विग्रहराज चौहान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
विग्रहराज चौहान
महान् हिन्दुराजा

पति/पत्नी देशलदेवी
पिता अर्णोराजः
माता सुधवा
मतम् हिन्दुधर्मः

महान् हिन्दुराजा विग्रहराजः ( /ˈvɪɡrəhərɑːjə xɔːhɑːnə/) (हिन्दी: विग्रहराज चौहान, आङ्ग्ल: Vigrahraj Chauhan) वीसलदेवः, विश्वलः, वीसलः, कविबान्धवः, विग्रहराजचतुर्थः इति अपि प्रसिद्धः । भारतदेशस्य उत्तरभागात् तुर्क-जनानां समूलं निकन्दनं कर्ता विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजमेर-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । अधुना तस्य विद्यापीठस्य स्थाने 'मस्जिद्' अस्ति । अनेकेषां राज्ञां गर्वहन्ता विग्रहराजः चौहानवंशजः आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

सद्यः विग्रहराजस्य जन्मतिथिविषये किमपि न प्राप्तम् । विग्रहराजस्य पितुः नाम अर्णोराजः, मातुः नाम च सुधवा आसीत् । विग्रहराजस्य त्रयः भ्रातरः आसन् । तेषां नामानि क्रमेण जगद्देवः, देवदत्तः, सोमेश्वरश्च । जगद्देवः ज्येष्ठः, देवदत्तः अनुजः आसीत् । सोमेश्वरः विग्रहराजस्य विमातुः काञ्चनदेव्याः पुत्रः आसीत् । विग्रहराजस्य पत्न्याः नाम देशलदेवी आसीत् ।


तस्मिन्नुदग्ररिपु वर्ग जये निसर्ग,
वैयग्रवान जनि विग्रहराज देवः ।
यद्विग्रह जगद्सम्भविन विभाव्य,
वैरी व्रजो अपि मदनो अपि मदं मुमोच ।। पृ. २६७ [१]

सा देहल्याः इन्द्रप्रस्थ-प्रदेशस्य राज्ञः वसन्तपालस्य पुत्री आसीत् । तयोः द्वे अपत्ये आस्ताम् । तयोः नामनी क्रमेण अपरगाङ्गेयः, नागार्जुनश्च [२]

वैरोद्धारम्[सम्पादयतु]

अर्णोराजः युद्धे द्विवारं पराजितः अभवत् । सिद्धराजस्य सम्मुखं पराजयः, कुमारपालस्य सम्मुखं पराजयः च । अतः विग्रहराजः स्वपितुः कलङ्कम् अपाकर्तुम् इच्छति स्म । ततः विग्रहराजः चितौड-प्रदेशस्य उपरि आक्रमणम् अकरोत् । तदा चित्तौड-प्रदेशे कुमारपालस्य प्रियस्य दण्डनायकस्य सज्जनस्य शासनम् आसीत् । सज्जनः नाममात्रम् एव सज्जनः आसीत्, अन्यथा तस्य सर्वाणि कृत्यानि दुर्जनायन्ते स्म । तं पराजित्य विग्रहराजः कुमारपालशासितेषु प्रदेशेषु उत्पातम् अकरोत् । ततः विशालसैन्येन सह कुमारपालः विग्रहराजेन सह युद्धं कर्तुं नागौर-प्रदेशं गतः । परन्तु अनेकेषां युद्धानां विजेता कुमारपालः पराजितः सन् अह्णिलपाटण-प्रदेशं प्रत्यगच्छत् । एवं कुमारपालस्य दर्पं दूरीकृत्य विग्रहराजः स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् (प्रतिशोध लिया) । ततः तेन मारवाड-प्रदेशस्य अनेके प्रदेशाः स्वाधीन्ये कृताः । विग्रहराजस्य तथा तस्य उत्तराधिकारिणां च शौर्यस्य गाथाः बिजौलिया-मण्डलगढ-जहाजपुर-मेनाल-नरहड-प्रदेशेभ्यः प्राप्तेषु शिलालेखेषु बहुधा अङ्किताः सन्ति । देहली-आसिका-प्रदेशयोः स्वाधिपत्यं प्रस्थाप्य विग्रहराजेन चतसॄषु दिक्षु स्वयशः प्रसारितम् ।

तुर्कविजयः[सम्पादयतु]

तुर्कविजयः अपि विग्रहराजस्य अतिमहत्त्वपूर्णः विजयः आसीत् । तुर्कस्य इतिहासे प्राप्यते यत्, सल्जुको-नामकः राजा खुशरो गजनी-नामकं राजानं तुर्क-प्रदेशात् बहिष्करोति । अतः खुशरो पञ्जाब-प्रदेशे निवसति स्म । भारतीयसीमाप्रदेशे निवस्य सः पौनःपुन्येन भारतीयसीमायाः अतिक्रमणं करोति स्म । ई.११५३-११६० काले खुशरो यदा सपादलक्ष-प्रदेशस्य उपरि आक्रमणम् अकरोत्, तदा १००० गजैः, एकलक्षेण अश्वारोहिभिः, नैकैः सैनिकैः सह मिलित्वा विग्रहराजः खुशरो इत्यस्य निग्रहणम् अकरोत् । बुभुक्षितव्याघ्रवत् विग्रहराजः खुशरो इत्यस्य सेनायाः उपरि आक्रमणम् अकरोत् । ब्रह्मपुर्याः धरा तुर्कसैनिकानां रक्तेन रञ्जिता अभवत् । ततः सा धरा तुर्कजनरहिता अपि अभवत् ।

तुर्कविजये विग्रहराजस्य चातुर्यस्य, धर्मनिष्टायाः अति महत्त्वपूर्णं योगदानम् आसीत् । यतः विग्रहराजस्य श्रीधर-आख्यः मन्त्री खुशरो इत्यस्मात् विपुलोत्कोचं स्वीकृतवान् आसीत् । अतः सः पौनःपुन्येन विग्रहराजम् आग्रहेण वदति स्म यत्, "शत्रुपक्षस्य सेना अति विशाला अस्ति, वयं तस्य सम्मुखं निश्चयेन पराजिताः भविष्यामः । अतः प्रजाहिताय, स्वहिताय च अस्माभिः तस्य आधिपत्यं स्वीकृत्य आत्मसर्पणम् एव करणीयम्" इति । मन्त्रिणः उक्तेन परामर्शेन विग्रहराजः चिन्तामग्नः तु अभवत् । परन्तु सः अचिन्तयत्, "प्राजानां, ब्राह्मणानां, गवां च हिताय मया येन केन प्रकारेण युद्धं करणीयम् एव" इति । अतः सः युद्धस्य निर्णयम् अकरोत् । ततः तेन ज्ञातं यत्, मन्त्री उत्कोचं नीत्वा तं पथभ्रष्टं कुर्वन् आसीत् । मन्त्रिणः देशद्रोहं ज्ञात्वा विग्रहराजः तं बन्दिनम् अकरोत् । ततः युद्धं कृत्वा विजयी अभवत् ।

धार्मिककार्याणि[सम्पादयतु]

विग्रहराजः शैवमतानुयायी आसीत् । परन्तु सः सर्वेषां धर्माणां, सम्प्रदायानां च सम्माननं करोति स्म । जैनमुनिभ्यः तेन अनेकानि विहाराणि निर्मापितानि । जैनोत्सवेषु उत्साहेन भागम् ऊढ्वा स्वयोगदानम् अपि यच्छति स्म । जैनश्वेताम्बराचार्यस्य धर्मघोष सूरि इत्यस्य सम्माननत्वात् विग्रहराजेन एकादश्यां तिथौ आराज्ये पशुवधे कठोरनिषेधः उद्घोषितः आसीत् [३]

गौरक्षा, ब्राह्मणरक्षा, संस्कृतिरक्षा च तस्य धर्मः आसीत् । अतः सः संस्कृतविद्यापीठस्य स्थापनाम् अकरोत् । तस्य विद्यापीठस्य नाम सरस्वतीकण्ठाभरणविद्यापीठम् इति । तत् विद्यापीठम् आदिकालात् अजमेर-प्रदेशे स्थितम् अस्ति । एतस्य विद्यापीठस्य निर्माणं चौहाणवंशीयराजा विग्रहराजः अकारयत् । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय एतस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना एतस्य नाम 'अढाई दिन का झोपडा' इति अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसाय सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [४] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तर्भागे एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।

उत्तमकविः[सम्पादयतु]

सः अनेकेभ्यः कविभ्यः आश्रयदानम् अपि अकरोत् । अतः सः कविबान्धवः इत्यपि प्रख्यातः आसीत् । युद्धक्षेत्रे शत्रूणां निकन्दकः शूरवीरराजा विग्रहराजः कविः अपि आसीत् । सः युद्धे असेः उपयोगे यथा कुशलः आसीत्, तथा लेखन्याः उपयोगे अपि आसीत् । विग्रहराजः "हरकेलि" आख्यं नाटकम् अरचयत् । तत् नाटकं शिवमहाराजस्य (छत्रपति शिवाजी) प्रशंसायां रचितम् आसीत् । तत् नाटकं शिलालेखे उत्कीर्ण्य स्वस्थापिते सरस्वतीकण्ठाभरणविद्यापीठे प्रास्थापयत् । ततः ११९२ तमे वर्षे महोम्मद घोरी इत्याख्येन यनवाक्रान्त्रा विद्यापीठस्य ध्वंसः कृतः । एवं विद्यापीठेन सह तत्र स्थिताः सर्वेऽपि शिलालेखाः भूगर्भिताः अभूवन् । १८६५ तमे वर्षे जनरल् कनिङ्घम् आख्यः पुरातत्ववेत्ता 'ढाई दिन का झोपडा' इत्यस्य प्राङ्गणे उत्खननम् अकारयत् । उत्खननकाले "हरिकेलि"-नाटकस्य शिलालेखाः प्राप्ताः [५]

वास्तुकलाविद्[सम्पादयतु]

पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, विग्रहराजेन यस्मिन्नपि दुर्गे आधिपत्यं स्थापितं, तं दुर्गं परितः नगरस्य रचना कृता । तुर्क-देशीयानाम् आक्रमणे तेषु अनेकानि नगराणि ध्वस्तानि अभूवन् । अतः विग्रहराजेन रचितानि नगराणि कानि इति ज्ञानम् असम्भवम् । राजस्थानराज्यस्य टोङ्क-मण्डले वीसलपुर-आख्यं नगरं विद्यते, तत् नगरं विग्रहराजेन एव रचितम् इति इतिहासविदां मतम् [३] । सद्यः तस्य नगरस्य नागरिकाः सर्वकारेण स्थानान्तरिताः, यतः तत्र एकस्य जलबन्धस्य निर्माणम् अभवत् । तस्य जलबन्धस्य कार्यं १९९९ तमे वर्षे पूर्णम् अभवत् । एवं विग्रहराजस्य एषा रचना अपि विलुप्ता उत नष्टा । स्वपितुः अनुरसणं कृत्वा विग्रहराजोऽपि तडागस्य निर्माणम् अकरायत् । सः तडागः विशल्या उत विस्लिया इति प्रसिद्धः अभवत् ।

सरस्वतीकण्ठाभरणविद्यापीठं वास्तुकलायाः पठनपाठनाय उत्तमस्थलम् आसीत् । तद् विद्यापीठम् अपि वास्तुकलायाः उत्तमोदाहरणम् आसीत् । तस्य विद्यापीठस्य स्थापत्यकलायाः प्रशंसां जेम्स् टॉड्, जनरल् कनिङ्घम्, फरग्यूसन् सदृशाः स्थापत्यकलाविदः अकुर्वन् [६][७][८]

यशः, अन्तिमेच्छा च[सम्पादयतु]

विग्रहराजस्य शासनम् उत्तरस्य शिवालिक-प्रदेशात् दक्षिणस्य विन्ध्य-प्रदेशपर्यन्तम् अभवत् । दीवान हरविलास सारदा आख्यः लेखः अखिलभारतीयशक्तित्वेन उदितस्य विग्रहराजस्य तुलनां रोमन्-देशीयेन ओलेरियस् इत्येनेन, सम्राटा हर्षवर्धनेन सह च अकरोत् ।

विग्रहराजस्य एकः स्वप्नः आसीत् यत्, "आर्यावर्तस्य पवित्रभूमौ एकतायाः, अभयस्य, धर्मरक्षायाः, ब्राह्मणानां, तीर्थानां, गवां पवित्रतायाः च स्थितेः निर्माणं करणीयम्" इति । तस्य विचारधारायाः प्रभावः भारतीयविचारधारायाः उपरि अपि अभवत् । तेन सपथं गृहीतम् आसीत् यत्, "अहम् आर्यावर्तस्य पवित्रभूमेः प्रत्येकं म्लेच्छं (यवनाः, वैदेशिकाः च) निष्कासयिष्यामि" इति [९] । स्वस्य सैन्यबलेन उत्तरदिशि तु सः प्रतिज्ञां पूर्णाम् अकरोत्, परन्तु पश्चिमोत्तरदिशि तुर्क-जनानाम् उपद्रवं शान्तं कर्तुं न शक्तवान् । अतः स्ववंशजान् अपि सः असूचयत् यत्, "मम अवशिष्टं कार्यं भवन्तः येन केन प्रकारेण पूर्णं कुर्वन्तु" इति ।

सम्बद्धाः लेखाः[सम्पादयतु]

चौहनवंशः

सरस्वतीकण्ठाभरणविद्यापीठम्

हिन्दुधर्मः

पृथ्वीराज चौहान

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.indianrajputs.com/history/hada.php

http://www.ignca.nic.in/coilnet/devn042.htm

http://www.ignca.nic.in/coilnet/devn038.htm

उद्धरणम्[सम्पादयतु]

  1. मरू भारती, वर्ष ३, अङ्कः १, पृ. ८५, गा.ओ.सि. प-. २६९
  2. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1. 
  3. ३.० ३.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1. 
  4. http://facebookwarrior.blogspot.in/2012/09/blog-post_17.html
  5. इण्डियन् एन्टिक्वेरी, भागः २०, पृ. २०१-२१२
  6. एनल्स् एण्ड् एन्टिक्विटीज् ऑफ् इण्डिया, खण्डः १, पृ.७७८
  7. आर्कियोलाजिकल् सर्वे ऑफ् इण्डिया, खण्डः १, पृ. १५६
  8. हिस्ट्री ऑफ् ईस्टर्न् एण्ड् इण्डियन् आर्किटेक्चर्, पृ.५१३
  9. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६०. ISBN 978-81-86103-09-1. 

अधिकवाचनाय[सम्पादयतु]

Bhartiya Sanskriti ke Rakshak by Dr. RatanLal Varma, Bharatiya Gurjara Parishad, 1987

विग्रहराजस्य विषये

विग्रहराजस्य कालः

चौहनवंशः

विग्रहराजः

"https://sa.wikipedia.org/w/index.php?title=विग्रहराज_चौहान&oldid=435073" इत्यस्माद् पुनः प्राप्तिः