अर्णोराज चौहान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अर्णोराजः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
अर्णोराज चौहान
पति/पत्नी सुधवा, काञ्चनदेवी च
पिता अजयराजः
माता सोमल्लदेवी
मतम् हिन्दुधर्मः

अर्णोराज चौहान ( /ˈərnrɑːjə xɔːhɑːnə/) (हिन्दी: अर्णोराज चौहान, आङ्ग्ल: Arnoraj Chauhan) शैवमतानुयायी आसीत् । अर्णोराजः अनलः, आवेल्लदेवः, आनाकः इत्यपि प्रसिद्धः आसीत् । अर्णोराजेन एव पुष्करस्य सुप्रसिद्धं वराहमन्दिरं निर्मापितम् । हेमचन्द्र सूरि इत्यस्य पराशक्त्याः वशो भूत्वा अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः स्वपितुः हत्याम् अकरोत् । सः स्वयं राजत्वेन सिंहासनस्योपरि आधिपत्यम् अस्थापयच्च । परन्तु अर्णोराजस्य द्वितीयपुत्रेण विग्रहराजेन जगद्देवः पराजितः । एवं विग्रहराजस्य आधिपत्ये समादलक्ष-प्रदेशस्य सम्पूर्णं राज्यम् आसीत् । विग्रहराजः स्वपितुः अपमानस्य वैरोद्धारम् अपि अकरोत् ।

जन्म, परिवारश्च[सम्पादयतु]

११७० तमे विक्रमसंवत्सरे अर्णोराजस्य जन्म अभवत् इति इतिहासविदां मतम् । अर्णोराजस्य पितुः नाम अजयराजः, मातुश्च नाम सोमल्लदेवी आसीत् । अर्णोराजस्य द्वे भार्ये आस्ताम् । मारोठ-राज्यस्य राजकन्या सुधवा, सिद्धराजस्य पुत्री काञ्चनदेवी च । सुधवायाः त्रीणि अपत्यानि आसन् । तानि जगद्देवः, विग्रहराजः (चतुर्थः), देवदत्तश्च । काञ्चनदेव्याः एकः पुत्रः आसीत् । तस्य नाम सोमेवश्वरः आसीत् [१]

शासनम्[सम्पादयतु]

अर्णोराजः यदा सत्तारूढः अभवत्, तदा तस्य आयुः केवलं विंशतिः (२०) वर्षाणि आसन् । युवा अर्णोराजः यदा सम्राट् अभवत्, तदा विजेतृत्वेन तस्य ख्यातिः अभवत् । युवावस्थायां शक्तिशालिशासकत्वेन तस्य कीर्तिः आसीत् । यद्यपि अर्णोराजः अत्यन्तं शौर्यशाली राजा आसीत्, तथापि गुजरातराज्यस्य चालुक्यवंशीयस्य कुमारपालस्य, सिद्धराजजयसिंहस्य च सम्मुखं यः पराजयः अभवत्, तेन तस्य कीर्तिः धूलिधूसरिता अभवत् । परन्तु तस्य पराक्रमी पुत्रः विग्रहराजः पितुः पराजयस्य वैरोद्धारम् अकरोत् ।

विजयावलिः[सम्पादयतु]

चौहानप्रशस्तौ, बिजौलिया-शिलालेखे च अर्णोराजस्य विजयावलिः प्राप्यते [२][३]

१. राजधान्याम् अजयमेरौ आक्रमणं कुर्वतां तुरुष्क-वंशीयानां नाशः ।

२. मालवा-प्रदेशस्य परमार-शासकं पराजितवान् ।

३. सिन्धु-सरस्वती-नद्योः तटपर्यन्तं स्वशासनस्य विस्तारः कृतः ।

४. हरितन्का-कुश-वारन-नगरेषु आक्रमणं कृत्वा तेषां प्रदेशानां राज्ञां मानभङ्गः कृतः ।

अर्णोराजस्य राजसभायां देवबोध-आख्यस्य गुरोः अति महत्त्वपूर्णं स्थानम् आसीत् । अर्णोराजस्य राज्यसभायामेव श्वेताम्बर-पन्थस्य अनुयायिनः धर्मघोष सूरि इत्यस्य, दिगम्बर-सम्प्रदायस्य गुणभद्रस्य मध्ये शास्त्रार्थः जातः आसीत् । तस्मिन् शास्त्रार्थे गुणभद्रस्य पराजयः अभवत् ।

तुरुष्कविजयम् [४][सम्पादयतु]

अर्णोराजस्य प्रप्रथमं विजयं तुरुष्कविजयम् आसीत् । चौहानवंशस्य गजनी-प्रदेशस्य यामिनी-तुर्क-राजसु आदिकालात् वर्चस्वद्वन्द्वः आसीत् । ११३३ ई. तमे वर्षे अर्णोराजः यदा सत्तारूढः अभवत्, तदा सः विंशतिः वर्षीयः आसीत् । अतः नवीनम्, अनुभवहीनं राजानं परास्तं कृत्वा अजयमेरू-प्रदेशस्य उपरि आधिपत्यं स्थापयितुं लाहौर-प्रदेशस्य बहराम शाह-आख्यः (ई. १११७ - ११५८) राजा अजयमेरू-दुर्गस्य उपरि आक्रमणम् अकरोत् । परन्तु अजयमेरू-स्थिते दुर्गे आक्रमणं कर्तुं गतानां तुरुष्काणाम् अर्णोराजेन घोरपराजयः अभवत् । पृथ्वीराजविजये पराजितानां तुरुष्काणां वर्णनं प्राप्यते यत् – अजयमेरूतः निर्गतः अर्णोराजः तुर्कसेनारूपिसमुद्रस्य कृते वडवाग्निः अभवत् । तुरुष्काणां धावन्ती सेना अजयमेरू-प्रदेशीयानां सैनिकानाम् आघातेन रक्तरञ्जिता अभवत् । सेनायाः केचन सैनिकाः मृताः केचन कवचस्य भारेण निश्चलाः अभूवन् । कवचभारेण सन्तप्ताः सैनिकाः जलतृष्णायाम् एव मृताः । केचन अश्वग्रीवायाम् आघातं कृत्वा रक्तपानं प्रारभन्त, तथापि तेषां मृत्युः अभवत् । तुरुष्कसेनायाः सैनिकानां शवानि ग्रामस्य मार्गेषु इतस्ततः पतितानि आसन् । दुर्गन्धस्य बाहुल्येन ग्रामजनाः तानि शवानि अज्वालयन् । अनेकानि शवानि गृध्राणाम् आहारम् अभूवन् । शत्रूणां ध्वजाः, वस्त्राणि, आभूषणानि च वीथिकासु, मार्गेषु च विस्तिर्णानि आसन् । तेन अजयमेरू-नगरस्य शोभा विचित्रा अभवत् । यस्मिन् स्थाने युद्धं जातम् आसीत्, तस्य स्थानस्य परिशुद्ध्यै अर्णोराजः तस्मिन् स्थाने तडागस्य निर्माणम् अकारयत् । इन्दुनद्याः जलेन सः तडागः पूरितः । सः तडागः सद्यः अन्नासागरतडागत्वेन प्रसिद्धः अस्ति । इन्दु-आख्या नदी चन्द्रनदी, बाण्डीनदी इत्यपि प्रसिद्धा आसीत् । कुत्रचित् सा लूनी इत्यपि प्रसिद्धा [४]

मालवाविजयम्[सम्पादयतु]

तस्मिन् एव समये परमार-शासकेभ्यः जन्मदात्री अवन्ति-नगरी पराभवोन्मुखी आसीत् । अतः प्रतिवेशिराज्येभ्यः अवन्ति-नगरी सैन्यपरिक्षणस्य स्थलम् अभवत् । शाकम्भर्याः अर्णोराजः, गुजरातराज्यस्य जयसिंहः मालवा-प्रदेशस्य अनेकेषु प्रदेशेषु पौनःपुन्येन आक्रमणं कुर्वन्तौ आस्ताम् । अवन्ति-नगर्यां तदा निर्वाणनारायण-आख्यस्य राज्ञः शासनम् आसीत् । सः नरवर्म्मा इत्यपि प्रसिद्धः आसीत् । ११३३ ई. तमस्य वर्षस्य आरम्भिकेषु कालेषु नरवर्मा अर्णोराजेन सह युद्धम् अकरोत् । परन्तु नरवर्मणः पराजये सति तस्य पुत्रः यशोवर्मा मालवा-प्रदेशस्य राजा अभवत् इति इतिहासविदां मतम् [५][६] । अर्णोराजेन अवन्तिनगर्याः महान्भागः स्वाधीनः कृतः । अवशिष्टे भागे यशोवर्मणः शासनम् आसीत् ।

सिन्धु-सरस्वती-हरितानक-कुश-वारन-अभियानम्[सम्पादयतु]

चौहानप्रशस्तेः चतुर्दश्यां (१४) पङ्क्तौ सिन्धुसरस्वत्यभियानस्य, सप्तदश्यां (१७) पङ्क्तौ हरितानकाभियानस्य वर्णनं प्राप्यते । बिजौलिया-शिलालेखस्य सप्तदशात् (१७) श्लोकात् कुश-वारन-अभियानस्य वर्णनम् आरभते । तुर्काणां गर्वगञ्जनं कृत्वा अवन्ति-नगर्याः महद्भागं स्वायत्तीकृत्य पीलू-प्रदेशम् उपसृत्य च अर्णोराजस्य सेना अग्रे अगच्छत् ।

मरुस्थलम् उपसृत्य गच्छन्ती अर्णोराजस्य सेना पिपासया व्याकुला अभवत् । ततः प्रह्लादकूपात् जलं पीत्वा सर्वे तृष्णामुक्ताः अभूवन् । अर्णोराजः विजयाभियाने तु निर्गतः आसीत्, परन्तु इतिहासविदां मतम् अस्ति यत्, तस्य विजयाभियानस्य मुख्यं लक्ष्यं गजनवी-प्रदेशस्य राज्ञां पराजयः आसीत् । यतः ते भारतस्य भूमेः वीकमपुरपर्यन्तं भागं स्वाधीन्ये अकुर्वन् । विजययात्रां अग्रे सारयन्ती अर्णोराजस्य सेना वीकमपुरस्य उत्तरभागे स्थितायाः सतलजनद्याः तटं प्रापत् । सः तटवर्तिप्रदेशः उच्छ इति प्रसिद्धः । उच्छप्रदेशः भट्टिराजपूतानाम् आधिपत्ये आसीत् । भट्टिराजपूताः तुर्क-प्रदेशीयानां राज्ञां सामन्ताः (General) आसन् । हेमचन्द्र सूरि इत्यस्य मतानुसारं तुर्काणां विरुद्धम् अर्णोराजस्य साहाय्यं वाहिकप्रदेशस्य, पूर्वीमद्रस्य च नगरावासिनः अकुर्वन् [७] । अनेन ज्ञायते यत्, पूर्वीमद्रप्रदेशस्य (पूर्वी पञ्जाब), वाहिकप्रदेशस्य (टक्कदेशस्य) च निवासिनः वाल्हीम इत्यस्य समर्थकाः, गजनवी-राज्ञां विरोधिनः आसन् [८] । एवं सिन्धुनद्याः पूर्वदिशः द्वीपे (दोआब क्षेत्रे) अर्णोराजस्य आधिपत्यम् अभवत् ।

दोआब-क्षेत्रात् अर्णोराजस्य सेना पूर्वदिशं प्रति अग्रे अगच्छत् । सरस्वतीनद्याः प्रवाहेण सह स्वमार्गे अग्रे चलन्ती अर्णोराजस्य सेना हरितानक-प्रदेशं प्रापत् । इतिहासविदां मतम् अस्ति यत्, बिजौलिया-शिलालेखे कुश-बारन-प्रदेशयोः विजयस्य यत् वर्णनम् अस्ति, तत् हरितानक-प्रदेशस्य उपरि विजयानन्तरस्य वर्णनम् अस्ति इति । हरितानक-प्रदेशस्य उपरि आक्रमणस्य वार्तां श्रुत्वा प्रदेशस्त्रियः क्रन्दनम् आरभन्त । एतद् विवरणं कुत्रचित् प्राप्यते । अनेन ज्ञायते यत्, अर्णोराजस्य सेनायाः शौर्यगाथा चतुसॄषु दिक्षु प्रसिद्धा आसीत् इति । तस्मिन् काले हरितानक-प्रदेशस्य राजधानी यमुनातटे विकसिता ढिल्लिका-नगरी (देहली) आसीत् ।

देहल्यां तोमर-राज्ञां पराजयानन्तरं गङ्गातटे स्थितं कुशवारन-प्रदेशे अर्णोराजः आक्रमणम् अकरोत् । तस्मिन् काले कुशवानर-प्रदेशे डोड-राजपूतानां (डोडिया) शासनम् आसीत् । परन्तु डोड-राजपूताः स्वतन्त्रशासकाः नासन्, अपि तु कन्नौज-प्रदेशस्य गाहडवाल-वंशीयस्य गोविन्दचन्द्रस्य (ई. १११०-११५६) सामन्ताः आसन् । इतिहासे वर्णनं प्राप्यते यत्, डोडिया-वंशीयाः राजानः व्यभिचारिणः, पापकर्मिणः च आसन् । अतः अर्णोराजेन तेषां दमनं कृत्वा ते वशिनः कृताः ।

सिद्धराजात् पराजितः[सम्पादयतु]

साम्भर-आख्यात् स्थलात् छिन्नविच्छिन्नः एकः शिलालेखः प्राप्तोऽस्ति । तस्मिन् शिलालेखे गुजरातराज्यस्य मूलराज-आख्यात् शासकात् सिद्धराजपर्यन्तं सर्वेषां शासकानां वंशावली अङ्किता अस्ति । तस्मिन् शिलालेखे प्रमाणं प्राप्यते यत्, अर्णोराजं पराजित्य सिद्धराजः साम्भर-नागौर-प्रदेशयोः आधिपत्यम् अस्थापयत् इति ।

हेमचन्द्र सूरि, सोमेश्वर सूरि इत्यादिभिः गुर्जर्प्रदेशीयैः कविभिः लिखितम् अस्ति यत्, सिद्धराजस्य सम्मुखम् अर्णोराजः आत्मसमर्पणम् अकरोत् इति । सोमेश्वरलिखितायां कीर्तिकौमुद्याम् उल्लेखितं यत्, इतस्ततः शत्रूणां शिरांसि दृष्ट्वा शङ्किता शाकम्भरी-नगरी अपि स्वशिरं समार्पयत् [९] । ततः सिद्धराजः स्वपुत्र्याः विवाहम् अर्णोराजेन सह अकारयत् ।

पराजितेन युवकेन सह स्वपुत्र्याः पाणिग्रहणं सर्वेषां मनसि कौतूहलम् उत्पादयति । परन्तु इतिहासविदां मतम् अस्ति यत्, अर्णोराजः, सिद्धराजश्च मालवा-प्रदेशस्योपरि आधिपत्यं प्रतिष्ठापयितुं क्रियाशीलौ आस्ताम् । अतः सिद्धराजेन युवार्णोरजेन सह मैत्रीसम्बन्धः स्थापितः । ततः पुत्र्याः विवाहं तेन सह कारयित्वा सिद्धराजः मैत्रीसम्बन्धस्य पुष्टताम् अकरोत् ।

काञ्चनदेव्याः अर्णोराजेन सह जातेन विवाहेन चौहान-चालुक्यवंशयोः कटुतायां स्वल्पेभ्यः वर्षेभ्यः विरामः अभवत् । परन्तु १२०० विक्रमसंवत्सरे सिद्धराजस्य मृत्योः अनन्तरं तस्य उत्तराधिकारित्वेन सत्तां प्राप्तुं वंशयोः पुनः युद्धम् आरब्धम् ।

कुमारपालात् पराजितः[सम्पादयतु]

अर्णोराजः सफलः योद्धा आसीत्, परन्तु कुमारपालस्य सम्मुखं द्वयोः युद्धयोः सः पराजितः । अर्णोराजस्य पराजयः कुमारपालस्य शासनकालस्य महत्त्वपूर्णः प्रसङ्गः आसीत् । गुजरातराज्यस्य गौरवपूर्णविजयत्वेन अनेकैः गुर्जरप्रदेशीयैः कविभिः तस्य प्रसङ्गस्य वर्णनं कृतम् अस्ति ।

१२०० विक्रमसंवत्सरे यदा सिद्धराजस्य मृत्युः अभवत्, तदा उत्तराधिकारस्य कृते युद्धम् आरब्धम् । हेमचन्द्र सूरि तथा अन्यजैनमतानुयायिनः भीमदेवस्य (प्रथमः) वंशजस्य कुमारपालस्य पक्षधराः आसन् । एवं जैनपक्षः शक्तिशाली असिद्ध्यत् । येन केन प्रकारेण हेमचन्द्र सूरि इत्यस्य शिष्यः कुमारपालः गुजरातराज्यस्य सत्तां प्राप्तुं सफलः अभवत् । तथापि गुजरातराज्यस्य प्रदेशेषु शान्तेः अभावः आसीत् । यतो हि मालवा-प्रदेशस्य बल्लाल-आख्यः राजा चाहड इत्यस्य पक्षधरः आसीत् । अपरत्र चहाड इत्येषः येन केन प्रकारेण अजयमेरू-नगरं प्राप्तवान् । अर्णोराजः चहाड इत्यस्मै साहाय्यं कर्तुं वचनबद्धः अभवत् । एवं कुमारपालेन सह अर्णोराजस्य युद्धस्य पृष्ठभूमिका सिद्धा अभवत् ।

आबू-पर्वतस्य पार्श्वे ११४५ (ई.) तमे वर्षे तयोः प्रप्रथमं युद्धम् अभवत् । तस्मिन् युद्धे उभयोः पक्षयोः सामार्थ्यं समानम् असिद्धयत् । परन्तु चालुक्यवंशीयेभ्यः सः सफलतायाः प्रसङ्गः आसीत् । यतः अर्णोराजः कुमारपालात् गुजरातराज्यस्य शासनम् अपकर्षितुम् असफलः अभवत् इति । ततः पञ्चवर्षानन्तरं ११५० (ई.) तमे वर्षे पुनः तयोः युद्धम् अभवत् । तदेव युद्धं निर्णायकयुद्धम् आसीत् ।

कुमारपालस्य सेना अजयमेरू-नगर्याः दुर्गस्य समीपे प्रापत् । तस्मिन् युद्धे चाहड इत्यस्य मृत्युः अभवत् । अर्णोराजः आहतः, पराजितश्च । अपरत्र कुमारपालस्य सेना मालवा-प्रदेशस्य बल्लाल इत्यस्य वधम् अकरोत् । एवं कुमारपालस्य गुजरातराज्यस्य सत्तायाः मार्गः निष्कण्टकः अभवत् ।

तस्मिन् युद्धे अर्णोराजस्य यः पराजयः अभवत्, तेन अर्णोराजस्य अत्यन्तं मानहानिः अभवत् । अर्णोराजेन सन्धित्वेन स्वपुत्र्याः जल्हणायाः विवाहः कुमारपालेन सह कारितः । अर्णोराजस्य, बल्लाल इत्यस्य च पराजयस्य वर्णनं वडनगरप्रशस्त्यां (१२०८ तमस्य विक्रमसंवत्सरस्य आश्विनमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ उत्कीर्णा प्रशस्तिः) प्राप्यते । चितौड-शिलालेखे (१२०७) अपि अर्णोराजस्य पराजयस्य वर्णनं प्राप्यते । अर्णोराजस्य मृत्योः अनन्तरं विग्रहराजः (चतुर्थः) कुमारपालेन सह युद्धम् अकरोत् । सः कुमारपालं पराज्य स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् ।

मृत्युः[सम्पादयतु]

अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशे भूत्वा अर्णोराजस्य हत्याम् अकरोत् । जगद्देवस्य पितृवधस्य उल्लेखः पृथ्वीराजविजये प्राप्यते यत्, परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवन स्वपितुः सेवा (वधं कृतं) कृता इति [१०]

सम्बद्धाः लेखाः[सम्पादयतु]

चौहानवंशः

शैवमतम्

सिद्धराज जयसिंह

विग्रहराज चौहान

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 51. ISBN 978-81-86103-09-1. 
  2. चौहानप्रशस्तिः, श्लो. १६,१७,१८
  3. एपिकग्राफिया इण्डिका, भागः २६, श्लो. १७
  4. ४.० ४.१ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 52. ISBN 978-81-86103-09-1. 
  5. हिस्ट्री ऑफ् परमार डाइनेस्टीज्, पृ.११५
  6. इण्डियन् एन्टिक्वैरी, खण्डः १९, पृ. ३४६
  7. द्वाश्रयमहाकाव्यम्, अध्यायः १६, श्लो. १५
  8. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ५३. ISBN 978-81-86103-09-1. 
  9. कीर्तिकौमुदी, श्लो. १११
  10. पृथ्वीराजविजयम्, सर्गः ७, श्लो. १२, पृ. १८१

अधिकवाचनाय[सम्पादयतु]

Between the two holocausts

विग्रहराजः

"https://sa.wikipedia.org/w/index.php?title=अर्णोराज_चौहान&oldid=321913" इत्यस्माद् पुनः प्राप्तिः