीराजस्य पुत्रः गोविन्दः आसीत् ।

नामकरणं, बाल्यञ्च[सम्पादयतु]

इतिहासे वर्णनं प्राप्यते यत्, पुत्रस्य जन्मोत्तरं पिता सोमेश्वरः स्वपुत्रस्य भविष्यफलं ज्ञातुं राजपुरोहितेभ्यः निवेदनम् अकरोत् । ततः बालकस्य भाग्यफलं दृष्ट्वा राजपुरोहितैः "पृथ्वीराज" इति नामकरणं कृतम् । पृथ्वीराजविजयमहाकाव्ये नामकरणस्य उल्लेखः प्राप्यते -

पृथ्वीं पवित्रतान्नेतुं राजशब्दं कृतार्थताम् ।

चतुर्वर्णधनं नाम पृथ्वीराज इति व्यधात् ।। ३० ।। पृथ्वीराजविजयमहाकाव्यं, सर्गः ८

पृथ्वीं पवित्रां कर्तुं, "राज" शब्दं चरितार्थयितुं च तस्य राजकुमारस्य नामकरणं "पृथ्वीराज" इति । 'पृथ्वीराजरासो' इत्यस्मिन् काव्येऽपि नामकरणस्य वर्णनं कुर्वन् चन्द्रवरबदाई अलिखत् –

यह लहै द्रव्य पर हरै भूमि ।

सुख लहै अंग जब होई झूमि ।।

पृथ्वीराजाख्यः बालकः महाराजानां छत्राणि स्वबलेन हरिष्यति । सिंहासनस्य शोभां वर्धयिष्यति च । कलियुगे पृथिव्यां सूर्यवत् देदीप्यमानः भविष्यति इत्यर्थः ।

कुमारपालस्य शासने चालुक्यानां प्रासादे लब्धजन्मा पृथ्वीराजः बाल्यावस्थायाः एव वैभवपूर्णे वातावरणे अवर्धत । वैभवसम्पन्ने प्रासादे पृथ्वीराजं परितः परिचायिकानां बाहुल्यम् आसीत् । दुष्टग्रहेभ्यः बालकस्य रक्षणं कर्तुं परिचायिकाः अपि विभिन्नानां मार्गाणाम् अवलम्बनं कुर्वन्ति स्म । पृथ्वीराजविजयमहाकाव्ये महाकविना जयानकेन सलीलं तद् वर्णितम् अस्ति ।

"धात्री श्रीखण्डसदृशं श्वेतं, कस्तूरीलिप्तं स्तनाग्रं बालकस्य मुखे अस्थापयत् । ततः धात्र्याः कण्ठाभरणस्य मुक्तामणिं हस्ते धृतवान् सः बालकः पर्वतस्य, सागरस्य च सारं स्वहस्ते गृहीतवान् इति प्रतीयते स्म । धात्र्यः यदा "पर्वते-पर्वते रामः" इति पौनःपुन्येन वदन्त्यः शुकान् प्रशिक्षयन्ति स्म, तदा पूर्वजन्मनः स्मरणं कुर्वन् बालकोऽपि मन्दं मन्दं हसति स्म । दशावतारमुद्रितं कण्ठाभरणं, दुष्टग्रहेभ्यः रक्षयितुं च व्याघ्रनखेन निर्मतिम् आभरणं धात्री बालकाय अधारयत् (व्याघ्रस्य नखधारणं मङ्गलं मन्यते । अतः राजस्थानराज्ये परम्परानुगतं व्याघ्रस्य नखं सुवर्णस्य आभरणे संस्थाप्य कण्ठे धारणं कुर्वन्ति ।) ।

बालकस्य कृष्णकेशाः, मधुकरवाणी च मनः मोहयति स्म । सुन्दरे ललाटे कृतं तिलकं बालकस्य सौन्दर्यं वर्धयति स्म । उज्जवलदन्ताः हीरकवत् आभायुक्ताः आसन् । नेत्रयोः कृतम् अञ्जनम् आकर्षणं जनयतः स्म । जानुना यदा बालकः इतस्ततः भ्रमति स्म, तदा तस्य वस्त्राणि धूलिकायुक्तानि भवन्ति स्म । तस्य आशरीरं धूलिमयं भवति स्म । क्रीडन्तं पुत्रं दृष्ट्वा माता कर्पूरदेवी स्वपुत्रस्य कपोलं चुम्बति स्म" इति ।

मनिगन कंठला कंठ मद्धि, केहरि नख सोहन्त

घूंघर वारे चिहूर रुचिर बानी मन मोहन्त
केसर समुंडि शुभभाल छवि दशन जोति हीरा हरन ।
नह तलप इक्क थह खिन रहत, हुलस हुलसि उठि उठि गिरत ।।
रज रंज्जित अंजित नयन घुंटन डोलत भूमि ।
लेत बलैया मात लखि भरि कपोल मुख चूमि ।।

एवम् अण्हिलपाटणस्य सहस्रलिङ्गसरोवरस्य, अलङ्कृत-इत्याख्यस्य सोपानकूपस्य च मध्ये स्थिते राजप्रासादस्य विशालभूभागे पृथ्वीराजस्य बाल्यकालः व्यतीतः ।

अभ्यासः[सम्पादयतु]

चालुक्यवंशस्य प्रासादात् यदा सोमेश्वरः अजमेरू-प्रदेशम् अगच्छत्, तदा तेन सह तस्य पत्नी कर्पूरदेवी, द्वौ पुत्रौ पृथ्वीराजहरिराजौ च आसन् । १२२६ तमे विक्रमसंवत्सरे [४] गुजरातराज्यात् यदा सोमेश्वरः, अजमेरू-प्रदेशं स्थानान्तरितः, तदा पृथ्वीराजः पञ्चवर्षीयः आसीत् । पृथ्वीराजस्य अध्ययनम् अजयमेरू-प्रासादे, विग्रहराजेन स्थापिते सरस्वतीकण्ठाभरणविद्यापीठे (अद्यत्वे तत् विद्यापीठं 'ढाई दिना का झोपडा' इति 'मस्जिद्' अस्ति) च अभवत् । प्रासादस्य, विद्यापीठस्य च प्राङ्गणे युद्धकलायाः, शस्त्रविद्यायाः च ज्ञानं पृथ्वीराजेन प्राप्तम् । यद्यपि आदिकालादेव शाकम्भर्याः चौहाणवंशस्य स्रामाज्यस्य राजभाषा संस्कृतम् आसीत्, तथापि अन्यासां भाषाणाम् अपि बहुधा उपयोगः भवति स्म । परन्तु संस्कृतम् आदिकालात् शाकम्भर्याः राजभाषा आसीत् इति प्राप्तैः शिलालेखैः सिद्धं भवति । विग्रहराजेन, तस्य राजकविना रचितैः ग्रन्थैः अपि तेषाम् उच्चसंस्कृतज्ञानस्य प्रतीतिः भवति । विग्रहराजस्य राजकविः सोमदेवः 'ललितविग्रहराजः' इत्याख्यं नाटकम् अरचयत् । तस्मिन् नाटके तेन प्रचलितानां षड्भाषाणां कुशलतापूर्वकम् उपयोगः कृतः । शिलालेखानां विस्तृताध्ययनेन सिद्ध्यति यत्, चौहानवंशस्य काले मुख्यतया षड्भाषाः प्रचलिताः आसन् । ताः संस्कृतं, प्राकृतं, मागधी, पैशाची, शौरसेनी, अपभ्रंशभाषा च [५][६][७][८]

पृथ्वीराजविजये उल्लेखः अस्ति यत्, पृथ्वीराज चौहान इत्येषः षट्सु भाषासु निपुणः आसीत् [९][१०] । षट्भाषां विहाय पृथ्वीराजः मीमांसायाः, वेदान्तस्य, गणितस्य, पुराणस्य, इतिहासस्य, सैन्यविज्ञानस्य, चिकित्साशास्त्रस्य च अध्ययनं कृतवान् । सः सङ्गीतकलायां, चित्रकलायाम् अपि प्रवीणः आसीत् [११][१२] । पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, शेषनागः स्वस्य द्विसहस्रे फणासु याः विद्याः धरते, ताः सर्वाः विद्याः पृथ्वीराजस्य मुखे आश्रयं स्व्यकुर्वन् । धनुर्विद्यायां तु पृथ्वीराजः एतावान् प्रवीणः अभवत् यत्, "अहम् एतस्मात् धनुर्विचक्षणात् यदि धनुर्विद्यां पठामि, तर्हि शिवात् निर्भयः भवामि" इति कामदेवः चिन्तयति स्म । पृथ्वीराजः अश्वनियन्त्रणविद्यायां, गजनियन्त्रणविद्यायां च अपूर्वः प्राप्तसिद्धिः आसीत् । असिप्रयोगे, लक्ष्यभेदने च सः विचक्षणः अभवत् [१३] । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः शब्दभेदिबाणं चालयितुं समर्थः आसीत् । विभिन्नासु विद्यासु पारङ्गतः पृथ्वीराजः कालान्तरे तारुण्यधनेनापि सम्पन्नः अभवत् ।

तरुणावस्थां प्राप्तः पृथ्वीराजः शोभासम्पन्नः आसीत् । सुमेरोः शिखरे अधिपतिः न्यूषितः अस्ति इति पृथ्वीराजस्य शिरस्थः मुकुटः भ्रमं जनयति स्म । कर्णयोः स्थिते मौक्तिके कमलपत्रे पतते खबाष्पवत् शोभायमाने आस्ताम् । कण्ठे स्थितं कण्ठाभरणं मेरुं परितः 'ग्रहाः परिक्रमणं कुर्वन्तः सन्ति इति' भ्रमं जनयति स्म । चन्द्रमुखे समुद्भूता मषी वीरहृदये कामाङ्कुरस्य बोधं कारयति स्म ।

सोमेश्वरस्य मृत्युः, पृथ्वीराजस्य राज्याभिषेकश्च[सम्पादयतु]

सोमेश्वरस्य अन्तिमशिलालेखः आंवल्दा-तः प्राप्यते । सः शिलालेखः १२३४ तमस्य विक्रमसंवत्सरस्य भाद्रपदमासस्य शुक्लचतुर्थ्यां (४/६/१२३४) शुक्रवासरे प्रस्थापितः । क्रिस्तगणानानुसारं ११७८ तमस्य वर्षस्य अगस्त-मासस्य अष्टादशे (१८/८/११७८) दिनाङ्के सः शिलालेखः प्रस्थापितः । समनन्तरे संवत्सरे पृथ्वीराजस्य प्रप्रथमः शिलालेखः बडल्या-तः प्राप्यते । सः शिलालेखः १२३५ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लचतुर्थ्यां प्रस्थापितः । क्रिस्तगणानानुसारं ११७९ तमस्य वर्षस्य मार्च-मासस्य चतुर्दशे (१४/३/११७९) दिनाङ्के सः शिलालेखः प्रस्थापितः । सोमेश्वरस्य निधनानन्तरं पृथ्वीराजस्य राज्याभिषेकः अभवत् ।

पृथ्वीराजरासोकाव्ये उल्लेखः प्राप्यते यत्,

मृगशिरा नक्षत्र व सिद्धयोग में कुमार पृथ्वीराज, राजा पृथ्वीराज बने ।

शुभमुहूर्ते पृथ्वीराजः स्वर्णसिंहासनारूढः । ब्राह्मणैः वेदमन्त्रगानेन सह राजतिलकस्य आरम्भः कृतः । ततः राजपुरोहितैः पृथ्वीराजस्य भाले तिलकं कृतम् । पृथ्वीराजस्य राज्याभिषेकावसरे प्रासादस्य शोभा आह्लादिका आसीत् । पृथ्वीराजस्य सुन्दरस्वरूपं सर्वान् मोहयति स्म । सर्वेषां सामन्तानां जयघोषानन्तरं राजधान्यां शोभायात्रा अभवत् । शोभायात्रायां गजारूढस्य पृथ्वीराजस्य उपरि नगरजनैः पुष्पवर्षाः कृताः । सर्वे पृथ्वीराजस्य दीर्घायुष्यः प्रार्थनां कुर्वन्तः आसन् । १२३५ तमे विक्रसंवत्सरे पृथ्वीराजः पञ्चदशवर्षीयः (१५) आसीत् । अतः माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।

शासनव्यवस्था [१४][सम्पादयतु]

सेनापतयः[सम्पादयतु]

१. स्कन्दः – सः गुजरातराज्यस्य नागरब्राह्मणः आसीत् । सः सेनापतिना सह साम्राज्यस्य दण्डनायकः अपि आसीत् ।

२. भुन्नेकम्मल्लः – कर्पूरदेव्याः पितृव्यः आसीत् ।

३. उदयराजः

४. उदगः – मेडता-प्रदेशस्य सामन्तः आसीत् ।

५. कतिया – वीकमपुरस्य मण्डलेश्वरः आसीत् ।

६. गोविन्दः – कुत्रचित् उल्लेखः प्राप्यते यत्, सः नरायनस्य द्वितीययुद्धे मुहम्मद घोरी इत्यनेन हतः इति । परन्तु जम्मू-तः प्राप्ते एकस्मिन् शिलालेखे उल्लिखतं यत्, जम्मू-प्रदेशस्य नरसिंह इत्याख्येन राजकुमारेण सः हतः इति ।

७. गोपालसिंह चौहान – देदरवा-प्रान्तस्य सामन्तः आसीत् ।

मन्त्रिणः[सम्पादयतु]

१. पं. पद्मनाभः - एतस्य अध्यक्षतायाम् अन्ये मन्त्रिणः अपि आसन् । पृथ्वीराजविजयमहाकाव्यस्य लेखकः जयानकः, विद्यापतिः गौडः, वाशीश्वरः जनार्दनः, विश्वरूपः, रामभट्टश्च । रामभट्टः चन्दबरदायी इति प्रसिद्धः अभवत् । तेन एव पृथ्वीराजरासोकाव्यं लिखितम् ।

२. प्रतापसिंहः (अनेन पृथ्वीराजाय अद्रुह्यत । पृथ्वीराजस्य अक्षिणी यदा घोरी इत्यनेन नाशिते, तदा प्रतापसिंहेन सह मिलित्वा पृथ्वीराजः घोरी इत्यस्य बाणेन हत्यां कर्तुम् इच्छति स्म । परन्तु एषः प्रतापसिंहः घोरी इत्येनं पृथ्वीराजस्य योजनाम् अकथयत् ।)

३. रामदेवः

४. सोमेश्वरः

सेना[सम्पादयतु]

पृथ्वीराजस्य सेनायाम् अश्वसेनायाः महत्त्वम् अधिकम् आसीत् । परन्तु हस्तिसेनायाः, पदातिसैनिकानाम् अपि मुख्यभूमिका आसीत् । पृथ्वीराजः यदा राजा अभवत्, तदा आरम्भिके काले तस्य सेनायां ७०,००० अश्वारोहिसैनिकाः आसन् । यथा यथा सैन्याभियानेषु पृथ्वीराजस्य विजयः अभवत्, तथा तथा सेनायाम् अपि वृद्धिः अभवत् । नरायनयुद्धे पृथ्वीराजस्य सेनायां २,००,००० अश्वारोहिसैनिकाः, पञ्चशतं गजाः, अनेके पदातिसैनिकाः आसन् [१५] । फरिश्ता-इत्याख्यस्य लेखकस्यानुसारं पृथ्वीराजस्य सेनायां २ लक्षम् अश्वारोहिसैनिकाः, त्रिंशत्सहस्रं गजाः च आसन् [१६] । डॉ. शर्मा फरिश्ता इत्यस्य कथनस्य समर्थनं कुर्वन्ति [१७]

राज्ञ्यः[सम्पादयतु]

क्रमः

पृथ्वीराजस्य वयः

राज्ञ्याः नाम

११

जम्भावती पडिहारी

१२

पंवारी इच्छनी

१३

दाहिया

१४

जालन्धरी

१५

गूजरी

१६

बडगूजरी

१७

यादवी पद्मावती

१८

यादवी शशिव्रता

१८

कछवाही

१०

२०

पुडीरनी

११

२१

शशिव्रता

१२

२२

इन्द्रावती

१३

३६

संयोगिता गाहडवाल

पृथ्वीराजविजयमहाकाव्यस्य दशमसर्गस्य उत्तरार्धे उल्लेखः प्राप्यते यत्, पृथ्वीराजस्य अनेकाः राज्ञ्यः आसन् इति । परन्तु ताः कति आसन् ? कस्य प्रदेशस्य च राजकुमार्यः आसन् ? इति उल्लेखः तत्र नास्ति । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः यदा एकादशवर्षीयः आसीत्, तदा तस्य प्रप्रथमविवाहः अभवत् । ततः प्रतिवर्षं तस्य एकः विवाहः अभवत् । यावत् पृथ्वीराजः द्वाविंशतिवर्षीयः (२२) अभवत्, तावत् प्रतिवर्षं विवाहस्य क्रमः अचलत् । ततः पृथ्वीराजः यदा षड्त्रिंशद्वर्षीयः अभवत्, तदा तस्य अन्तिमविवाहः संयोगितया सह अभवत् ।

पृथ्वीराजस्य प्रप्रथमविवाहः मण्डोर-प्रदेशस्य नाहड राव पडिहार इत्यस्य पुत्र्या जम्भावत्या सह अभवत् । पृथ्वीराजरासोकाव्यस्य लिखितपत्रे केवलं पञ्चानां राज्ञीनां नामानि सन्ति । ताः जम्भावती, इच्छनी, यादवी शशिव्रता, हंसावती, संयोगिता च । पृथ्वीजरासोकाव्यस्य लघुलिखितपत्रेषु केवलं नामद्वयं प्राप्यते । ते इच्छनी, संयोगिता च । तथा च लघुत्तमायां लिखितपत्रे केलवं संयोगितायाः नाम प्राप्यते । एवं संयोगितायाः नाम सर्वासु लिखितपत्रेषु प्राप्यते ।

जाङ्गलू [१८][सम्पादयतु]

चौहानवंशः यस्मिन् भूभागे स्वराज्यम् अस्थापयत्, तस्य भूभागस्य नाम जाङ्गल इत्यासीत् । तस्य प्रदेशस्य राजधानी अहिच्छत्रपुरम् आसीत् । सद्यः तस्य नाम नागौर इति । तत् नागौर-नगरम् अद्य देशनोक इति प्रसिद्धम् । देशनोक-नगरं बीकानेर-तः उत्तरदिशि ३२ कि.मी. दूरे अस्ति । देशनोक-तः षोडश कि.मी. दूरे अस्ति जाङ्गलू-ग्रामः । ततः १२३३ तमे विक्रमसंवत्सरे लिखितः एकः शिलालेखः प्राप्यते । तस्य शिलालेखस्यानुसारं तस्य ग्रामस्य प्राचीने नामनी जाङ्गकूपदुर्गम्, अजयपुरं च आस्ताम् । ११७६ तमे विक्रमसंवत्सरे लिखिते एकस्मिन् शिलालेखे उल्लिखितं यत्, जाङ्गकूपदुर्ग-ग्रामस्य रचना प्रथमेन पृथ्वीराजेन कारिता । तस्मात् ग्रामात् पृथ्वीराजस्य नाम्ना मुद्राः अपि प्राप्ताः । जाङ्गलकूपदुर्ग-ग्रामस्य रचनयाः केषुचित् दिनेषु एव गजनी-प्रदेशस्य राज्ञा अर्सलान इत्यनेन एषः जाङ्गलकूपदुर्गाख्यः ग्रामः ध्वस्तः ।

बीकानेर-नगरस्य अनूपसंस्कृतपुस्तकालये षोडशशताब्द्याः लिखितपत्रं प्राप्यते । तस्यानुसारं चौहानसाम्राजस्य अमुकभागे दहियाराजपूतानां लघुग्रामाः आसन् । दहियाराजपूतवंशस्य एका राजकुमारी पृथ्वीराजे स्निह्यति स्म । सा तेन सह विवाहं कर्तुम् इच्छति स्म । तस्याः नाम अजिया आसीत् । एकदा स्वारक्षकैः सह पृथ्वीराजेन मेलितुं सा अजमेरू-नगरं गच्छन्ती आसीत् । मार्गे ध्वस्तः जाङ्गलू इत्याख्यः ग्रामः प्राप्तः ।तं ध्वस्तं ग्रामं दृष्ट्वा सा दुःखम् अन्वभवत् । ततः तेन तस्मिन् एव भूमौ एकस्य ग्रामस्य रचना कृता । तस्य ग्रामस्य नाम अजियापुरम् इति ।सा पृथ्वीराजेन मेलितुं गच्छन्ती आसीत्, परन्तु पृथ्वीराजोऽपि आखेटस्य आश्रयेण जाङ्गलू-प्रदेशस्य वनं गतः । सः अजिया इत्यनया सह स्वराजधानीं प्रत्यगच्छत् । ततः तयोः विवाहः अभवत् । दहिया इत्यस्य नगरस्य स्मारकेषु अद्यापि अजिया इत्यस्याः प्रासादस्य गणना भवति । अद्यापि प्रवासिनः तस्य प्रासादस्य दर्शनं कृत्वा ऐतिहासकघटनायाः अनुमानं बहुधा कुर्वन्ति ।

पद्मावती साङ्खली [१९][सम्पादयतु]

पृथ्वीराजरासोकाव्ये पद्मावतीसमयः इत्याख्यानं प्राप्यते । रासोकाव्यानुसारं पूर्वदिशि समुद्रशिखराख्यः प्रदेशः आसीत् । तत्र यादववंशीयस्य विजयपालाख्यस्य राज्ञः शासनम् आसीत् । तस्य पत्नी पद्मसेनः आसीत् । तयोः पुत्री पद्मावती आसीत् । पद्मावती एकदा राजभवनस्य उद्याने विचरन्ती आसीत् । तस्मिन् समये तया एकः शुकः दृष्टः । सः शुकः अत्यन्तः आकर्षकः आसीत् । अपरत्र शुकः अपि पद्मावत्याः रक्ताधरं बिम्बाफलं मत्वा भोक्तुम् उद्यतः । तस्मिन्नेव काले पद्मावती शुकं स्वहस्ते गृह्णाति । सः शुकः मानवभाषायाः ज्ञाता आसीत् । सः पद्मावत्याः मनोरञ्जनं कर्तुम् अनेकाः कथाः अश्रावयत् । ततः पद्मावती जिज्ञासावशात् शुकम् अपृच्छत्, "भोः शुकराज ! भवान् कुत्र निवसति ? कश्च भवतः राज्यस्य राजा ?" इति । ततः पद्मावत्याः जिज्ञासां शमयितुं शुकः विस्तारेण स्वराज्यस्य, पृथ्वीराजस्य च वर्णनं करोति ।

हिंदवान थान उत्तम सुदेश, तह उगत द्रुग दल्ली सुदेष ।

संभरि नरेश चहुंवान थान, प्रीथिराज तहां राजंत भान ।।
वैसह वरिस षोजस नरिदं, आजानुबाहु भुवलोक यदं ।
संभपि नरेश सोमेस पूत, देवंत रूप अवतार धूत ।।
सता मसूंर सब्बे अपार, भूजान भीम जिस सार भार ।
तिहि पकरि शाह साहाबदीन, तिहु बेर करिन पानीप हीन ।।
सिंगिनि सुसद गुने चढ़ि जंजीर, चुक्के न शबद बेधंत तीर ।
बल बेल करन जिमि दान मान, सहस शील बहिचंद समान ।।
दस चारि सब काल भूप, क्रन्दप्प ज्ञान अवतार रूप ।।

हिन्दूनाम् उत्तमप्रदेशः हिन्दुस्थानम् अस्ति । तत्र सुन्दरं देहली-नगरं विद्यते । तस्य नगरस्य अधिपतिः चौहानवंशीयः पृथ्वीराजः अस्ति । षोडशवर्षीयः पृथ्वीराजः इन्द्रवत् पराक्रमी अस्ति । साकम्भरिनरेशस्य सोमेश्वरस्य पुत्रः देवानां रूपं धृत्वा पृथिव्याम् अवातरत् । तस्य सर्वेऽपि सामान्ताः अत्यन्तपराक्रमिणः सन्ति । तस्य भुजायां भीमसेनवद् बलम् अस्ति । पृथ्वीराजः त्रिवारं शहाबुद्दीन घोरी इत्याख्यं राजानं पराजयत । तस्य धनुषः प्रत्यञ्चायाः ध्वनिः अति भयानकः भवति । सः शब्दभेदिबाणं चालयितुं समर्थः अस्ति । पृथ्वीराजः वचनपालने बलिः, दाने कर्णः, सुकर्मणि विक्रमादित्यः, आचरणे हरिश्चन्द्रश्च अस्ति । कलियुगे दुष्टानां संहारं कर्तुं तस्य जन्म अभवत् । चतुर्दशकलाभिः सम्पन्नः सः कामदेवत्वेन पृथिव्याम् अवातरत् ।

शुकस्य मुखात् पृथ्वीराजस्य प्रशंसां श्रुत्वा यादवबालायाः पद्मावत्याः मनः पृथ्वीराजं प्रति अनुरक्तम् अभवत् । परन्तु यौवनप्राप्तवत्याः पद्मावत्याः विवाहः विजयपालेन कुमुदमणिना सह निर्धारितः आसीत् । कुमुदमणिः कुमाऊँ-प्रदेशस्य राजा आसीत् । समुद्रशिखरप्रदेशे राजकुमार्याः विवाहस्य सज्जता भवन्ती आसीत् । अपरत्र स्वविवाहस्य वार्तां श्रुत्वा पद्मावती व्याकुला अभवत् । ततः सा शुकम् अकथयत्, "हे कीर ! शुक ! भवान् शीघ्रं हि देहलीं गत्वा मे प्रियं पृथ्वीराजम् अत्र आह्वयतु" इति । ततः पद्मावती शुकाय एकं पत्रं यच्छति ।

हे क्षत्रियकुलभूषण ! अहं तनुमनोभ्यां भवति स्निह्यामि । यदि भवान् मां, मे कुलं च वरणयोग्यं मनुते, तर्हि मे पाणिग्रहणं कृत्वा मम प्राणरक्षां करोतु । ११३० तमस्य शकसंवत्सरस्य वैशाखमासस्य शुक्लद्वादश्यायां तिथौ मम विवाहः निश्चितः अस्ति । अतः तस्मात् पूर्वम् आगत्य श्रीकृष्णः यथा रुक्मिण्याः हरणम् अकरोत्, तथा मे हरणं कृत्वा मां कृतार्थां करोतु ।

--- पद्मावती

शुकः वायुवेगेन देहलीं गत्वा पृथ्वीराजाय पत्रम् अयच्छत् । पत्रं पठित्वा पृथ्वीराजः सामन्तैः सह समुद्रशिखर-नगरं प्रति यात्रां प्रारभत । अपरत्र कुमुदमणिः कुमाऊँ-तः वरयात्राम् आरभत । पृथ्वीराजः समुद्रशिखरं गच्छन् अस्ति इति समाचारं प्राप्य मुहम्मद घोरी अपि समुद्रशिखरं प्रति यात्राम् आरभत । ततः समुद्रशिखरं प्रति कुमुदमणेः आगमनस्य समाचारं श्रुत्वा पद्मावती अति व्याकुला अभवत् । यतः पृथ्वीराजस्य आगमनस्य समाचारं सा न प्राप्तवती । अतः सा प्रासादस्य वातायने स्थित्वा मार्गं प्रति विह्वलमनसा प्रतीक्षमाणा, रुदन्ती च आसीत् । तस्मिन् एव काले शुकः आगत्य ताम् अवदत्, "हे सुन्दरि ! तव प्रियतमः समीपस्थे शिवमन्दिरे अस्ति । त्वं शीघ्रं हि तत्र गच्छ" इति । शुकस्य वचनं श्रुत्वा पुनर्जीवनं प्राप्तवत्याः पद्मावत्याः नेत्रे अचकास्ताम् । नवीनवस्त्राणि धृत्वा सुगन्धितजलेन स्नात्वा चन्द्रमसः किरणान् लज्जयन्ती सा षोडशशृङ्गाराणि अकरोत् । तस्याः सर्वाणि अङ्गानि विविधैः आभूषणैः सुशोभितानि आसन् । ततः स्वसखिभिः सह सा स्वर्णस्थालिकायां दीपं परितः मौक्तिकानि प्रस्थाप्य शिवालयं प्रति अगच्छत् । शिवालयं प्राप्य शिवपार्वत्योः पूजां कृत्वा पृथ्वीराजं प्रति अगच्छत् । ततः स्वमुखावरणम् अपाकृत्य सा मुग्धा भूत्वा पृथ्वीराजस्य सौन्दर्यं पश्यन्ती आसीत् । पृथ्वीराजः अपि किञ्चित् अग्रे गत्वा पद्मावत्याः समीपे अतिष्ठत् । मन्दिरस्य एतद् दृश्यं दृष्ट्वा पद्मावत्याः सख्यः साश्चर्यं पद्मावतीं, पृथ्वीराजं च पश्यन्त्यः आसन् । यतो हि पद्मावतीपृथ्वीराजयोः प्रणयविषये शुकं विहाय न कोऽपि जानाति स्म ।

ततः पृथ्वीराजः पद्मावत्याः हस्तं गृहीत्वा अश्वारोहणम् अकरोत् । देहलीं प्रति पृथ्वीराजपद्मावत्योः यात्रायाः आरम्भान्तरं समुद्रशिखरनगरे सर्वत्र पद्मवातीहरणस्य समाचाराः अप्रसन्त (फेल गये) । विजयपालः, कुमुदमणिश्च पृथ्वीराजेन सह योद्धुं पृथ्वीराजस्य पृष्ठे अगच्छताम् । विजयपालकुमदमण्योः आगमनस्य समाचारं श्रुत्वा पृथ्वीराजः ससामन्तं युद्धाय सज्जः अभवत् । ततः विनाशकयुद्धानन्तरं विजयी पृथ्वीराजः देहलीं प्रति यात्राम् आरभत । परन्तु मार्गे मुहम्मद घोरी इत्येषः स्वसैनिकैः सह पृथ्वीराजस्य उपरि आक्रमणम् अकरोत् । परन्तु घोरी इत्यस्य सेनायाः घोरपराजयः अभवत् । तस्य सर्वेऽपि सैनिकाः इतस्ततः पलायन्त । तथा च पृथ्वीराजः घोरी इत्यनं बन्दिनं कृत्वा देहलीम् अगच्छत् । देहलीं सम्प्राप्य दुर्गायाः मन्दिरे शुभमुहूर्ते पृथ्वीराजः पद्मावत्या सह विवाहम् अकरोत् ।

इतिहासविदां मतम् अस्ति यत्, साहित्यिकदृष्ट्या उक्तकथायाः महत्त्वम् अस्ति, परन्तु ऐतिहासिकदृष्ट्या उक्तकथायाः महत्त्वं नास्ति । यतो हि इतिहासे कुत्रापि समुद्रशिखर-इत्याख्यस्य दुर्गस्य, तस्य राज्ञः विजयपालस्य च उल्लेखः न प्राप्यते । उभे नामनी काल्पनिके स्तः । इतिहासविदां मतम् अस्ति यत्, एषा कथा काचित् पुराणकालीना प्रसिद्धा कथा स्यात् । तस्याः कथायाः अवलम्बनं कृत्वा अज्ञातव्यक्त्या पृथ्वीराजरासोकाव्ये प्रक्षेपः कृतः ।

चन्दबरदायी इत्यनेन उक्तकथायाः रचना न कृता इत्यस्य द्वितीयप्रमाणम् अस्ति यत्,

बानं नाल हथनालि, तपुह तीरह स्रव सज्जिय

अर्थात् 'तोप' इत्यनेन (शतघ्न्या) चतसॄषु दिक्षु धुम्रः अभवत् । परन्तु भारतीयेतिहासे १५२६ (ई.) तमस्य वर्षस्य अप्रैल-मासस्य विंशतितमे (२०/४/१५२६) दिनाङ्के पानीपत-क्षेत्रस्य युद्धे एव शतघ्न्याः (तोप) उपयोगः अभवत् [२०] । यद्यपि एतस्यां कथायाम् ऐतिहासकतथ्यं नास्ति, तथापि कथायां पृथ्वीराजपद्मावत्यौ पात्रे तु योग्ये स्तः । १२३६ तमस्य विक्रमसंवत्सरस्य आषाढमासस्य शुक्लदशम्यायां बुधवासरे लिखितः एकः शिलालेखः पोकरण-तः प्राप्तः । तत्र उल्लेखः अस्ति यत्, पृथ्वीराजस्य आज्ञया मण्डलेश्वरेण 'कतिया' इत्यनेन विजयपुरस्य लोकेश्वरमन्दिरे पिहिलापाउल-नामकस्य ग्रामस्य दानं कृतम् । ग्रामेण सह तडागं, ग्रामं च परितः विशालवनं च अयच्छत् सः । पद्मावती तस्य परमारवंशस्य पाल्हण इत्यस्य पुत्री आसीत् । कतिया इत्येषः पद्मावत्याः भ्राता आसीत् ।

चन्द्रावती[सम्पादयतु]

पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, चन्द्रपुण्डीर-प्रदेशस्य राजकुमार्याः चन्द्रावत्याः विवाहः पृथ्वीराजेन सह अभवत् इति । तस्याः गर्भात् सपादलक्षसाम्राज्यस्य उत्तराधिकारी रैणसी समुद्भूतः । इतिहासविदां मतम् अस्ति यत्, रैणसी कल्पितं नाम अस्ति, वस्तुतः तस्याः नाम गोविन्द आसीत् । परन्तु चन्द्रपुण्डीर-प्रदेशस्य राजकुमार्याः विवाहः पृथ्वीराजेन सह अभवत् इति उचितम् अस्ति [२१]

संयोगिता[सम्पादयतु]

मुख्यलेखः : संयोगिता चौहान
संयोगिताहरणस्य दृश्यम्

पृथ्वीराजविजयमहाकाव्ये तिलोत्तमा इति नाम्ना, पृथ्वीराजरासोकाव्ये संयोगिता इति नाम्ना, सुरजनचरितमहाकाव्ये 'कान्तिमति' इति नाम्ना संयोगितायाः उल्लेखः प्राप्यते । संयोगितायाः उल्लेखः रम्भामञ्जरीमहाकाव्ये, हम्मीरमहाकाव्ये च न प्राप्यते । संयोगितायाः हरणम् इतिहासस्य महत्त्वपूर्णघटना आसीत् ।

तस्मिन् काले पृथ्वीराजस्य वीरतायाः प्रशंसा चतसॄषु दिक्षु भवति स्म । एकदा संयोगिता पृथ्वीराजस्य वीरतायाः, पृथ्वीराजस्य सौन्दर्यस्य च वर्णनम् अशृणोत् । ततः सा तस्मिन् स्निह्यति स्म । अपरत्र संयोगितायाः पिता जयचन्दः संयोगितायाः स्वयंवरमाध्यमेन संयोगितायाः विवाहस्य घोषणाम् अकरोत् । जयचन्दः अश्वमेधयज्ञस्य आयोजनम् अकरोत् । तस्य परिसमाप्तौ संयोगितायाः स्वयंवरस्य मुहूर्तः आसीत् । जयचन्दः अश्वमेधयज्ञं कृत्वा भारते स्वप्रतिष्ठाम् चिकीर्षति स्म । परन्तु पृथ्वीराजः तस्य विरोधम् अकरोत् । अतः जयचन्दः पृथ्वीराजं स्वयंवरे नाह्वयत्, तथा च द्वारपालस्य स्थाने पृथ्वीराजस्य प्रतिमाम् अस्थापयत् सः । अपरत्र यदा संयोगिता अजानात् यत्, पृथ्वीराजः स्वयंवरे अनुपस्थितः भविष्यतीति, तदा सा पृथ्वीराजम् आह्वातुं दूतं प्रैषयत् । संयोगिता मयि स्निह्यति इति ज्ञात्वा पृथ्वीराजः कन्नौजनगरं प्रति यात्राम् आरभत ।

अश्वमेधयज्ञानन्तरं स्वयंवरकाले यदा संयोगिता वरमालां हस्ते धृत्वा उपस्थितान् राज्ञः पश्यन्ती आसीत्, तदा सा द्वारे स्थितां पृथ्वीराजस्य मूर्तिम् अपश्यत् । संयोगिता मूर्तिम् उपागम्य वरमालां पृथ्वीराजस्य मूर्तेः कण्ठे अधारयत् । तस्मिन्नेव काले प्रासादम् अश्वारूढः पृथ्वीराजः प्रविष्टः । सः सिंहनादेन सर्वान् राज्ञः युद्धाय आह्वयत् । ततः संयोगितां नीत्वा इन्द्रपस्थं प्रति यात्रां प्रारभत । मार्गे जयचन्दं पराजित्य, मुहम्मद घोरी इत्येनं बन्दिनं कृत्वा पृथ्वीराजः संयोगितया सह इन्द्रपस्थं प्रापत् । जयचन्दः तु स्वापमानस्य प्रतिशोधाय पृथ्वीराजेन सह युद्धम् अकरोत् । परन्तु मुहम्मद घोरी यदा अजानात् यत्, पृथ्वीराजः कन्नौजनगरं प्रति गच्छन् अस्ति इति, तदा पृथ्वीराजं पराजेतुं सः मार्गम् अवारोधयत् । पृथ्वीराजः न केवलं मुहम्मद घोरी इत्येनं पराजयत, अपि तु तं बन्दिनं कृत्वा इन्द्रप्रस्थम् अपि अनयत् [२२]

नागार्जुनस्य विद्रोहदमनम् (११७७) [२३][सम्पादयतु]

पृथ्वीराजः यदा शाकम्भर्याः सिंहासने आरूढः अभवत्, तदा चौहानवंशस्य साम्राज्यं सामान्तानां साहाय्येन चलति स्म । सामन्तीयशासनप्रणाल्यां सर्वेऽपि सामन्ताः स्वतन्त्रतया स्वराजकोषस्य व्यवस्थापनं कुर्वन्ति, तथा च वार्षिकोपहारत्वेन स्वसम्राजे नियतधनं यच्छन्ति । युद्धकाले सामन्ताः सम्राजः आज्ञानुसारं स्वसेनाः अपि प्रेषयन्ति । सामन्तीयशासनप्रणाल्यां राजनैतिकैकतायाः स्थितिः अति शिथिला भवति । यतो हि ये सैनिकाः सम्राजः आदेशेन युद्धाय उद्युक्ताः भवन्ति, तेषां निष्ठा स्वराजानं प्रति भवति, न तु स्वसम्राजं प्रति । सामन्तानाम् अपि स्वमहेच्छाः भवन्ति । अतः ते स्वप्रभावस्य, स्वक्षेत्रस्य च विस्ताराय निरन्तरं रताः भवन्ति । यदा सामन्तानां सम्राजः कस्मिँश्चित् युद्धे परास्तः भवति, मरणासन्नः भवति, निर्बलः भवति वा, तदा सामन्ताः स्वतन्त्रतायै प्रयत्नरताः भवन्ति । सम्राजः शिथिलतायाः कारणं ज्ञात्वा ते, स्वसम्राजि आक्रमणं कर्तुम् अपि उद्युक्ताः भवन्ति ।

राजसिंहासने आरूढः पृथ्वीराजः युवा आसीत्, अतः अनेके सामन्ताः स्वस्य स्वतन्त्रतायाः स्वप्नं पश्यन्तः युद्धघोषणाम् अकुर्वन् । परन्तु कैमासस्य, भुनैकमल्लस्य च साहाय्येन कर्पूरदेवी तेषां विद्रोहिणां सामन्तानां दमनम् अकरोत् । ततः विग्रहराजस्य द्वितीयः पुत्रः नागार्जुनः अजयमेरुराज्यस्य उत्तराधिकारित्वेन विद्रोहम् अकरोत् । पृथ्वीराजः यदा सत्तारूढः अभवत्, तदा नागार्जुनः निर्वासितजीवनं यापयन् योगिनीपुरे (देहल्यां) निवसति स्म । तस्मिन् काले योगिनीपुरे नागार्जुनस्य मातुलस्य तोमरवंशीयस्य पृथ्वीपालस्य शासनम् आसीत् । तोमरवंशीयराजा पृथ्वीपालः चौहानवंशस्य एकः सामन्तः आसीत् ।

पृथ्वीराजविजयमहाकाव्यस्य दशमसर्गस्य षष्ठे, सप्तमे च श्लोके उल्लेखः प्राप्यते यत्, भाग्यशालिनः, बलशालिनः विग्रहराजस्य विवेकशून्यः पुत्रः नागार्जुनः गुजपुरस्योपरि आक्रमणम् अकरोति इति । तोमरवंशीयराज्ञः पृथ्वीपालस्य समीपे तावती सैन्यशक्तिः नास्ति, यया सः पृथ्वीराजस्य उपरि आक्रमणं कर्तुं शक्नुयात् । परन्तु पृथ्वीपालस्य समर्थनम् अन्यः यादववंशी भादानक इत्याख्यः सामन्तः अपि अकरोत् । तथापि तयोः सम्मिलिता सेना पृथ्वीराजस्य ७०,००० अश्वारोहिसैनिकानां, गजसैनिकानां, पदसैनिकानां च सम्मुखं युद्धं कर्तुम् असमर्था आसीत् । इतिहासविदां मतम् अस्ति यत्, सपादलक्षसाम्राजस्य पूर्वीयं प्रतिवेशिराज्यं जेजाकभुक्तिः, कान्यकुब्जराज्यं चापि पृथ्वीराजस्य विरुद्धं युद्धं कर्तुं पृथ्वीपालस्य सैन्यसाहाय्यम् अकुरुताम् इति ।

नागार्जुनः यदा योगिनीपुरात् युद्धाय निर्गतः, तदा सः विश्वस्तः आसीत् यत्, तस्य एव विजयः भविष्यतीति । अतः युद्धस्थले नागार्जुनस्य पत्नी, माता देशलदेवी अपि आस्ताम् । योगिनीपुरात् निर्गतः नागार्जुनः प्रप्रथमं गुजपुर इत्याख्यस्य नगरस्य उपरि आधिपत्यम् अस्थापयत् । नागार्जुनस्य प्रप्रथमविजयेन सह पृथ्वीराजस्य साम्राज्यस्य एकः भागः नागार्जुनस्य हस्तगतः अभवत् । अतः पृथ्वीराज-नागार्जुनयोः भीषणयुद्धम् अनिवार्यम् अभवत् । नागार्जुनेन सपादलक्ष्यसाम्राज्ये आक्रमणं कृतम् इति समाचारान् श्रुत्वा पृथ्वीराजः अनुक्षणमेव आक्रमणम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, तस्य युद्धस्य नेतृत्वं पृथ्वीराजः स्वयम् अकरोत् । यतो हि उल्लेखः प्राप्यते यत्, पृथ्वीराजः कैमासं, भुवनैकमल्लं च पृष्ठे संस्थाप्य नागार्जुनस्योपिर आक्रमणम् अकरोत् इति । अतः एवम् अनुमानं कर्तुं शक्यते यत्, कैमासः, भुवनैकमल्लश्च युद्धे भागम् अवहतां, परन्तु मुख्यसेनापतित्वेन दायित्वं पृथ्वीराजेन एव ऊढम् इति । पृथ्वीराजः यदा नागार्जुनस्य उपिर आक्रमणम् अकरोत्, तदा पृथ्वीराजस्य सेनायाम् अनेके अश्वारोहिणः, हस्तिसैनिकाः, ऊष्ट्रसैनिकाः, पदात्तयः च आसन् । पृथ्वीराजः यदा युद्धाय निर्गतः, तदा सेनायाः निर्गमनस्य उग्रः ध्वनिः अभवत् । पृथ्वीराजस्य विशालसेनायाः सम्मुखं विरोधिनः पराजिताः अभूवन् । पृथ्वीराजात् भयभीतः नागार्जुनः स्वेन सह चलता कलिना सह परामर्शं कृत्वा वीरधर्मं त्यक्त्वा युद्धात् पलायत (पलायनम् अकरोत्) । नागार्जुनस्य पराजयस्य वर्णनं पृथ्वीराजविजयमहाकाव्ये प्राप्यते यत् –

अवनिपति भयादुपेत्य पार्श्व, सह चलता कलिनेव दत्तशिक्षः ।

दयितमपि विमुच्य वीरधर्म, क्विचिदपि विग्रहराजभूरयासीत ।। श्लो. ३२, सर्गः १०, पृथ्वीराजविजयमहाकाव्यम् ।।

नागार्जुनः ससेनं पराजितो भूत्वा पलायत । ततः नागार्जुनः गुजपुरस्य दुर्गे निगूहितः । परन्तु पृथ्वीराजः तस्य दुर्गस्य उपरि आक्रमणं कृत्वा युद्धं प्रारभत । नागार्जुनः येन केन प्रकारेण तस्मात् दुर्गात् अपि पलायत । परन्तु नागार्जुनस्य दुर्गं रक्षितुं सेनापतिः देवभट्टः युद्धम् अकरोत् । सोऽपि पराजितः । नागार्जुनस्य अनेके योद्धारः पृथ्वीराजस्य कारागृहे बन्दिनः आसन् । तेषु बन्दिषु नागार्जुनस्य पत्नी, माता देशलदेवी च आस्ताम् । युद्धे समाप्ते सति पृथ्वीराजः सर्वैः बन्दिभिः सह अजमेरु-नगरम् अगच्छत् । तत्र अजमेरु-दुर्गस्य विभिन्नेषु स्थानेषु बन्दिनां शिरांसि उल्लम्बितानि (टाँग दिये) । परन्तु नागार्जुनस्य पत्न्याः, मातुः च किम् अभवत् ? इत्यस्य वर्णनं कुत्रापि न प्राप्यते । इतिहासविदां मतम् अस्ति यत्, यतो हि ते पृथ्वीराजस्य भ्रातृपत्नी, पितृव्या च आस्ताम्, अतः पृथ्वीराजः लघुदण्डं दत्त्वा योगिनीपुरं प्रैषयत् इति ।

पृथ्वीराजः यदा सिंहासनारूढः अभवत्, ततः समनन्तरमेव नागार्जुनस्य विद्रोहस्य शमनम् अकरोत् सः । सा घटना लघ्वी नासीत् । पृथ्वीराजं सत्ताच्युतं कृत्वा सम्पूर्णस्य समापदलक्षसाम्राज्यस्योपरि आधिपत्यस्य सा घृणास्पदा दुर्गोष्ठी (conspiracy) आसीत् । तस्यां दुर्गोष्ठ्यां योगिनीपुरस्य सामन्तः पृथ्वीपालः मुख्यभूमिकायाम् आसीत्, परन्तु तस्य समर्थनं भादानकप्रदेशस्य, जेजाकभुक्तिप्रदेशस्य, काशीप्रदेशस्य, कन्नौजप्रेदशस्य च शासकाः अकुर्वन् । सपादलक्षसाम्राज्यस्य अनेके असन्तुष्टाः सामन्ताः अपि तस्मिन् युद्धे नागार्जुनस्य साहाय्यम् अकुर्वन् । अतः पृथ्वीराजः क्रमेण सवैः सह युद्धं कृत्वा स्वबलस्य, स्वपराक्रमस्य च परिचयम् अकारयत् ।

भादानकदेशीयानाम् उच्छेदनम् ११७७[सम्पादयतु]

शाकम्भर्याः चौहानवंशस्य बयानप्रदेशीयैः यादववंशीयैः सह प्रप्रथमयुद्धम् अजयराजस्य काले अभवत् । बिजौलियाशिलालेखस्य पञ्चदशे श्लोके उल्लेखः प्राप्यते यत्, श्रीमार्गस्य, दुर्द्द-प्रदेशस्य च अभियानकाले चाचिग-सिङ्घुल-यशोधराख्यानां वीराणां वधम् अजयराजः अकरोत् इति । ततः अर्णोराजः, विग्रहराजः अपि बयानप्रदेशीयैः यादववंशीयैः सह युद्धम् अकुरुताम् । परन्तु ते सर्वे यादवान् समूलं नष्टं कर्तुं न शक्तवन्तः । पृथ्वीराजस्य विरुद्धं यदा नागार्जुनस्य विद्रोहः अभवत्, तदा भादानकप्रदेशीयराजा सोहणपालः चौहानवंशस्य विरुद्धं युद्धं कर्तुं सज्जः अभवत् । अतः सः स्वसैन्यबलेन नागार्जुनस्य साहाय्यम् अकरोत् । सोहणपालस्य पूर्वजेन सह कुमारपालेन सह विग्रहराजेन युद्धं कृतम् आसीत् (ई. ११५०-११६४) [२४] । आनुवंशिकयुद्धस्य स्थितिः पृथ्वीराजस्य शासनकाले अपि समुदभवत् । परन्तु पृथ्वीराजः भादानक-प्रदेशस्य यादववंशीयानां समूलोच्छेदनम् अकरोत् [२५]

भादानकप्रदेशस्योपरि आक्रमणात् प्राक् पृथ्वीराजः स्वशासनव्यवस्थायां द्वे महत्त्वपूर्णे परिवर्तने अकरोत् । प्रप्रथमं तु हांसीपुरस्य सामन्तं पदच्युतं कृत्वा स्वभ्रातरं हरिराजं हांसीदुर्गस्य सामन्तत्वे न्ययुङ्क्त [२६] । द्वितीयं तावत् योगिनीपुरे पृथ्वीपालस्य रिक्तस्थाने गोविन्दं न्ययुङ्क्त । एवं युद्धस्य मुख्यकेन्द्रयोः पर्याप्तरक्षणस्य व्यवस्थां कृत्वा स्वविरोधिन्याः दुर्गोष्ठ्याः (षडयंत्र का) प्रत्युत्तरं दातुं पृथ्वीराजः सज्जः अभवत् ।

खरतरगच्छपट्टावल्याः १४ पृष्ठे सूचना प्राप्यते यत्, पृथ्वीराजः दिग्विजयाभियानाय नरायन-प्रदेशे (नरायन, नारायणा इत्यपि नामान्तरे । सद्यः तत् स्थलं नरैना (राजस्थानराज्यम्) इति प्रसिद्धम् ।) स्वसेनायाः सङ्घटनम् अकरोत् । भुवन्नैकमल्लः स्वयं सैनिकानाम्, अधिकारिणां च दिशानिर्देशनं, सञ्चालनं च कुर्वन् आसीत् इति । सैन्यसज्जतायाः अनन्तरं शत्रुप्रदेशस्य निरीक्षणाय भुवनैकमल्लस्य नेतृत्वे एकं दलम् अग्रे प्रैषयत् पृथ्वीराजः । ततः स्वसेनापतिभिः सह स्वयं विशालसैन्यं नीत्वा दिग्विजयाभियानम् आरभत । पृथ्वीराजस्य सेनापतिषु कैमासः, स्कन्दः च प्रमुखौ आस्ताम् ।

तस्मिन् काले भदानकप्रदेशे बयाना, अलवर, भिवानी, रिवाडी इत्यादीनि प्रमुखनगराणि आसन् । तस्य प्रदेशस्य पूर्वसीमायाः समीपे यमुनानदी, दक्षिणसीमायाः समीपे चम्बलनदी च प्रवहन्त्यौ आस्ताम् । बयाना-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे त्रिभुवनगढ इत्याख्यं नगरं भदानकप्रदेशस्य राजधानी आसीत् । पृथ्वीराजः भादानकप्रदेशस्योपरि चतुर्भ्यः दिग्भ्यः आक्रमणम् अकरोत् । तस्मिन् भयङ्करे युद्धे यादववंशी सोहणपालः पराजितः । पृथ्वीराजः तस्य सेना च सोहणपालस्य हस्तिसेनायाः उपरि आधिपत्यम् अस्थापयेताम् । ये सैनिकाः जीविताः आसन्, ते चम्बलनदीम् उल्लङ्घ्य शिकोहाबाद-नगरात् द्वाविंशतिः (२२) कि.मी. दूरे भादान-नामके स्थाने निवासम् आरभन्त [२७] । तद्युद्धानन्तरं सपादलक्षसाम्राज्यस्य पूर्वसीमायां यमुनानदी, दक्षिणपूर्वदिशायां चम्बलनदी च प्रवहन्त्यौ आस्ताम् । भादनकप्रदेशस्य उल्लेखनीयविजयस्य वर्णनं खरतरगच्छपट्टावल्यां पृथ्वीराजशौर्यस्य प्रशंसात्वेन प्राप्यते ।

यस्य अन्त बाहेगेहं बलभृचककुंभः श्री जय श्री प्रवेशे ।

दीप्र प्रास प्रहर घटततट प्रस्त मुक्तावलिभिः ।।
नूनं भादानकीयैं रणभूवि करिभिः स्वास्तिकोअयूर्य तोच्चेः ।
पृथ्वीराजस्यतस्यातुलबल महसः किं वयं वर्णनामः ।। २९ ।।

हे पृथ्वीराज ! तव पराक्रमस्य, यशसः वर्णनं कैः शब्दैः कर्तुं शक्यते ? यस्य सेना चतुर्भ्यः दिग्भ्यः विजयदेवीं प्रसन्नाम् अकरोत्, येन स्वभुजबलेन विरोधिनः हस्तिसेनायाः उपरि आधिपत्यं स्थापितं, सः स्वस्तिकचिह्नैः युक्तोऽस्ति ।

जेजाकभुक्तौ आक्रमणम् ११८२[सम्पादयतु]

जेजाकभुक्तिप्रदेशस्य चेदिदेशः, दशार्णः, जुझोती, कुन्तलदेशः इत्येतानि नामान्तराणि सन्ति । सद्यः जेजाकभुक्तिप्रदेशं वयं बुन्देलखण्डत्वेन जानीमः । यद्यपि बुन्देलखण्डस्य विशालभूभागः मध्यप्रदेशोत्तरप्रदेशराज्ययोः विभक्तः, तथापि सः प्रदेशः बुन्देलखण्डत्वेनैव प्रसिद्धः वर्तते । तस्मिन् बुन्देलखण्डे जेजाकभुक्तिनामकं स्वतन्त्रं राज्यम् आसीत् । जेजाकभुक्तिप्रदेशस्य उत्तरसीमायां यमुनानदी, उत्तरपश्चिमदिशायां चम्बलनदी प्रवहन्त्यौ आस्ताम् । दक्षिणपूर्वदिशः सीमायां बुन्देलखण्डस्य पर्वतीयस्थलम् आसीत् । जेजाकभुक्तिप्रदेशस्य सांस्कृतिकराजधानी खजुराहो (खुर्जूरवाहक, खर्जूरपुर) आसीत् । जेजाजभुक्तिप्रदेशस्य द्वे सामरिककेन्द्रे आस्ताम् । प्रप्रथमं तु मुख्यराजधानी कालिञ्जर-नगरं, द्वितीयं महोबागढ-नगरम् । जेजाकभुक्तिराज्यस्य निर्माणम् अति विचित्रम् आसीत् । सर्वत्र लघूनि दुर्गाणि आसन् । तेषु कालिञ्जर, अजयगढ, बैरीगढ, महोबा, मडफा इत्यादीनि महत्त्वपूर्णानि दुर्गाणि आसन् ।

११८२ तमे वर्षे पृथ्वीराजः जेजाकभुक्तौ आक्रमणम् अकरोत् । पृथ्वीराजस्य आक्रमणेन चकितः शत्रुः युद्धे पराजितः । पहूजनद्याः तटे स्थिते सिरसादुर्गे सलखान इत्याख्यः सेनापतिः नियुक्तः आसीत् । कैमाषः तस्य वधम् अकरोत् । सलखान इत्यस्य मलखान-नामकं भ्रातरम् अपि कैमाषः अमारयत् । सिरसादुर्गं विजित्य यदा पृथ्वीराजस्य सेना आकोरी-स्थानं प्रति अग्रे अगच्छत्, तदा मार्गे एव चन्द्रेरीसेनया सह भयङ्करं युद्धम् अभवत् । आल्हा इत्याख्यः परमर्दिदेवस्य योद्धा तस्मिन् युद्धे पराजितः । सः वने शरणं स्व्यकरोत् । ब्रह्मजितनामकः योद्धा तस्मिन् युद्धे हुतात्मा अभवत् । ततः पृथ्वीराजस्य आक्रमणेन परमर्दिदेवस्य प्रसिद्धसेनापतिः हुतात्मा अभवत् । स्वयं परमर्दिदेवः चन्देलयुद्धात् विमुखो भूत्वा कालञ्जिरदुर्गे गुप्तवासं स्व्यकरोत् । परन्तु पृथ्वीराजः कालञ्जिरदुर्गस्योपरि चतुर्भ्यः दिग्भ्यः आक्रमणं कृत्वा परमर्दिदेवम् आत्मसमर्पणाय विवशम् अकरोत् । पृथ्वीराजः यदा स्वसेनया सह मालवाप्रदेशस्य ऐरन-स्थानस्य पार्श्वे मदनपुरस्य शिबिरे आसीत्, तदा परमर्दिदेवस्य आत्मसमर्पणस्य समाचारं सः प्रापत् । मेरुतुङ्गस्य प्रबन्धचिन्तामणौ उल्लेखः प्राप्यते यत्, "परमर्दिदेवः स्वमुखे तृणं स्थापयित्वा अर्थात्, अत्यन्तदीनतां प्रदर्श्य एव पृथ्वीराजात् जीवनभिक्षां प्रापत्" इति [२८] । पृथ्वीराजस्य जेजाकभुक्तिविजयस्य समर्थनं शिलालेखाः अपि कुर्वन्ति ।

मन्दश्चन्द्रकिरीटपूजनरसे तृष्णा न कृष्णार्चने ।

स्तम्भः शम्भुनितम्बनीप्रणतिषु व्यग्रो न धातुर्गृहे ।।
अस्माकं परमर्दनोस्ति वदने न्यस्तेन संरक्षितः ।
पृथ्वीराजेननरेश्वरादिति तृणं तत्पत्तने पूज्यते ।। श्लो. ८, भागः १, शार्ङ्गधरपद्धतिः

अर्थात् शिवस्य पूजायां मन्दः अस्ति, कृष्णार्चने तृष्णा नास्ति, दुर्गाप्रणामे स्तब्धः अस्ति, (पूजाऽभावेन) विधातृरूपी ग्रहः व्यग्रः अस्ति । अस्माकं स्वामी परमर्दिदेवः तृणं मुखे संस्थाप्य नरपतेः पृथ्वीराजात् जीवनदानं प्राप्तुं सफलः अभवत् ।

पृथ्वीराजस्य जेजाकभुक्तिप्रदेशस्य अभियानं सफलम् अभवत् । परन्तु तत् अभियानम् अपूर्णम् आसीत् । जेजाकभुक्तिप्रदेशस्य राज्ञः परमर्दिदेवस्य पुत्री नाइकीदेवी चालुक्यसम्राजः मूलराजद्वितीयस्य माता आसीत् [२९] । नाईकीदेवी कुशलराजनीतिज्ञा अपि आसीत् । अतः सा स्वपितुः पराजयस्य स्थितिं ज्ञात्वा पृथ्वीराजस्य ध्यानच्युतिं कर्तुम् अजयमेरु-साम्राज्यस्योपरि आक्रमणम् अकारयत् । कूटनीतौ प्रौढा सा स्वाभियाने सफला अपि अभवत् । यदा पृथ्वीराजः अजमेरुसाम्राज्यस्योपरि आक्रमणस्य समाचारं प्रापत्, तदा सः जेजाकभुक्तिप्रदेशस्य अन्यप्रदेशानाम् अभियानं स्थगयित्वा अजयमेरुप्रदेशं प्रति यात्राम् आरभत । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, युद्धे पराजितः परमर्दिदेवः देहत्यागम् अकरोत् इति परन्तु परमर्दिदेवस्य अन्तिमशिलालेखः १२०१ तमे वर्षे लिखितः प्राप्यते । तावत् पर्यन्तं तु तस्य जीवनघटनानां पुष्टिः भवति [३०]

चालुक्यानां पराजयः ११८३[सम्पादयतु]

पृथ्वीराजस्य पितुः सोमेश्वरस्य शासनकाले चालुक्यवंशीयात् अजयपालात् सोमेश्वरः अनेकानि कष्टानि असहत । ततः पृथ्वीराजस्य सेना रात्रिकाले आबू-प्रदेशस्य उपरि आक्रमणम् अकरोत् । परन्तु तस्य अभियानस्य नेतृत्वं पृथ्वीराजः न करोति स्म । यतो हि पृथ्वीराजः तु दिग्विजयाभियानाय भण्डानकप्रदेशे, जेजाकभुक्तिप्रदेशे च आसीत् । मदनपुरात् प्राप्तः १२३९ विक्रमसंवत्सरे लिखितः शिलालेखः अपि तस्य पुष्टिं करोति । खरतरगच्छपट्टावल्यानुसारं पृथ्वीराजेन १२३९ विक्रमसंवत्सरे (ई. ११८२ तमे वर्षे) दिग्विजयाभियानस्य आरम्भं कर्तुं नरायनक्षेत्रे स्वसेना एकत्र कृता आसीत् [३१] । पृथ्वीराजः यदा जेजाकभुक्तिप्रदेशस्य विजयाभियाने आसीत्, तदा पृथ्वीराजस्य ध्यानच्युतिं कर्तुं चालुक्यवंशीयः भीमदेवद्वितीयः अजमेरु-साम्राज्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे भीमदेवद्वितीयेन सपादलक्षसाम्राज्यस्य लघुभूभागस्योपरि आधिपत्यम् अपि स्थापितम् । चालुक्यवंशीयानां तस्य अभियानस्य नेतृत्वं जगद्देव इत्याख्यः अधिकारी अकरोत् । परन्तु सा सफलता अतिस्वल्पकालिकी आसीत् [३२]

बीकानेर-नगरस्य आग्नेयकोणे स्थितात् छापरग्रामात् २२ कि.मी. दूरे स्थितः चारलूग्रामात् यौ शिलालेखौ प्राप्तौ, तयोः शिलालेखयोः नागौरयुद्धस्य विवरणं प्राप्यते । तयोः अङ्कनसंवत्सरः १२४१ विक्रमसंवत्सरः अस्ति । तत्र नागौर-सङ्ग्रामे ये वीरगतिं प्राप्तवन्तः, तेषां स्मृतिचिह्नानि स्थापितानि सन्ति । खरतरगच्छपट्टावलीवत् तत्रापि चौहानचालुक्यवंशयोः सन्धेः उल्लेखः प्राप्यते [३३] । उक्ततथ्यानाम् आधारेण स्पष्टं भवति यत्, चालुक्यसेनापती जगद्देवः, धारावर्षश्च प्रारम्भिके काले चौहानवंशस्य विरुद्धं सैन्यसाफल्येन सपादलक्षसाम्राज्यस्य भूभागे आधिपत्यं प्राप्तुं सफलौ अभवेताम् । परन्तु ततः चौहाणवंशेन सह जातेन दीर्घकालीनेन युद्धेन सन्धेः स्थितिः समुद्भूता आसीत् । खरतरगच्छपट्टावल्याम् उल्लेखः अस्ति यत्, पृथ्वीराजेन सह दीर्घकालीनयुद्धेन सेनापतिः जगद्देवः विपद्ग्रस्तः अभवत् । अतः तेन पृथ्वीराजेन सह सन्धिः कृतः । जगद्देवः येन केन प्रकारेण पृथ्वीराजेन सह सन्धिसातत्यम् इच्छति स्म । जगद्देवस्य सन्धिसम्बद्धा विवशता खरतरगच्छपट्टावल्यां वर्णितया एकया घटनया बहुधा ज्ञातुं शक्यते ।

खरतरगच्छपट्टावल्याः ४३ पृष्ठे लिखितम् अस्ति यत्, १२४४ तमे विक्रमसंवत्सरे सपादलक्षसाम्राज्यस्य केचन श्रेष्ठिनः (व्यापारिणः) गुजरातराज्यम् अगच्छन् । तदा अभयड-इत्याख्यः दण्डनायकः तान् लुण्ठयितुं योजनाम् अकरोत् । स्वदलम् अपि सः लुण्ठनकार्याय सज्जम् अकरोत् । परन्तु एतावत् महत्कार्यं कर्तुं प्रधानमन्त्रिणः अनुमतिः आवश्यकी इति विचन्त्य सः जगद्देवं पत्रम् अलिखत् ।

अधुना अत्र सपादलक्षसाम्राज्यस्य धनिकश्रेष्ठिनाम् एकं मण्डलं समागतम् अस्ति ।
यदि भवान् आज्ञां यच्छति, तर्हि अहं तान् लुण्ठयित्वा धनस्य व्यवस्थां करवाणि ?

एतावत् पठित्वा एव जगद्देवः क्रोधेन उग्रः अभवत् । सः प्रत्यलिखत्,

अहं बहुकष्टेन अधुनैव पृथ्वीराजेन सह सन्धिं कर्तुं सफलः अभवम् ।
अतः अहं तुभ्यं पूर्वसूचनां यच्छामि यत्, यदि त्वं सपादलक्षस्य कमपि जनं पीडयिष्यति,
तर्हि अहं तुभ्यं घोरदण्डं दास्यामि । (तो मैं तुम्हें गधे के पेट में सिलवा दूंगा)

उक्तं पत्रं पठित्वा दण्डनायकः तेषां श्रेष्ठिनां योग्यं सत्कारं कृत्वा सकुशलं प्रैषयत् । खरतरगच्छपट्टावल्याः एतस्य कथनस्य पुष्टिः वेरावलप्रशस्तिः अपि करोति [३४]

जेजाकभुक्तिप्रदेशे यदा पृथ्वीराजः विजयं प्रापत्, तदा नाइकीदेव्याः आदेशेन चालुक्यवंशीयः राजा भीमदेवः अजयमेरु-प्रदेशस्योपिर आक्रमणम् अकरोत् । अतः पृथ्वीराजः जेजाकभुक्तिप्रदेशस्य अन्यप्रदेशस्य विजयाभियानं स्थगयित्वा चालुक्यवंशीयैः सह युद्धं कर्तुं गतः । पृथ्वीराजभीमदेवयोः मध्ये दीर्घकालं यावत् युद्धम् अभवत् । १२४४ विक्रमसंवत्सरे पृथ्वीराजस्य विजयेन सह तस्य युद्धस्य अन्तः अभवत् । खरतगरगच्छपट्टावल्याः विवरणं, जैसलमेर-नागौर-बाडमेर-जोधपुर-तः प्राप्ताः शिलालेखाः, वेरावलप्रशस्तिः च पृथ्वीराजभीमदेवयोः युद्धपरिणामस्य पर्याप्तसूचनाः यच्छन्ति । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः भीमदेवद्वितीयम् अहन् । परन्तु यद्यपि ११९२ (ई.) तमे वर्षे पृथ्वीराजस्य मृत्युः अभवत्, तथापि भीमवेदवद्वितीयस्य स्थितिः १२३८ (ई.) पर्यन्तम् आसीत् इति प्रमाणैः सिद्ध्यते [३५]

घोरी-पृथ्वीराजयोः सङ्घर्षस्थितिः[सम्पादयतु]

मोहम्मद घोरी इत्येषः ११७५ (ई.) तमे वर्षे मुल्तान-प्रदेशस्योपरि आधिपत्यं प्रस्थाप्य तस्मिन्नेव वर्षे उच्छ-प्रदेशस्योपरि छलेन आधिपत्यम् अकरोत् । ततः ११८२ (ई.) तमे वर्षे दक्षिणसिन्धप्रदेशस्योपरि आक्रमणं कृत्वा शनैः शनैः तेन सिन्धुप्रदेशस्योपरि स्वाधिपत्यं स्थापितम् । अनेन सपादलक्षसाम्राज्यस्य, घोरी-शासितस्य सन्धुप्रदेशस्य सीमा समाना अभवत् । एवं घोरी इत्येषः पृथ्वीराजस्य प्रतिवेशी, शत्रुः च अभवत् । उभयोः पार्श्वे शत्रुतायाः स्वकारणम् अपि आसीत् । पृथ्वीराजः स्वप्रदेशस्य सीमारक्षणम् इच्छति स्म, परन्तु तस्य कृते तूर्क-जनानां प्रतिप्रेषणम् अनिवार्यम् आसीत् । अपरत्र घोरी इत्येतस्य विस्तारवादिनीतेः मार्गे पृथ्वीराजः कण्टकायते स्म । यतो हि भारतप्रदेशे सत्ताविस्ताराय पृथ्वीराजस्य अन्तः एव घोरी इत्यस्य लक्ष्यम् आसीत् [३६]

पृथ्वीराजविजये उल्लेखः वर्तते यत्, पश्चिमोत्तरदिशायां यः अश्वेभ्यः प्रसिद्धः प्रदेशः अस्ति, तस्य प्रदेशस्य गौमांसभक्षी म्लेच्छः घोरी इत्याख्यः राजा गर्जन-देशे निवसति । तूर्क-देशीयस्य तस्य गौमांसभक्षिणः विषये श्रुत्वा पृथ्वीराजः म्लेच्छानां नाशस्य प्रतिज्ञाम् अकरोत् । पृथ्वीराजेन म्लेच्छनाशस्य या प्रतिज्ञा कृता आसीत्, तस्याः विषये घोरी अपि अजानात् । अतः सः ११७७ (ई.) तमे वर्षे अजयमेरु-दुर्गं स्वदूतं प्रैषयत् । ततः अजयमेरोः राज्यसभायां नारङ्गः दूतः उपस्थितः । यदा सः दूतः अजमेरुप्रासादे उपस्थितः, तदा प्रासादे नागार्जुनदमनस्य उत्सवाचरणं भवति स्म । विधात्रा कपिलावधस्य प्रशस्तिं लेखितुम् एव तस्य ललाटस्य रचना कृता अस्ति इत्यादिभिः वाक्यैः तस्य दूतस्य विस्तीर्णस्य ललाटस्य उपहासः पृथ्वीराजविजयमहाकाव्ये प्राप्यते । पृथ्वीराजविजये अग्रे उल्लिखितं यत्, तस्य चिबुकस्य, भ्रुवोः, पक्ष्मणोः च केशाः तस्य प्रदेशस्य द्राक्षावत् श्वेतवर्णीयाः आसन् । तस्य मूर्धन्यवर्णाः (ट्, ठ्, ड्, ढ्, ण्) समाप्ताः आसन् । अर्थात् सः मूर्धन्यवर्णानाम् उच्चारणे असमर्थः आसीत् । अतः तस्य भाषा पक्षिणां कलरववत् प्रतिभाषते स्म । तस्य त्वक् कुष्ठरोगिवत् दरीदृश्यते स्म । तेन कृष्णवर्णस्य विचित्रं वस्त्रं धृतम् आसीत् [३७][३८]

इतः परं पृथ्वीराजविजयमहाकाव्ये केचन श्लोकाः न प्राप्यन्ते । अतः दूतस्य अजयमेरुप्रासादे उपस्थितेः प्रयोजनं निश्चिततया न ज्ञायते । परन्तु दूतस्य वचनं श्रुत्वा पृथ्वीराजः यदा प्रत्युत्तरं ददाति, ते श्लोकाः उपलब्धाः सन्ति । दूतस्य वचनं श्रुत्वा पृथ्वीराजस्य भीषणप्रतिक्रिया आसीत् । अत्यन्तक्रोधेन उच्चस्वरेण च पृथ्वीराजः अवदत्, "अहं तं (घोरी इत्येनं) किं वदानि ? सः बहुधा जानाति यत्, अहं तत्सदृशानां नरभक्षकाणां हत्यां कर्तुम् एव विजयाभियानस्य आरम्भम् अकरवम् । तत् ज्ञात्वापि सः मत्सदृशं, यं जनाः अजयमेरोः सिंहः इति सम्बोधयन्ति, तं दूतं प्रैषयत्" इति [३९] । पृथ्वीराजस्य उक्तं क्रोधपूर्णं वचनं सन्देशमाध्यमेन घोरी इत्यस्य सन्देशस्य अनुमानमेव कर्तुं शक्यते । इतिहासविदां मतम् अस्ति यत्, तस्मिन् काले यादृशी राजनैतिकस्थितिः आसीत्, तस्याः अनुगुणं तु घोरी इत्यनेन पृथ्वीराजं प्रति आत्मसमर्पणाय उत सन्धेः कृते सन्देशः प्रेषितः स्यात् । घोरी इत्यस्य दर्पपूर्णं प्रस्तावः पृथ्वीराजेन निराकृतः स्यात्, यतो हि चौहानवंशस्य, पृथ्वीराजस्य च स्वाभिमानात् विपरीतः सन्देशः स्यात् [४०]

पृथ्वीराजस्य सपादलक्षसाम्राज्यस्य सीमायाः, सिन्धुप्रदेशस्य सीमायाः च परिवर्तितराजनैतिकसमीकरणैः सह वीकमपुरस्यापि राजनैतिकमहत्त्वम् अवर्धत । यतो हि वीकमपुरस्य सीमया सह एव सिन्धु-सपादलक्षप्रदेशयोः सीमा सम्मिलति स्म । एवं वीकमप्रदेशस्य पश्चीमभागे सिन्धुप्रदेशस्य, पूर्वभागे सपादलक्षप्रदेशस्य च सीमा अविद्यत । तस्मिन् काले वीकमपुरे शासनं लोद्रवावंशस्य आसीत् । उक्ते राजनैतिकसमीकरणे राष्ट्रहितस्य बलिं दत्त्वा लोद्रवा-वंशीयः जैसल इत्याख्यः राजा घोरी इत्यस्य साहाय्यम् अकरोत् । यतो हि घोरी इत्यस्य साहाय्येनैव सः लोद्रवावंशस्य शासकोऽभवत् [४१]

पृथ्वीराजस्य घोरी इत्यस्य युद्धसङ्ख्याविवादः[सम्पादयतु]

घोरी इत्यनेन सह पृथ्वीराजस्य कति युद्धानि अभूवन् ? इत्यस्मिन् विषये विवादः अस्ति । यतो हि विभिन्नेषु ऐतिहासिकसाहित्येषु विभिन्नाः युद्धसङ्ख्याः प्रदत्ताः सन्ति । परन्तु सर्वत्र तयोः द्वयोः भीषणयुद्धयोः वर्णनम् उपलभ्यते । नरायनस्य प्रथमं युद्धं, नरायनस्य द्वितीयं युद्धम् इति ते युद्धे प्रसिद्धे । प्रथमयुद्धं ११९१ (ई.) तमे वर्षे, द्वितीयं युद्धं १९९२ (ई.) तमे वर्षे च अभवत् । प्रथमयुद्धे पृथ्वीराजस्य विजयः अभवत्, द्वितीये च पृथ्वीराजस्य पराजयः अभवत् ।

पृथ्वीराजरासोकाव्ये उल्लिखितं यत्, पृथ्वीराजः त्रिवारं (३) घोरी इत्येनं पारजित्य दण्डितम् अकरोत् [४२] । पृथ्वीराजः घोरी इत्येनं सप्तवारं (७) बन्दिनम् अकरोत् इति हम्मीरमहाकाव्ये प्राप्यते [४३] । प्रबन्धकोशे वर्णितं यत्, पृथ्वीराजः विंशतिवारं (२०) घोरी इत्येनं बन्दिनं कृत्वा प्रामुञ्चत [४४] । सुर्जनचरितमहाकाव्यानुसारम् एकविंशतिवारं पृथ्वीराजः घोरी इत्येनम् अदण्डयत् [४५] । प्रबन्धचिन्तामणिग्रन्थानुसारं त्रयोविंशतिवारं (२३) पृथ्वीराजः घोरी इत्येनम् अत्यजत् [४६]

घोरी इत्यनेन सह पृथ्वीराजस्य यानि युद्धानि अभूवन्, तेषां प्रमाणानि नोपलभ्यन्ते । अतः निश्चितसङ्ख्याविषये विवादः यथावत् विद्यते । परन्तु इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजस्य घोरी इत्येनेन सह अनेकवारं घर्षणम् अभवत् । बहुधा लघुघर्षणं कुत्रचित् बृहच्च । सर्वेषु घर्षणेषु पृथ्वीराजस्य एव विजयः अभवत् । अतः सङ्ख्या तु अस्पष्टा अस्ति, परन्तु पृथ्वीराजस्य विजयस्य निश्चितता सर्वत्र दरीदृश्यते । अन्तिमे युद्धे अर्थात् नरायनस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयः अभवत् ।

सतलजयुद्धम् ११८२-८३[सम्पादयतु]

सतलजयुद्धं पृथ्वीराजस्य घोरी इत्यनेन सह प्रप्रथमं युद्धम् आसीत् । तस्मिन् युद्धे घोरी इत्यस्य घोरपराजयः अभवत् । एतस्मिन् युद्धे घोरी इत्यस्य पराजयानन्तरमेव परमारवंशीयः सूरः प्रतिवर्षं गझनी-प्रदेशं गत्वा करं स्वीकरोति स्म । सतलजयुद्धस्य विवरणं बहुत्र न प्राप्यते, अतः पृथ्वीराजस्य घोरी इत्येन सह युद्धद्वयम् एवाभवत् इति भ्रमणा अस्ति । फलवर्द्धिका-शिलालेखस्य विवरणेन सप्रमाणं सतलजयुद्धस्य पुष्टिः भवति । सतलजयुद्धस्य विषये हम्मीरमहाकाव्यस्य तृतीयसर्गे उल्लेखः प्राप्यते ।

पृष्ठभूमिः[सम्पादयतु]

न्यायपूर्णशासनं कुर्वन् राजा पृथ्वीराजः एकदा राजसभां शोभयन् आसीत् । तस्मिन्नेव काले चन्द्रराज-नामकः कश्चन राजा पृथ्वीराजस्य सम्मुखम् उपस्थितः । सः चन्द्रराजः पश्चिमदिशायाः राज्ञां प्रमुखः आसीत् । ते राजानः भयभीताः, निरुत्साहिनः च आसन् । यतो हि घोरी इत्याख्यः यनवराजा स्वसाम्राज्यविस्तारस्य नीतेः पोषणाय अन्यप्रदेशेषु आक्रमणं कुर्वन् आसीत् । तेन यनवराज्ञा परास्ताः पश्चिमदिशायाः सर्वेऽपि राजानः न्यायमूर्तेः पृथ्वीराजस्य साहाय्यम् इच्छन्ति स्म । पृथ्वीराजः तेषां मूर्छितवदनानि दृष्ट्वा तेषां क्लेशस्य कारणम् अपृच्छत् । चन्द्रराजः अवदत्, "हे राजन् ! पश्चिमदिशः घोरी इत्याख्यः यवनराजा अन्यसाम्राज्यानि पदाक्रान्तानि कुर्वन् अनेकेषां राज्यानां सर्वनाशम् अकरोत् । तेन यस्मिन् राज्ये आक्रमणं कृतं, तस्य राज्यस्य सर्वाणि नगराणि तेन लुण्ठितानि, मन्दिराणि अग्निसात् कृतानि च । राज्यानां स्त्रियः भ्राष्टाः अभूवन्, तस्य क्रूरतायाः कारणेन तासां स्थितिः अति दयनीया अभवत् । सः यं कमपि सशस्त्रं राजपूतं पश्यति, तं यमलोकं प्रेषयति । सद्यः घोरी इत्यस्य राजधानी मुल्तान-प्रदेशः अस्ति" इति ।

चन्द्रराजस्य वचनं श्रुत्वा पृथ्वीराजः क्रोधेन समुत्थाय अवदत्,

"अहं तं म्लेच्छं यवनं पराजितं कृत्वा स्वचरणयोः न नमयामि चेत्, अहं चौहानवंशीयम् आत्मानं न मन्यीय" इति ।

ततः पृथ्वीराजः अति गर्वेण स्वश्मश्रु हस्तेन कुतक्वतयत् (titillate, सहलाया) । पृथ्वीराजः चतुरङ्गिणीसेनया सह मुल्तान-प्रदेशस्योपरि आक्रमणाय अगच्छत् ।

सतलजयुद्धम्[सम्पादयतु]

वीकमपुर-उच्छप्रदेशयोः मध्ये एकस्मिन् विशालभूखण्डे पृथ्वीराजस्य घोरी इत्यनेन सह युद्धम् अभवत् । इतिहासविदां मतम् अस्ति यत्, तत् युद्धं ११८२-८३ (ई.) तमे वर्षे अभवत् इति । यतो हि तत् युद्धं सतलजनद्याः तीरे अभवत्, अतः तस्य युद्धस्य नाम सतलजयुद्धम् इति । पृथ्वीराजस्य विशालसेनायाः आक्रमणेन घोरी इत्यस्य सेना युद्धात् पलायनम् अकरोत् (पलायत) । पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत् । घोरी इत्यस्य दयनीया स्थितिः हम्मीरमहाकाव्ये स्पष्टतया न वर्णिता । परन्तु तत्र उल्लिखितं यत्, पृथ्वीराजस्य सम्मुखं नतमस्तकः घोरी इत्येषः तदा स्वतन्त्रः अभवत्, यदा तेन पृथ्वीराजाय वार्षिककरदानस्य सङ्कल्पः कृतः ।

इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन राष्ट्रसङ्कटस्य प्रतीकारं कृत्वा घोरी इत्यनेन सह युद्धस्य निर्णयः स्वीकृतः । तस्य युद्धस्य परिणामः घोरी इत्यस्य कृते भयङ्करः आसीत् । तस्य युद्धस्यानन्तरं घोरी पृथ्वीराजस्य करदः (करदाता) अभवत् इति । पृथ्वीराजस्य आदेशेन परमारवंशीयः सूरः प्रतिवर्षं गझनी-प्रदेशं गत्वा करं स्वीकरोति स्म । एकदा एकाकिनं सूरं तूर्क-जनाः अमारयन् । परन्तु सूरः ७४ तुर्कसैनिकान् मारयित्वा स्वर्गम् अगच्छत् । सूरस्य मृत्योः अनन्तरं पृथ्वीराजः प्रतापसिंह-नामकम् अधिकारिणं करं स्वीकर्तुं न्ययुङ्क्त [४७] । परन्तु प्रतापसिहः स्वामिभक्तः, धर्माचारी च नासीत् । सः तुर्क-देशीयानां दासः अभवत् । गझनी-प्रदेशात् यत् किमपि धनं कररूपेण पृथ्वीराजस्य राजकोषाय गच्छति स्म, तस्य धनस्य बृहद्भागं प्रतापसिंहः मार्ग एव 'मस्जिद्' इत्येतेषु स्थलेषु, तत्रत्येभ्यः यवनेभ्यः दानरूपेण यच्छति स्म । कोऽपि यदा दानविषये किमपि पृच्छति स्म, तदा सः कथयति स्म यत्, पृथ्वीराजः विषमग्रहदोषं निवारयितुं दानं यच्छति इति [४८]

प्रतिवर्षं घोरी-तः करग्रहणम्[सम्पादयतु]

पृथ्वीराजः अनेकवारं घोरी इत्येनं बन्दिनं कृत्वा अपमानितम् अकरोत् । पृथ्वीराजः प्रतिवर्षं घोरी इत्यस्मात् दण्डत्वेन वार्षिककरं स्वीकरोति स्म । पृथ्वीराजस्य करग्रहणस्य पुष्टिं शिलालेखाः अपि कुर्वन्ति । पृथ्वीराजस्य करस्वीकरणस्य विषये अनेकैः फारसी-कविभिः भ्रमः समुत्पादितः, परन्तु राजस्थानराज्यात् फलवर्धिका इत्याख्येन शिलालेखेन पृथ्वीराजस्य करस्वीकरणस्य घटनायाः पुष्टिः कृता । फलवर्द्धिका-नामके स्थले स्थितं फलौदीदेव्याः मन्दिरस्य जीर्णोद्धारकाले तस्य शिलालेखस्य स्थापना अभवत् । सः शिलालेखः १५५५ तमविक्रमसंवत्सरस्य चैत्रमासस्य शुक्लैकादश्यां (११/०१/१५५५) तिथौ गुरुवासरे प्रस्थापितः [४९] । डाहलदेशस्य अधिपतिः परमारवंशीयः राजा मधुदेवः आसीत् । तस्य यशस्वी पुत्रः सूरः पृथ्वीराजस्य आज्ञया प्रतिवर्षं वार्षिकदण्डं स्वीकर्तुं गझनी-प्रदेशं गच्छति स्म । एकदा स एकाकी एव करं स्वीकर्तुं गझनी अगच्छत् । एकाकिनः सूरस्य उपरि घोरी इत्यस्य सैनिकाः आक्रमणम् अकुर्वन् । योद्धा सूरः ७४ यवनान् मारयित्वा अन्ते प्राणान् अत्यजत् [५०]

गुजरातराज्ये घोरी इत्यस्य पराजयः ११७८[सम्पादयतु]

११७७ तमे वर्षे पृथ्वीराजेन यदा नागार्जुनस्य दमनं कृतम् आसीत्, तदा नागार्जुनदमनानन्तरम् अजमेरुप्रासादे उत्सवः आसीत् । तस्मिन् उत्सवे घोरी इत्यस्य दूतः पृथ्वीराजं सन्धेः उत समर्पणस्य कृते अवदत् । यदा घोरी इत्येषः सपादलक्षसम्राज्यं दूतं प्रैषयत्, तदैव तस्य गुजरातराज्यस्योपरि आक्रमस्य योजना आसीत् । अतः तस्य इच्छा आसीत् यत्, चालुक्यवंशीयानां, चौहानवंशीयैः सह या शत्रुता अस्ति, तस्याः आधारेण चौहानवंशेन सह मिलित्वा गुजरातराज्यस्योपरि आक्रमणं करोमि इति । परन्तु पृथ्वीराजस्य विरोधानन्तरं घोरी इत्येषः स्वयं गुजरातराज्यस्योपरि आक्रमणम् अकरोत् । एकवर्षं यावत् स्वसैन्यविस्तारस्य नीतौ कार्यं कृत्वा सः ११७८ तमे वर्षे गुजरातराज्यस्योपरि आक्रमणम् अकरोत् सः । परन्तु गुजरातराज्यस्य मार्गे उच्छप्रदेशः आसीत् । अतः तेन प्रप्रथमम् उच्छप्रदेशस्योपरि आक्रमणं कृतम् ।

कपटेन उच्छप्रदेशविजयः[सम्पादयतु]

मुल्तान-प्रदेशात् भारतं सम्प्राप्तः घोरी इत्येषः उच्छप्रदेशस्योपरि आक्रमणम् अकरोत् । परन्तु उच्छप्रदेशैः शूरवीरेभ्यः राजपूतेभ्यः घोरी इत्येषः भयभीतः अभवत् । राजपूतानां सम्मुखं घोरी इत्यस्य विजयः असम्भवः आसीत् । अतः तेन कपटेन उच्छप्रदेशस्योपरि आधिपत्यस्य योजना रचिता । घोरी इत्यस्य गुप्तचरैः ज्ञातं यत्, उच्छप्रदेशस्य राज्ञः सम्बन्धः स्वराज्ञ्या सह सरलः न सन्ति इति [५१][५२] । अतः घोरी इत्येषः राज्ञीं सन्देशं प्रैषयत् । तस्मिन् सन्देशे तेन लिखितं यत्, यदि भवती स्वपतये विषं दत्त्वा मारयति, तर्हि अहं भवत्या सह विवाहं करिष्यामि इति । घोरी इत्यस्य सन्देशस्य प्रत्युत्तरत्वेन राज्ञी अलिखत्, अहं तु प्रौढा (अधेड़, middle aged) अभवम् । अहं विवाहं कृत्वा किं करवाणि ? परन्तु मम पुत्र्या सह भवान् विवाहं करोति चेत्, अहं भवतः ईप्सितं कार्यं कर्तुं शक्नोमि इति ।

राज्ञ्याः प्रत्युत्तरं प्राप्य घोरी इत्यनेन अनुक्षणं स्वसम्मतिपत्रं प्रेषितम् । यतो हि तस्य उद्देशः उच्छप्रदेशे आधिपत्यस्थापनम् इति आसीत् । विवाहादिविषयाः तु तस्य कपटस्य भागत्वेन आसन् । ततः उच्छप्रदेशस्य राज्ञी स्वपतये विषं दत्त्वा तम् अमारयत् । दुर्गस्य कोषागारस्य, शस्त्रागारस्य च तालिकां घोरी इत्येनं प्रैषयत् । एवं छलेन, कपटेन च घोरी इत्येषः उच्छप्रदेशस्य अधिपतिः अभवत् । घोरी इत्येषः यदा उच्छप्रदेशाधिपतिः अभवत्, तदा तेन उच्छप्रदेशस्य राज्ञी, राजकुमारी च गझनी-प्रदेशं प्रेषिते । यदा राजकुमारी स्वमातुः कृत्यम् अजानात्, तदा तया मातुः तिरस्कारः कृतः । स्वाचरणस्य दोषभावेन, पुत्र्याः घृणायाः कारणेन च राज्ञी स्वप्राणान् अत्यजत् । ततः कानिचन दिनानि संसारेऽस्मिन् दुःखानि सोढ्वा राजकुमारी अपि संसारम् अत्यजत् । डॉ. हबीबुल्लाह इत्यस्य मते उच्छप्रदेशे भट्टीराज्ञां शासनस्य प्रमाणानि न सन्ति । अतः इब्न असीर, यहिया सरहिन्दी, निजामुद्दीन अहमद, फरिस्ता इत्यादिभिः रचिता एषा घटना काल्पिनिकी अस्ति [५३] । परन्तु घोरी इत्यनेन उच्छप्रदेशस्योपरि कपटेन आधिपत्यं कृतम् इत्यस्मिन् विषये सर्वेऽपि इतिहासविदः सम्मताः सन्ति ।

उच्छप्रदेशस्योपरि स्वाधिपत्यं प्राप्य घोरी इत्यनेन मार्गे किराडू-नामके स्थले स्थितं सोमेश्वरमहादेवस्य मन्दिरं लुण्ठितम् । शिवस्य तन्मन्दिरं राजस्थानराज्ये अतिप्रसिद्धम् आसीत् । सुन्दररत्नैः अलङ्कृतं भव्यं तत् मन्दिरं लुण्ठयित्वा तस्य मन्दिरस्य पूर्णतया नाशं कृत्वा घोरी गुजरातराज्यं प्रति अगच्छत् । सः साण्डेराव-प्रदेशम् उपसृत्य नाडोलियाचौहानवंशीयानां नाडोल इत्याख्यायाः राजधान्याः उपरि आक्रणम् अकरोत् । तस्मिन् काले नाडोल-प्रदेशे चालुक्यानां सामन्तत्वेन क्लहणवंशीयाः शासनं कुर्वन्तः आसन् । राजस्थाने स्थिते तस्मिन् नाडोल-नगरे तूर्क-सैनिकैः मन्दिराणि अग्निसात्कृतानि, नागरिकाः लुण्ठिताः च [५४] । घोरी इत्यनेन नाडोल-नगरस्य यत् अधःपतनं कृतं, तस्य समाचारं पृथ्वीराजः प्रापत् । ततः क्रोधेन तेन घोरी इत्यस्य दर्पभङ्गस्य प्रतिज्ञा कृता । सः स्वसैनिकैः सह शस्त्राणि नीत्वा सज्जः अभवत् ।

यूनः पृथ्वीराजस्य मतम् आसीत् यत्, चालुक्यानां, चौहानवंशस्य च समस्या गृहसमस्या अस्ति । बहिस्तात् आगतः कश्चन म्लेच्छः भारतदेशस्योपरि आक्रमणं कृत्वा भारतस्य अस्मितां हन्तुं न शक्नोति इति । अतः अस्माभिः गुजरातराज्यस्य सैन्यसाहाय्यं करणीयमेव । परन्तु युवपृथ्वीराजस्य क्रोधं शान्तं कुर्वन् सपादलक्षसाम्राज्यस्य मण्डलेश्वरः कैमासः स्वकूटनैतिकव्याख्याम् उपास्थापयत् । यत् –

राजन्नवसरो नायं रूषां भाग्यनिधेस्तव ।

किं क्रमेलकभक्ष्येषु तार्क्ष्यः फणिषु कुप्यति ।। पृथ्वीराजविजयमहाकाव्यं, सर्गः १०, श्लो. २ ।।

हे राजन् ! एषः समयः क्रोधस्य नास्ति । भाग्यवशात् एषोऽवसरः सम्प्राप्तः । ऊष्ट्रोऽपि भक्षणं कुर्यात्, तादृशेषु सर्पषु गरुडः किमर्थँ कोपं कुर्यात् ? अर्थात् अनायासेनैव एषः अवसरः प्राप्तः अस्ति, यस्मिन् प्रतिद्वन्द्विनौ परस्परं युद्धं कृत्वा स्वशक्तिं, स्वबलं च क्षीणं करिष्यतः । स्वतर्कं मण्डयितुं कैमासः सुन्दोपसुन्दराक्षसयोः, तिलोत्तमायाः च पौराणिककथाम् अपि अश्रावयत् । यथा सुन्दोपसन्दौ द्वौ असुरभ्रातरौ तिलोत्तमायाः सौन्दर्ये आसक्तौ परस्परं युद्धं कृत्वा नष्टौ अभवताम्, तथा एतयोः (घोरी इत्यस्य, चालुक्यवंशस्य च) नाशः भविष्यति इत्याशयः आसीत् [५५]

कैमासस्य एतस्य राजनैतिकतर्कस्य सर्वैः इतिहासविद्भिः निन्दा कृता । यतो हि स्वदेशस्य विषये विचिन्त्य युवपृथ्वीराजः चालुक्यैः सह स्वसमस्यां गृहसमस्यात्वेन परिगण्य गुजरातराज्यस्य साहाय्यार्थम् उद्यतः अभवत् । परन्तु कैमासस्य जटिलतर्के भ्रान्तः युवपृथ्वीराजः तद्देशस्योपरि जातस्य आक्रमणस्य द्रष्टा एव अभवत् । केचन इतिहासविदः कथयन्ति यत्, यदि तस्मिन् काले पृथ्वीराजः गुजरातराज्यस्य साहाय्यम् अकरिष्यत्, तद्देशस्योपरि यत् आक्रमणं जातम् आसीत्, तस्य प्रतीकारम् अकरिष्यत्, तर्हि वर्तमानभारतस्य सीमा, वर्तमानभारतस्य स्थितिः च भिन्ना अभविष्यत् इति [५६]

चालुक्येभ्यः पराजयः[सम्पादयतु]

नाडोलदुर्गस्योपरि स्वाधिपत्यं प्रस्थाप्य सम्पूर्णं नाडोल-नगरं लुण्ठयित्वा घोरी इत्येषः मीरपुर-तः सेवाडीस्थस्य, हस्तिकुण्डी-स्थानस्य च मन्दिराणि लुण्ठयन् झालोडी-नामकं स्थलं प्रापत् । ततः आबूपर्वतमालायाः समीपस्थं कासह्रदं (कासह्रद-ग्रामः सद्यः काशिन्द्रा नाम्ना प्रसिद्धः, सः ग्रामः राजस्थानराज्यस्य सिरोहीमण्डले स्थितोऽस्ति ।) प्रापत् [२९] । यदा घोरी इत्येषः कासह्रदं प्रापत्, तदैव गुजरातराज्यस्य विशालसेना तस्य मार्गम् अवारुणत् (अवरोधितम् अकरोत्) । गुजरातराज्यस्य सेनायाः प्रतिनिधित्वं नाडोलप्रदेशस्य प्रख्यातः सेनापतिः केल्हणः, तस्य अनुजः कीर्तिपालः च कुरुतः स्म । (कल्हणः सोनिगराचौहानवंशस्य स्थापनाम् अकरोत्) आबूप्रदेशस्य, चन्द्रावतीप्रदेशस्य च परमारवंशीयः शासकः धारावर्षः तथा चालुक्यवंशीयस्य अवस्यकस्य नरेशस्य मूलराजद्वितीयस्य माता नाईकीदेवी युद्धे भागम् अवहताम् । मिन्हाज इत्यनेन तबाकाते नासिरी इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, तस्मिन् काले भीमदेवद्वितीयः गुजरातराज्यस्य नरेशः आसीत् । तस्यैव वचनस्य अन्धानुकरणं केचन परवर्तिलेखकाः अकुर्वन् । परन्तु अभिलेखीयसाक्ष्येन सिद्धं कृतं यत्, तस्मिन् काले गुजरातराज्यस्य नरेशः मूलराजद्वितीय एव आसीत् इति [५७]

घोरी इत्यस्य सेनया सह गुजरातराज्यस्य विशालसेनायाः युद्धम् अभवत् । तस्मिन् युद्धे गुजरातराज्यस्य सेनया तूर्कि-सेनायाः निकन्दनं कृतम् । बहवः तूर्कसैनिकाः मृताः, केचन रणक्षेत्रं त्यक्त्वा अधावञ्च । 'तारिखे फरिश्ता' इत्यस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्, घोरी इत्येषोऽपि येन केन प्रकारेण स्वप्राणान् रक्षन् युद्धक्षेत्रात् पलायत [५८] इति । सून्धालेखस्य निर्माणं १३१९ तमे विक्रमसंवत्सरे अभवत् [५९] । तस्मिन् सून्धाशिलालेखे अपि केल्हणकीर्तिपालाभ्यां तुरुष्कपराजयस्य (तुरुष्क इति घोरी इत्यस्य अपरनाम) विवरणं प्राप्यते ।

पृथ्वीराजविजयमहाकाव्ये उल्लेखः प्राप्यते यत्, गुजरातराज्यस्य विजयस्य समाचारं दातुं गुजरातराज्यात् एकः दूतः सपादलक्षं सम्प्राप्तः । पृथ्वीराजस्य सम्मुखं तेन तुरुष्कविजयस्य सम्पूर्णं विवरणं विस्तारेण निवेदितम् । पृथ्वीराजः दूतस्य उचितसम्माननं कृत्वा पुनः प्रैषयत् । ततः पृथ्वीराजः स्वमन्त्रिणं राष्ट्रनीतेः विषयम् अबोधयत् [६०] । पृथ्वीराजः कैमासाय स्वराष्ट्रनीतेः ज्ञानविकासाय स्पष्टशब्दैः परामर्शम् अयच्छत् । इतिहासविदां मतम् अस्ति यत्, ११९१-११९२ मध्ये सपादलक्षसदृशं विशालसाम्राज्यं तूर्काक्रमणविषयीभूतं, तस्य पृष्ठे कैमासस्य असफलकूटनीतिः एव कारणभूता आसीत् ।

यथा महमूद गझनवी इत्येषः १५० वर्षेभ्यः प्राक् गुजरातराज्यस्योपरि आक्रमणं कृत्वा गुजरातराज्यम् अलुण्ठत्, तथैव घोरी इत्यस्य ईप्सा आसीत् । परन्तु आबूपर्वतमालायाः तले घोरी इत्यस्य घोरपराजयः अभवत् । इतिहासविदां मतमस्ति यत्, घोरी इत्यस्य महमूद गझनवी इत्यनेन सह तुलना अयोग्या एव । यतो हि गझनवी इत्येतस्य योद्धुः बुद्धिः सङ्कटकाले अति प्रखरा भवति स्म । तस्मात् विपरीतः सः कृष्णवर्णीयः, कुरूपी घोरी इत्येषः स्वभावेन लम्पटः, धूर्तः, कपटी च आसीत् । तेन यानि यद्धानि कृतानि, तेषु सर्वेषु तेन कपटस्य एव मार्गः स्वीकृतः [६१]

गुजरातराज्ये पराजितः घोरी इत्येषः ११८२-८३ (ई.) तमे वर्षे लाहौर-प्रदेशस्यौपरि आक्रमणम् अकरोत् । ततः घोरी इत्यस्य साम्राज्यस्य सीमा पञ्जाबराज्यस्य अन्तिमनद्याः समीपे अर्थात् सतलजनद्याः समीपे अभवत् । सतलजनद्याः अपरतीरात् सपादलक्षसाम्राज्यस्य आरम्भः भवति स्म । सरहिन्द इत्येषः, फरिश्ता इत्येषः च समादलक्षसाम्राज्यस्य प्रप्रथमं सैन्यावासमेव 'तपहिन्दा' इति समबोधयताम् । सपादलक्षसाम्राज्यस्य सीमया सह घोरी इत्यस्य साम्राज्यस्य सीमायाः मेलनात् घर्षणस्य स्थितिः समुद्भूता । तत एव सतलजयुद्धम् अभवत्, यस्मिन् घोरी इत्यस्य पराजयः अभवत् ।

तराइनयुद्धं नरायनयुद्धं वा [६२][सम्पादयतु]

पृथ्वीराजस्य घोरी इत्यनेन सह युद्धं कुत्र अभवत् ? इत्यस्मिन् विषये विद्वत्सु मतभेदाः सन्ति । मिन्हाज सिराज इत्यनेन युद्धक्षेत्रस्य नाम नरायन [६३] इति उल्लिखितम् । तारीखे फरीश्ता इत्याख्ये ग्रन्थे युद्धक्षेत्रस्य नाम तरायन इत्युक्तम् अस्ति । अपरत्र तस्य कथनम् अस्ति यत्, तराइन उत तरायन अधुना तरावडी इति नाम्ना प्रसिद्धम् अस्ति [६४] । डॉ. खलिक अहमद निजामी, डॉ. हबीबुल्लाह इत्येतौ फरिश्ता-ग्रन्थस्य समर्थनम् अकुरुताम् । यतो हि तयोः मतम् अस्ति यत्, लिपिकर्तुः दोषेण तरायन इत्यस्य स्थाने नरायन इति अभवत् । डॉ. हबीबुल्लाह यस्य तरायनक्षेत्रस्य समर्थनं करोति, तत् थानेश्वरात् दक्षिणदिशायां १४ मील दूरे अस्ति । परन्तु तस्य मतानुसारं तोरावाना इत्याख्यं स्थलं तरायनयुद्धक्षेत्रम् आसीत् । तत् तोरावाना इत्याख्यं क्षेत्रं राजस्थानराज्यस्य सिरसामण्डलस्य कलांवत-उपमण्डलस्य समीपस्थं स्थलम् अस्ति ।

डॉ. हबीबुल्लाह इत्यस्य मताधारः जनरल कनिंघम इत्यस्य ग्रन्थः अस्ति । 'आर्कियोलोजिकल सर्वे ऑफ् इण्डिया' इत्यत्र जनरल कनिंघम अलिखत्, तराइनयुद्धं भटिण्डा-तः २७ मील दूरे स्थिते कस्मिँश्चित् स्थाने अभवत् । तत् स्थानं सद्यः तोरावाना इति प्रसिद्धम् अस्ति इति [६५] । कनिंघम इत्येषः भटिण्डा-सिरसा-मण्डलयोः मध्ये स्थितस्य यस्य क्षेत्रस्य विषये उल्लिखति, तस्य आधारः 'याहिया सरहिन्दी' इत्यस्य पुस्तकम् अस्ति । याहिया सरहिन्दी इत्यनेन 'तारीखे मुबारकशाही' इत्यस्मिन् पुस्तके उल्लिखितं यत्, एतत् युद्धं खित्तये-सुरसुती इत्यस्य युद्धं तराइनक्षेत्रे अभवत् इति [६६] । 'तारीखे मुबारकशाही' इत्यस्य सम्पादनं शम्सुलउम्मा मुहम्मद हिदायत हुसैन इत्यनेन यासां तालपत्राणाम् आधारेण कृतम् अस्ति, तासु केचन राजस्थानराज्यस्य आजमगढमण्डले अपि सन्ति । आजमगढमण्डलस्य दारूल-मुसन्नफीन-स्थानस्य त्रिषु पत्त्रेषु एकस्मिन् "खितत्ये सरसुती" इत्यस्य स्थाने केवलं "सरसुती", "मेंतराइन" इत्यस्य स्थाने "तराई" एव मुद्रितम् अस्ति [६७]

वास्तव्येन तद् युद्धं नरायनक्षेत्र एव अभवत् । तबकाते-नासिरी, तारिखे-मुबारतशाही इत्येयोः अपि एतदेव मतम् । 'याहिया सरहिन्दी' इत्यस्य शुद्धमुद्रिते ऐतिहासिकपाठे प्राप्यते यत्, सरस्वतीनद्यायाः तीरे 'तराई' इत्यत्र स्थिते नरायनक्षेत्रे एव युद्धम् अभवत् इति । फारसीभाषायाः मूलपाठे कुत्रापि दोषः नास्ति, परन्तु आङ्गालानुवादं ज्ञात्वा उत अज्ञानवशात् एषः दोषः प्रविष्टः । तेनैव युद्धस्थलविषये विवादः समुद्भूतः । इतिहासविदां चर्चायाः निष्कर्षः अस्ति यत्, पृथ्वीराजस्य घोरी इत्यनेन सह युद्धं नरायनक्षेत्रे एव अभवत् [६८] । एतस्य दृढतया अनेके इतिहासविदः समर्थनं कुर्वन्ति । तेषु प्रो एस् एच् होदीवाला अपि अन्तर्भवति [६९] । अतः भौगोलिकैतिहासिकतथ्यैः युद्धक्षेत्रस्य नाम नरायन एव आसीत् । यतो हि तारावडी इति स्थलं नरायनक्षेत्रस्य समीपतमं स्थलम् अस्ति, अतः वयं नरायन-तरावडी-युद्धम् इति वक्तुं शक्नुमः । सिरसामण्डले स्थितस्य तोरवाना-स्थलं नारयनयुद्धक्षेत्रत्वेन ज्ञानं भ्रामकसन्दर्भाणां परिणामः आसीत् [७०]देहली-तः नरायनक्षेत्रं १३५ कि.मी दूरे अस्ति, थानेश्वरात् नरायनक्षेत्रं २१ कि.मी दूरे अस्ति । एतत् 'तारीखे फरिश्ता'-पुस्तके अपि उल्लिखितम् । कनिंघम इत्यस्य तोरवना-स्थलं देहली-तः ३४२ कि.मी. दूरे अस्ति, अतः भौगोलिकविवरणानुसारमपि जनरल कनिंघम इत्यस्य सूचना असत्या अस्ति इति सिध्यति ।

प्रथमं नरायनयुद्धम्[सम्पादयतु]

नरायनस्य प्रथमेयुद्धे घोरी इत्यस्य पराजयः

११७५ तः ११९१ पर्यन्तं घोरी इत्यनेन भारतस्य समीपवर्तिप्रदेशेषु, भारतीयप्रदेशेषु च बहूनि आक्रमणानि कृतानि । ११९० तमे वर्षे नरायनस्य प्रथमं युद्धम् अभवत् । तस्मिन् युद्धे घोरी इत्यस्य पराजयः अभवत् तथा च पृथ्वीराजेन घोरी इत्येषः बिन्दी अपि अभवत् ।

पृष्ठभूमिः[सम्पादयतु]

घोरी इत्येषः ११९० तमे वर्षे प्रप्रथमवारं सुनियोजितरीत्या सपादलक्षसाम्राज्यस्योपरि आक्रमणम् अकरोत् । सतलजनदीम् उल्लङ्घ्य सपादलक्षसाम्राज्यस्य सरहिन्द-स्थलस्योपरि घोरी इत्येषः आक्रमणम् अकरोत् । सरहिन्ददुर्गस्य सैनिकैः घोरी इत्यस्य प्रतीकारः कृतः, परन्तु घोरी इत्येषः तस्मिन् दुर्गे आधिपत्यस्थापने सफलः अभवत् । सरहिन्ददुर्गस्योपरि आधिपत्यं प्रस्थाप्य घोरी इत्येषः जियाऊद्दीन तोलकी (बहाउद्दीन टोंकी) इत्याख्याय स्वसेवकाय शासनं दत्त्वा गझनी-प्रदेशं प्रत्यगच्छत् [७१] । जियाऊद्दीन तोलकी इत्येषः 'तबकाते नासिरी' इत्यस्य पुस्तकस्य लेखकस्य मिन्हाज इत्येतस्य पितृव्यपुत्रः आसीत् । स्वभ्रातुः विषये मिन्हाज इत्येषः अलिखत् यत्, दुर्गस्य रक्षणाय घोरी इत्येषः १२,००० अश्वारोहिसैनिकान् न्ययुङ्क्त । 'तारिखे फरिश्ता' इत्यस्मिन् पुस्तके अश्वारोहिणां सङ्ख्या १०४० प्राप्यते [७२]

पृथ्वीराजः यदा सरहिन्ददुर्गस्योपरि आक्रमणस्य समाचारं प्रापत्, तदा सः स्वसामन्तैः सह सरहिन्द-प्रदेशं प्रति यात्राम् आरभत । पृथ्वीराजस्य सेनायां २,००,००० अश्वोरोहिणः, ३,००० हस्तिनः च आसन् । फरिश्ता-पुस्तके उल्लिखितं यत्, पृथ्वीराजः सरहिन्दप्रदेशं प्रति विशालसेनया सह यात्राम् आरभत इति घोरी इत्येषः यदा अजानात्, तदा सोऽपि विशालसैन्यबलं सङ्गृह्य सरहिन्दप्रदेशं प्रति यात्राम् आरभत । सद्यः यत् स्थलं 'तरावडी' इति प्रसिद्धं तत्स्थलं तदा तस्य नाम नरायन आसीत्, तस्मिन् क्षेत्रे उभयोः सेनयोः मध्ये भीषणं युद्धम् अभवत् इति ।

व्यूहरचना[सम्पादयतु]

नरायनयुद्धस्य व्यूहरचनायाः वर्णनं 'फरिश्ता' इत्याख्ये पुस्तके प्राप्यते । तत्र उल्लिखितं यत्, राजपूतानां व्यूहबद्धां विशालसेनां यदा घोरी इत्येषः अपश्यत्, तदा सोऽपि स्वसेनां व्यूहबद्धां कर्तुं सेनायाः भागत्रयम् अकरोत् । राजपूतानां सेनां दृष्ट्वा घोरी इत्यस्य मनसि विशादः समुद्भूतः । पराजयस्य भयेन तेन शीघ्रं हि स्वसेना भागत्रये विभाजिता, यतो हि राजपूतानां सेना भागत्रये विभक्ता आसीत् । मध्यभागस्य सेनायाः नेतृत्वं घोरी इत्येषः कुर्वन् आसीत् [७३]

पृथ्वीराजस्य त्रिभागेषु विभक्तायां सेनायां मध्यभागे गजसेना प्रबलाक्रमणं कर्तुं सज्जा आसीत् । पृथ्वीराजस्य सेनायाम् आक्रमणस्य मुख्यदायित्वम् अश्वारोहिणीसेनायाः आसीत् । अश्वारोहिणीसेनायाः पृष्ठे त्रिषु विभागेषु विभक्ताः असिसैनिकाः, शूलसैनिकाः च आसन् । पादातीनां (पैदल सेना), गजसेनायाः च मध्ये सञ्चालकत्वेन भट्टारकपरमेश्वरः आसीत् । तत्रैव स्वप्रियगजे आरूढः भारतेश्वरः पृथ्वीराजः युद्धस्य नेतृत्वं कुर्वन् आसीत् । यदा सेना स्वशत्रूणां प्रतीकाराय भागत्रये विभक्ता भवति, तदा विरुद्धसेनायाः उपरि भीषणाक्रमणस्य दायित्वं वामभागस्य, दक्षिणभागस्य च भवति । समरतन्त्रस्य भागत्वेन सेनापतयः एतादृशं व्यूहं रचयन्ति ।

युद्धम्[सम्पादयतु]

उभयतः सेने अग्रे अधावेताम् । प्रप्रथमं पृथ्वीराजस्य पृष्ठभागस्य अश्वारोहिणीसेना घोरी इत्यस्य वामभागस्य, दक्षिणभागस्य च सेनायाः उपरि आक्रमणम् अकरोत् । घोरी इत्यस्य सैनिकाः तत् घातकम् आक्रमणं सोढुं न शक्तवन्तः । अतः प्राणरक्षायै सेनायाः मध्यभागं प्रति पलायन्त । एवं तूर्कसेनायाः व्यूहः ध्वस्तः अभवत् । घोरी इत्यस्य सर्वेऽपि विभागाः मिश्रिताः अभूवन् । तस्मिन् व्यूहे ध्वस्ते अनेके यवनसैनिकाः मृताः । राजपूतानाम् आक्रमणेन तूर्कसेनायाः दिग्गजसैनिकाः अपि रणक्षेत्रं त्यक्त्वा पलायन्त । युद्धारम्भानन्तरं घोरी इत्येषः देहलीप्रदेशस्य गोविन्दं प्रति अगच्छत् । घोरी इत्येनं स्वं प्रति आगच्छन्तं दृष्ट्वा गोविन्दः अपि तेन सह योद्धुम् अग्रे अगच्छत् । ततः तयोः भीषणयुद्धम् अभवत् । घोरी इत्येषः गोविन्दस्योपरि स्वशूलेन प्रहारम् अकरोत् । सः शूलः गोविन्दस्य मुखं प्रविष्टः । शूलप्रहारेण गोविन्दस्य दन्ताः अपि अपतन् । शूलः गोविन्दस्य मुखात् प्रविश्य कण्ठपर्यन्तम् अन्तः अगच्छत् । ततः गोविन्दोऽपि प्रति प्रहारम् अकरोत् । गोविन्दः स्वशूलप्रहारेण घोरी इत्यस्य भुजायाम् आघातम् अकरोत् । सः आघातः अति शक्तिशाली आसीत् । भीतः घोरी स्वाश्वस्य दिशां परिवर्त्य युद्धक्षेत्रात् अधावत् । परन्तु आहतः घोरी इत्येषः भूमौ अपतत् । राजपूतसैनिकैः घोरी इत्येषः बन्दी कृतः । एवं पृथ्वीराजः तूर्कसैनिकेषु पूर्णतः आधिपत्यम् अस्थापयत् [७४][७५]

मिन्हाज इत्यस्य पुस्तके उल्लेखः अस्ति यत्, पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत् । ततः घोरी इत्येनेन क्षमायाचनायां कृतायां सत्यां पृथ्वीराजः तूर्कसैनिकैः सह घोरी इत्येनं मुक्तम् अकरोत् । पृथ्वीराजस्य विजयानन्तरं घोरी इत्यस्य सेनायाः उपरि अपि कोऽपि हत्याचारः नाभवत् । पृथ्वीराजः सर्वान् सैनिकान् सकुशलं तूर्कं प्रति प्रैषयत् । पृथ्वीराजस्य एतस्याः उदारतायाः भारतीयराष्ट्रवादीतिहासविद्भिः कट्वी आलोचना कृता अस्ति । इतिहासविदां मतानुसारं नरायनस्य द्वितीययुद्धे पृथ्वीराजस्य पराजयस्य मुख्यतमं कारणं घोरी इत्यस्य मुक्तिः आसीत् [७६] । केचन इतिहासविदः कथयन्ति यत्, भारतीयसंस्कृतौ शरणार्थिनः वधः निषिद्धः अस्ति । पराजितसेनायाः आहतसैनिकेषु हत्याचारः भारतीययुद्धपरम्परानुगुणम् अनुचितम् आसीत् । यतो हि मनुस्मृतौ उक्तम् –

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।

न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ।। ७.९३ मनुस्मृतिः ।।

अर्थात् येषां शस्त्राणि नष्टानि अभूवन्, ये शोकविदग्धाः सन्ति, ये गभीरतया आहताः सन्ति, ये भयभीताः सन्ति, ये युद्धात् पालयमानाः सन्ति, तेषां वधः अनुचितः अस्ति ।

घोरी इत्येतस्य पुनर्युद्धाय सज्जता[सम्पादयतु]

प्रथमे नरायनयुद्धे घोरी इत्यस्य पराजयानन्तरं पृथ्वीराजस्य आदेशेन मुक्तः घोरी इत्येषः लाहोर-प्रदेशम् अगच्छत् । तत्र तस्य सैनिकाः प्रतीक्षमाणाः आसन् । लाहोर-प्रदेशे घोरी मासद्वयं यावत् न्यवसत् । यतो हि युद्धे आहतस्य घोरी इत्यस्य शारीरकवृणेभ्यः ओषधिः आवश्यकी आसीत् । मासद्वये घोरी इत्यनेन लाहोरदुर्गस्य नवनिर्माणम् अपि कारितम् । ततः सः स्वसेनया सह गझनी-प्रदेशम् अगच्छत् । इसामी इत्यस्य कथनानुसारं गझनी-प्रदेशं प्राप्य घोरी इत्येषः गझनवी-वंशस्य खुशरो मलिक इत्याख्याय राज्ञे, तस्य पुत्राय च मृत्युदण्डम् अयच्छत् [७७]

घोरी इत्येषः गझनी-प्रदेशं प्राप्य नरायनस्य प्रथमे युद्धे ये सैनिकाः रणक्षेत्रात् पलायन्त, तेभ्यः दण्डम् अयच्छत् । 'फरिश्ता' इत्याख्ये पुस्तके उल्लेखः अस्ति यत्, घोरी यदा गझनी-प्रदेशं प्रापत्, तदा सः अफगानप्रदेशीयान् सैनिकान् तु न पीडितवान्, परन्तु घोरी-वंशीयानां, खुरासानी-वंशीयानां, खल्जी-वंशीयानां सैनिकानाम् अपमानं कृत्वा तेभ्यः दण्डम् अयच्छत् । घोरी इत्येषः तेषां सैनिकानां मुखेषु अपक्वयवैः पूरितं स्यूतं (feedbag) बद्ध्वा नगरे तान् अभ्रामयत् । घोरी इत्यस्य आदेशः आसीत् यत्, ये सैनिकाः स्यूतात् अपक्वयवान् न खादेयुः, तेषां शिरः शरीरात् पृथक् कुर्वन्तु इति [७८]

नरायनयुद्धानन्तरं घोरी इत्यस्य मनःस्थितिः अवसादेन, क्लेशेन, आत्मग्लानिना च युक्ता अभवत् । तबकाते नासिरी, तारिखे फरिश्ता इत्यादिषु ग्रन्थेषु उल्लेखः प्राप्यते यत्, घोरी इत्येषः एतावान् दुःखी आसीत् यत्, सः अन्नजलमपि अत्यजत् । अहोरात्रं सः स्वपराजयस्य दुःखाग्नौ दहति स्म । सः स्वपत्न्याः पार्श्वे अपि शयनं न करोति स्म । ततः तस्य मातुः प्रेरणया घोरी पुनः युद्धं कर्तुं सज्जः अभवत् [७९]

एकदा घोरी इत्येषः ऐबक् इत्यनेन सह स्थित्वा नरायनयुद्धे जातस्य पराजयस्य समीक्षां कुर्वन् आसीत् । तदा घोरी इत्येषः ऐबक इत्येनम् अवदत्, अस्माकम् अश्वाः उत्तमाः सन्ति, परन्तु भारतीयहस्तिनां मुखं दृष्ट्वा ते भीताः आसन् । यतो हि पुरा कदापि तेषां भारतीयहस्तिभिस्सह युद्धानुभवः नासीत् । अतः भारतीयहस्तिनां समीपे ते भीताः आसन् । एतत् मुख्यकारणम् अस्ति, येन वयं द्विवारं भारतीयसेनायाः सम्मुखं पराजिताः अभवाम [८०]

स्वपराजयस्य कारणम् उक्त्वा घोरी इत्येषः अग्रिमयुद्धात् पूर्वम् अश्वप्रशिक्षणं कथं करणीयम् ? इत्यस्य उपायम् अपि ऐबक् इत्येनम् अकथयत् । सः अकथयत्, स्नेहमृदा, काष्ठैः च हस्तिनां निर्माणं कारयतु । ते हस्तिनः तथैव सज्जाः भवेयुः, यथा भारतीयाः हस्तिनः भवन्ति । ततः तान् हस्तिनः परितः अश्वारोहिणः युद्धस्थितिं सर्जयित्वा अश्वान् निर्भयान् कुर्युः । एवं युद्धकाले भारतीयहस्तिनां सम्मुखे उपस्थिते सत्यति अश्वाः निर्भीकाः सन्तः तेषां प्रतीकारं कर्तुं क्षमाः भविष्यन्ति । घोरी इत्यस्य परामर्शानुसारम् ऐबक् इत्येषः अश्वप्रशिक्षणम् अकारयत् । सः स्वयम् अपि युद्धसम्बद्धाः नीतीः अरचयत् । सः सचलसैनिकदलस्य रचनाम् अकरोत् । तस्य सचलदलस्य मुख्यकार्यम् आसीत् यत्, युद्धकाले यदि कस्यचित् व्यूहस्य सैनिकाः दुर्बलाः भवेयुः, तर्हि एतत् दलं युद्धक्षेत्रे एकस्मात् दलात् अपरं दलं गत्वा युद्धं कुर्युः इति । एवं युद्धक्षेत्रे यदि कस्यचित् दलस्य सामर्थ्यं दुर्बलं भवेत्, तर्हि एतत् दलं तस्य अपरस्य दलस्य साहाय्यं कृत्वा युद्धक्षेत्रे स्वबलं सन्तुलितं कुर्यात् । अश्वारूढाः सन्तः सैनिकाः बाणं चालयितुं सक्षमाः भवेयुः, अतः ऐबक् इत्यनेन स्वसैनिकेभ्यः प्रशिणं प्रदत्तम् । ऐबक् इत्यस्य रणनीतेः वर्णनं फारसी-भाषायाः ऐतिहासिकसाहित्ये न प्राप्यते, परन्तु प्रसिद्धयुद्धविज्ञानिनः आर् ए स्मैल इत्यस्य पुस्तके उल्लेखः अस्ति ।

इसामी इत्यनेन लिखिते फुतूहुस्सलातीन-नामके पुस्तके एकस्य कवचस्य अपि वर्णनं प्राप्यते । तस्य कवचस्य नाम 'करवा' (जिहर्) इति आसीत् । तत्कवचं वृषभानां चर्मणा निर्मितम् आसीत् । तत् कवचम् उभयतः कार्पासः उत ऊर्णा निर्मितं भवति स्म । भारतीयसेना यदा तूर्कसेनायाः पदातिषु प्रहारं कुर्युः, तदा ते तूर्कसैनिकाः आहताः न भवेयुः इति तस्य कवचनिर्माणस्य उद्देश्यम् आसीत् । एवं घोरी इत्येषः ऐबक इत्यनेन सह मिलत्वा प्रहारात्मकनीतेः, रक्षात्मकनीतेः च रचनाम् अकरोत् ।

लाहोरगमनम्[सम्पादयतु]

इतिहासविदां मतम् अस्ति यत्, घोरी इत्यस्य सेनायाम् अफगानसेनायाः, तुर्कसेनायाः, ताजिकसेनायाः, तुलकसेनायाः च भिन्नाः सेनापतयः आसन् । फुतूहुस्सलातीन-नामके पुस्तके केषाञ्चन सेनापतिनां नामानि प्राप्यन्ते । यथा –

१. खारबक – एतस्य दानवसदृशं शरीरम् आसीत् । एषः अग्रिमदलस्य सेनापतिः आसीत् ।

२. अल्बा (इलाह) – वामविभागस्य सेनायाः सेनापतिः आसीत् ।

३. मुकल्बा – केन्द्रियसेनायाः योद्धा आसीत् ।

४. खरमेल – केन्द्रियसेनायाः योद्धा आसीत् ।

५. कुत्बुद्दीन ऐबक – सेनायाः सम्पूर्णसत्तायाः महाप्रबन्धकः आसीत् । युद्धक्षेत्रे एषः सर्वदा घोरी इत्यस्य समीपे एव भवति स्म ।

६. ताजुद्दीन यल्दुज – कस्यचित् दलस्य सेनापतिः ।

७. नासिरुद्दीन कुबाचा – हरावल-दलस्य नेतृत्वम् एषः करोति स्म ।

८. मुहम्मद बिन महमूद – एषः बख्तियार खलजि इत्यस्य पितृव्यः आसीत् । एषः प्रतिबद्धः, कुशलश्च सेनानायकः आसीत् ।

एते सर्वे सेनापतयः रणक्षेत्रे सेनासञ्चालने दक्षाः आसन् । घोरी इत्यस्य सेनां विहाय एतेषां सेनापतिनां निजसेनाः अपि आसन् । मिन्हाज इत्यस्य कथनानानुसारं घोरी इत्यनेन भारतयात्रायाः सम्पूर्वमेव (कुछ देप पहले ही) तुलकी इत्यस्य आग्रहेण तुलक-वंशीयानां १२,००० अश्वारोहिणः स्वसेनायां समावेशिताः [८१] । ११९१ तमे वर्षे घोरी इत्येषः भारतं प्रति यत्राम् आरभत [८२] । पेशावर-प्रदेशात्, मुल्तान-प्रदेशम् उपसृत्य घोरी इत्येषः लाहोर-प्रदेशं प्रापत् ।

कूटनैतिकप्रयासः[सम्पादयतु]

घोरी इत्येषः लाहोरदुर्गे स्थित्वा पृथ्वीराजस्य विरुद्धं दुर्गोष्ठीं प्रारभत । एकत्र सः स्वसैन्यव्यवस्थापनं, सैन्यप्रशिक्षणं, गुप्तचरप्रेषणकार्यं च कुर्वन् आसीत्, अपरत्र सः स्वदूतम् अजयमेरु-दुर्गं प्रैषयत् । यद्यपि सः जानाति स्म यत्, पृथ्वीराजः तस्य पत्रस्य किं प्रत्युत्तरं दास्यति, तथापि तेन अजयमेरु-दुर्गं दूतः प्रेषितः । यतो हि सः केवलं समयं यापनं कर्तुम् इच्छति स्म । तस्य उद्देशः आसीत् यत्, तस्य सेना युद्धाय सज्जा भवेत् तथा च सहयोगिनः निष्ठायाः पुनः परीक्षणं भवेत् इति ।

घोरी इत्यस्य दूतः पृथ्वीराजस्य सम्मुखम् उपस्थितः । घोरी इत्यनेन प्रदत्तं पत्रं सः अपठत् । तस्मिन् पत्रे उल्लिखितम् आसीत् यत्, पृथ्वीराज ! स्वकर्णयोः पराधीनतायाः आभूषणं धृत्वा मम प्रासादे उपस्थितो भूत्वा त्वम् इस्लाम-धर्मम् अङ्गीकुरु [८३] इति । अन्यफारसीलेखकाः अपि उक्तकथनस्य समर्थनं कुर्वन्ति । फरिश्ता इत्यस्मिन् प्राप्यते यत्, घोरी इत्येषः स्वसेनया सह लाहोर-प्रदेशं प्रापत्, तदा कवामुल्मुल्क रुकुनुद्दीन हम्जा इत्येनम् अजयमेरु-दुर्गं स्वसन्देशं दातुं प्रैषयत् । तस्मिन् "राजा इस्लाम्-धर्मम् अङ्गीकुर्यात्" इति सन्देशः लिखितः आसीत् । फरिश्ता इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, पृथ्वीराजः यदा दूतस्य मुखात् सन्देशम् अशृणोत्, तदा सः इस्लाम-धर्मं प्रति अभद्रभाषायाः उपयोगं कृतवान् । पृथ्वीराजः इस्माल-धर्मानुयायिनः राज्ञः अपि अपशब्दान् अकथयत् । ततः कवामुल्मुल्क इत्येनं प्रति प्रैषयत् [८४]

पृथ्वीराजस्य विरुद्धं सैनिकसङ्घः[सम्पादयतु]

१९९० तमे वर्षे घोरी इत्येनं पराजित्य पृथ्वीराजस्य साम्राज्यं भारतस्य प्रमुखशक्तित्वेन परिगण्यते स्म । पृथ्वीराजस्य सामर्थ्यं विरोधिनां हृदये शूलाघातवत् पीडां जनयति स्म । ये राजानः पृथ्वीराजात् पराजिताः आसन्, ते अवसरं प्राप्य पृथ्वीराजस्य उपरि आघातं कर्तुं तत्पराः आसन् । जम्मूप्रदेशस्य राजा विजयदेवः घोरी इत्यस्य प्रमुखसहायकः अभवत् । प्रबन्धसङ्ग्रहे, पृथ्वीराजरासोकाव्ये च जम्मूपतेः घोरी इत्यस्य साहाय्यस्य उल्लेखः प्राप्यते [८५][८६] । नयचन्द्र सूरि इत्येषः स्वपुस्तके अलिखत्, जम्मूप्रदेशस्य राजा स्वपुत्रं नरसिंहदेवं स्वसेनया सह नरायनक्षेत्रं प्रैषयत् [८७]

हेग इत्याख्यः इतिहासविद् स्वपुस्तके उल्लेखम् अकरोत् यत्, नरानयस्य द्वितीये युद्धे भारतस्य सर्वेऽपि राजानः (सर्वे पृथ्वीराजस्य सामन्ताः आसन्) उपस्थिताः आसन्, परन्तु राष्ट्रस्वतन्त्रतायाः रक्षायै अपि कन्नौज-प्रदेशस्य राजा जयचन्दः स्वजामातुः पृथ्वीराजस्य साहाय्यं नाकरोत् । सः नरायनस्य प्रथमे युद्धे अपि युद्धं नाकरोत् । नरायनस्य द्वितीययुद्धे पृथ्वीराजस्य पराजयस्य कारणात् भारते मुस्लिमसत्तायाः स्थितिः दृढा अभवत्, यतो हि जयचन्दः राष्ट्रशत्रुभिः सह सन्धिम् अकरोत् [८८]

जेम्स् टॉड् इत्यस्य मतानुसारं कन्नौज-प्रदेशस्य राजा जयचन्दः, पाटण-प्रदेशस्य राजा च पृथ्वीराजस्य समूलनाशाय मुहम्मद घोरी इत्येस्मै आमन्त्रणम् अयच्छताम् [८९] । जेजाकभुक्तिप्रदेशस्य राजा चन्देलः घोरी इत्यस्य सहयोगी आसीत् । जेसलमेर-प्रदेशस्य शालीवाहनभाटी-वंशीयाः तु घोरी इत्यस्य आशीर्वादेन राजसुखस्य उपभोगं कुर्वन्तः आसन् । युद्धे हेमलेटभाटी-वंशीयाः तु घोरी इत्यस्य सेनायाः महत्तवपूर्णम् उत्तरदायित्वम् अवहन् । सपादलक्षसाम्राज्यस्य प्रतिवेशिभिः राजभिः घोरी इत्यस्य आर्थिकसहायता, सैन्यसहायता, सूचनासहायता च कृता । यदा घोरी इत्येषः स्वसैन्येन सह सपादलक्षसाम्राज्यस्य सीमायाः समीपे प्रापत्, तदा सपादलक्ष-साम्राज्यं परितः स्थितानि राज्यानि सपादलक्षसाम्राज्यस्य सीमायाम् उत्पातम् आरभन्त । तेषाम् उद्देशः आसीत् यत्, परितः युद्धरतस्य पृथ्वीराजस्य सैन्यबलं विभक्तं भवेत् इति । द्वितीययुद्धकाले तेषां योजनानुसारमेव अभवत् । पृथ्वीराजस्य सेना सपादलक्षसाम्राज्यस्य विभिन्नेषु क्षेत्रेषु युध्यमाना आसीत् । सपादलक्षसाम्राज्यस्य प्रधानसेनापतिः नरायनयुद्धकाले अन्यस्मिन् युद्धे रतः आसीत् [९०] । पृथ्वीराजस्य अपरः उदयराजनामकः सेनापतिः अपि अपरत्र युद्धरतः आसीत् [९१]

समीपवर्तिराज्यानां शत्रुता[सम्पादयतु]

घोरी इत्येनं प्रथमे नरायनयुद्धे पराजित्य पृथ्वीराजः उत्तरभारतीयक्षेत्रेषु चर्चाविषयः अभवत् । पृथ्वीराजस्य भूतपूर्वशत्रवः तस्य पतनस्य प्रतीक्षां कुर्वन्ति स्म । अतः यदा घोरी इत्येषः पृथ्वीराजेन सह युद्धं कर्तुं सम्प्राप्तः, तदा समीपस्थानि राज्यानि पृथ्वीराजस्य साम्राज्ये आक्रमणम् अकुर्वन् । तेषु राज्येषु मख्यतया सपादलक्षसाम्राज्यस्य पूर्व-दक्षिण-सीमायाः कन्नौज, कालिञ्जर, अण्हिलपाटण इत्येतानि आसन् । भीमदेवस्य माता नाइकीदेवी जेजाकभुक्तेः चन्देलवंशीयस्य शासकस्य परमर्दिदेवस्य पुत्री आसीत् । ११८२-८३ वर्षे ते राज्ये पृथ्वीराजेन परिजिते । अपरत्र संयोगिताहरणेन क्रुद्धः जयचन्दः येन केन प्रकारेण पृथ्वीराजस्य विनाशं द्रष्टुम् इच्छति स्म । नरायनस्य प्रथमयुद्धानन्तरमेव संयोगिताहरणस्य घटना जाता आसीत् ।

यैः इतिहासविद्भिः तत्कालीनपरिस्थितीनाम् अध्ययनं कृतं, तेषां कथनम् अस्ति यत्, पृथ्वीराजः यदा दिग्विजयाभियाने आसीत्, तदा तेन अनेकेषां राज्ञां मानभङ्गः कृतः । परन्तु पृथ्वीराजः सर्वस्मै जीवनदानम् अयच्छत् । एवं दिग्विजयाभियानेन पृथ्वीराजस्य सेनायाम् उत सीमायां वृद्धिः तु न भवति स्म, अपि तु तस्य शत्रुसङ्ख्यायां प्रतिदिनं वृद्घिः जायमाना आसीत् । शत्रूणां मानभङ्गं कृत्वा तेभ्यः जीवनदानमेव पृथ्वीराजस्य पराजयस्य मुख्यकारणम् अभवत् ।

अजयमेरुप्रासादे दुष्चक्रम्[सम्पादयतु]

संयोगिताहरणानन्तरं पृथ्वीराजः अधिकं समयं यावत् नवविवाहितया संयोगितया सह एव यापयति स्म । तेन अजयमेरुप्रासादे कस्यचित् दुष्चक्रस्य उद्भवः अभवत् । पृथ्वीराजस्य पद्मावती-नामिकायाः राज्ञ्याः मनसि संयोगितां प्रति द्वेषः समुद्भूतः । अजयमेरुप्रासादे तयोः पौनःपुन्येन कलहः भवति स्म । पृथ्वीराजेन उपेक्षिता सा पद्मावती वशीकरणप्रयोगेण पृथ्वीराजस्योपरि आधिपत्याय प्रयत्नम् अकरोत् । सा तान्त्रिकविध्यङ्गतया एकस्याः गर्भवत्याः गोः हत्याम् अकरोत् । ततः तस्याः गोः प्रजननाङ्गं स्वीकृत्य स्वतान्त्रिकविधम् आरभत । तान्त्रिकविधेः सिद्ध्यनन्तरं पृथ्वीराजः पद्मावत्या वशीभूतः । पृथ्वीराजः यदा पद्मावत्याः तन्त्रपाशे बद्धः आसीत्, तदैव प्रासादे अन्या अवाञ्छनीया घटना अभवत् ।

सपादलक्षसाम्राज्यस्य कैमास-आख्यः महामण्डलेश्वरः पृथ्वीराजस्य अनुपस्थितौ समग्रं राजकार्यं पश्यति स्म । सः कैमासः कर्नाटी-नामिकया दास्या सह अवैधसम्बन्धेन बद्धः आसीत् । कैमासस्य मनः तस्यां दास्यां रमते स्म । समये प्राप्ते तौ रात्र्याः अन्धकारे राजभवने स्वकामलीलाम् आचरतः आस्ताम् । एकदा रात्रौ पद्मावती प्रासादस्य एकस्मिन् प्रकोष्ठे कैमासं दास्या सह अभद्रस्थित्याम् अपश्यत् । पद्मावती पृथ्वीराजं कैमासस्य कामप्रपञ्चस्य अभिशस्तिम् (backbiting, चुगली) अकरोत् । पृथ्वीराजस्तु पद्मावत्याः तन्त्रपाशे बद्ध एव आसीत्, अतः विभ्रमस्थित्यां पृथ्वीराजः उचितनिर्णयं कर्तुम् असमर्थः आसीत् । ततः कैमासः रात्रौ यदा दास्या सह काममग्नः आसीत्, तदा पृथ्वीराजः तत्र प्रापत् । सः तत्रैव कैमासस्य वधम् अकरोच्च ।

कैमासस्य दास्या सह पापसम्बन्धः आसीत् इति तु अजयमेरुप्रासादस्य दुर्भाग्यम् एव आसीत् । परन्तु पुरातनप्रबन्धसङ्ग्रहे (पृ. ८६) कैमासस्य वधस्य कारणं "देशद्रोहः" इत्युल्लिखितम् । पुरातनप्रबन्धसङ्ग्रहानुसारं पृथ्वीराजस्य राजस्वाधिकारी प्रतापसिंहः गर्जनी-प्रदेशं करं स्वीकर्तुं गच्छति स्म । एकदा गर्जनी-प्रदेशे 'मस्जिद्' इत्यस्मै प्रतापसिंहः एकलक्षपणानि दानत्वेन अयच्छत् । यदा कैमासः राजानम् अकथयत्, "हे देव ! गझनी-प्रदेशात् करत्वेन यद्धनं प्राप्नुमः, तेन अस्माकं राजकार्यं भवति । परन्तु राजस्वाधिकारी प्रतापसिंहः तद्धनस्य एतादृशेषु कार्येषु दुर्व्ययं करोति" इति । राजा यदा कैमासस्य आरोपविषये प्रतापसिंहम् अपृच्छत्, तदा सः अवदत्, "देव ! भवति प्रतिकूलग्रहप्रभावं ज्ञात्वा मया तस्य धनस्य व्ययः कृतः । यतो हि ज्योतिर्विदः भवतां जीवने कष्टस्य विषये अवदन्" इति । अनुक्षणं प्रतापसिंहः शनैः पृथ्वीराजस्य कर्णयोः कैमासविरुद्धं अभिशस्तिम् (backbiting, चुगली) अकरोत् । सः अवदत्, देव ! मन्त्री कैमास एव पौनःपुन्येन तुर्क-जनान् अत्र आह्वयति इति । प्रतापसिंहस्य वचनं श्रुत्वा क्रुद्धः पृथ्वीराजः कैमासस्य वधम् अकरोत् ।

उक्तयोः कथानकयोः सत्यासत्ययोः परीक्षणं कर्तुं तु न शक्यते, परन्तु उपलब्धप्रमाणैः द्वयोः विषयोः स्पष्टता भवति । एकं तु घोरी इत्यस्य गुप्तचरतन्त्रस्य सम्पर्के अजयमेरुशासनस्य अनेके सदस्याः आसन्, तेषु प्रतापसिहः प्रमुखः आसीत् । द्वितीयं कैमासस्य वधस्यापि पुष्टिः भवति । परन्तु देशद्रोहेण वा कामप्रसङ्गेन वा इति न ज्ञायते । फुतुहूस्सलातीन इति पुस्तकानुसारम् अजयमेरु-प्रदेशस्य राजप्रासादे कैमासस्य वधस्य समाचारं घोरी इत्यस्य गुप्तचराः गझनी-प्रदेशं प्रैषयन् [९२]

द्वितीयनरायनयुद्धस्य तिथिः[सम्पादयतु]

द्वितीयनरायनयुद्धस्य तिथिविषये अनेके तर्काः सन्ति । विभिन्नेषु पुस्तकेषु विभिन्नाः तिथयः प्राप्यन्ते । तानि पुस्तकानि त्रिषु विभागेषु विभक्तानि । ते विभागाः पृथ्वीराजरासो, फारसीलेखकानुसारं, भारतीयस्रोतोनुसारं च विभक्ताः ।

पृथ्वीराजरासोकाव्यानुसारम्[सम्पादयतु]

साक सु विक्रम रुद्र सौ । अट्ठ अग्र पचास ।

सनिवासर संक्रांति क्रक । श्रावण अद्धो मास । [९३]

अर्थात्, ११५८ विक्रमसंवत्सरस्य शनिवासरे पृथ्वीराजस्य घोरी इत्यनेन सह युद्धम् अभवत् । तस्मिन् काले अर्धव्यतीतः श्रावणमासः, कर्कसङ्क्रान्तिः च आसीत् । पृथ्वीराजरासोकाव्ये उल्लिखितायाः तिथेः अनेकैः खण्डनं कृतम् अस्ति । यतो हि अनेके भारतीयग्रन्थाः, अन्ये फारसीग्रन्थाः अपि अन्यतिथेः उपस्थापनं कुर्वन्ति ।

फारसीग्रन्थानुसारम्[सम्पादयतु]

हसन निजामी इत्यषः ताजुल मासिर इत्यस्मिन् पुस्तके उल्लिखति यत्, 'हिजरीसन्' (यवनसंवत्सरः) ५८७ इत्यस्मिन् घोरी इत्येषः गझनीप्रदेशात् भारतं प्रति यात्राम् आरभत । नरायनयुद्धे सः पराजयं प्रापत्, ततः नरायनयुद्धे विजयी घोरी इत्येषः 'हिजरीन्' ५८८ इत्यस्य 'रमजान'-मासे हाँसी-प्रदेशस्योपरि आक्रमणम् अकरोत् । ऐबक् इत्येषः तस्मिन् काले कोहराम-प्रदेशे आसीत्, घोरी इत्यनेन सह योद्धुं सोऽपि हाँसी-प्रदेशं प्रति यात्राम् आरभत [९४] । गुलशने इब्राहिमी इत्यस्मिन् पुस्तके फरिश्ता इत्यनेन उल्लिखितं यत्, हि. स. ५८७ इत्यस्मिन् घोरी इत्येषः गझनी-प्रदेशात् यात्राम् आरभ्य ५८८ हि. इत्यस्मिन् नरायनयुद्धक्षेत्रं प्रापत् [९५][९६]

फारसीग्रन्थेषु या तिथिः उल्लिखिता, तस्याः तुलनात्मकम् अध्ययनं कृत्वा युद्धस्य तिथिविषये किञ्चित् मार्गदर्शनं प्राप्यते । ११९० तमस्य वर्षस्य जनवरी-मासस्य एकोनत्रिंशत्तमे (२९/१/११९०) दिनाङ्के युद्धारम्भः अभवत्, ततः ११९१ तमस्य वर्षस्य जनवरी-मासस्य सप्तदशे (१७/१/११९०) दिनाङ्के युद्धं पूर्णम् अभवत् । अर्थात् ११९० तमस्य वर्षस्य जनवरी-मासस्य एकोनत्रिंशत्तमस्य (२९/१/११९०) दिनाङ्कस्य पूर्वं कस्मिँश्चित् समये घोरी इत्येषः भारतं प्रति यात्राम् आरभत । ११९१ तमस्य वर्षस्य जनवरी-मासस्य सप्तदशात् (१७/१/११९०) दिनाङ्कात् पूर्वं घोरी इत्येषः नरायनयुद्धे विजयी अभवत् । फारसीग्रन्थानुसारं तदा 'रमजान' इत्याख्यः यवनमासः आसीत् ।

११९१ तमस्य वर्षस्य जनवरी-मासस्य सप्तदशे (१७/१/११९०) दिनाङ्के यदि 'रमजान'-मासः भवेत् तर्ह्येव फारसीग्रन्थे उल्लिखितायाः तिथेः प्रामाण्यं सिध्यति । हि. सन् इत्यस्य यवनपञ्चाङ्गस्य आरम्भः १ मुहर्रम इत्यस्मात् भवति [९७] । एवं ५८८ हि.स इत्यस्य आरम्भः ११९२ तमस्य वर्षस्य जनवरी-मासस्य अष्टादशे (१८/१/११९२) दिनाङ्के अभवत् । तस्मिन् दिने शनिवासरः आसीत् । 'रमजान'-मासः यवनपञ्चाङ्गानुसारं दशममासः अस्ति, अतः ११९२ तमस्य वर्षस्य सितम्बर-मासस्य दशमे (१०/९/११९२) दिनाङ्के 'रमजान'-मासस्य आरम्भः अभवत् । निजामी इत्यस्य कथनम् अस्ति यत्, नरायनस्य युद्धं 'रमजान'-मासात् पूर्वं पूर्णम् अभवत् इति । अतः ११९२ तमस्य वर्षस्य जनवरी-मासस्य सप्तदशात् (१७/१/११९२) दिनाङ्कात्, ११९२ तमस्य वर्षस्य सितम्बर-मासस्य दशमं (१०/९/११९२) दिनाङ्कं यावत् नरायनस्य युद्धं पूर्णम् अभवत् । फारसीग्रन्थेषु युद्धस्य कालः तु ज्ञायते, परन्तु नरायनस्य द्वितीययुद्धस्य निश्चिततिथिः न प्राप्यते ।

भारतीयस्रोतानुसारम्[सम्पादयतु]

विविधतीर्थकल्पः [९८][सम्पादयतु]

जैनाचार्यः जिनप्रभुसूरि इत्येषः देहल्याः राज्ञः मुहम्मद तुगलक इत्यस्य समकालीनः आसीत् । तयोः समानकालीनतायाः अनेकानि प्रमाणानि उपलब्धानि सन्ति । सः जैनाचार्यः कन्यानयनीयमहावीरप्रतिमाकल्पाख्यस्य पुस्तकस्य रचनाम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, तत् पुस्तकं खरतरगच्छपट्टावल्याः अपि अधिकोपयोगि अस्ति इति । कन्यानयनीयमहावीरप्रतिमाकल्पस्य द्वादशे कल्पे उल्लेखः प्राप्यते यत्, १२४८ विक्रमसंवत्सरे (ई. ११९१-९२) यदा चौहानकुलदिवाकरस्य श्रीपृथ्वीराजस्य हत्या घोरी इत्यनेन कृता, ततः अजमेरु-प्रासादे तुर्काणाम् आधिपत्यम् अभवत् । अतः अजयमेरोः मन्त्री महाश्रेष्टिरामदेवः सूचनां प्रासारयत्, "यवनाः जैनसङ्घस्य मूर्तीनां नाशं कुर्युः, तस्मात् प्राक् एव सर्वे जैनाचार्याः मूर्तीः भूमौ वैलस्थाने (a burying-place) स्थापयन्तु" इति [९९]

उस्तराँ-शिलालेखादयः[सम्पादयतु]

१२४८ विक्रमसंवत्सरे उस्तराँशिलालेखस्य निर्माणम् अभवत् । उस्तराँ-प्रदेशे अनेकानि जीर्णानि जैनमन्दिराणि, वीरस्मारकाणि (देवलियां) च सन्ति । वीरस्मारकेषु अनेके शिलालेखाः उट्टङ्किताः सन्ति । तेषु कस्मिँश्चित् शिलालेखे उल्लेखः अस्ति यत्, १२४८ विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णषष्ठ्यां सोमवासरे राणा मोतीश्वरा इत्यस्य मरणनिमित्तं गोहिलवंशीया राजी इत्याखा राज्ञी सती (सतीप्रथा) अभवत् [१००][१०१] । राणा मोतीश्वरा इत्यस्य मरणतिथौ एव विजयराजः इति तस्य पुत्रोऽपि हुतात्मा अभवत् इति अपरस्मिन् शिलालेखे उल्लिखितम् [१०२] । मोतीश्वरा, विजयराज इत्येताभ्यां सह अनेकेषां हुतात्मनां नामानि अनेकेषु शिलालेखेषु प्राप्यन्ते । उक्ततिथ्यनुसारं ११९२ तमस्य वर्षस्य मई-मासस्य चतुर्थे (४/५/११९२) दिनाङ्के सः शिलालेखः निर्मितः । अतः तस्मात् दिनाङ्कात् पूर्वमेव कस्मिँश्चित् युद्धे तेषां वीराणां मृत्युः अभवत् इति सिध्यति ।

गोठ मांगलोद इत्यस्मात् स्थानात् अपि अपरः शिलालेखः प्राप्यते । सः शिलालेखोऽपि उक्ततिथौ एव उट्टङ्कितः । तस्य शिलालेखस्यानुसारं जयसिंह इत्यस्य वीरगतेः अनन्तरम् अनेकाः राज्ञ्यः सतयः अभूवन् । बजलू इत्यस्मात् स्थलात् (राजस्थानराज्यस्य नागौर-पत्तनस्य समीपे) प्राप्तः १२४९ विक्रमसंवत्सरस्य वैशाखमासस्य शुक्लचतुर्दश्यां (१४/२/१२४९) सोमवासरस्य दिने (ई. २७/४/११९२) कस्मिँश्चित् परमारप्रमुखे हुतात्मनि सति तस्य राज्ञ्यः सतयः अभून् [१०३]

विविधतीर्थकल्पस्य तथा अन्यशीलालेखानाम् आधारेण तिथीनां सामञ्जस्यं (Propriety) स्थापयितुं शक्यते । उक्तप्रमाणैः सिद्धं भवति यत्, ११९२ तमस्य वर्षस्य मई-मासस्य चतुर्थात् (४/५/११९२) दिनाङ्कात् पूर्वं घोरी इत्येषः नरायनयुद्धे विजयी अभवत् । ततः तेन अजयमेरौ स्वाधिकारः प्रस्थापितः । फारसीग्रन्थानां, भारतीयग्रन्थानां, भारतीयशिलालेखानां च अवलम्बनेन निश्चितं भवति यत्, युद्धस्य समग्रः घटनाक्रमः ११९२ तमस्य वर्षस्य फरवरी-मासस्य अष्टादश (१८/२/११९२) दिनाङ्कात् ११९२ तमस्य वर्षस्य अप्रैल-मासस्य सप्तविंशतिः (२७/४/११९२) दिनाङ्कपर्यन्तम् अभवत् ।

ढीली-स्थानस्य राजावली[सम्पादयतु]

नरायनयुद्धस्य वास्तविकतिथेः ज्ञानार्थं १६८५ तमे विक्रमसंवत्सरे लिखितायाः राजावल्याः अध्ययनम् अति महत्त्वपूर्णं सिध्यति । प्रप्रथमवारं १९५३ तमे वर्षे जैनसाहित्याचार्यः अगरचन्द नाहटा इत्येषः तां राजावलीं प्राकाशयत् । १९५३ तमे वर्षे डॉ. दशरथ शर्मा इत्यस्य 'अज्ञात कर्तृक इन्द्रप्रस्थ प्रबन्ध के कलेवर' इत्यस्मिन् पुस्तके सा आवली प्रकाशिता अभवत् । वंशावल्यां लिखितम् अस्ति यत्, १२४९ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णद्वितीयायां (२/१/१२४९) तिथौ (ई. ३/३/११९२) पृथ्वीराजस्य सहबन्धोः वीसलपालस्य पुत्रं दिवाकरं बन्दिनं कृत्वा तेजपालः देहल्याः अधिपतिः अभवत् । १२४९ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लद्वितीययां (१७/१/१२४९) तिथौ (ई. १७/३/११९२) घोरी इत्येषः तेजपालं पराजित्य देहल्याः अधिपतिः अभवत् । उक्तप्रमाणैः सिद्ध्यति यत्, १७ मार्च दिनाङ्कात् पूर्वं देहलीपतनं नाभवत्, तथा च १७ मार्च दिनाङ्कात् पूर्वं पृथ्वीराजः हुतात्मा अभवत् इति ।

नरायनयुद्धानन्तरं घोरी इत्यस्य सैन्यगतिविधिभिः अपि प्रमाणानि उपलभ्यन्ते । ताजुल मासिर इत्यस्मिन् पुस्तके हसन निजामी इत्येषः उल्लिखति यत्, नरायनयुद्धानन्तरं घोरी इत्येषः प्रप्रथमं अजयमेरु-प्रासादं प्रापत् [१०४], ततः सः देहलीम् अजयत [१०५] इति । हसन निजामी इत्यस्य कथनस्य समर्थनं 'लुब्ब तवारिखे हिन्द' इत्येतत् पुस्तकम् अपि करोति [१०६]

राजावल्यनुसारं १२४९ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णद्वितीयायां तिथौ तेजपालः नरायनयुद्धात् पलायनं कृत्वा देहलीम् अगच्छत् । आङ्ग्लपञ्चाङ्गानुसारं ११९२ तमस्य वर्षस्य मार्च-मासस्य तृतीयः (३/३/११९२) दिनाङ्कः भवति । नरायनस्य युद्धं तृतीये प्रहरे पूर्णम् अभवत् । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजः सम्भवतः त्रिवादने उत चतुर्वादने तुर्कसैनिकैः बिन्दिकृतः । तेजपालः तस्मिन्नेव काले युद्धक्षेत्रात् पलायनं कृत्वा देहलीम् अगच्छत् । तेजपालः द्रुततरगत्या नरायनयुद्धक्षेत्रात् देहलीपर्यन्तम् अशीतिः (८०) कि.मी. अगच्छत्, तथापि यात्रायां तस्य दिनद्वयम् अभवत् । एवं नरायनस्य युद्धं ११९२ तमस्य वर्षस्य मार्च-मासस्य प्रथमे (१/३/११९२) दिनाङ्के रविवासरस्य दिने पूर्णम् अभवत् [१०७] । भारतीयपञ्चाङ्गानुसारं तस्मिन् दिने होलिकायाः पर्व आसीत् । १२४९ तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य पूर्णिमायां (३०/१२/१२४९) तिथौ हिन्दूनां रक्तेन नरायनयुद्धक्षेत्रं रञ्जितम् अभवत् ।

श्रीहरिहर निवास द्वीवेदी इत्यस्य मतानुसारं नरायनयुद्धस्य सम्भाविताः तिथयः निम्नाः सन्ति [१०८]

• १ मार्च – नरायनयुद्धस्य समाप्तिः (तृतीये प्रहरे)

• ५ मार्च – घोरी इत्येषः पृथ्वीराजम् अजयमेरुम् अनयत् ।

• ११-१२ मार्च – पृथ्वाराजः हुतात्मा अभवत् ।

• १३ मार्च – गोविन्दः अजयमेरोः साम्राज्यं समर्पयति ।

• १७ मार्च – देहल्याः पतनम्

द्वितीयं नरायनयुद्धम्[सम्पादयतु]

ब्राह्ममुहूर्ते घोरी इत्येषः पृथ्वीराजस्य सेनायाः उपरि आक्रमणम् अकरोत् ।

पृथ्वीराजः ११९० तमे वर्षे घोरी इत्येनं नरायनक्षेत्रे पराजयत । ततः एकवर्षाभ्यान्तरे घोरी इत्यनेन स्वसैन्यशक्तौ वृद्धिः कृता । अपरत्र पृथ्वीराजः एकवर्षं यावत् भारतीयराजनीतिक्षेत्रे व्यस्तः आसीत् । सः तस्मिन् वर्षे अपि अनेकानि युद्धानि अकरोत् । ११९० तमे वर्षे भारतस्य या राजनैतिकपृष्ठभूमिः आसीत्, सा पृष्ठभूमिः एकवर्षे विपरीता अभवत् । राजपूतानाम् अन्तःकलहः विशालकायः जातः । उत्तरभारतीयाः राजानः सततं परस्परं युध्यमानाः आसन् । घोरी इत्यनेन राजपूतराज्ञां परस्परसङ्घर्षस्य लाभं स्वीकृत्य पृथ्वीराजस्योपरि पुनः आक्रमणं कृतम् ।

नरायनस्य युद्धक्षेत्रे घोरी इत्येषः "येन केन प्रकारणे विजयं प्राप्तुं सज्जः आसीत्" । अपरत्र पृथ्वीराजस्य सैन्यसज्जता एव नासीत् । घोरी इत्येषः जानाति स्म यत्, पृथ्वीराजस्य सैन्यसामर्थ्यं कियत् अस्ति तथा च पृथ्वीराजस्य युद्धाय सज्जता नास्ति इति । पृथ्वीराजस्य युद्धसम्बद्धायाः असज्जतायाः विषये हम्मीरमहाकाव्ये विवरणं प्राप्यते । हम्मीरमहाकाव्यस्य तृतीयसर्गस्य ६६-६७ श्लोकयोः उल्लिखितं यत्, पृथ्वीराजस्य सेनापतिः उदयराजः स्वसेनया सह युद्धक्षेत्रे विलम्बेन प्रापत् । पृथ्वीराजस्य प्रधानः तु नरायनयुद्धे भागम् एव न गृहीतवान् । यतो हि सः अन्यस्मिन् युद्धे रतः आसीत् । विरुद्धविधिविध्वंशनामकस्य ग्रन्थस्य १७ श्लोके अपि एतादृशं वर्णनं प्राप्यते । पृथ्वीराजस्य कृते युद्धे विलम्बोपस्थितिः अत्यावश्यकी आसीत्, परन्तु घोरी इत्येषः पृथ्वीराजस्य दुर्बलतायाः लाभं स्वीकृत्यैव युद्धं कर्तुं तत्परः आसीत् ।

युद्धम्[सम्पादयतु]

घोरी इत्येषः, तस्य अधिकारिणश्च युद्धयोजनायाः विषये बह्वीमपि परिकल्पनां (design) कृत्वा युद्धाय सज्जाः आसन् । ते कदा ?, कुत्र ?, कस्मिन् समये ? च पृथ्वीराजस्य सेनायाः उपरि आक्रमणं करिष्यन्ति इत्यस्य सर्वं चिन्तनं तैः कृतम् आसीत् । नरायनक्षेत्रे घोरी इत्येतस्य पार्श्वे या सेना आसीत्, सा चतुर्षु विभागेषु विभक्ता आसीत् । तस्याः सेनायाः सैनिकाः भारविहीनैः शस्त्रैः, भारसहितैः अश्वैः च सज्जाः आसन् । चतुर्षु विभागेषु विभक्ता सा सेना चतसॄषु दिक्षु भारतीयसेनायाः उपरि आक्रमणं कर्तुं सज्जा आसीत् । या सेना चतुर्षु विभागेषु विभक्ता आसीत्, तां विहाय १०,००० सैनिकानाम् एकस्य दलस्य रचना घोरी इत्यनेन कृता आसीत् । ते १०,००० सैनिकाः अश्वारोहिणः सन्तः बाणं चालयितुं समर्थाः आसन् । घोरी इत्यनेन ते आदिष्टाः आसन् यत्, ते सर्वदा शत्रुभिः सह वामतः, दक्षिणतः, अग्रतः, पृष्ठतः च युद्धं कुर्युः । अग्रे घोरी इत्यनेन आदेशः प्रदत्तः आसीत् यत्, यदा भारतीयसेनायाः अश्वारोहिणः, पदातयः, हस्तिनः च आक्रमणाय अग्रे आगच्छेयुः, तदा ते (तुर्कसैनिकाः) पृष्ठे गत्वा स्वेषां, शत्रूणां च मध्ये कश्चन अश्वः धावितुं शक्नुयात् तावत् अन्तरं स्थापयेयुः इति [१०९] । घोरी इत्यस्य एषा नीतिः भारतीसैनिकेषु भ्रमम् उत्पादयितुम् आसीत् । उक्तरीत्या यदि तुर्कसैनिकाः युद्धक्षेत्रे आचरणं कुर्वन्ति, तर्हि भारतीयसैनिकानां भ्रमः भवति यत्, तुर्कसेनायाः सर्वेऽपि सैनिकाः युद्धक्षेत्रे एव सन्ति इति ।

घोरी इत्यस्य रणनीतेः विभिन्नाः परियोजनाः विभिन्नेषु पुस्तकेषु प्राप्यन्ते । यथा यहिया सरहिन्दी इत्यस्मिन् पुस्तके उल्लेखः अस्ति यत्, यदा हिन्दूनां हस्तिनः, अश्वारोहिणः च तुर्कसेनायाः कस्यचित् दलस्योपरि आक्रमणं कुर्युः, तर्हि अन्यदलानि तिसृषु दिक्षु आक्रमणं कुर्युः [११०] । इसामी इत्यस्य पुस्तकेऽपि उल्लिखितं यत्, नरायनस्य प्रथमयुद्धानन्तरं घोरी इत्यस्य चिन्तनम् आसीत् यत्, भारतीयहस्तिनाम् उपस्थितौ तुर्कदेशीयाः अश्वाः भयभीताः आसन्, अतः द्वितीये युद्धे अस्माभिः मुख्यतया हस्तिषु एव प्रहारः करणीयः इति । तदर्थं घोरी इत्यनेन ऐबक् इत्यनेन सह मिलित्वा गझनी-प्रदेशे अश्वाः अपि प्रशिक्षिताः [१११]

उक्तसैन्ययोजनया सह घोरी इत्येषः आरात्रं सैन्यसज्जतायां रतः आसीत् । अपरत्र पृथ्वीराजस्य सेना आरात्रं गहननिद्राधीना आसीत् । ब्राह्ममुहूर्ते [११२] घोरी इत्यस्य सेना पृथ्वीराजस्य शिविरं परितः आक्रमणाय सज्जा आसीत् । यस्मिन् समये पृथ्वीराजस्य सैनिकाः निद्राधीनाः आसन्, तस्मिन् एव समये घोरी इत्येषः आक्रमणम् अकरोत् । युद्धारम्भकाले स्वयं पृथ्वीराजः अपि निद्रायां निमग्नः आसीत् । केचन सैनिकाः दैनिककार्येषु व्यस्ताः आसन् ।

९९८ तमे वर्षे यथा लमगान-युद्धे जातम् आसीत्, तथैव नरायनयुद्धे अपि अभवत् । सुप्तराजपूतसेनायाः उपरि कवचधारिणः, सशस्त्रसैनिकाः, अश्वारोहिणः च आक्रमणम् अकुर्वन् । चत्वारिंशत्सहस्राधिकसङ्ख्याकाः (४०,०००) तुर्कसैनिकाः पृथ्वीराजस्य सेनायाः उपरि अकस्मात् आक्रमणम् अकुर्वन् । यावत् पर्यन्तं सर्वे सज्जाः भवेयुः, तावत् तु प्रलयसदृशी स्थितिः अभवत् । अनेकेषां राजपूतसैनिकानां युद्धशिबिरे एव मृत्युः अभवत् । पृथ्वीराजस्य अधिकं सैन्यबलं तस्मिन् आक्रमणे एव विनष्टम् ।

इतिहासविदां मतम् अस्ति यत्, नरायनस्य द्वितीयं युद्धं नासीत्, अपि तु दुर्घटना एव आसीत् । तस्मिन् युद्धे न तु हस्तिनाम्, अश्वानां युद्धे उपयोगः अभवत्, न तु कोऽपि राजपूतसैनिकः युद्धम् अकरोत् । आश्चर्यचकिताः सर्वे प्राणान्तकवेदनया आहताः यमलोकम् अगच्छन् । अधिकतमसैनिकाः स्नानम् अपि नाकुर्वन्, केचन अश्वस्य समीपम् अपि न प्राप्तुं शक्तवन्तः, युद्धस्य घोषणायाः प्रागेव अनेके राजपूतसैनिकाः मृताः । तस्मिन् आक्रमणे आक्रमणकारिणः एव शुभस्थितौ आसन्, यतो हि तैः आक्रमणकालः, स्थानं च निर्धारितम् आसीत् ।

घोरी इत्यस्य केन्द्रीयसेनायाः नेतृत्वं सः स्वयं कुर्वन् आसीत् । तस्य वामतः इलाह इत्याख्यः सेनापतिः, दक्षिणतः मुकल्बा इत्याख्यः सेनापतिः च आसीत् । अग्रिमदलस्य नेतृत्वं खारबक इत्याख्यः योद्धा कुर्वन् आसीत् । खरमेल इत्याख्यः स्वसेनया सह घोरी इत्यस्य पृष्ठे एव आसीत् । कुतुबुद्दीन ऐबक् इत्येषः सर्वेषां विभागानां नेतृत्वं कुर्वन् आसीत् । सः सर्वदा घोरी इत्यस्य समीपे एव भवति स्म । तस्मिन् काले घोरी इत्यस्य सेनायां त्रिसहस्राधिकैकलक्षम् अश्वारोहिणः आसन् । घोरी इत्यस्य सेनायाः प्रत्येकः सैनिकः 'जिहर्' इत्याख्येन कवचेन सुसज्जितः आसीत् । घोरी इत्यस्य आरक्षितसेनायां १२,००० आक्रमकयोद्धारः आसन् । ते सर्वेऽपि 'जिहर' इत्याख्येन कवचेन, लोहस्य मुकुटेन, असिधनुश्शुलैः च सुसज्जाः आसन् ।

तुर्कसैनिकानाम् आकस्मिकाक्रमणेन पृथ्वीराजस्य सेना छिन्नविच्छिन्ना अभवत् । सैनिकानां नेतृत्वं कर्तुं कोऽपि समर्थः नासीत् । तस्मिन् काले देहलीवासी गोविन्दरायाख्यः प्रधानसेनापतिः राजपूतानां सेनायाः नेतृत्वम् अकरोत् । सः स्वसेनां सङ्कल्य तुर्कसेनायाः विरुद्धं युद्धम् आरभत । गोविन्दरायः यदा युद्धस्य नेतृत्वं करोति स्म, तदा अन्ये सेनाध्यक्षाः अपि तेन सह युक्ताः अभूवन् । केन्द्रीयसेनायाः नेतृत्वं पिथौरा कुर्वन् आसीत् । गोविन्दरायस्य वामतः पदमशा रावल इत्याख्यः अध्यक्षः, दक्षिणतः भुवनैकमल्लाख्यः सेनापतिः च निजसेनायाः सैनिकानां नेतृत्वं कुर्वन्तौ आस्ताम् ।

गोवन्दरायः हस्तिसेनया सह खाबरक इत्यस्य अग्रिमदलस्योपरि आक्रमणम् अकरोत् । खाबरक इत्येषः येन केन प्रकारेण स्वरक्षाम् अकरोत् । ततः सः स्वसैनिकान् आदिशत्, "स्वबाणैः केवलं हस्तिषु आक्रमणं कुर्वन्ति" इति । खाबरक इत्यस्य आदेशानुसारं तुर्कसैनिकाः हस्तिषु, महावतेषु च आक्रमणम् अकुर्वन् । हस्तिसेनायाः चतुःपञ्चशान् हस्तिनः तुर्कसैनिकानां बाणैः आहताः अभूवन् । तेन भारतीयसेनायाः हस्तिनः इतस्ततः अभूवन् । इसामी इत्यस्य वर्णनानुसारम् एतस्यानन्तरमेव हिन्दुसेना पराजयोन्मुखिनी अभवत् ।

फरिश्ता इत्यस्मिन् उल्लिखितं यत्, घोरी इत्यस्य आदेशानुसारं तस्य सेना चतुर्षु विभागेषु विभक्ता आसीत् । घोरी इत्यस्य आदेशः आसीत् यत्, सर्वेऽपि विभागाः हिन्दुसेनया सह मिलत्वा न अपि तु विभागशः युद्धं कुर्युः इति । "यदा हिन्दूनां हस्तिसेना यवनसेनायाः उपरि विजयोन्मुखिनी भवेत्, तदा सैनिकाः युद्धक्षेत्रात् पलायनं कुर्युः । ततः राजपूतसैनिकाः भवतां पृष्ठे आगमिष्यन्ति, युद्धक्षेत्रात् दूरे उचितस्थानं प्राप्य यवनसैनिकाः हिन्दुसेनायाः उपरि आक्रमणं कुर्युः । येन केन प्रकारेण सर्वेषां हिन्दुसैनिकानां नाशः करणीयः" इत्यपि घोरी इत्यस्य आदेशः आसीत् । यवनसेना घोरी इत्यस्य आदेशानुसारं ब्राह्ममुहूतात् आरभ्य मध्याह्नकालपर्यन्तं युद्धम् अकरोत्, परन्तु हिन्दुसेनायाः पराजयस्य सम्भावनाऽपि न दृश्यते स्म । मध्याह्नकाले घोरी इत्यनेन यदा अनुभूतं यत्, हिन्दुसेनया सह युद्धे इतोऽपि विजयस्य स्थितिः नास्ति, तदा तेन आरक्षितसेनायै आक्रमणस्य आदेशः प्रदत्तः । १२,००० आरक्षिताः यवनसैनिकाः आकस्मिकरीत्या हिन्दुसेनायाः उपरि आक्रमणम् अकुर्वन् । तत् आक्रमणम् अतिभयङ्करम् आसीत् । तस्मिन् आक्रमणे अनेके हिन्दुसैनिकाः हुतात्मनः अभूवन् ।

बन्दी पृथ्वीराजः[सम्पादयतु]

युद्धात् पूर्वं सपादलक्षसाम्राज्यस्योपरि चतसॄषु दिक्षु आक्रमणं कृत्वा सीमावर्तिराज्यानां देशद्रोहस्य दुरभिसन्धेः परिणामेन पृथ्वीराजस्य सेना अनेकेषु विभागेषु विभक्ता । ततः युद्धदिने ब्राह्ममुहूर्ते घोरी इत्यस्य सेनायाः अनैतिकरीत्या पृथ्वीराजस्य युद्धशिबिरे आक्रमणेन अनेके हिन्दुसैनिकाः हुतात्मनः अभूवन् । न केवलं भारतस्य अनेके राजपरिवाराः पृथ्वीराजस्य विरुद्धं दुरभिसन्धिम् अकुर्वन्, अपि तु पृथ्वीराजस्य सेनायाः अनेके पदाधिकारिणः अपि यवनसेनया सह दुरभिसन्धिम् अकुर्वन् । पृथ्वीराजस्य समीपवर्तिनां विश्वासघातेनैव पृथ्वीराजः बन्दी अपि अभवत् । उक्तकथनस्य समर्थनं हसन निजामी, इसामी, नयचन्दसूरि इत्यादयः अपि कुर्वन्ति । उक्तानां पुस्तकेषु युद्धस्य विर्णनं विस्तरेण प्राप्यते ।

यदा युद्धं पराकाष्ठायाम् आसीत्, गोविन्दरायः स्वहस्तिसेनायाः प्रभावेण तुर्कसेनायाः उपरि विजयोन्मुखः आसीच्च, तदा पृथ्वीराजः हिन्दुसेनायाः, घोरी इत्येषः यवनसेनायाः च केन्द्रीयविभागस्य नेतृत्वं कुर्वन्तौ आस्ताम् । तस्मिन्नेव काले खरमेल इत्येषः स्वधनुर्धरसैनिकेभ्यः आदेशम् अयच्छत्, "हिन्दुसेनायाः हस्तिषु आक्रमणं कुर्वन्तु" इति । ततः यवनसैनिकाः पूर्णबलेन हिन्दुसेनायाः हस्तिषु आक्रमणम् अकुर्वन् । बाणवर्षाभिः आहताः हस्तिनः भीताः सन्तः इतस्ततः पलायन्त । तस्मिन् उपद्रवे खरमेल इत्यस्य आदेशेन यवनसैनिकैः धावतां हस्तिनां पृष्ठभागे पणवानकगोमुखानाम् उच्चध्वनिः आरब्धः । हिन्दुसेनायाम् अस्तव्यस्ततायाः स्थित्यां घटनाद्वयम् अभवत् । प्रप्रथमं तु यं हस्तिनम् आरुह्य पृथ्वीराजः युध्यमानः आसीत्, सः हस्ती बाणैः आहतः सन् अनियन्त्रितः अभवत् । अतः पृथ्वीराजः आहतहस्तिनः अधः अवातरत्, स्वविश्वस्ताय अश्वम् आनेतुम् आदेशम् अयच्छच्च । द्वितीयं घोरी इत्येषः हिन्दुसेनायाः अस्तव्यस्ततायाः स्थितिं दृष्ट्वा वामभागतः, दक्षिणभागतः च आक्रमणं कर्तुं स्वसैनिकेभ्यः आदेशम् अयच्छत् । तथा च १२,००० आरक्षितसैनिकेभ्यः अपि आक्रमणस्य आदेशं दत्त्वा सः स्वयं केन्द्रीयसेनया सह अग्रे अगच्छत् ।

आहतहस्तिनः अवतीर्य पृथ्वीराजः यस्मिन् अश्वे आरूढः, सः अश्वः नाट्यशालायाः अश्वः आसीत् । घोरी इत्यनेन सह देशद्रोहिणां दुरभिसन्धिः युद्धक्षेत्रे अपि बहुधा सफलः अभवत् । यदा पृथ्वीराजः अश्वारूढः अभवत्, ततः समनन्तरमेव घोरी इत्यस्य सैनिकाः भैर्याः ध्वननम् आरभन्त । भैर्याः सङ्गीतं श्रुत्वा पृथ्वीराजस्य अश्वः नृत्यम् आरभत । अश्वस्य स्थितिं दृष्ट्वा पृथ्वीराजः अवगतवान् यत्, किम् अभवत् ? किञ्च भविष्यति ? इति । सः समनन्तरमेव तस्मात् अश्वात् अवतीर्य हिन्दुपदातिभिः सह मिलित्वा युद्धम् आरभत । तस्मिन्नेव काले पृष्ठात् कश्चन तुर्कसैनिकः पृथ्वीराजस्य ग्रीवयाम् आघातम् अकरोत् । ततः तुर्कसैनिकाः पृथ्वीराजस्योपरि मिलित्वा आक्रमणं कृत्वा पृथ्वीराजं बन्दिनम् अकरोत् [११३]

११९२ तमस्य वर्षस्य मार्च-मासस्य प्रथमे (१/३/११९२) दिनाङ्के आकस्मिकाक्रमण-बुभुक्षा-पिपासा-दुरभिसन्धिभिः क्लान्ताः हिन्दुसैनिकाः युद्धे पराजिताः । तस्मिन् दिने ३६ राजवंशानाम् असङ्ख्यवीरसैनिकाः स्वमातृभूमेः रक्षायै स्वप्राणाहूतिम् अयच्छन् । अनेके बालकाः अनाथाः, अनेकाश्च स्त्रियः विधवाः अभूवन् । सपादलक्षसाम्राज्यस्य पतनेन कन्नौजप्रदेशस्य राजा जयचन्दः घृतदीपकान् प्रज्वाल्य उत्सवम् आचरत् । नरायनविजयानन्तरं घोरी इत्येषः पृथ्वीराजं नीत्वा अजयमेरु-प्रासादं प्रापत् । नगरप्रवेशस्यानुक्षणमेव तुर्कसैनिकाः नगरे उत्पातम् आरभन्त । मन्दिराणि, मूर्तीः, पाठशालाः च लुण्ठयित्वा अग्निसात् अकुर्वन् । नगरजनेभ्यः धनम्, अमूल्यवस्तूनि च बलात् अपाहरन् यवनसैनिकाः । ते हिन्दुमहिलासु, युवतिषु, विधवासु च बलात् अभरुतया व्यवहरन् । नगरे महिलानां, बालकानां, वृद्धानां, पुरुषाणां च आर्तनादः गुञ्जति स्म [११४]

पृथ्वीराजस्य अन्तिमकालः[सम्पादयतु]

बीकानेर-नगरे 'सार्दूल रिसर्च इन्स्टिट्यूट्' आख्या एका संस्था वर्तते । तस्यां संस्थायां पृथ्वीराजरासोकाव्यस्य प्राचीनतमानि हस्तलिखितपत्राणि लिखितपत्रं प्राप्यते, तेषु हस्तलिखितपत्रेषु अतिप्रसिद्धः एकः श्लोकः वर्तते यत्,

दिन पलटु-पलटु न मन, भुज वाहत सब शस्त्र ।

अरि मिट मिटये न कोई, लिख्यु विधाता पत्र ।। [११५]

उक्तश्लोकवत् अन्यश्लोकः 'चोपाई' रूपेण तुलसीदासस्य श्रीरामचरितमानसे प्राप्यते –

सुनहु भरत भावी प्रबल, विहंसि कहा मुनिनाथ ।

हानि-लाभ, जीवन-मरण, जस-अपजस विधि हाथ ।। १७१ ।। अयोध्याकाण्डः

अर्थात्, भाग्यम् एव बलवत् अस्ति । जीवनं-मरणं, दिनं, रात्रिः, सुखं, दुःखं, जयः, पराजयः, उत्थानं, पतनं च नियत्यनुसारं भवति इति ।

पृथ्वीराजरासोकाव्यस्य अनेके अंशाः चन्दबरदायी इत्यनेन न रचिताः इति अनेकैः विद्वद्भिः प्रत्यायितम् । गझनी-प्रदेशे एकेन बाणेन पृथ्वीराजः घोरी इत्यस्य वधं करोति [११६] इत्यस्य पृथ्वीराजरासोकाव्यस्य वर्णनस्य विरुद्धम् अनेकेषाम् इतिहासविदां मतान्तराणि सन्ति । घोरी-वधानन्तरं चन्दः, पृथ्वीराजश्च परस्परं घातं कृत्वा मृत्युं प्राप्नुतः इत्यनेन उल्लेखेन सह वर्णनं प्राप्यते यत्, एषा सूचना चन्दद्वारा उल्लिखिता इति । काऽपि व्यक्तिः स्वमृत्योः वर्णनं कथं कर्तुं शक्नोति ? इति प्रप्रथमः प्रश्नः समुद्भवति । ततः शैल्यादीनां विश्लेषणेन अनेकानि प्रमाणानि प्राप्यन्ते । एवं सिध्यति यत्, सा रचना चन्देन न कृता, अपि तु कोऽपि अज्ञातकविः तत्र आक्षेपम् अकरोत् इति ।

यद्यपि पृथ्वीराजरासोकाव्यस्य मूलस्रोतः परवर्तिनः कवयः मलीनम् अकुर्वन्, तथापि रासोकाव्ये बाणवेधवर्णनं सर्वथा अनैतिहासिकं न सिध्यति ।

चार बांस चौबीस गज, अङ्गुल अष्ट प्रमान ।

ता ऊपर सुल्तान है, मत चूको चौहान ।।

उक्तपङ्क्तेः घोषः भारतीयजनमानसे शरदां नैकशतभ्यः अत्यन्तं लोकप्रियः वर्तते, अद्यापि अस्ति च । पृथ्वीराजेन चालितः बाणः घोरी इत्येनम् अभेत्स्यत्, परन्तु तस्मात् पुरा देशद्रोहिणः घोरी इत्यस्य साहाय्यम् अकुर्वन्, येन घोरी इत्यस्य प्राणरक्षा अभवत् ।

पृथ्वीराजस्य अन्तिमकालः कीदृशः आसीत् ? इत्यस्य विषये भारतीयसाहित्येषु पर्याप्तप्रमाणानि उपलभ्यन्ते । तेषां प्रमाणानाम् उपस्थापने प्रत्येकभारतीयस्रोतसि परस्परं भिन्नता अस्ति, परन्तु फारसी-ग्रन्थाः अपि तथैव सन्ति । येषु मध्यकालीनसाहित्येषु पृथ्वीराजस्य मृत्योः उल्लेखः प्राप्यते, तेषु पृथ्वीराजरासोकाव्यं, पुरातनप्रबन्धसङ्ग्रहः, विरुद्धविधिविध्वंसः, सुर्जचरितमहाकाव्यं, राजदर्शिनी (जम्मूप्रदेशस्य तवारिख), कान्हडदे-प्रबन्धः, प्रबन्धचिन्तामणिः, हम्मीरमहाकाव्यं च अन्तर्भवन्ति । फारसी-साहित्येषु ताजुल मासिर, जवामि उल हिकायता या रिवायत, तबकाते नासिरी, फुतुहूस्सलातीन, तारीखे फरिश्ता, गुलदशने इब्राहीमी, आइने-अकबरी इत्येते ग्रन्थाः प्रमुखाः सन्ति ।

भारतीयस्रोतांसि[सम्पादयतु]

पृथ्वीराजरासो[सम्पादयतु]

घोरी इत्येषः पृथ्वीराजं बन्दिनं कृत्वा गझनी-प्रदेशं नयति । चन्दबरदायी तस्मिन् युद्धे अनुपस्थितः आसीत्, यतो हि सः स्वयं पृथ्वीराजस्य आदेशेन जम्मूप्रदेशं हाहुली हम्मीर इत्याख्येन सामन्तेन सह सन्धिं कर्तुं गतः आसीत् । तत्र हम्मीर इत्येषः सामन्तः चन्दबरदायिनः परामर्शम् न स्वीकृतवान्, तथा च चन्दबरदायिनमेव जालपा-देव्याः मन्दिरे बिन्दिनम् अकरोत् । युद्धसमाप्त्यनन्तरमेव चन्दः विमुक्तः अभवत् । पृथ्वीराजः पराजितः सश्च घोरी इत्यस्य बन्दी अस्ति च इति समाचारं बन्धनमुक्तः चन्दः प्रापत् । अतः सः स्वसम्राजः उद्धारार्थं गझनी-प्रदेशम् अगच्छत् । तत्र स्ववाक् चातुर्येण चन्दः घोरी इत्येनं प्रभावितम् अकरोत् ।

ततः सः घोरी इत्येनम् अकथयत्, पृथ्वीराजः अन्धे सन् अपि कुशलतया लक्ष्यं भेत्तुं समर्थः अस्ति । एवं घोरी इत्येनं तं चमत्कारं द्रष्टुं प्रैरयत् । ततः चन्दः वर्णयति यत्, घोरी इत्येनं पृथ्वीराजः एकेन बाणेनैव कथम् अहन् इति । घोरी इत्यस्य मरणोत्तरं पृथ्वीराजः, चन्दश्च आत्मघातम् अकुरुताम् । चन्दानुसारं तस्य, पृथ्वीराजस्य च मृत्युः गझनी-प्रदेशे अभवत् । उक्तकथानकः पृथ्वीराजरासोकाव्यस्य लघुतम-मध्यम-बृहत्सु रूपान्तरेषु उपलभ्यते ।

पुरातनप्रबन्धसङ्ग्रहः[सम्पादयतु]

पुरातनप्रबन्धसङ्ग्रहस्य रचनाकालः १२९० तमः विक्रमसंवत्सरः (ई. ११३३) वर्तते । लिपिकालः ई. १४२८ – १४७१ मन्यते [११७] । पुरातनप्रबन्धसङ्ग्रहस्य "पृथ्वीराजप्रबन्धे" उल्लिखितम् अस्ति यत्, राज्ञः ग्रीवायां भारं स्थापयित्वा घोरी इत्येषः स्वर्णश्रृङ्खलया पृथ्वीराजं बन्दिनम् अकरोत् । ततः सः पृथ्वीराजं योगिनीपुरम् (देहली) अनयत् । देहल्याः राजप्रासादे घोरी इत्येषः पृथ्वीराजम् अपृच्छत्, "हे राजन् ! यदि अहं तुभ्यं जीवनदानं यच्छामि, तर्हि त्वं किं करिष्यसि ?" इति । पृथ्वीराजः प्रत्युदतरत्, "अहं तुभ्यं सप्तवारं जीवनदानम् अयच्छम्, किं त्वम् एकवारम् अपि मां मुक्तं न करिष्यसि ?" इति ।

यस्य नयनबुद्बुदे (अक्षिणी, Eyeball) निष्कासिते, तादृशः पृथ्वीराजः घोरी इत्यस्य सम्मुखं खेदमग्नः आसीत् । ततः पृथ्वीराजस्य प्रधानः अपृच्छत्, देव ! किं करणीयम् ? नियत्याधारितम् एतत् सङ्कटं समुद्भूतम् इति । पृथ्वीराजः अवदत्, "यदि त्वं मह्यं धनुष्काण्डं (Bow and Arrow) यच्छेः, तर्हि अहम् एनं (घोरी इत्येनं) मारयामि" इति । प्रधानः अवदत्, महाराज ! एवमेव करोतु । ततः सः प्रधानः घोरी इत्यस्य समीपम् अगच्छत्, तम् अकथयत्, अस्मिन् स्थाने न स्थीयताम् इति । अतः घोरी इत्येषः स्वस्थाने लौहपुत्तलम् अस्थापयत् । ततः पृथ्वीराजाय धनुष्काण्डम् अयच्छत् सः प्रधानः । पृथ्वीराजः स्वबाणाघातेन लोहपुत्तलस्य भागद्वयम् अकरोत् । ततः सः धनुष्काण्डम् अत्यजत् । परन्तु लोहध्वनिना सः अजानत् यत्, अहं निष्फलः अभवम् इति । अतः सः मनसि एव अचिन्तयत्, मम कार्यं तु अपूर्णम् एवास्ति, अतः अन्यः कोऽपि मां हनिष्यति इति । ततः घोरी इत्येषः एकस्मिन् महागर्ते (hole, गड्ढा) पृथ्वीराजं क्षिप्त्वा पाशाणैः पृथ्वीराजं मारयन्तु इति आदेशम् अयच्छत् । यदि एतस्य (पृथ्वीराजस्य) रक्तं भूमौ पतिष्यति, तर्हि शुभमेव भविष्यति इति सः पौनःपुन्येन कथयति स्म । १२४६ तमे विक्रमसंवत्सरे (ई. ११८९) यवनानां पाशाणाघातेन पृथ्वीराजः प्राणान् अत्यजत् ।

बाणवेधस्य प्रसङ्गः अत्रापि प्राप्यते परन्तु वर्णनं भिन्नम् अस्ति । अत्र घोरी इत्यस्य स्थाने तस्य पुत्तलस्य भेदनस्य विवरणं प्राप्यते । अत्र स्थानं गझनी-प्रदेशः न अपि तु देहली अस्ति । पृथ्वीराजरासोकाव्ये उल्लिखितं यत्, पृथ्वीराजः आत्मघातं करोति, परन्तु जैनाचार्यस्य मतानुसारम् अत्र एकस्मिन् छिद्रे पाशाणाघातैः पृथ्वीराजः प्राणान् त्यजति । अस्मिन् कथानके केवलं पृथ्वीराजस्य मृत्योः उल्लेखः वर्तते । चन्दबरदायी इत्यस्य तथा च घोरी इत्यस्य मृत्योः वर्णनं न प्राप्यते ।

सुर्जनचरितमहाकाव्यम् [११८][सम्पादयतु]

चन्द्रशेखरकृतस्य सुर्जनचरितमहाकाव्यस्य रचना १६९२ तमः विक्रमसंवत्सरः (ई. १६३५) मन्यते । सुर्जनचरितमहाकाव्यस्य दशमसर्गस्य १२० तमश्लोकात् १६८ तमश्लोकपर्यन्तं वर्णनं प्राप्यते यत्, दिग्विजयाभियानान्तरं पृथ्वीराजः घोरी इत्येनम् अबध्नात् । एकविंशतिवारं पृथ्वीराजः घोरी इत्येनं बन्दिनं कृत्वा अत्यजत्, परन्तु सः पृथ्वीराजस्य अपकारम् अकरोत् । एकस्मिन् युद्धे छलेन पृथ्वीराजं बन्दिनं कृत्वा घोरी इत्येषः तं गझनी-प्रदेशम् अनयत् । तत्र सः पृथ्वीराजं नेत्रहीनम् अकरोत् । ततः पृथ्वीराजस्य मित्रम् अपि गझनी-प्रदेशं प्रापत् । सः पृथ्वीराजं प्रतिशोधाय प्रैरयत् । पृथ्वीराजः अवदत्, मम पार्श्वे सेना नास्ति, नेत्रे न स्तः प्रतिशोधः कथं सम्भवः ? इति । ततः चन्दबरदायी यदा पृथ्वीराजं शब्दवेधविद्यायाः स्मरणं कारयति, तदा पृथ्वीराजः प्रतिशोधाय सज्जः भवति ।

पृथ्वीराजेन सह शब्दवेधविद्यायाः योजनां कृत्वा चन्दबरदायी घोरी इत्यस्य सभायाम् अगच्छत् । स्वल्पेषु दिनेषु एव चन्दबरदायी घोरी इत्यस्य, तस्य मन्त्रिणः च विश्वासभाक् अभवत् । ततः एकस्मिन् दिने चन्दबरदायी सभायाम् अवदत्, पृथ्वीराजः अन्धो भूत्वापि लौहश्रृङ्खलां भेत्तुं शक्नोति । तस्य तत् कौशलम् एकवारं तु दर्शनीयम् एव इति । चन्दबरदायिनः छलेन बद्धः घोरी इत्येषः पृथ्वीराजस्य कौशलं द्रष्टुं तत्परः अभवत् । ततः राजप्रासादे एकस्मिन् स्तम्भे सुवर्णश्रृङ्खलाः बद्ध्वा यवनसैनिकः पृथ्वीराजस्य हस्ते धनुष्काण्डम् अयच्छत् । चन्दबरदायी घोरी इत्येनम् अकथयत्, भवान् स्वयं त्रिवारं पृथ्वीराजाय बाणं चालयितुम् आज्ञां यच्छतु, ततः सः बाणवेधं करिष्यतीति । एवं घोरी इत्यस्य मुखात् शब्दनिःसरणस्य अनुक्षणमेव पृथ्वीराजः बाणम् अचालयत् । सः बाणः घोरी इत्यस्य तालुमूलम् (the root of the palate) अभिनत्त् । अतः तत्क्षणमेव घोरी इत्यस्य मृत्युः अभवत् । घोरी इत्यस्य हत्यया राजप्रासादे कौतुहलस्थितिः अभवत् । अतः चन्दबरदायी पृथ्वीराजम् अश्वोपरि स्थापयित्वा जाङ्गलदेशम् अनयत् । तत्र सः पृथ्वीराजः स्वयशः तन्वानः राज्यं कृत्वा परलोकम् अगच्छत् ।

सुर्जनचरितमहाकाव्यस्य कथा पृथ्वीराजरासोकाव्येन सह अनेकेषु अंशेषु सामाञ्जस्यं धरते । तत्रत्यं व्यवास्तः अस्ति यत्, अत्र पृथ्वीराजः चन्दबरदायिना सह गझनी-प्रदेशात् निर्गन्तुं सफलः भवति । ततः सः जाङ्गलप्रदेशे राज्यं कुर्वन् स्वयशः तन्वानः परलोकं गच्छतीति । सुर्जनचरितमहाकाव्यकारः पृथ्वीराजरासोकाव्यस्य पूर्णरीत्या असमर्थनम् अपि न करोति, तथा च विरोधनम् अपि न करोति । एवं सुर्जनचरितमहाकाव्ये केवलं घोरी इत्यस्य एव हत्यायाः वर्णनं प्राप्यते ।

प्रबन्धचिन्तामणिः [११९][सम्पादयतु]

१३६१ तमस्य विक्रमसंवत्सरस्य वैशाखमासस्य पूर्णिमायां (१५/२/१३६१) तिथौ (ई. १३०४) प्रबन्धचिन्तामणेः रचना अभवत् । एतस्य ग्रन्थस्य रचनाकारः मेरुतुङ्गः वर्तते । प्रबन्धचिन्तामणौ उल्लिखितं यत्, म्लेच्छराजस्य पुत्रः स्वपितुः अपमानस्य वैरोद्धारार्थं सपादलक्षसाम्राज्यशासकस्य पृथ्वीराजस्योपरि आक्रमणम् अकरोत् । सः घोरी इत्येषः पूर्णसज्जतया सह पृथ्वीराजस्य राज्ये आक्रमणम् अकरोत् । परन्तु पृथ्वीराजस्य सेनायाः धनुर्धरवीराणां बाणवर्षायाः भीतः सन् घोरी इत्येषः ससैन्यं पलायत् । पृथ्वीराजः घोरी इत्यस्य पृष्ठे अगच्छत् । मार्गे भोजनविभागस्य कश्चन अधिकारी पृथ्वीराजम् अकथयत्, हे राजन् ! कृपया सप्तशतम् ऊष्ट्रीः (She-camel) यच्छतु इति । तस्य वचनं श्रुत्वा पृथ्वीराजः प्रत्युदतरत्, सर्वप्रथमं म्लेच्छराजं मारयित्वा तस्य उष्ट्रसमूहं स्वगतं करिष्यामि, ततः तव इच्छापूर्तिं करिष्ये इति । ततः राजा यदा अग्रे प्रयाणं कर्तुम् उद्यतः अभवत्, तदा सोमेश्वराख्यः कश्चन प्रधानः पृथ्वीराजं पौनःपुन्येन म्लेच्छराजस्य पृष्ठे न गन्तुम् अकथयत् । सोमेश्वरस्य वचनैः क्रुद्धः पृथ्वीराजः तस्य कर्णौ भिनत्ति । पृथ्वीराजात् पराभूतः सोमेश्वरः म्लेच्छराजस्य पक्षे सक्रियः भवति । सोमेश्वरः घोरी इत्यनेन सह दीर्घकालं यावत् योजनां कृत्वा तस्य विश्वासार्जनम् अकरोत् । सः घोरी इत्यस्मिन् विश्वासम् अजनयत् यत्, पृथ्वीराजस्य सम्मुखं तस्य एव विजयः भविष्यतीति । ततः घोरी इत्येषः एकादश्यायां तिथौ पृथ्वीराजस्य सेनायाः उपरि आक्रमणम् अकरोत् । म्लेच्छराजस्य सेना सपादलक्षसाम्राज्यस्योपरि आक्रमणम् अकरोत् । पारणानन्तरं पृथ्वीराजः घाढनिद्रायाम् आसीत् । घोरी इत्यस्य सैनिकाः तस्योपरि आक्रमणं कृत्वा तं बन्दिनम् अकरोत् ।

घोरी इत्यनेन बन्दीकृतः पृथ्वीराजः एकमासं यावत् बन्दित्वेन अजमेरु-प्रासादे न्यवसत् । एकमासानन्तरम् एकादश्यां तिथौ पृथ्वीराजः यदा पूजामग्नः आसीत्, तदा म्लेच्छराजः तस्मै पक्वमांसं भोक्तुं प्रैषयत् । भोजनसमयेऽपि पृथ्वीराजः पूजामग्नः आसीत्, अतः तस्य ध्यानं मांसस्योपरि न गतम् । परन्तु ततः बहुकाले व्यतीते सति एकः कुक्कुरः पृथ्वीराजस्य शिबिरं प्रविष्टः । सः कुक्कुरः तत् मांसम् अभुनक् (खा गया) । कुक्कुरः मांसं नीत्वा गच्छन् अस्ति इति दृष्ट्वा शिबिरप्रतिहारिणः पृथ्वीराजम् अपृच्छन्, किमर्थं त्वं भोजनस्य रक्षां नाकुरोः ? इति । पृथ्वीराजः प्रत्युदतरत्, यस्य भोजनस्य भारं सप्तशतम् उष्ट्र्यः अपि वोढुं न शक्नुवन्ति स्म, तस्य भोजनस्य एतादृशी स्थितिः अस्ति । एतत् सर्वम् अहम् अननुकूलो भूत्वा पश्यन् अस्मि इति । ततः एकः प्रतिहारी क्रोधेन पृथ्वीराजम् अपृच्छत्, किम् इतोऽपि त्वयि शक्तिः अवशिष्टा अस्ति ? तस्मै उत्तरं यच्छन् पृथ्वीराजः अवदत्, यदि अहं स्वस्थानं प्राप्नोमि, तर्हि अहं मे शारीरकबलं प्रदर्शयामि इति ।

पृथ्वीराजेन सह प्रतिहारिणां या चर्चा अभवत्, तस्याः चर्चायाः समाचारं घोरी इत्येषः अपि प्रापत् । क्रोधाविष्टः सन् सः पृथ्वीराजम् अजयमेरु-प्रासादम् अनयत् । सः प्रासादस्य राजसिंहासने स्थातुं पृथ्वीराजाय आदेशम् अयच्छत् । ततः सिंहासनं परितः स्थितानि चित्राणि दृष्ट्वा घोरी इत्येषः पीडाम् अन्वभवत् । राजसिंहासनं परितः पृथ्वीराजेन म्लेच्छान् (यवानान्) ताडयतः शूकरस्य चित्रं प्रस्थापितम् आसीत् । ततः क्रोधावेशेन घोरी इत्येषः परशुना राजसिंहासने स्थितस्य पृथ्वीराजस्य शिरश्छेदनम् अकरोत् ।

मेरुतुङ्गरचिते महाकाव्येऽस्मिन् पृथ्वीराजस्य देहत्यागस्य एव वर्णनं प्राप्यते । तस्मिन् पृथ्वीराजः अजयमेरुप्रासादे एव देहत्यागम् अकरोत् इति वर्णनं प्राप्यते ।

विविधतीर्थकल्पप्रदीपः [१२०][सम्पादयतु]

विविधतीर्थकल्पप्रदीपस्य रचनाकालः ई. १३०७-१३३२ मन्यते । विविधतीर्थकल्पप्रदीपाख्यः ग्रन्थः प्राकृतभाषया लिखितः वर्तते । तस्य ग्रन्थस्य कन्यानयनीयमहावीरप्रतिमाकल्पाख्ये द्वाविंशतितमे (२२) कल्पे वर्णनं प्राप्यते यत्,

जाव हारहसय अडयाले (१२४८) विक्कमाइच्च संवच्छरे चाहुयाण कुलपइये सिरि पुहविराय नरदि सुरताण साहब दीणेण निहणनीए रज्जपहाणेण पराम सावएण सिच्चि रामदेवेण साव संघस्य लेहो पेसियो, जहां तुरुक्क रज्ज सजायं । सिरि महावीर पडियमा पच्छन्न धारियव्व ।

अर्थात्, १२४८ विक्रमसंवत्सरे (ई. ११९१-९२) यदा चौहानकुलदिवाकरस्य श्रीपृथ्वीराजः घोरी इत्यनेन मारितः, ततः अजमेरु-प्रासादे तुर्काणाम् आधिपत्यम् अभवत् । अतः अजयमेरोः मन्त्री महाश्रेष्टिरामदेवः सूचनां प्रासारयत्, "यवनाः जैनसङ्घस्य मूर्तीनां नाशं कुर्युः, तस्मात् पुरा एव सर्वे जैनाचार्याः मूर्तीः भूमौ वैलस्थाने (a burying-place) स्थापयन्तु" इति । एवं ग्रन्थेऽस्मिन् पृथ्वीराजस्य देहत्यागः अजमेरौ एव अभवत् इति वर्णनं प्राप्यते ।

हम्मीरमहाकाव्यम् [१२१][१२२][सम्पादयतु]

हम्मीरमहाकाव्यस्य कर्ता नयचन्द सूरि इत्येषः । हम्मीरकाव्यस्य रचनाकालः १४६० विक्रमसंवत्सरः (ई. १४०३) मन्यते । पृथ्वीराजस्य अन्तिमकालस्य वर्णनं हम्मीरकाव्यस्य तृतीयसर्गे ५३ तमात् श्लोकात् ७२ तमं श्लोकपर्यन्तं प्राप्यते । तत्र उल्लिखितं यत्,

पूर्वं यानि युद्धानि शकराजः (घोरी इत्येषः) पृथ्वीराजेन सह अकरोत्, तेषां युद्धानां स्मरणं कुर्वन् शकराजः पृथ्वीराजं दृष्ट्वा अचिन्तयत्, "यथा मृगैः सिंहः अजेयः अस्ति, तथैव एषः (पृथ्वीराजः) अस्मभ्यम् अजेयः अस्ति" इति । अतः रात्रिकाले शकराजः स्वविश्वस्तान् पृथ्वीराजस्य अश्वशालां सम्प्रेष्य अश्वाधिपतये, तूर्यवादकाय च उत्कोचत्वेन असीमितसुवर्णमुद्राः अदापयत् । रात्र्याः अन्तिमप्रहरे (ब्राह्ममुहूर्ते) एव यवनसैनिकाः पृथ्वीराजस्य सैनिकेषु आक्रमणम् अकुर्वन् । अनेकैः उत्पातजनकैः घोषैः यनवसैनिकाः हिन्दूसैनिकेषु आक्रमणम् अकुर्वन् । सङ्ग्रामस्य स्थितिं दृष्ट्वा भारतेश्वरः पृथ्वीराजः अश्वपालकद्वारा प्रेषिते नाट्यशालायाः अश्वे आरूढः अभवत् । तदा अश्वारूढं पृथ्वीराजं दृष्ट्वा तूर्यवादकः पणवानकगोमुखानां ध्वनिना सङ्गीतरागान् अवादयत् । सङ्गीतं श्रुत्वा नट्यशालायाः अश्वः नृत्यम् आरभते । ततः अश्वात् अवतीर्य पृथ्वीराजः यवनसैनिकैः सह युद्धम् आरभत । स्वप्रहारैः, स्वगर्जनैः च पृथ्वीराजः शत्रूणां हृदि भयम् उदपादयत् । पृथ्वीराजं परितः यवनसैनिकाः तथैव आसन्, यथा सर्पं परितः पक्षिणः भवन्ति । पृथ्वीराजः अनेकैः यवनसैनिकैः सह युद्धम् आरभत । तस्मिन्नेव काले एकः यवनसैनिकः पृष्ठभागात् पृथ्वीराजस्य ग्रीवायां रज्जूम् अक्षिपत् । ततः सर्वे सैनिकाः मिलित्वा पृथ्वीराजस्योपरि आक्रमणम् अकुर्वन् । बहुकालं यवात् सङ्घर्षं कृत्वा अन्ततो गत्वा पृथ्वीराजः यवनसैनिकैः बन्दी अभवत् [१२३]

सद्गुणी, दुष्टविनाशकः, नवहेमाभः, वशीकृतभाग्यः पृथ्वीराजः शकराजेन बन्दी कृतः । ततः सः स्वजीवने, भोजने च रुचिम् अपि अत्यजत् । कश्चन म्लेच्छाधिपतिं न्यवेदयत्, "भारतेश्वरः पृथ्वीराजः त्वम् अनेकवारम् अत्यजत्, किं त्वम् एकवारम् अपि पृथ्वीराजं न मोचयिष्यति ?" इति । तस्य जनस्य धर्मयुक्तं वचनं श्रुत्वा कुद्धः निर्दयः शकराजः अवदत्, "एते हिन्दूजनाः अत एव राजनैतिकरहस्यैः हीनाः उच्यन्ते" इति [१२४] । ततः शकाधिपतिना पृथ्वीराजः अन्यदुर्गस्य कारागारः प्रेषितः । क्रुराः यवनाः पृथ्वीराजं कारागार एव अन्धम् अकुर्वन् । ततः शिवमतानुयायिनः यं शिवं कथयन्ति, बौद्धमतानुयायिनः यं सुगतं वदन्ति, जैनमतानुयायिनः यं सर्वज्ञतात्वे बोधयन्ति, तस्य अद्भुतः चिन्मयब्रह्मस्वरूपस्य स्मरणं कुर्वन् भारतेश्वरः पृथ्वीराजः शिवधाम अगच्छत् [१२५]

विरुद्धविधिविध्वंसः [१२६][१२७][१२८][सम्पादयतु]

विरुद्धविधिविध्वंसकाव्यस्य रचयिता लक्ष्मीधरः । १५८२ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लतृतीयायां तिथौ अस्य काव्यस्य रचना अभवत् । विरुद्धविधिविध्वंसस्य रचयिता लक्ष्मीधरस्य पितामहः वामनः आसीत् । यदा सोमेश्वरः अण्हिलपाटण-प्रदेशात् अजयमेरु-प्रदेशं सपरिवारम् अगच्छत्, तदा तेन सह कैमासः, भुवनैकमल्लः, सोढ इत्याख्यः नागरब्राह्मणश्च आसन् । सोढस्य द्वौ पुत्रौ आस्ताम् । स्कन्दः, वामनश्च । स्कन्दवामनौ पृथ्वीराजस्य मन्त्रिमण्डलसदस्यौ आस्ताम् । स्कन्दः सेनापतिः, वामनश्च सन्धिविग्रहकश्च आसीत् ।

विरुद्धविधिविध्वंसे वामनस्य प्रौत्रः लक्ष्मीधरः अलिखत्, यदा घोरी इत्यस्य पृथ्वीराजेन सह प्रथमनरायनस्य युद्धम् अभवत्, तदा स्कन्दः असाधारणं प्रदर्शनम् अकरोत् । द्वितीययुद्धे यदा पृथ्वीराजः पराजितः अभवत्, तदा सिन्धिविग्रहकः वामनः अजमेरोः राजकोषात् द्विसहस्रोत्तरद्विलक्षं द्रम्म-मुद्राः (पृथ्वीराजस्य काले मुद्रायाः नाम "द्रम्म" आसीत् ।) नीत्वा पलायितः । अग्रे विरुद्धविधिविध्वंसकाव्ये लक्ष्मीधरः अलखित्,

गतेऽन्य सङ्गरे स्कन्दैः, निद्रा-व्यसन-सन्नधीः ।

व्यापादितस्तुरूष्कैः सः राजा जीवन्मृतो युधिः ।। १७ ।।

अर्थात्, सेनापतिः स्कन्दः अन्ययुद्धे योद्धुम् अगच्छत् । ततः यस्य राज्ञः बुद्धिः निद्रादिभिः व्यसनैः अवरुद्धा अभवत्, सः जीवन् अपि मृतवत् राजा तुरूष्कसैनिकैः (यवनैः) हतः [१२९]

कान्हड दे प्रबन्ध [१३०][सम्पादयतु]

'कान्हड दे प्रबन्ध' इत्यस्य काव्यस्य रचयिता पद्मनाभः वर्तते । ई. १४५५ मध्ये एतस्य काव्यस्य प्रस्तुतिः अभवत् । पद्मनाभः वीसलनगरा-सम्प्रदायस्य ब्राह्मणः आसीत् । सः पद्मनाभः जालौर-प्रदेशस्य महाप्रतापिनः शासकस्य कान्हडदेवस्य पञ्चमवंशजस्य अखैराजस्य राजकविः आसीत् । अखैराजस्य आदेशेनैव सः "कान्हड दे प्रबन्ध" इत्याख्यस्य काव्यस्य रचानाम् अकरोत् । अस्य काव्यस्य भाषा 'गुर्जरराजस्थानी' अस्ति ।

१३६८ तमे विक्रमसंवत्सरे (ई. १३११) जालौर-प्रदेशस्य शासकस्य 'कान्हड दे चौहान' इत्यस्य देहल्याः राज्ञा अलाउद्दीन खल्जी इत्यनेन सह यत् युद्धम् अभवत्, तत् इतिहासस्य महत्त्वपूर्णं, प्रसिद्धं च युद्धम् आसीत् । यद्यपि 'कान्हड दे चौहान' इत्येषः जानाति स्म यत्, यवनसैनिकैः जालौरदुर्गस्योपरि चतसृभ्यः दिग्भ्यः आक्रमणं कृतम् अस्ति तथा च विजयस्य कोऽपि मार्गः शेषः नास्ति इति, तथापि कुलपरम्परायाः रक्षणार्थं 'कान्हड दे चौहान' इत्येषः स्वपुत्रेण वीरमदेवेन सह दुर्गात् बहिः निर्गत्य युद्धम् अकरोत् । जालौरदुर्गात् बहिः एव तयोः पितापुत्रयोः मृत्युः अभवत् । अलाउद्दीन खल्जी इत्यस्य कान्हड दे चौहान इत्यनेन सह यत् युद्धम् अभवत्, तस्य कारणं "कान्हड् दे प्रबन्ध" इत्याख्ये ग्रन्थे प्राप्यते ।

पद्मनाभः "कान्हड दे प्रबन्ध" इत्याख्ये स्वकाव्ये उदलिखत्, अलाउद्दीन खल्जी इत्यस्य पुत्री सिताई (मुस्लिम-नाम, फीरोजा) वीरमदेवे स्निह्यति स्म । सा वीरमदेवेन सह एव विवाहं कर्तुम् इच्छति स्म । परन्तु विजातीयस्त्रिया सह विवाहः वीरमदेवस्य कृते अयोग्यः आसीत् । यतो हि तस्य चिन्तनम् आसीत् यत्, एवं विजातीयविवाहे कृते सति पूर्वजानाम् अपमाननं भवति इति । यद्यपि फीरोजा इत्येषा जानाति स्म यत्, वीरमदेवः किमर्थं पौनःपुन्येन तस्य प्रणयनिवेदनानि न्यक्कुर्वन् अस्ति ?, तथापि फिरोजा इत्येषा अनेकवारं वीरमदेवाय पत्राणि अलिखत् । फिरोजा इत्यस्याः कथनम् आसीत् यत्, अहं (फिरोजा) पूर्वजन्मनि पृथ्वीराजस्य पद्मवाती आख्या राज्ञी आसम् । एवम् आवयोः प्रणयः न केवलम् एतस्य जन्मनः अस्ति, अपि तु अनेकेभ्यः जन्मभ्यः अस्ति । अतः कृपया मे प्रणयनिवेदनं मा निराकरोतु इति ।

वीरमदेवाय फिरोजा इत्येषा यत्किमपि कथयति, तत् निम्नम् अस्ति ।


सोमेसर घर छठ्ठीबार, पृथ्वीराज लीधऊ अवतार ।
पाल्हणनई घरि हूँ कुँवरि, पद्मावती नामई अवतरी ।। २०१ ।।
तिणि अवतार पाप आदरिऊं, गाय विसाणी कामन करिऊ ।
साधिउ मंत्र गर्भ गाइनइ, चित्त विकार हय राजनइ ।। २०२ ।।
रायवश कीधऊं लोपी लाज, हण्या प्रधान निगम्यऊं राज ।
घाघरि तिरि राय सुणिउ, सहाबुद्दीन सूतराणई हणिऊ ।। २०३ ।।

उक्तश्लोकमाध्यमेन राजकुमारी कथयति, अहं त्वं प्राप्तुम् अनेकानि जन्मानि स्व्यकरवम् । मम षष्ठे जन्मनि अहं पाल्हण-वंशीयानां पुत्रीत्वेन जन्म अलभे । तस्मिन् जन्मनि त्वं सोमेश्वरस्य पुत्रत्वेन पृथ्वीराजः आसीः। तस्मिन् जन्मनि मया घोरपापम् आचरितम् । पृथ्वीराजरूपिणं त्वां वशीकर्तुं मया गौहत्या कृता । तस्याः गोः गर्भाशयं निष्कास्य तस्मिन् गर्भाशये स्वतान्त्रिकविधिः कृतः । तेन तान्त्रिकविधिना पृथ्वीराजः तु मे वशीभूतः अभवत्, परन्तु राजकार्येभ्यः सः विमुखः अभवत् । ततः घोरी इत्याख्यः म्लेच्छराजः यदा पृथ्वीराजस्य घग्घरनद्याः तीरे वधम् व्यधात्, तदा स्वसतीधर्मस्य अवलम्बनं कुर्वती अहमपि अयोध्यायाम् आत्मदाहेन अमृक्षम् ।

राजदर्शनी [१३१][१३२][१३३][सम्पादयतु]

राजदर्शनी 'जम्मूप्रदेश की तवारिख' इत्यपि प्रसिद्धा । राजदर्शन्याः रचयिता गनेशदास बद्र इत्येषः । राजदर्शन्याः पाण्डुलिपिः लण्डन-नगरस्य इण्डिया ऑफिस् लायब्रेरी इत्याख्ये ग्रन्थालये प्राप्यते । तस्मिन् ग्रन्थालये ५०७ क्रमाङ्कस्य पाण्डुलिपिः राजदर्शनी अस्ति ।

राजदर्शन्यां प्राप्यते यत्, यस्मिन् प्रदेशे घोरी इत्येषः पूर्वमपि पृथ्वीराजेन सह युद्धम् अकरोत्, तत्रैव तरावडी-प्रदेशे पुनः सः स्वसैन्यबलेन सह उपस्थितः । युद्धसज्जतायाः भागत्वेन तेन स्वसेना विभागद्वये विभक्ता । यस्यां सेनायां जम्मू-प्रदेशस्य, कन्नौज-प्रदेशस्य च सेना आसीत्, तां सेनां देहलीं प्रैषयत् सः । देहल्यां तदा खाण्डेरायस्य शासनम् आसीत् । ततः द्वितीयविभागे यत्र स्वसैनिकाः आसन्, तया सेनया सह घोरी इत्येषः पृथ्वीराजस्योपरि आक्रमणम् अकोरत् । घोरी इत्यस्य द्वे सेने अपि विजयोन्मुखिन्यौ अभवेताम् । देहल्यां नरसिंहदेवः खाण्डेरायस्य वधम् अकरोत्, अपरत्र नरायनयुद्धे घोरी इत्यस्य सैनिकैः पृथ्वीराजः बन्दी अभवच्च ।

फारसीस्रोतांसि[सम्पादयतु]

जवामि उल हिकायत [१३४][सम्पादयतु]

'जवामि उल हिकायत' इत्यस्य ग्रन्थस्य रचयिता मौलाना नसरुद्दीन मुहम्मद उफी इत्येषः । ई. १२११ इति तस्य ग्रन्थस्य रचनाकालः मन्यते । सः उल्लिखति यत्, यदा उभे सेने रणाङ्गणे समीपे प्रापेताम्, तदा उभयोः सेनयोः सैनिकैः शिबिराणि निर्मितानि । परन्तु घोरी इत्येषः स्वसैनिकेभ्यः पूर्वमेव आदिष्टवान् आसीत् यत्, अनेकानि काष्ठानि क्रोडीकुर्वन्तु इति । यतो हि तस्य योजना आसीत् यत्, शिबिरस्य सम्मुखं वयम् अग्निं प्रज्वाल्य शत्रुषु भ्रमम् उत्पादयिष्यामः । वयं रात्रौ एव अपरेण मार्गेण शत्रूणां शिबिरस्य पृष्ठभागे प्राप्स्यामः । ततः ब्राह्ममुहूर्ते एव तेषु आक्रमणं करिष्यामः इति । घोरी इत्यस्य योजना सफला अभवत्, शिबिरे स्थिताः स्वल्पाः सैनिकाः आरात्रं शिबिरस्य सम्मुखम् अग्निं प्राज्वालयन् । तेन पृथ्वीराजस्य सैनिकाः चिन्तयन्तः आसन् यत्, तूर्कसेना सम्मुखे स्थिते शिबिरे एव अस्ति इति । घोरी इत्येषः स्वसैनिकैः सह आरात्रं यात्रां कृत्वा 'कोला' इत्यस्य (कोला इति कश्चन निम्नपशुविशेषः । फारसीभाषायाः लेखकाः फारसीग्रन्थेषु मुख्यतया पृथ्वीराजस्य उल्लेखः अपशब्देन एव अकुर्वन् ।) शिबिरस्य पृष्ठभागे प्राप्नोत् । ततः अकस्मादेव घोरी इत्येषः पृथ्वीराजस्य सेनायाः उपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे अनेकेषां हिन्दूसैनिकानां वधम् अकुर्वन् यवनसैनिकाः । अकस्मात् आक्रमणेन अनेकेषां सैनिकानां वधं दृष्ट्वा 'कोला' इत्यनेन चिन्तितं यत्, पृष्ठे गच्छामः इति । परन्तु ततः तस्य (पृथ्वीराजस्य) सेनायाः हस्तिनः अनियन्त्रिताः अभूवन्, तस्य सेनायाम् उत्पातस्य स्थितिः आसीत् । ततः कोला इत्येनं घोरी इत्येषः बन्दिनम् अकरोत् ।

ताज उल मासिर [१३५][सम्पादयतु]

'ताज उल मासिर' इत्यस्य लेखकः सदरुद्दीन बिन हसन निजामी नैशापुरी इत्येषः आसीत् । यवनपञ्चाङ्गानुसारम् अस्य ग्रन्थस्य रचना हि.स. ६०३-६१४ मध्ये (ई. १२०५-१२१७) अभवत् । हसन निजामी इत्येषः एकमात्रः वैदेशिकः लेखकः अस्ति, येन नरायनयुद्धस्य विवरणं प्रदत्तम् । तस्मिन् ग्रन्थे प्रथमनरायनयुद्धानन्तरस्य वर्णनं प्राप्यते यत्, घोरी इत्येषः स्वपराजयस्य प्रतिशोधाय अहोरात्रं परिश्रमम् अकरोत् इति।

युद्धम् अभवत्, अन्ततो गत्वा 'इस्लाम्' इत्येषः विजयं प्रापत् । एकलक्षस्य हिन्दूनां वधः अभवत् । अजयमेरुरायः (पृथ्वीराजः) बन्दी अभवत्, परन्तु ततः तस्य मुक्तिः अभवत् । अजयमेरुरायः मुक्तः तु अभवत्, परन्तु तस्य हृदये यवनेभ्यः (मुसलमानों के लिए) द्वेषः आसीत् । अतः सः दुर्गोष्ठ्याः योजनां कुर्वन् आसीत् । यदा घोरी इत्येषः तस्य आचरणविषये अजानात्, तदा सः अजयमेरुराजस्य वधस्य आदेशम् अयच्छत् । ततः मौक्तिकयुक्तया असिना अजयमेरुरायस्य शिरश्छेदः अभवत् । घोरी इत्यस्य आदेशेन अजयमेरुरायस्य शिरः तस्य पुत्राय प्रेषितम् ।

तबकाते नासिरी [१३६][१३७][१३८][सम्पादयतु]

'तबकाते नासिरी' इत्येतस्य ग्रन्थस्य रचयिता अबू उमर मिन्हाजुद्दीन उस्मान बिन सिराजुद्दीन मुहम्मद जुजजानी इत्येषः आसीत् । एतस्य ग्रन्थस्य रचनाकालः ई. १२५९-६० मन्यते । मिन्हाज इत्येषः युद्धस्य वर्णनं कुर्वन् लिखति, यद्यपि हिन्दूनां विशालसेना आसीत्, तथापि यवनसेनया सा पराजिता । 'अल्लाह्' इत्येषः यवनसेनायै उपकारम् अकरोत्, येन हिन्दूनां सेना पराजिता अभवत् । रायपिथौरा प्रप्रथमं हस्तिनि स्थित्वा युध्यमानः आसीत्, ततः सः अश्वारूढः सन् सरसी-प्रदेशं यावत् अधावत् । परन्तु तत्र सः यवनसैनिकैः बन्दी अभवत् । ततः सः नरकम् ('वासिले जहन्नुम्') अगच्छत् । देहल्याः गोविन्दरायः अपि बन्दी कृतः । ततः तस्यापि शिरश्छेदनं कृत्वा घोरी इत्यस्य सम्मुखं तस्य शिरः प्रस्तुतम् । घोरी इत्येषः तस्य शिरसः खण्डितौ दन्तौ दृष्ट्वा अजानात् यत्, एषः गोवन्दरायः इति । घोरी इत्येषः सपादलक्षसाम्राज्यस्य राजधानीम् अतिरिच्य हांसी, सरसी, दीगर इत्यादीषु प्रदेशेषु स्वाधिपत्यम् अस्थापयत् । हि.स ५८८ (यवनसंवत्सरः) तमे वर्षे यवनानां यशः अवर्धत । ततः घोरी इत्येषः ऐबक् इत्यस्मै राजकार्यं दत्त्वा गझनी-प्रदेशम् अगच्छत् । कुतुबुद्दीन् ऐबक् इत्येषः अपि मेरठ इत्यादिषु स्थानेषु आक्रमणं कृत्वा स्वाधिपत्यम् अस्थापयत् ।

मीराते मसूदी [१३९][सम्पादयतु]

'मीराते मसूदी' इत्यस्य ग्रन्थस्य रचयिता अब्दुर रहमान चिश्ती इत्येषः आसीत् । पृथ्वीराजः 'अबू जलह' अभवत् । ('अबू जलह' = यवनशत्रुः, अबू जहल अर्थात्, पैगम्बर मुहम्मद इत्यस्य काले अबू जहल इत्येषः यवनानां घोरशत्रुः आसीत् । सः इस्लाम्-विरोधी नेता आसीत् । पैगम्बर मुहम्मद इत्येनेन सह तस्य युद्धम् अभवत् । तस्मिन् 'गजवा-ए-बद्र' इत्याख्ये युद्धे सः पैगम्बर् इत्येन हतः । मदीना इत्यस्मात् स्थलात् बद्र-आख्यं स्थानम् अशीतिः माईल्. दूरे अस्ति [१४०] । ) घोरी इत्येषः 'बैत' इत्येतत् स्वीकर्तुं पृथ्वीराजं पौनःपुन्येन अकथयत् । परन्तु पृथ्वीराजः यदा 'बैत' इत्येतत् नाङ्ग्यकरोत्, तदा घोरी इत्येषः तस्य हत्याम् अकारयत् । ('बैत' - अल्लाह् इत्यस्य कृते समर्पणस्य कश्चन संस्कारविशेषः) ।

फुतुहुस्सलातीन [१४१][सम्पादयतु]

'फुतुहुस्सलातीन' इत्यस्य ग्रन्थस्य रचयिता इसामी इत्येषः आसीत् । पिथौरारायः बन्दी अभवत्, ततः घोरी इत्यस्य सम्मुखं सः प्रस्तुतः अभवत् । घोरी इत्येषः तस्य शिरश्छेदनस्य आदेशं यच्छति । फुतुहुस्सतालीन इत्यस्मिन् ग्रन्थे केवलम् एतावत् वर्णनं प्राप्यते । परन्तु तस्मिन् 'करवा' इत्याख्यस्य कवचनस्य वर्णनं तथा च घोरी इत्यस्य सेनापतिनां नामानि अपि प्राप्यन्ते ।

तारिखे फरिश्ता[सम्पादयतु]

तारिखे फरिश्ता इत्यस्य ग्रन्थस्य लेखकः मुहम्मद कासिम हिन्दू शाह फरिश्ता इत्येषः अस्ति । फरिश्ता इत्येषः ईरान-देशीयः आसीत् । इतिहासविदां मते निश्चयेन एतस्य पूर्वजाः हिन्दवः आसन् । तस्य पूर्वजाः पञ्जाब-प्रदेशस्य, अफगानिस्थान-प्रदेशस्य च सीमावर्तिप्रदेशेषु 'हिन्दू शाहिया' इत्याख्येन वंशेन सह सम्बद्धाः आसन् । फरिश्ता इत्यस्य पूर्वजैः कदा 'इस्लाम्' इत्येतस्य धर्मस्य अङ्गीकारः कृतः ? इति तु न ज्ञायते । परन्तु ई. १५८२ तमे वर्षे फरिश्ता स्वपित्रा सह महाराष्ट्रराज्यस्य अहमदनरस्य निजाम शाही सुल्तान मुर्तजा निजाम शाह इत्यस्य राजभवनम् अगच्छत् । तदा सः द्वादशवर्षीयः आसीत् । तत्र फरिश्ता इत्यस्य पिता शिक्षकत्वे नियुक्तः अभवत् । फरिश्ता इत्येषः सेनायाः अङ्गम् अभवत् । ततः आजीविकाविकासे सति सः रक्षकदलस्य अध्यक्षः अभवत् । फरिश्ता इत्येषः 'शिया' इत्याख्यस्य पन्थीयः यवनः आसीत् । तस्य अहमद-नगरे मित्राणि अपि अधिकानि नासन् । अतः सः अहमद-नगरं त्यक्त्वा आजीविकार्थं बीजापुरम् अगच्छत् । बीजापुरे स्थित्वैव इब्राहीम शाह-द्वितीयीत्यस्य (१५७९-१६२६) आदेशेन तवारीख इत्यस्य ग्रन्थस्य रचनाम् अकरोत् । ई. १६०६ तमे वर्षे सः ग्रन्थः पूर्णः अभवत् ।

नरायनयुद्धस्य वर्णनं यस्मिन् ग्रन्थे प्राप्यते, तस्य ग्रन्थस्य नाम 'गुलशने-इब्राहिमी' इत्यस्ति । सः ग्रन्थः 'तारीखे फरिश्ता' इत्येव प्रसिद्धः । तस्मिन् ग्रन्थे उल्लेखः अस्ति यत्, पिथौरारायः किञ्चित् दूरे एव अगच्छत्, तदैव तूर्कसैनिकाः तं बन्दिनम् अकुर्वन् । ततः घोरी इत्येषः तस्य वधम् अकरोत् इति ।

आइने अकबरी[सम्पादयतु]

आइने अकबरी इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, अन्ततो गत्वा राजा (पृथ्वीराजः) युद्धे बन्दी अभवत् । ततः घोरी इत्येषः तं नीत्वा गझनी-प्रदेशम् अगच्छत् । चन्द्रबरदायी (चांदा इत्यस्य शब्दस्य उपयोगः चन्दबरदायिनः कृते 'आइने अकबरी' मध्ये प्राप्यते ।) अपि स्वस्वामिभक्तिं निर्वहन् तत्र अगच्छत् । चन्दबरदायी घोरी इत्यस्य विश्वासार्जनं कृत्वा तस्य सेवायां नियुक्तः अभवत् । चन्दबरदायी स्वप्रयत्नैः पृथ्वीराजस्य कारगारस्य विषये अजानात्, ततः पृथ्वीराजेन सह मन्त्रणां कृत्वा सः पृथ्वीराजाय सान्त्वनां प्रायच्छत् । चन्दबरायी पृथ्वीराजम् अवदत्, "अहं घोरी इत्यस्य सम्मुखं भवतः धनुर्विद्यायाः प्रशंसां करिष्यामि । ततः सः भवतः कौशलं द्रष्टुं सज्जः भविष्यति । तस्मिन्नेव काले भवान् अवसरानुसारं तं (घोरी इत्येनं) मारयतु" इति । चन्दबरदायिनः योजनायाः समर्थनं कृत्वा पृथ्वीराजः धनुर्विद्याकौशलस्य प्रदर्शनं कर्तुं सज्जः अभवत् । ततः सः एकेन बाणेन घोरी इत्येतस्य वधम् अकरोत् । घोरी इत्यस्य हत्यां दृष्ट्वा तस्य सैनिकाः चन्दबरदायि-पृथ्वीराजयोः उपरि आक्रमणम् अकुर्वन् । अन्ततो गत्वा ते तयोः हत्याम् अकुर्वन् ।

भारतीयस्रोतस्सु यथा सर्वेषां लेखकानां वर्णनं भिन्नम् अस्ति, तथैव फारसीभाषायाः लेखकानां वर्णनम् अपि भिन्नम् अस्ति । फारसीग्रन्थेषु अनेकेषां लेखकानां मतम् अस्ति यत्, पृथ्वीराजस्य मृत्युः रणाङ्गणे अभवत् इति ।

भारतीयलेखकैः, फारसी-लेखकैः च यत्किपि वर्णनं स्वग्रन्थेषु उपस्थापितं, तस्य वर्णनस्य तुलनात्मकेन अध्ययनेन ज्ञायते यत्, सर्वेषां कथनस्य भागत्रयं भवति । प्रत्येकः लेखकः नरायनयुद्धस्य, पृथ्वीराजस्य मृत्योः, घोरी इत्यस्य मृत्योः च विषये भिन्नं भिन्नं विवरणं प्रयच्छति । भारतीयलेखकाः, फारसीलेखकाः स्ववर्णनानुसारं त्रिषु विभागेषु विभक्ताः भवन्ति ।

विवरणस्य त्रिधा विभागाः[सम्पादयतु]

नरायनयुद्धस्य विवरणे ये भारतीयलेखकाः, फारसीलेखकाः विभिन्नानि वर्णनानि अकुर्वन्, ते त्रिषु विभागेषु विभक्ताः भवन्ति ।

१. गझनी-प्रदेशे घोरी इत्यस्य वधानन्तरं चन्दपृथ्वीराजयोः आत्मघातः[सम्पादयतु]

नरायनयुद्धवर्णनकृत् एकः वर्गः कथयति यत्, पृथ्वीराजः बन्दित्वेन गझनी-प्रदेशे आसीत् । ततः तस्य मित्रं चन्दबरदायी तत्र प्राप्नोति । तयोः मिलितप्रयासेन घोरी इत्यस्य मृत्युः भवति । ततः तौ स्वयमपि आत्मघातम् अकुरुताम् इति । पृथ्वीराजरासोकाव्यस्य कथानकः एषः एवास्ति । 'आइने अकबरी' इत्यस्य वर्णनं पृथ्वीराजरासोकाव्यानुगुणम् एवास्ति, परन्तु तस्मिन् काव्ये लेखकेन स्थितिः अनिर्णीता एव परित्यक्ता । सुर्जनचरितमहाकाव्येऽपि पृथ्वीराजरासोकाव्यस्य सदृशं वर्णनं प्राप्यते । परन्तु तत्रापि रासोकाव्यात् अधिकं पार्थक्यं दृश्यते । सुर्जनचरितानुसारं घोरी इत्यस्य वधानन्तरं चन्दपृथ्वीराजौ गझनी-प्रदेशात् सकुशलं पलायनं कर्तुं सफलौ अभवताम् । ततः सपादलक्षराज्ये एव तयोः मृत्युः अभवत् इति ।

२. युद्धक्षेत्रे पृथ्वीराजस्य मृत्युः[सम्पादयतु]

एकः वर्गः अस्ति, यस्य कथनम् अस्ति यत्, पृथ्वीराजस्य मृत्युः नरायनयुद्धकाले रणाङ्गणे एव अभवत् । एतस्मिन् वर्गे प्रमुखत्वेन फारसीभाषायाः ग्रन्थाः 'तबकाते नासिरी', 'फुतुहुस्सलातीन', 'गुलशने इब्राहिमी' च सन्ति । भारतीयस्रोतस्सु केवलं द्वौ ग्रन्थौ स्तः । विरुद्धविधिविध्वंसः, 'कान्हड दे प्रबन्ध' च ।

३. अजयमेरुप्रासादे पृथ्वीराजस्य वधः[सम्पादयतु]

नरायनस्य युद्धे पृथ्वीराजं बन्दिनं कृत्वा घोरी इत्येषः तम् अजयमेरोः प्रासादं नयति, ततः पृथ्वीराजः घोरी इत्यस्य विरुद्धं दुर्गोष्ठीं कुर्वन् अस्ति इति घोरी इत्येषः जानाति । तस्मिन् काले घोरी इत्येषः पृथ्वीराजस्य वधस्य आदेशं यच्छति इत्येतत् वर्णनं येषु ग्रन्थेषु प्राप्यते, ते वर्गेऽस्मिन् अन्तर्भवन्ति । 'ताजुल मासिर', 'जमीउल हिकायत', 'मीराते मसूदी', 'जम्मू की तवारिख' इत्येतेषु फारसीग्रन्थेषु एतादृशं वर्णनं प्राप्यते । भारतीयग्रन्थेषु पुरातनप्रबन्धसङ्ग्रहः, प्रबन्धचिन्तामणिः इत्येतयोः ग्रन्थयोः आशयः स एवास्ति, परन्तु जैनमतानुयायिनः नयनचन्दसूरि इत्यस्य वर्णनानुसारं अजयमेरोः कारागारे अनशनन् एव पृथ्वीराजः प्राणत्यागं व्यधात् ।

विभिन्नानां ग्रन्थानां वर्णनानुगुणं सिद्धं न भवति यत्, कस्य मृत्युः ?, कुत्र ?, कथं ?, कदा ? चाभवत् । परन्तु प्रमाणानाम् आधारेणैव सिध्यति यत्, कस्य मृत्युः ?, कुत्र ?, कथं ?, कदा ? चाभवत् । अतः क्रमेण घोरी इत्यस्य, पृथ्वीराजस्य च मृत्योः प्रमाणानुगुणं विश्लेषणं कृत्वा स्थितेः ज्ञानं प्राप्तुं शक्नुमः [१४२]

पृथ्वीराजस्य हस्तेन घोरी इत्यस्य मृत्युः ?[सम्पादयतु]

घोरी इत्यस्य हत्यायाः दृश्यम्

शोधनिष्कर्षैः, ऐतिहासिकप्रमाणैः च सिध्यति यत्, घोरी इत्यस्य मृत्युः गझनी-प्रदेशे पृथ्वीराजस्य हस्तेन नाभवत्, अपि तु पृथ्वीराजस्य मृत्योः अनन्तरं चतुर्दश (१४) तमे वर्षाणि घोरी इत्यस्य उपस्थितेः प्रमाणानि प्राप्यन्ते । यद्यपि इतिहासविदां मतम् अस्ति यत्, घोरी इत्यस्य मृत्युः हिन्दुजनैः कृतः इत्येव घोरी इत्येतस्य मृत्योः वैशिष्ट्यम् । घोरी इत्यस्य मृत्योः विषये अनेकानि प्रमाणानि प्राप्यन्ते ।

ताजुल मासिर [१४३][सम्पादयतु]

'ताजुल मासिर' इत्यस्य ग्रन्थस्य रचयिता हसन निजामी इत्येषः आसीत् । सः स्वग्रन्थे उदलिखत्, खोखरों (पृथ्वीराजस्य) इत्येतस्य दमनानन्तरं घोरी इत्येषः गझनी-प्रदेशं प्रत्यगच्छति । यदा सः धमेक-प्रदेशस्य समीपं प्राप्तः, तदा तत्र कुमुद-चमेलीत्यादिभिः पुष्पैः सुगन्धिते उद्याने शिबिरम् अस्थापयत् । यदा घोरी इत्येषः सन्ध्याकालीनायां ('नमाज' इत्यस्यां) प्रार्थनायां रतः आसीत्, तदा केचन जनाः तत्र समागताः । ते रक्षकान्, कर्मकरौ च मारयित्वा घोरी इत्यस्य हत्याम् अकुर्वन् ।

तारीखे जहांकुशा [१४४][सम्पादयतु]

'तारिखे जहांकुश' इत्यस्य ग्रन्थस्य रचयिता अलाउद्दीन जुवैनी आसीत् । एतस्य ग्रन्थस्य रचनाकालः हि.स. (यवनसंवत्सरः) ६५५ (ई. १२५७) मन्यते । मिन्हाज इत्यस्य 'तबकाते-नासिरी' इत्यस्मात् ग्रन्थात् वर्षत्रयात् पूर्वमेव अलाउद्दीन जुवैनी इत्यस्य 'तारीखे जहांकुश' इत्यतस्य ग्रन्थस्य रचना अभवत् । घोरी इत्यस्य मृत्योः वर्णनं कुर्वन् अलाउद्दीन जुवैनी इत्येषः अलिखित्, "हि.स. ६०२ (ई. १२०६) मध्ये खुरासान-प्रान्तस्य विध्वंसानन्तरं धनं प्राप्तुं घोरी इत्येषः भारतस्योपरि अनेकवारम् आक्रमणम् अकरोत् । सः अनेकेषु युद्धेषु विजयी भूत्वा स्वसैन्यं धनसम्पन्नम् अकरोत् । झेमल-प्रदेशम् उल्लङ्घ्य यदा सः गझनी-प्रदेशं प्रति मार्गे गच्छन् आसीत्, तदा 'जिहू'-नद्याः (सन्धुनद्याः) तटे शिबिरम् अस्थापयत् । तस्मिन् शिबिरे यदा घोरी इत्येषः मध्याह्ने निद्राधीनः आसीत्, तदा द्वित्राः हिन्दवः नदीम् उल्लङ्घ्य शिबिरस्योपरि आक्रमणम् अकुर्वन् । ते शिबिरे अग्निवत् उत्पातं कृत्वा घोरी इत्यस्य हत्याम् अकुर्वन् ।

तारिखे फरिश्ता[सम्पादयतु]

'तारिखे फरिश्ता' इत्यस्य पुस्तकस्य अपरनाम 'गुलशने-इब्राहिमी' इति वर्तते । ब्रीग्स् इत्याख्यः इतिहासविद् 'तारिखे फरिश्ता' इत्यस्य पुस्तकस्य अनुवादम् अकरोत् । सः स्वपुस्तके उदलिखत्,

'२ शाबान, हि.स. ६०२' (ई. १४/३/१२०६) दिनाङ्के घोरी इत्येषः सिन्धनद्याः (सिन्धुनद्याः) तीरे स्थितं रोहतक-ग्रामं प्रापत् । तत्र २० 'गक्खड'-(हिन्दु)जनानाम् एकः समूहः घोरी इत्यस्य हत्यायाः दुर्गोष्ठीं कुर्वन् आसीत् । तेषां हिन्दुजनानां सम्बन्धिनां घोरी इत्येषः युद्धे वधम् अकरोत् । अतः ते प्रतिशोधाय बहुभ्यः दिनेभ्यः घोरी इत्यस्य हत्यायाः अवसरस्य प्रतीक्षायाम् आसन् । तस्मिन् दिने परिक्लेदपूर्णं (Humidity, उमस) वातावरणम् आसीत् । अतः घोरी इत्यस्य आदेशानुसारं सैनिकैः शिबिरस्य जवनिका (curtain) अनाच्छादिता आसीत्, येन शिबिरे वायुप्रवाहः निर्बाधः भवेत् । घोरी इत्यस्य सेवकैः यदा जवनिका अनाच्छादिता, तदा हिन्दूजनैः अयं स्ववसरः इति विज्ञातम् । एवञ्च हिन्दवः रात्रौ सेनायाः समीपे कस्मिँश्चित् स्थाने निगूहिताः । ततः रात्रौ तेषु कश्चन एकः सदस्यः यदा शिबिरस्य द्वारस्य समीपे प्रापत्, तदा शिबिरस्य द्वारपालः तम् अवारोधयत् । सः हिन्दुः छुरिकायाः प्रहारेण तस्य द्वारपालस्य हत्याम् अकरोत् । वक्षस्थले छुरिकायाः कठोराघातेन द्वारपालस्य मुखात् चित्कारः निर्गतः । तं चित्कारं श्रुत्वा अन्ये सैनिकाः अपि शिबिरस्य समीपे उपस्थिताः । परन्तु तस्मात् पूर्वम् एव हिन्दवः शिबिरस्यान्तः गत्वा घोरी इत्यस्य हत्याम् अकुर्वन् ।

यदा हिन्दवः घोरी इत्यस्य शबिरं प्रविष्टाः, तदा घोरी इत्येषः निद्राधीनः आसीत् । घोरी इत्यस्य समीपे द्वौ सेवकौ अपि आस्ताम् । परन्तु हिन्दूनां हस्ते शस्त्राणि दृष्ट्वा तौ मूर्तिवत् अभवेताम् । ततः हिन्दवः निद्रामग्नं घोरी इत्येनम् अमारयन् । घोरी इत्यस्य हत्या अभवत् । तस्य शरीरे अनेके व्रणाः आसन् । द्वादशवारं हिन्दुभिः छुरिकायाः प्रहाराः कृताः । सर्वेऽपि आघाताः घोरी इत्यस्य शरीरे प्रत्यक्षं दृश्यते स्म [१४५]

उक्ताङ्ग्लानुवादस्यापक्षेया मूलग्रन्थे, यः उर्दूभाषया लिखितः अस्ति, तस्मिन् भिन्नम् एव वर्णनं प्राप्यते । इतिहासविदां मतम् अस्ति यत्, इतिहासस्य घटनायां भ्रमम् उत्पादयितुम् अथवा स्वभ्रमेण अशुद्धः अनुवादः अभवत् इति [१४२] । 'तारिखे फरिश्ता' इत्याख्यस्य ग्रन्थस्य मूलसंस्करणे किमस्ति इत्यस्य वर्णनम् अधः दीयते ।

'२ शाबान, हि.स. ६०२' (ई. १४/३/१२०६) दिनाङ्के घोरी इत्येषः सिन्दुसागरस्य तटे स्थिते बरमहेक-स्थानं प्रापत् । तत्र शिबिरम् अस्थापयत् घोरी इत्येषः । ततः द्वितीये दिने घोरी इत्यस्य हत्यायाः घटना अभवत् । तत्र २० 'गक्खड'-(हिन्दु)जनानाम् एकः समूहः घोरी इत्यस्य हत्यायै दुर्गोष्ठीं कुर्वन् आसीत् । यतो हि तेषां हिन्दुजनानां सम्बन्धिनां घोरी इत्येषः वधम् अकरोत् तथा च तान् गृहविहीनान् अकरोत् । अतः ते प्रतिशोधाय बहुभ्यः दिनेभ्यः घोरी इत्यस्य हत्यायाः अवसरस्य प्रतीक्षायाम् आसन् । घोरी इत्येषः यत्र शिबिरे निवसन् आसीत्, तत्र येन केन प्रकारेण ते प्रापन् । तस्मिन् काले सैनिकाः अग्रे गन्तुम् उद्युक्ताः आसन् । एकः सेवकः जवनिकाः निष्कास्य स्यूते स्थापयन् आसीत् । तस्मिन्नेव काले ते हिन्दवः शिबिरं प्राविशन् । एकः हिन्दुः शिबिरस्य द्वारपालस्योपरि छुरिकया आक्रमणं कृत्वा तस्य हत्याम् अकरोत् । ततः सः तस्मात् स्थानात् अधावत् । द्वारपालस्य आहतावस्थां दृष्ट्वा अन्यसैनिकाः अपि तत्र उपस्थिताः । यः सेवकः जवनिकानां सङ्कलने रतः आसीत्, सः सेवकः घोरी इत्यस्य शिबिरस्य जवनिकायाः कार्यं त्यक्त्वा द्वारपालस्य समीपम् अगच्छत् । तस्मिन्नेव काले हिन्दवः घोरी इत्यस्य शिबिरं प्राविशन् । तस्मिन् काले द्वित्रसेवकाः घोरी इत्यस्य समीपे एव आसन् । परन्तु हिन्दूनां हस्ते शस्त्राणि दृष्ट्वा ते मौनिनः अभूवन् । घोरी इत्येषः उत्थाय प्रतिक्रियां दद्यात् तस्मात् पुरा एव हिन्दवः तस्योपरि आक्रमणम् अकुर्वन् । छुरिकायाः द्वाविंशतिः (२२) अति कठोरप्रहाराणि कृतानि तैः हिन्दुभिः । अन्ततो गत्वा घोरी इत्यस्य मृत्युः अभवत् [१४६]

तबकाते नासिरी[सम्पादयतु]

'तबकाते नासिरी' इत्यस्य पुस्तकस्य रचयिता काजी मिन्हाज इत्येषः आसीत् । तस्मिन् उल्लिखितं यत्, घोरी इत्येषः यदा 'मगरबी नमाज' (सन्ध्याकालीनप्रार्थनां) इत्येतत् कुर्वन् आसीत्, तदा तस्य हत्या अभवत् इति [१४७][१४८]

फुतुहूस्सलातीन[सम्पादयतु]

'फुतुहूस्सलातीन' इत्यस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्, यदा घोरी इत्येषः आगन्तुकैः सह गोष्ठीमग्नः आसीत्, तस्मिन्नेव काले आगन्तुकेषु एकः घोरी इत्यस्योपरि असिना आक्रमणम् अकरोत् । असेः एकेन आघातेन एव घोरी इत्यस्य मृत्युः अभवत् ।

गझनी-प्रदेशस्य मुद्राः[सम्पादयतु]

घोरी इत्येनेन गझनी-प्रदेशे द्विधा मुद्राः प्रकाशिताः । सुवर्णस्य, रजतस्य च । तस्याः मुद्रायाः नाम 'दिरहम' इत्यासीत् । घोरी इत्यस्य अनेकाः मुद्राः इतिहासविद्भिः प्राप्ताः । अत्र केवलं मैशन्, प्रिन्सेप कैबिनेट् इत्यत्र सङ्गृहीतानां मुद्राणाम् एव उल्लेखः क्रियते । निम्नमुद्रायाः विवरणं प्रख्यातः मुद्राशास्त्री एडवर्ड् थॉमस् इत्येषः १८७१ तमे वर्षे लण्डन-नगरे प्रास्तौत् ।

मैसन कैबिनेट् (ईस्ट् इण्डिया लाइब्रेरी, लंदन)[सम्पादयतु]

सङ्ख्या १, फिगर् १ (प्लेट् १), स्वर्णधातुः, भारः ९३ ग्रेन्, गझनीटङ्कशाला (हं.स. ५९२, ई. ११९६)

प्रिन्सेप कैबिनेट् (वोडलियन् म्यूजियम्)[सम्पादयतु]

धातुः – रजतः, भारः ७४ ग्रेन्, समयः हि. ५६९ (१२०० ई.) अस्यां मुद्रायाम् अपि उक्तमुद्रावत् मुद्रणं प्राप्यते ।

उक्तेषु ग्रन्थेषु घोरी इत्यस्य मृत्योः विषये विविधानि विवरणानि प्राप्यन्ते । कश्चन कथयति, घोरी इत्येषः मध्याह्नकाले शयानः आसीत्, अपरः कथयति, सः सन्ध्याकीलीनोपासनायां (नमाज) व्यस्तः आसीत् । कश्चन कथयति सः सैन्ययात्रायै सज्जतां कुर्वन् आसीत्, अपरः कथयति सः आगन्तुकैः सह चर्चामग्नः आसीत् । आक्रमणकारिणां विषयेऽपि सर्वेषां विभिन्नानि मतानि सन्ति । विभिन्नानां लेखकानां मतसारः अस्ति यत्, हिन्दु, गक्ख्ड, मुलहिदा, फिदाईयान, खोखर, इस्माइली, करामाता इत्यादिषु कस्यापि वंशे उत्पन्नाः विंशतिः जनाः घोरी इत्यस्य हत्याम् अकुर्वन् । उक्तेषु इतिहासकारस्य वर्णनेषु कस्य वर्णनं सत्यम् अस्ति, कस्य च असत्यम् ? इत्यस्य ज्ञानं तु प्रमाणैः एव ज्ञायते ।

इतिहासविदां मतम् अस्ति यत्, घोरी इत्यनेन सदृशस्य महाबलशालिनः राज्ञः हत्यां २० जनानां समूहः कुर्यात् इत्यस्य विषये शङ्का समुद्भवति । लक्षशः सैनिकानां व्यूहे विद्यमानस्य घोरी इत्येतस्य हत्या अभवत्, तस्योपरि कस्यापि सैनिकस्य ध्यानं नासीत् इत्येतत् वर्णनं तर्कसङ्गतं नास्ति इति । परन्तु फारसी-ग्रन्थेभ्यः प्राप्तप्रमाणैः सिध्यति यत्, घोरी इत्यस्य मृत्युः नरायनयुद्धानन्तरं चतुर्विंशतिभ्यः वर्षेभ्यः अनन्तरम् अभवत् । ११९२ तमस्य वर्षस्य मार्च-मासस्य प्रथमदिनाङ्कानन्तरं घोरी इत्येषः गझनी-प्रदेशे, भारतीयप्रदेशेषु च राज्यम् अकरोत् । तस्य मृत्युः '२ शाबान हि.स. ६०२' (ई. १५/३/१२०६) इत्यस्मिन् यवनतिथौ अभवत् ।

घोरी इत्यस्य मृत्योः ऐतिहासिकदृष्ट्या अनेके फारसीग्रन्थाः समर्थनम् अकुर्वन् तथा च भारतीयस्रोतस्सु अपि घोरी इत्यस्य चतुर्विंशतेः वर्षाणां भारतीयप्रदेशेषु आधिपत्यस्य प्रमाणानि प्राप्यन्ते । ढीली-राजावल्यां [१४९] प्रमाणं प्राप्यते यत्, घोरी इत्येषः ११९२+१४=१२०६ ई. पर्यन्तं भारतीयप्रदेशेषु राज्यम् अकरोत् । ततः सिन्धुनद्यास्तीरे हिन्दुभिः सः मारितः [१५०] इति ।

पृथ्वीराजस्य, घोरी इत्यस्य च संयुक्तमुद्राः[सम्पादयतु]

पृथ्वीराजतृतीयस्य तथा घोरी इत्यस्य संयुक्तमुद्राः उपलभ्यन्ते । तेन सन्देहः भवति यत्, अन्तिमकाले पृथ्वीराजेन घोरी इत्यनेन सह सन्धिः कृतः आसीत् किम् ? परन्तु प्रमाणैः सिध्यति यत्, तयोः संयुक्तमुद्राः पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः प्रजायाः विद्रोहात् रक्षणं प्राप्तुं प्राकाशयत् इति ।

पृथ्वीराजस्य तथा घोरी इत्यस्य संयुक्तमुद्रायाः प्रप्रथमं प्रकाशनम् एडवर्ड् थॉमस् इत्याख्यः प्रख्यातमुद्राशास्त्री अकरोत् [१५१] । तस्य कथनानुसारं सः नैव विश्वसिति स्म यत्, पृथ्वीराजस्य घोरी इत्यनेन सह संयुक्तमुद्रा भवितुं शक्नोति इति । यतो हि नरायणयुद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः तम् अजयमेरुम् अनयत्, ततः कानिचन दिनानि कारागारे तस्मै शारीरकपीडां दत्त्वा घोरी इत्येषः तस्य हत्याम् अकरोत् । अतः सन्देहशीलः सः एडवर्ड् थॉमस् इत्येषः जनरल कनिङ्घम् इत्यस्मै प्राप्तमुद्राः अयच्छत् । जनरल कनिङ्घम् इत्येषः तस्याः मुद्रायाः अग्रभागे, पृष्ठभागे च विद्यमानानि अक्षराणि अपठत् । तस्मिन् काले जनरल कनिङ्घम् इत्यस्य पार्श्वे तादृशयः मुद्राः अनुपलब्धाः आसन् । तत एव तस्य सङ्ग्रहे संयुक्तमुद्राः उपलब्धाः अभूवन् । जनरल कनिङ्घम्, एडवर्ड् थॉमस् इत्येतयोः पार्श्वे यादृश्यः मुद्राः आसन्, तादृश्यः मुद्राः नेल्सन् राइट् इत्यस्य पार्श्वेऽपि आसन् । तेषां त्रयाणां पार्श्वे यद्यपि पृथ्वीराजस्य, घोरी इत्यस्य च संयुक्तमुद्राः आसन्, तथापि तासां मुद्राणां भारः भिन्नः आसीत् ।

१. एडवर्ड् थॉमस् इत्यनेन सङ्गृहीताः मुद्राः [१५२] :- भारः ३६ ग्रेन्, अग्रभागः – अश्वारोही पृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम (नागरीलिपिः) ।

२. जनरल कनिङ्घम् इत्यनेन सङ्गृहीताः मुद्राः [१५३] :- व्यासः ५५”, भारः ५५ ग्रेन्, अग्रभागः - अश्वारोही श्रीपृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम (नागरीलिपिः) ।

३. नेल्सन् राइट् इत्यनेन सङ्गृहीताः मुद्राः [१५४] :- व्यासः ५५”, भारः ५५ ग्रेन्, अश्वारोही पृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम (नागरीलिपिः)

उक्तसंयुक्तमुद्राणाम् अध्ययनं कृत्वा निष्कर्षं प्रस्तुवन् थॉमस् इत्येषः अवदत् यत्, एतासां मुद्राणां प्रकाशनं पृथ्वीराजस्य पुत्रः गोवन्दः अकरोत् । सः स्वसत्तायाः मान्यतायै स्वपितुः तथा च तत्कालीनशासकस्य घोरी इत्यस्य नाम्ना मुद्राः प्राकाशयत् [१५५] । जनरल कनिघङ्घम् इत्यस्य निष्कर्षानुसारं पृथ्वीराजः किञ्चित् समयं यावत् घोरी इत्यस्य सामन्तः आसीत् । अतः संयुक्तमुद्राः प्रकाशिताः (इतिहासविदां मते एतत् असम्भवम् अस्ति । यतो हि नरायनयुद्धस्य अनन्तरं स्वल्पदेनेषु एव पृथ्वीराजस्य मृत्युः अभवत् ।) । नेल्सन् राइट् इत्यस्य निष्कर्षानुसारं पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः अजयमेरौ स्वाधिपत्यं स्थापयितुम् इच्छति स्म । अतः सः स्वयमेव एताः मुद्राः प्राकाशयत् ।

कनिङ्घम्, नेल्सन् इत्येयोः निष्कर्षेण सह स्वमतम् अपि योजयित्वा कुंवरदेवी सिंह मण्डावा इत्येषा अपि "घोरी इत्येषः ताः मुद्राः प्राकाशयत्" इति उल्लिखति । कुंवरदेव्याः तर्कः अस्ति यत्, घोरी इत्येषः प्रजायाः मनोभावं परिवर्तयतिुं तथा च "पृथ्वीराजः घोरी इत्यस्य अधीनः राजा अस्ति" इति सन्देशं प्रजासु प्रसारयितुं संयुक्तमुद्राः प्राकाशयत् । तस्य राजनैतिकलाभः आसीत् यत्, पृथ्वीराजेन घोरी इत्यस्य शासनम् अङ्गीकृतम् अस्ति इति सन्देशानुसारं कस्यचित् विद्रोहस्य स्थितिः नोदभवत् इति । सा ऊहितवती, यथा प्रजायाः मनस्स्थितेः लाभं प्राप्तुम् 'इस्ट् इण्डिया कम्पनी' इत्यनया संस्थया मुगल-राजस्य शाह आलम् द्वितीय इत्यस्य नाम्ना मुद्राः प्रसारिताः । तेन प्रजासु मुगल-साम्राज्यस्य राजत्वस्य विश्वासः अखण्डः अभवत् इति [१५६][१५७]

डॉ. दशरथ शर्मा इत्यस्य मतानुसारम् एडवर्ड् थॉमस् इत्यनेन प्रस्तुताः संयुक्तमुद्राः प्रबलं कारणम् अस्ति यत्, घोरी इत्येषः सपादलक्षसाम्राज्यस्य सामन्तत्वेन पृथ्वीराजाय सत्तां दातुम् इच्छति स्म इति [१५८] । डॉ. दिनेशचन्द्र इत्येषः मुद्रायाः वास्तविकनिष्कर्षस्य प्रमाणं दातुं तु न शक्तवान्, परन्तु तस्य मतानुसारं ताः मुद्राः आधिकारिकरीत्या राजकीयमुद्रणालये न, अपि तु अन्यस्वैच्छकया संस्थया मुद्रिताः स्युः [१५९] इति ।

पृथ्वीराजस्य मृत्युस्थानम् अजयमेरुः[सम्पादयतु]

अनेकेषु ग्रन्थेषु उक्तम् अस्ति यत्, नरायणस्य युद्धक्षेत्रे पृथ्वीराजः हतः इति । परन्तु ऐतिहासिकपृष्ठभूमिः, युद्धोद्देशः, घटनाक्रमः इत्यादीनाम् आधारेण युद्धक्षेत्रे पृथ्वीराजस्य मृत्योः अप्रमाणिकता सिध्यति [१६०] । घोरी इत्यस्य भारतस्योपरि आक्रमणस्य मुख्यौ द्वौ उद्दशौ आस्ताम् । प्रप्रथमस्तु भारतस्य धनलुण्ठनम्, अपरः स्वधर्मस्य विस्तारः । नरायनयुद्धे घोरी इत्यस्य विजयेन तस्य प्रथमेच्छा तु पूर्णा अभवत् । परन्तु पृथ्वीराजस्य 'इस्लाम्'-धर्माङ्गीकरणस्य तस्य द्वितीयः उद्देशः अवशिष्टः आसीत् । अतः पृथ्वीराजस्य जीवनम् अनिवार्यम् आसीत् । घोरी इत्यस्य द्वितीयेच्छायाः प्रमाणानि विभिन्नेषु ग्रन्थेषु प्राप्यन्ते ।

ताजुल-मासिर[सम्पादयतु]

ताजुल-मासिर इत्याख्ये पुस्तके उल्लेखः प्राप्यते यत्, यदा घोरी इत्येषः स्वसैन्येन सह लाहोर-प्रदेशं प्रापत्, तदा सः कवामुल्मुल्क रुकनुद्दीन हम्जा इत्येनं दूतत्वेन अजयमेरुप्रासादं प्रैषयत् । घोरी इत्येषः सन्देशं प्रैषयत्, त्वं स्वकर्णयोः दासतायाः आभूषणं धृत्वा मे राजसभायाम् उपस्थितः भव तथा च 'इस्लाम्'-धर्मस्य अङ्गीकारं कुरु इति [१६१]

तारिखे फरिश्ता[सम्पादयतु]

फरिश्ता इत्यस्मिन् उल्लिखितम्, घोरी इत्येषः यदा लाहोर-प्रदेशं प्रापत्, तदा स्वविश्वस्तं दूतं, यस्य नाम कवामुल्मुल्क रुकनुद्दीन हम्जा इत्यासीत्, तम् अजयमेरुप्रासादं प्रैषयत् । तेन सह सन्देशः प्रेषितः यत्, 'इस्लाम्'-धर्मम् अङ्गीकुरु इति । फरिश्ता इत्यस्मिन् अग्रे उल्लेखः प्राप्यते यत्, दूतात् सन्देशं श्रुत्वा पृथ्वीराजः अतिक्रुद्धः अभवत् । अतः पृथ्वीराजः अशोभनीयशब्दैः (अपशब्दैः) 'इस्लाम्'धर्मानुयायिनः राज्ञः समबोधयत् । ततः सः दूतम् अपि प्रति प्रैषयत् [१६२]

उक्तैः प्रमाणैः सिध्यति यत्, घोरी इत्यस्य उद्देशः भारतविजयानन्तरं पृथ्वीराजस्य यवनीकरणस्य (खतना) आसीत् । तस्य कृते पृथ्वीराजस्य जीवनम् अनिवार्यम् आसीत् । यद्यपि नरायनयुद्धक्षेत्रे घोरी इत्येषः यदि ऐषिष्यत्, तर्हि पृथ्वीराजस्य हत्यां कर्तुम् अशक्ष्यत्, तथापि सः पृथ्वीराजं नीत्वा अजयमेरुम् अगच्छत् । यतो हि पृथ्वीराजस्य इस्माली-करणं (खतना) अपि तस्य उद्देशः आसीत् ।

घोरी इत्यस्य मुख्यसैनिकः ऐबक् इत्येषः आसीत् । नरायनयुद्धानन्तरं सः समग्रयुद्धघटनां स्वराज्यसभासदस्यौ अकथयत् । तौ सदस्यौ नजामी, उफी इत्योतौ च आस्ताम् । नरायनयुद्धस्य प्रत्यक्षद्रष्टुः ऐबक् इत्यस्य कथनानुसारं तौ स्वग्रन्थस्य निर्माणम् अकुरुताम् । तयोः तथ्यानां प्रो. मोहम्मद हबीब, प्रौ. खलिक अहमद निजामी इत्येतौ विस्तृताध्ययं कृत्वा जगतः सम्मुखं सारमुपास्थापयेताम् [१६३]

निजामी इत्येषः अलिखत्, घोरी इत्येषः पृथ्वीराजम् अजयमेरुम् अनयत् । ततः पृथ्वीराजः घोरी इत्यस्य विरुद्धं यदा दुर्गोष्ठीं कुर्वन् अस्ति इति घोरी इत्येषः समाचारं प्रापत्, तदा पृथ्वीराजस्य हत्या अभवत् । ताजुल मासिर् इत्यस्मिन् ग्रन्थे प्राप्तस्य विवरणस्य समर्थनं भारतीयस्रोतांसि अपि कुर्वन्ति । हसन निजामी इत्येषः एकस्याः दुर्गोष्ठ्याः चर्चाम् अकरोत्, परन्तु तस्याः विषये किमपि विवरणं नालिखत् । तस्याः दुर्गोष्ठ्याः फलस्वरूपतया घोरी इत्येषः पृथ्वीराजस्य हत्याम् अकरोत् इति तेन उल्लिखितम् । प्रो. एस् एच् होदीवाला इत्येषः स्वपुस्तके अलिखत्, यदा पृथ्वीराजस्य परममित्रं, सहायकश्च उदयराजः पृथ्वीराजस्य कारागारवासस्य समाचारम् अशृणोत्, तदा सः आत्मग्लानिना दुःखितः अभवत् । सः अचिन्तयत्, यदि अहमपि स्वामिसदृशं कष्टम् असोढ्वा पलायनं करोमि, तर्हि मे गौडवंशः कलङ्कितः भवति इति । अतः सः देहल्याः उपरि आक्रमणं कृत्वा देहलीदुर्गस्योपरि चतसृभ्यः दिग्भ्यः आक्रमणम् अकरोत् । तस्मिन्नेव काले घोरी इत्यस्य सभायां कश्चन घोरी इत्येनम् अकथयत्, "एषः पृथ्वीराजः त्वम् अनेकवारम् अत्यजत्, किं त्वम् एकवारम् अपि तं न त्यक्ष्यसि ?" इति । घोरी इत्येषः तस्य वचनं श्रुत्वा सक्रोधम् अवदत्, त्वत्सदृशानां जनानां परामर्शेन राज्यं नष्टं भविष्यति इति । एवम् उक्त्वा घोरी इत्येषः पृथ्वीराजम् अजयमेरोः दुर्गं प्रैषयत् ।

प्रो. होदीवाला इत्यस्य कथनानुसारं या व्यक्तिः पृथ्वीराजं मोचयितुं परामर्शम् अयच्छत्, सा पृथ्वीराजस्य व्यक्तिः आसीत् । स्वं परितः अनिष्टस्य आशंकायां घोरी इत्येषः पृथ्वीराजम् अजयमेरोः प्रासादम् अनयत् । परन्तु अनेन सिध्यति यत्, घोरी इत्येषः नरायनयुद्धानन्तरं पृथ्वीराजं देहलीम् अनयत्, ततः दुर्गस्योपरि आक्रमणे सति सः तम् अजयमेरुम् अनयत् । तत्रैव पृथ्वीराजस्य मृत्युः अभवत् ।

हसन निजामी इत्येषः यस्याः दुर्गोष्ठ्याः वर्णनम् अकरोत्, तस्याः विषये पुरातनप्रबन्धसङ्ग्रहेऽपि उल्लेखः प्राप्यते । तत्र उल्लिखितम्, यदा म्लेच्छराजः (घोरी इत्येषः) पृथ्वीराजं मोचयामास, तदा पृथ्वीराजः प्रतिशोधाय योजनाम् अरचयत् । परन्तु तस्य विश्वासघाती मन्त्री घोरी इत्यस्मै योजनायाः विषये सूचनाम् अयच्छत् इति ।

मेरुतुङ्गरचिते प्रबन्धचिन्तामणौ वर्णनं प्राप्यते यत्, घोरी इत्येषः चित्रशालायां 'मुस्लिम्'-जनान् मारयन्तः शूकरान् दृष्ट्वा कुपितः अभवत् । ततः सः पृथ्वीराजस्य शिरश्छेदम् अकरोत् इति । परन्तु तत् वर्णनं सुसङ्गतं न प्रतीयते । यतो हि घोरी इत्येषः जानाति स्म यत्, न केवलं पृथ्वीराजः अपि तु चौहानवंशस्य सर्वेऽपि राजानः गौभक्षिणां यवनानां घृणां कुर्वन्ति स्म इति ।

निजामी इत्यस्य वर्णनम् उचितम् अस्ति यत्, घोरी इत्येषः पृथ्वीराजं नीत्वा अजयमेरुम् अगच्छत् तथा च तम् अमोचयत् । प्रबन्धचिन्तामणौ तु उल्लिखितं यत्, पृथ्वीराजः अजयमेरोः राजसिंहासने आरूढः अभवत् इति । जिनप्रभ सूरि इत्यस्य जैनाचार्यस्य कथनम् अस्ति यत्, घोरी इत्येषः अजयमेरौ एव पृथ्वीराजस्य हत्याम् अकरोत् इति ।

पृथ्वीराजस्य मृत्युः[सम्पादयतु]

११९२ तमस्य वर्षस्य मार्च-मासस्य एकादशे (११/३/११९२) दिनाङ्के पृथ्वीराजस्य मृत्युः अभवत् [१६४] । भारतीयपञ्चाङ्गानुसारं १२४९ तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णैकादश्यां (११/१/१२४९) तिथौ पृथ्वीराजस्य मृत्युः अभवत् । पृथ्वीराजस्य मृत्युः कुत्र, कदा चाभवत् इत्यस्य विवरणं विभिन्नेषु ग्रन्थेषु विभिन्नमेव प्राप्यते । परन्तु प्रमाणानुसारं पृथ्वीराजस्य मृत्युः अजमेरुप्रासादे अभवत् [१६५][१६६]

'इस्लाम्'-धर्मस्य शिक्षात्रयम् अस्ति । कलमा, शमसीर, जम्मी इत्येताः ताः शिक्षाः । मुख्यशिक्षा अस्ति यत्, प्रत्येकजनं यः 'मुस्लिम्' नास्ति (काफिर), तं येन केन प्रकारेण 'इस्लाम्'-धर्मानुयायिनं कुर्वन्तु इति [१६७]। एतादृशैः पैशाच्यभावैः सज्जः घोरी इत्येषः नरायनस्य द्वितीये युद्धे कूटिलतापूर्वकं पृथ्वीराजं बन्दिनम् अकरोत् । घोरी इत्येषः पृथ्वीराजस्योपरि अतिक्रुद्धः आसीत् । यतो हि पृथ्वीराजस्य कारणेन घोरी इत्यस्य अनेकाः हानयः अभूवन् । ताः अधः उल्लिखिताः....

१. गुजरातराज्यस्य विरुद्धं युद्धाय घोरी इत्येषः पृथ्वीराजस्य साहाय्यम् अयाचत्, परन्तु पृथ्वीराजः तस्य प्रस्तावं निराकरोत् । ततः गुजरातराज्यस्य विरुद्धं घोरी इत्य लज्जास्पदः पराजयः अभवत् ।

२. नरायनस्य प्रथमे युद्धे पृथ्वीराजः घोरी इत्यस्य निम्नतमं स्थितिम् अकरोत् । नरायनस्य प्रथमयुद्धानन्तरं घोरी इत्यस्य मनोबलं पूर्णतया नष्टम् अभवत् । सः गझनी-प्रदेशस्य प्रजायां लज्जितः अभवत् । सः अहोरात्रं स्वपराजयस्य दुःखेन व्यग्रः भवति स्म । स्वपत्न्याः सह शयनम् अकृत्वा एकान्ते अहोरात्रं व्यथितः सन् जीवनं यापयन् आसीत् ।

३. पृथ्वीराजः घोरी इत्यस्य सन्धेः सर्वान् अपि प्रयासान् निष्फलान् अकरोत् । पृथ्वीराजस्य कृते घोरी इत्यस्य वचनानि अवकरपात्रस्य शोभावत् आसन् ।

४. पृथ्वीराजः 'इस्लाम्'-धर्मम् अति अभद्रतमैः शब्दैः समबोधयत् ।

नरायनयुद्धानन्तरं स एव अजयमेरोः सिंहः 'इस्लामी'-गुहायां बन्दी आसीत् । घोरी इत्येषः येन केन प्रकारेण पृथ्वीराजम् 'इस्लाम्'-धर्मं स्वीकर्तुं विवशं कर्तुम् इच्छति स्म । अतः सः पृथ्वीराजेन सह राजैनितिकसम्बन्धं स्थापयितुम् अपि तत्परः आसीत् । परन्तु पृथ्वीराजः 'इस्लाम्'-धर्मस्य अस्वीकाराय दृढसङ्कल्पः आसीत् । पृथ्वीराजस्य चिन्तनम् आसीत् यत्,

मान बिहूना भोअना, सत्रुक देयेल राज ।

सरन पइट्ठे जीअना, तीनू कायर काज ।।

अर्थात्, शत्रुणा सह सन्धिं कृत्वा स्वराज्यं तु प्राप्तुं शक्यते । परन्तु "राजनैतिकव्यावहारिकता" इतिशब्दनेन प्रसिद्धं तत् कार्यं नपुंसकत्वम् उच्यते ।

उक्तमंशम् उद्दिश्य डॉ. हेमचन्द्र राय अलिखत्, "चौहानवंशजानाम् इतिहासं, स्वाभिमानं च दृष्ट्वा पृथ्वीराजस्य कृते बन्दिजीवनम् उत दासजीवनं च चरित्रानुकूलं नासीत्" इति [१६८]

अतः पृथ्वीराजस्य पार्श्वे द्वौ मार्गौ आस्ताम् । राजनैतिकव्यावहारिकतायाः उपयोगं कृत्वा सन्धिः, अपरः स्वाभिमानस्य रक्षणम् । पृथ्वीराजः द्वितीयं मार्गं स्वाभिमानम् अचिनोत् । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजात् नकारात्मकं प्रत्युत्तरं प्राप्य घोरी क्रोधाग्निना प्रज्वलितः स्यात् । सः स्वाभिमानिना पृथ्वीराजेन स्वेप्सितं कारयितुं तस्मै शारीरक-मानसिक-यातनाः अदास्यत् । घोरी इत्यस्य मरणान्तिकपीडां सोढ्वाऽपि पृथ्वीराजः घोरी इत्यस्य वशे नाभवत् इति ।

पृथ्वीराजस्य दृढसङ्कल्पेन घोरी इत्यस्य सङ्कल्पः पूर्णः नाभवत् । अतः सः कूटनीतिपूर्वकं पृथ्वीराजम् 'इस्लाम्'-धर्माङ्गीकारणाय दुर्गोष्ठीम् अकरोत् । बहुभ्यः वर्षेभ्यः घोरी इत्यस्य सेवां कुर्वन् भारतस्य देशद्रोही पृथ्वीराजस्य मन्त्री प्रतापसिंहः आसीत् । घोरी इत्येषः तं प्रतापसिंहं पृथ्वीराजस्य समीपं प्रैषयत् । प्रतापसिंहस्य उद्देशः आसीत् यत्, येन केन प्रकारेण पृथ्वीराजः 'इस्लाम्'-धर्माङ्गीकरणाय सज्जः भवेत् इति । अतः सः पृथ्वीराजं कानिचन दिनानि अबोधयत् । परन्तु पृथ्वीराजः प्रतापसिंहे विश्वस्य तं स्वमनसि स्थितां योजनाम् अकथयत् । सा योजना बाणवेधयोजना इति प्रसिद्धा ।

बाणवेधः[सम्पादयतु]

बाणवेधयोजना एव निजामी इत्यस्मिन् पुस्तके दुर्गोष्ठीत्वेन वर्णिता । बाणवेधस्य पुष्टिम् अनेके ग्रन्थाः तु कुर्वन्ति एव, अपि तु ऐतिहासिकघटनाक्रमः अपि करोति ।

घोरी इत्यस्य आदेशेन देशद्रोही मन्त्री प्रतापसिंहः पृथ्वीराजम् 'इस्लाम्'-धर्माङ्गीकरणाय बोधयितुम् अगच्छत् । "घोरी इत्येनं मारयितुम् इच्छामि" इति सम्भाषणकाले पृथ्वीराजः तं देशद्रोहिणं प्रतापसिंहम् अकथयत् । पृथ्वीराजः देशद्रोहिणं प्रतापसिंहम् अकथयत्, अहं शब्दवेधबाणं चालयितुं क्षमः अस्मि । मम एतस्याः विद्यायाः प्रदर्शनं कर्तुम् अहं सज्जः । त्वं येन केन प्रकारेण घोरी इत्येनं मे विद्याप्रदर्शनं द्रष्टुं सज्जं कुरु । ततः राजसभायां शब्दवेधबाणस्य प्रदर्शनकाले घोरी इत्येषः कुत्र स्थितः अस्ति इति मां कथय । अहं शब्दवेधिबाणेन घोरी इत्येनं मारयित्वा प्रतिशोधं स्वीकरिष्यामि इति ।

परन्तु देशद्रोही प्रतापसिंहः पृथ्वीराजस्य सहाय्यं तु नाकरोत्, अपि तु पृथ्वीराजस्य योजनायाः विषये घोरी इत्येयनम् असूचयत् [१६९] । पृथ्वीराजस्य योजनायाः विषये यदा घोरी इत्येषः अशृणोत्, तदा तस्य मनसि क्रोधेन सह कौतूहलम् अपि समुद्भूतम् । तस्य कल्पनायाम् अपि नासीत् यत्, कोऽपि अन्धः जनः ध्वनिं श्रुत्वा लक्ष्यं भेत्तुं शक्नुयात् इति । परन्तु मन्त्री यदा पौनःपुन्येन पृथ्वीराजस्य शक्तेः विषये अकथयत्, तदा घोरी इत्येषः शब्दवेधबाणस्य प्रदर्शनं द्रष्टुं सज्जः अभवत् । घोरी इत्येषः स्वस्थाने लोहस्य उत पाशाणस्य एकां मूर्तिम् अस्थापयत् । ततः देशद्रोही प्रतापसिंहः सभायां पृथ्वीराजस्य हस्ते धनुष्काण्डम् अयच्छत् । घोरी इत्येषः यदा लक्ष्यं भेत्तुम् आदेशम् अयच्छत्, तदा अनुक्षणमेव पृथ्वीराजः बाणम् अत्यजत् । तेन बाणेन तस्याः मूर्तेः भागद्वयम् अभवत् ।

देशद्रोहेण पृथ्वीराजस्य अन्तिमप्रायसः अपि विफलः अभवत् । हसन निजामी इत्यस्य वर्णनानुसारं, ततः क्रुद्धः घोरी इत्येषः पृथ्वीराजस्य हत्यां कर्तुम् आदिशत् । तत एकः यवनसैनिकः रत्नजडितया सुवर्णयुक्तया असिना पृथ्वीराजस्य हत्याम् अकरोत् । एवं अजयमेरौ पृथ्वीराजस्य जीवनलीला समाप्ता । ततः तस्य और्ध्वदैहिकसंस्कारः अजयमेरौ एव अनुजभ्रातुः हरिराजस्य हस्तेन अभवत् [१७०]

एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः ।

शरीरेण समं नाशं सर्वं अन्यद्धि गच्छति । । ८.१७ । । मनुस्मृतिः

अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तूनि शरीरेण सह एव नष्टानि भवन्ति ।

इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति [२]

पृथ्वीराजसम्बद्धम्[सम्पादयतु]

अष्टशतस्य वर्षाणां पश्चात् भारते हिन्दुशासनं पुनः स्थापितम् अभवत् इति अशोक सिङ्घल-महोदयः अवदत् [१७१] । २०१४ तमे वर्षे भारते यत् निर्वाचनम् अभवत्, तस्मिन् भारतीयजनतापक्षस्य विजयः अभवत् । ततः नरेन्द्र मोदी इत्येषः प्रधानमन्त्री अभवत् । तस्य विजयस्य विश्लेषणकाले अशोक सिङ्घल-महोदयः उक्तं निष्कर्षम् अवदत् ।

शेर सिंह राणा इत्याख्यः जनः याच्ञां करोति यत्, सः अफगानिस्थानं गत्वा पृथ्वीराजस्य अस्थिं स्वीकृत्य आगतवान् इति । यतो हि पृथ्वीराजरासोकाव्ये पृथ्वीराजस्य मृत्युः गझनी-प्रदेशे उल्लिखितः, अतः अनेकेषां मान्यता अस्ति यत्, तत्र पृथ्वीराजस्य समाधिस्थलम् अस्ति इति । तेषु शेरसिंह इत्येषः अपि अन्तर्भवति । पुरा एषः फुलन्नदेवी इत्याख्यायाः हत्यायाः दोषित्वेन तिहाड-कारागारे आसीत् । परन्तु ततः यदा तेन ज्ञातं यत्, पृथ्वीराजस्य समाधिस्थलम् अद्यापि गझनी-प्रदेशे अस्ति तथा च यवनाः अद्यापि तस्य समाधेः अपमाननं कुर्वन्तः सन्ति इति, तदा सः तिहाड-कारागारात् पलायितः । ततः सः क्रमेण नेपालदेशं, बाङ्गलादेशं, दुबई-देशं च उपसृत्य काबुल-नगरम् अगच्छत् । ततः पृथ्वीराजस्य अस्थीः स्वीकृत्य सः भारतं प्रत्यागत्य आत्मसमर्पणम् अकरोत् ।

यद्यपि इतिहासविदां मतानुसारं पृथ्वीराजस्य मृत्युः अजयमेरौ एव अभवत् तथा च पृथ्वीराजस्य अनुजः हरिराजः तस्य अन्त्येष्टिकार्यम् अकरोत्, तथापि पृथ्वीराजस्य मृत्युः गजनी-प्रदेशे अभवत् इत्यपि अनेकेषां धारणा अस्ति । तस्याः धारणायाः अनुसारं पृथ्वीराजस्य समाधिस्थलस्य यवनाः अपमानं कृत्वा हिन्दुधर्मस्य अन्तिमहुन्दुसम्राजः पृथ्वीराजस्य अपमाननं कुर्वन्तः आसन् । शेरसिंह इत्येषः 'जेल डायरी – तिहाड़ से काबुल और कन्धार तक' इत्यस्मिन् स्वपुस्तके स्वयात्रायाः अनुभवान् अलिखत् । तेन स्वयात्रायाः चलचित्रम् (Video) अपि स्वीकृतम् । तस्य आगमनकाले भारते पृथ्वीराजस्य स्मृतयः पुनः स्फूरिताः अभूवन् [१७२][१७३][१७४][१७५]

चौहानवंशावली[सम्पादयतु]


सम्बद्धाः लेखाः[सम्पादयतु]

संयोगिता चौहान

चौहानवंशः

अर्णोराज चौहान

सोमेश्वर चौहान

विग्रहराज चौहान

उद्धरणम्[सम्पादयतु]

  1. पृथ्वीराजविजयमहाकाव्यम्, सर्गः ११, श्लो. ८
  2. २.० २.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २६५. ISBN 978-81-86103-09-1. 
  3. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ८६. ISBN 978-81-86103-09-1. 
  4. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५१. ISBN 978-81-86103-09-1. 
  5. जर्नल ऑफ् रॉयल् एशियाटिक् सोसायटी ऑफ् बंगाल, भागः – ५५, खण्डः – १, पृ. ४६
  6. चौहानसरित्सागरः, खण्डः – १, पृ. १२०-१२३
  7. प्रो. कीलहार्न्, इण्डियन् एन्टिक्वैरी, भागः – २०, पृ. २०१-२१२
  8. हरविलास शारदा, स्पीचेज् एण्ड् राइटिंग, पृ. २६७-२६८
  9. पृथ्वीराजविजयं, सर्गः १, श्लो. ३५, टीका १४,१५,३१
  10. डॉ. गौरीशङ्कर हीराचन्द ओझा, मध्यकालीन भीरतीय संस्कृति, पृ. १३५-१३७
  11. पृथ्वीराजरासो, खण्डः १, पृ. ७२९-७४६
  12. नयचन्द्र सूरी, हम्मीरमहाकाव्यं, सर्गः २, श्लो. ७९-९०, पृ. ८५-८६
  13. पृथ्वीराजविजयं, सर्गः ९, श्लो. ८८
  14. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५२-१५३. ISBN 978-81-86103-09-1. 
  15. पृथ्वीराजप्रबन्धः, पृ. ८६
  16. दिल्ली सुल्तनत, खण्डः १, पृ. १३७
  17. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५३. ISBN 978-81-86103-09-1. 
  18. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ९७-९८. ISBN 978-81-86103-09-1. 
  19. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १०४-१०८. ISBN 978-81-86103-09-1. 
  20. Khan, Iqtidar Alam (1996). "Coming of Gunpowder to the Islamic World and North India: Spotlight on the Role of the Mongols". Journal of Asian History 30: 41–5. .
  21. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १०९-११०. ISBN 978-81-86103-09-1. 
  22. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १११-१२६. ISBN 978-81-86103-09-1. 
  23. देहल्याः तोमरवंशीयानां विषये अन्वेषणं कृतवान् इतिहासविद् हरिहर निवास द्विवेदी मनुते यत्, पृथ्वीराजनागार्जुनयोः युद्धं ई. ११७७ तमे वर्षे अभवत् । पृ. २७०
  24. खरतरगच्छ पट्टावली पृ. १९
  25. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५८-१६०. ISBN 978-81-86103-09-1. 
  26. पुरातन-प्रबन्ध-सङ्ग्रह पृ. ८६
  27. डॉ. आर. बी. सिंह, हिस्ट्री ऑफ् चाहमान्स्, पृ. १६६-६७, सद्यः तत् स्थानं शिकोहाबाद-नगरात् जसवन्तनगरस्य मार्गे स्थितम् अस्ति । भादान-नामकं उत्तररेलमार्गस्य रेलस्थानकमपि विद्यते ।
  28. सिङ्घी जैन ग्रन्थमाला, सं. आचार्य श्री जिनविजय, पृ. १४३
  29. २९.० २९.१ मेरुतुङ्गः प्रबन्धचिन्तामणिः पृ. ११९
  30. जनरल् ऑफ् रॉयल् एशियाटिक् सोसायटी ऑफ् बंगाल, भागः १७, पृ. ३१३
  31. खरतरगच्छपट्टावली, पृ. २५
  32. ओला-ग्रामस्य शिलालेखः
  33. अर्ली चौहान डाइनेस्टीज्, पृ. ८५
  34. हिस्टोरिकल् इन्क्रिप्सन्स् ऑफ् गुजरात, भाग २, पृ. २१८, पङ्क्ति १८
  35. भीमदेवस्य कडीशासनपत्रम्, विं.सं १२९५ मध्ये लिखितः, इण्डियन् एन्टिक्वैरी, भागः ६, पृ. २०५-६
  36. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १९१-१९५. ISBN 978-81-86103-09-1. 
  37. पृथ्वीराजविजयमहाकाव्यं, सर्गः १०, श्लो. ३९-४१
  38. डॉ. एच् सी रे, डायनेस्टीक् हिस्ट्री ऑफ् नार्दर्न् इण्डिया, खण्डः २, पृ. १०८६
  39. पृथ्वीराजविजयमहाकाव्यं, सर्गः ४२, श्लो. ४२, किम परम परीक्ष्य दीक्षित्वं, क्षमणविद्यौ नर राक्षसां स पापः । (व्यसृ) जद जयमेरु भूभृत्कुहर हरेरपि दूतमेकमग्रे ।।
  40. डॉ. दशरथ शर्मा, अर्ली चौहान डाइनेस्टीज, पृ. ८९, रामबल्लभ सोमानी, पृथ्वीराज चौहान एण्ड हिज टाइम्स्, पृ. ४३
  41. एनल्स् एण्ड् एन्टिक्विचीज् ऑफ् राजस्थान, भागः २, पृ. १२०४
  42. डॉ. गोपीनाथ शर्मा, राजस्थान का इतिहास, पृ. ८८
  43. हम्मीरमहाकाव्यं, सर्गः - ३, श्लो. ५२
  44. सिंघी जैन ग्रन्थमाला, पुष्प ६, पृ. ११७
  45. सुर्जनचरितमहाकाव्यम्, अध्यायः १०, श्लो. ११९-१३२
  46. प्रबन्धचिन्तामणिः, मेरुतुङ्गः, पृ. १८९-९०
  47. पुरातनप्रबन्धसङ्ग्रहः
  48. पुरातनप्रबन्धसङ्ग्रहः, पृ. ८६
  49. सम्पादकः महोपाध्याय विनयसागरजी, राजस्थानभारती, भागः ९, अङ्कः ४, पृ. १९-४०
  50. फलवर्द्धिकाशिलालेखः, श्लो. २-५
  51. तबकाते-अकबरी, भागः १, पृ. ३६
  52. तारीखे फरिश्ता, उर्दूसंस्करणं, पृ. २१७-१८
  53. फाउण्डेशन ऑफ् मुस्लिम रूल इन इण्डिया, पृ. २२ (हिन्दीसंस्करणम्)
  54. पृथ्वीराजविजयमहाकाव्यं, सर्गः १०, श्लो. ५०
  55. पृथ्वीराजविजयमहाकाव्यं, सर्गः ११, श्लो. १-६
  56. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २०२. ISBN 978-81-86103-09-1. 
  57. इण्डिन् एन्टिक्वैरी, भागः ११, पृ. ७१
  58. तारीखे फरिश्ता, उर्दूसंस्ककरणम्, पृ. २१८
  59. एपिग्राफिया इण्डिका, भागः ९, श्लो. ३४, पृ. ७२
  60. पृथ्वीराजविजयमहाकाव्यं, सर्गः ११, श्लो. ८-१२
  61. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २०३. ISBN 978-81-86103-09-1. 
  62. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १३६-१३७. ISBN 978-81-86103-09-1. 
  63. तबकाते नासिरी मूलपाठः, पृ. ११८, इलियट् एण्ड् डाउसन, खण्डः २, पृ. २९६-९७
  64. तारिखे फरिश्ता (ब्रिग्स्) खण्डः १, पृ. ९६-९७, उर्दूसंस्करणं, पृ. २२१
  65. आर्कियोलोजिकल सर्वे ऑफ् इण्डिया, खण्डः १४, पृ. ३२६
  66. मूलफारसीपाठः, बिब्लियोथिका इण्डिया, सं २५४, सन् १९३१, पृ. ८
  67. तारिखे मुबारकशाही, सम्पादकः डॉ. एम् हिदायत हुसैन, प्रस्तावना एवं फुटनोट ५,६ पृ. ८
  68. पञ्जाब डिस्ट्रिक्ट् गजेटियर्स्, खण्डः ६ए, करनाल, सन् १९१८, पृ. १५
  69. स्टडीज इन इन्डो-मुस्लिम रूल इन इण्डिया, पृ. ३६८
  70. इलियट् एण्ड् डाउसन, खण्डः २, पृ. २१५
  71. तबकाते नासिरी, मेजर रेवटी-द्वारा आङ्ग्लानुवादः, खण्डः १, पृ. ४५८
  72. तारिखे फरिश्ता, उर्दूसंस्करणं, पृ. २१९
  73. तारीखे फरीश्ता, पृ. २१९—२०
  74. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २०९-२१०. ISBN 978-81-86103-09-1. 
  75. फलौदीपाश्वनाथशिलालेखः, १५५५ तमः विक्रमसंवत्सरः
  76. http://www.aryasamajindore.com/index.php/mantras/171-andhavishwas
  77. तारिखे-नासिरी, रेवर्टी इत्यस्य अनुवादः, खण्डः १, पृ. ४५७
  78. तारिखे फरिश्ता, उर्दूसंस्करणम्, पृ. २२०
  79. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २१६. ISBN 978-81-86103-09-1. 
  80. जमीउल हिकायत, इलियट एण्ड डाउसन, खण्डः २, पृ. २००
  81. तारिख-मुबारकशाही, पृ. ७, सं १०
  82. फुतूहुस्सलातीन, १४२५-२९, अनुवादः पृ. १४८-४९
  83. ताजुल-सिर, इलियट् एणअड डाउसन्, भागः २, पृ. २१२-१३
  84. तारिखे-फरिश्ता, उर्दूसंस्करणं, पृ. २२२
  85. अर्ली तुर्कीस् अम्पायर् ऑफ् देल्ही, सन् १९४९ (ई.) पृ. ८६
  86. पृथ्वीराजरासोकाव्यं, भागः २, पृ. १००६
  87. जम्मू की तवारिख (राजदर्शिनी) रेवर्टी, तबकाते-नासिरी, भागः १, पृ. ४६६—६७
  88. केम्ब्रिज् हिस्ट्री ऑफ् इण्डिया, खण्डः ३, (तुर्क और अफगान), पृ. ५१२
  89. एनल्स् एण्ड् एन्टिक्वटीज् ऑफ् रास्थान, भागः १, पृ. २५६
  90. इण्डियन् हिस्टोरिकल क्वार्टरली, भागः १६, १९४० ई., पृ. ५६९-७०
  91. हम्मीरमहाकाव्यं, सर्गः ३, श्लो. ६६–६८ तथा इण्डियन एन्टिक्वैरी, भागः ८, पृ. ६१
  92. फुतुहूस्सलातीन, आयात १४४२-४३, आङ्गलानुवादः पृ. १४९
  93. पृथ्वीराजरासोकाव्यं, भागः २, ६६ समय, बड़ी लडाई रो प्रस्ताव, पृ. १७९३
  94. इलियच् एण्ड् डाउसन्, खण्डः २, पृ. २०७-८; प्रो. ए के निजामी, दिल्ली सल्तनत, भागः १, पृ. १४३
  95. जान ब्रीग्स्, आङ्ग्लभाषानुवादः, पृ. ९६-९७
  96. ख्वाजा अब्दुल हई, उर्दूसंस्करणं, पृ. २२१
  97. http://www.islamicfinder.org/Hcal/index.php
  98. सिंघीजैनग्रन्थमाला, सम्पादकः आचार्यः जि विजयजी, पृ. ४५
  99. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ३९६. ISBN 978-81-86103-09-1. 
  100. डॉ. गौरीशङ्कर हीराचन्द ओझा, जोधपुर का इतिहास, भागः १, पृ. ३०
  101. डॉ. डी आर् भण्डारकर, प्रोग्रेसिव् रिपार्ट् ऑफ् आर्कियोलाजिकल सर्वे ऑफ् इण्डिया, पश्चिमीसम्भागः, १९११-१२, पृ. ५३
  102. श्रीरामवल्लभ सोमानी, मरुभारती, अङ्कः ३-४, पृ. ५४-५५
  103. राजस्थानभारती, भागः ३, अङ्कः ३-४, पृ. २५
  104. इलियट् एण्ड् डाउसन्, खण्डः २, पृ. २१५
  105. इलियट् एण्ड् डाउसन्, खण्डः २, पृ. २१६
  106. तबकाते-नासिरी (आङ्ग्लानुवादः, ए जी रेवर्टी), भागः १, पृ. ४६७
  107. देहली के तोमर, पृ. २९३-९४
  108. देहली के तोमर, पृ. २९४
  109. तबकाते-नासिरी, मूलपाठः, पृ. ११९-२०
  110. तारीखे मुबारकशाही (बिब्लियोथिका इण्डिका, एम् हिदायत हुसैन, १९३१ ई., पृ. १०)
  111. फुतुहूस्सलातीन (मूलपाठः, डॉ. अगा मेहदी हुसैन, आगरा, ई. १९३८), आयात १४८०-८१
  112. ताबकाते-नासिरी, मेजर रेवर्टी, खण्डः १, पृ. ४६८, मूलपाठः, पृ. १२०
  113. इलियट् एण्ड् डाउलन्, भागः २, पृ. २००
  114. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवम् उनका युग. राजस्थानी ग्रन्थागार. p. २३२. ISBN 978-81-86103-09-1. 
  115. डॉ. दशरथ शर्मा, पृथ्वीराज तृतीय और उनका युग, पृ. ४३
  116. पृथ्वीराजरासोकाव्यं, बाणवेधप्रस्तावः, समयः – ६७, खण्डः २, नागरीप्रचारिणीसभा, काशी, द्वितीयसंस्करणं, २०५२ वि.सं.
  117. आचार्य मुनि जिन विजयजी, ई. १९३६, सिंघीजैनगन्थमालासङ्ख्या ४, पृ. ८७
  118. हिन्द्यनुवादकः, सम्पादकः, प्रकाशकश्च चन्द्रधर शर्मा, प्राध्यापकः हिन्दूविश्वविद्यालयः, वारणसी, ई. १९५२
  119. हिन्द्यनुवादकः – डॉ. हजारी प्रसाद द्विवेदी, सन्दर्भः सिंघीजैनग्रन्थमाला, पुष्पतृतीयं, पृ. १४३-४४
  120. सम्पादकः – आचार्य जिविजयजी सिंघीजैनग्रन्थमाला
  121. आचार्य मुनि जिनविजय, राजस्थानप्राच्यविद्याप्रतिष्ठानम्, जोधपुरम्
  122. हम्मीरमहाकाव्यं, तृतीयसर्गः, श्लो. ५३-७२, पृ. २३-२५
  123. हम्मीरमहाकाव्यं, सर्गः – ३, श्लो. ५३ - ६४
  124. हम्मीरमहाकाव्यं, सर्गः – ३, श्लो. ७०
  125. हम्मीरमहाकाव्यं, सर्गः – ३, श्लो. ६५ - ७२
  126. कलेक्शन् ऑफ् कोलब्रुक्स्, ग्रन्थसङ्ख्या १४५, कैटलॉग् ऑफ् दि संस्कृत मैन्युस्क्रिप्च् इन् दि लाइब्रेरी ऑफ् इण्डिया ऑपिस्, लण्डन्, बाई जुलियस् एगलिंग, ग्रन्थाङ्कः १५७७, भागः ३, पृ. ४८९-९१
  127. डॉ. डी सी गाङ्गुली, इण्डियन् हिस्टोरिकल् क्वार्टर्ली, भागः १६, पृ. ५८९-९०
  128. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २९७. ISBN 978-81-86103-09-1. 
  129. नरोत्तमदासः स्वामी, राजस्थानी, कलकत्ता, जनवरी, १९५०, भागः ३, अङ्कः ३, पृ. ४५-४८
  130. प्रो के बी व्यास, राजस्थान पुरातन ग्रन्थमाला, सङ्ख्या ११, खण्डः ३, पृ. १४६
  131. मेजर रेवर्टी, तबाकाते नासिरी, खण्डः १, पृ. ५६६-६७, पादटिप्पणीसङ्ख्या १
  132. डॉ. ए बी एम् हबीबुल्लाह, ढाका, फाउण्डेशन् ऑफ् मुस्लिम् रूल् इन् इण्डिया, पृ. १५
  133. डॉ. ईश्वरीय प्रसाद, हस्ट्री ऑफ् मेडीवल् इण्डिया, पृ. १४८
  134. इलयट् एण्ड् डाउसन्, हिस्ट्री ऑफ् इण्डिया ऐज् टोल्ड् बाई इट्स् ओन् हिस्टोरियन्स्, भागः २, पृ. २००-२०२
  135. इलयट् एण्ड् डाउसन्, हिस्ट्री ऑफ् इण्डिया ऐज् टोल्ड् बाई इट्स् ओन् हिस्टोरियन्स्, भागः २, पृ. २०४-२२४
  136. मूलफारसीपाठः, सम्पादकः नासउ लीस्, बिब्लियोथिका इण्डिका, ई. १८६४, पृ. १२०
  137. इलयट् एण्ड् डाउसन्, भागः २, पृ. २५९-३८२
  138. आङ्गानुवादकः मेजर् एच जी रेवर्टी, बिब्लियोथिका इण्डिका, रॉयल् एशियाटिक् सोसायटी ऑफ् बंगल, पार्क् स्ट्रीट्, कोलकाता, ई. १९८०, पृ. ४६८
  139. इलियट् एण्ड् डाउसन्, खण्डः २, परिशिष्टम्, पृ. ५४८
  140. कुरान मजीद (अनुदितपुस्तकम्), मौलाना सैयद अबूआला मौदूदी, पृ. ३३
  141. मूलफारसीपाठः, आयातसङ्ख्या १४९०-१४९१, आङ्ग्लानुवादः, पृ. १५२
  142. १४२.० १४२.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २४६. ISBN 978-81-86103-09-1. 
  143. इलियट् एण्ड् डाउसन्, भागः २, पृ. २३५-३६
  144. इलियट् एण्ड् डाउसन्, भागः २, पृ. ३८८
  145. कर्नल् जॉन् ब्रीग्स्, हिस्ट्री ऑफ् राइज ऑफ् मोहम्मडन् पॉवर् इन् इण्डिया, खण्डः १, पृ. १०५
  146. तारिखे फरिश्ता, पृ. २२९
  147. नसाउ लीस्, मूलपाठः, पृ. १२३-१२४
  148. रेवर्टी, आङ्ग्लानुवादः, खण्डः १, पृ. ४८५
  149. राजस्थानभारती, भागः ३,-४, पृ. २५
  150. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २५०-२५१. ISBN 978-81-86103-09-1. 
  151. एडवर्ड् थॉमस्, क्रोनकल्स् ऑफ् पठान किङ्ग ऑफ् डेल्ही, सङ्ख्या १५, पृ. १७-१८
  152. एडवर्ड् थॉमस्, क्रोनकल्स् ऑफ् पठान किङ्ग ऑफ् डेल्ही, सङ्ख्या १५, पृ. १७
  153. क्वायंस् ऑफ् मेडिवल् इण्डिया, प्लेट् ९, अनुक्रमः १०, पृ. ८६
  154. क्विकल्स् एण्ड् मेट्रोलाजी ऑफ् सुल्तान् ऑफअ डेल्ही, प्लेट् ३६ ए, पृ. १२
  155. क्रोनिकल्स् ऑफ् पठान् किङ्ग ऑफ् डेल्ही, पृ. १७
  156. नागरी प्रचारिणी पत्रिका, खण्डः ५७, पृ. ५९-६०
  157. सम्राट् पृथ्वीराज चौहान, पृ. १२१
  158. अर्ली चौहान डाइनेस्टीज्. पृ. ९६
  159. जर्नल् ऑफ् न्यूमिस्मेटिक् सोसायटी ऑफ् इण्डिया, खण्डः १५, पृ. २३४
  160. मध्यकालीन भारत, पृ. ५८
  161. काजुल मासिर, (इलियच् एण्ड् डाउसन्, भागः २, पृ. २१२
  162. तारिखे फरिश्ता, उर्दूसंस्करणम्, भागः १, पृ. २२२
  163. दल्ली सल्तनत, भागः १, पृ. १३९-४१
  164. श्रीहरिहर निवास द्विवेदी, दल्ली के तोमर, पृ. २९४
  165. इलियट् एण्ड् डाउसन्, (प्रो. हबीब संस्कररणम्), भागः २, पृ. ६६४-६५
  166. स्टडीज् इन् इन्डो मुस्लिम् हिस्ट्री, भागः १, पृ. १७९-१८०
  167. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २६२. ISBN 978-81-86103-09-1. 
  168. डाइनेस्टीक् हिस्ट्री ऑफ् नार्दर्न् इण्डिया, भागः २, पृ. १०९२
  169. येन यस्य कृतो भेदः, सचिवेन महीपतेः । तेना शस्त्रवधस्तस्य कृत इत्याह नारदः ।।
  170. अधिगत्य भूपतिः विपत्तमिति स्रवद श्रुमिर नयनस्तदनु । विहितौर्ध्वदैहिक इलामखिला स्वकरे चकार हरिराज नृपः ।। ७४ ।। सर्गः ३, हम्मीरमहाकाव्यम्
  171. https://www.youtube.com/watch?v=QP_G0UE0gUA
  172. http://www.amarujala.com/feature/samachar/national/profile-phoolan-devi-murderer-sher-singh-rana-hindi-news-sm/
  173. http://rajputanas.com/tag/sher-singh-rana-afghanistan/
  174. https://www.facebook.com/rajputyodhaa
  175. http://www.social-peek.com/Keywords/शेर%20सिंह%20राणा,%20सम्राट%20पृथ्वीराज%20चौहान
  176. सम्राट् पृथ्वीराज चौहान, देवसिंह मंडावा, ISBN - 978-81-86103-10-4, 2013, राजस्थानी-ग्रन्थागारम्, जोधपुरम्, पृ. १४८-१५१

अधिकवाचनाय[सम्पादयतु]

अन्तिमहिन्दुराजा पृथ्वीराज चौहान

जेल डायरी – तिहाड़ से काबुल और कन्धार तक