मध्यकालीननाटकानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मध्यकालीननाटकानि इत्यनेन मध्यकाले रचितानां नाटकानां परिचयत्मकता दरीदृश्यते। मध्ययुगीन-भारतीयेतिहास-संरचनायां संस्कृतसाहित्यिककृतीनां सातिशयमुपयोगो वर्तते । तत्रैतिहासिकनाटकानामवतारणा समृद्धैव । तेषु कौमुदीमहोत्सवं, विद्धशालभञ्जिका, कर्णसुन्दरी, ललितविग्रहराजं, हम्मीरमदमर्दनं, शंखपराभवं, प्रतापरुद्रकल्याणं, गंगादास-प्रतापविलास, वसुमतीमानविक्रमं च सविशेषमुल्लेखाहः सन्ति।

जैनसंस्कृतेर्नाटकानि मध्ययुगीनं साहित्यं प्रकामं शबलयन्ति । बहवस्ते सन्ति जैनकवयो येषां नाट्यकृतयः संस्कृत-साहित्यं सुसमृद्धं विदधति। कश्मीराणां न्यायमंजरीकृता जयन्तभट्टेनागमडम्बरेणास्मिन्युगे तद्देशस्य नाट्यरचनानुपलब्धिव्यहन्यते। इयं नाट्यकृतिः कांचिदपूवमेव सांस्कृतिकसमृद्धिं समक्षयति। मध्ययुगस्य नाटयसाहित्येन भारतवर्षस्य प्रादेशिकभाषासु विलिखितं साहित्यं विशेषतो नाटकादीनि सम्यक् प्रभावितानि। अनुसन्धानदिशायां संस्कृत-नाटकानां महत्त्वं तत्र विलसत्येव । मध्यकाले बहूनि नाटकानि प्रसिद्धानि आसन्।

आश्चर्यचूडामणिः[सम्पादयतु]

आश्चर्यचूडामणिः शक्तिभद्रस्य रचना वर्तते। नाटकमदिं रामायणम् उपजीवति। नाटके रचयित्रा केवलं वाल्मिकिम् अनुसृत्य कथानकम् उपस्थापयति। परन्तु कुत्रचित् भेदोऽपि दरीदृश्यते। प्रथमो नाट्यकृद् दाक्षिणात्यानां सम्मतश्चौदीच्यानामपि शक्तिभद्र आश्चर्यचूडामणिः स्वकृत्या ९०० ख्रीष्टाब्दमभितः स्थितिं लेभे । तदनन्तरं हि कुलशेखरो द्वितीयो दाक्षिणात्य-नाट्यकर्ता बभूव । तत्पूर्वं च भट्टनारायण आसीद् येन प्रभावितः स्वकृतौ शक्तिभद्रः शूर्पणखात आरभ्य रामकथामेव वाल्मीकिमनुसृत्य कतिपयान् परिवर्तान् विधाय वर्णितवान् शक्तिभद्रः। सीतां प्रति हनुमद्वारेण रामः संदिष्टवान् -

सदसि नमयता धनुर्मया त्वं गुरुजघने गुरुमन्दिरादेवाप्ता।

दशवदननिरोधनादपि त्वां युधि विनमय्य शरासनं हरामि॥ [१]

परन्तु रावणवधानन्तरं सीतायै सर्वमन्यथा जातम् । राममनुसृत्य लक्ष्मणो हनूमांश्च नैव तां सुष्ठु समभाषेताम् । रामस्तु -

रजनीचर-गूढ-सस्त्रिभिः कृतसंकेतनया दिने-दिने।

ऋजु-भावजडास्त्वया वयं छलिताः पुंश्चलि दण्डके वने॥[२]

इति वदन् न वाल्मीकेः राम इव प्रतिभाति । पुंश्चलीति निबध्नतः शक्तिभद्रस्य कोपलब्धिः स्तूयेत । कोऽयं विनयो हनुमतो यो रामसंदेशं प्रणयवचोहर इव वदति -

आयातं मामपरिचितया वेलया मन्दिरं ते

चोरो दण्ड्यस्त्वमिति मधुरं व्याहरन्त्या भवत्या।

मन्दे दीपे मधुलवमुचां मालया मल्लिकानां

बद्धं चेलो दृढतरमितो बाहुबन्धच्छलेन।। [३]

इत्येवं क्षद्रप्राय-कल्पना-ताण्डवैरेवाश्चर्यचूढामणिरस्मान् आश्चर्यस्तूपचूडामारोहयन्निव काचमणीन् रसिकता-सिकतामिश्रान् रसास्वादपथे विकिरति।

हरकेलिः[सम्पादयतु]

हरकेलिनाटकं चौहाणवंशीयः महाराजो विग्रहराजदेवः सोमदेवकृतस्य ललितविग्रहराजस्य नायको ११५० ख्रीष्टाब्दमभितोः विरचितवान्, पञ्चमाङ्कस्य तस्य हरगौरीसंवादांश एवावशिष्टोऽधुना लभ्यते । शिवाभ्यां सह विदूषकप्रतिहारयोरुपस्थितिः शिवार्चा च रावणकृतात्र सुच्येते । शिवस्तत्सेवकश्च किरातीभवतः । कुतोऽपि प्रसरन्तं सुगन्धं ज्ञातुं शिवो मूकमादिशत् । मूकोऽर्जुनेन क्रियमाणं यज्ञं शिवाय न्यवेदयत् । पुनश्च समादिष्टो मूकः किरातरूपेण गतोऽर्जुनेनायुध्यत । हरकिरातोऽपि तत्र गत्वायुध्यत । अन्ततः शिवोऽर्जुनस्य पराक्रमं बहु मानयामास। किरातार्जुनीयमपेक्ष्य हरकेलिनाटकस्य कथावस्तुनि नव्यता दर्शनीया। शिवादयोऽत्र कुटपात्रतां भजन्ति । एतादृशानि नाटकानि परस्तात् छायारूपकाणि प्रख्यातानि ।

चन्द्रलेखाविजय-प्रकरणम्[सम्पादयतु]

चन्द्रलेखाविजयस्य प्रणेता देवचन्द्रो विख्यातस्य जैनविदुषो हेमचन्द्रस्य शिष्यो बभूव । अष्टाङ्कमिदं प्रकरणमजितनाथस्य वसन्तोत्सवे प्रथमं प्रयोजितम्। अस्यान्ते कुमारपालेन अर्णोराजस्य विजयो वर्णितः । अस्य रचना ११५० ख्रीष्टाब्दमभितः प्रतिभासते। देवराजेन मानमुद्राभञ्जनमित्यपरं नाटकं विरचितम् । न तदद्याववधि लब्धम्।

ललितविग्रहराजम्[सम्पादयतु]

महाकविः सोमदेवो शाकम्भरी-नृपस्य चतुर्थस्य विग्रहराजदेवस्य संभाजनायामिदं नाटकं ललितविग्रहराजं विरचितवान् । ११५३ ई० वर्ष नाटकमिदं देवालयभित्तौ शिलापट्टेषुत्कीर्य निवेशितम् । देवालयं भक्त्वा मसजिद-भित्तौ ताः शिला जटिता अद्यापि तात्कालिकं गौरवं गायन्ति । चरितनायको विग्रहराजश्चाहमानवंश्यानां सम्राजामन्यतमस्तोमरान् दिल्लीं विजित्य यवनानपि भूरिशो युद्धेषु पराजयति स्म । अयञ्च ११५३ तः ११६३ ई० पर्यन्तं राज्यं परिपालयति स्म । अस्य कृतिहरकेलिनाटकं मन्दिरभित्तिपत्कीर्णमद्यापि "ढाई दिन का झोपड़ा' नाम्नि मसजिदभित्तौ स्वदुर्दशां व्यञ्जयति।

नाटकीयकथानुसारेणैन्द्रपुरराजस्य वसन्तपालस्य कन्यां देसलदेवीं प्रति स्वप्नदर्शन-जन्मा प्रणयो विग्रहराजस्य मानस उदितः । तमागता तस्याः सखी। शशिप्रभा सुतरां समुत्सुकमदर्शत् । सोऽपि कल्याणवत्या देसलदेवीं संदिशति स्म, तुरुष्कान् विजित्य त्वां मिलामीति । इतः परं प्रणयव्यापारः खण्डित एव । विग्रहराजस्य स्कन्धावारे वन्दिनौ तुरुष्कौ प्रति म्लेच्छ-राजस्य चारो निगूढं सैन्यविवरणं ददौ । वन्दिनौ च राजानं प्रशस्य पुरस्कारान् प्रापतुः । बलवत्तरेण हम्मीरदेवेन योद्धुमना विग्रहराजो मातुलेन सिंहबलेन मन्त्रिणा श्रीधरेण च विमर्शयामास । अत्रान्तरे हम्मीरस्य दूतस्तत्रागतः । अतः परमुत्कीर्णो लेखो नाद्यावधि लब्धः । नाटकमिदं सम्पूर्णं नोपलभ्यमिदानीम्।

पार्थपराक्रमव्यायोगः[सम्पादयतु]

पार्थपराक्रमव्यायोगः महाभारतीयां पार्थकथामनुरुध्य प्रहलादनदेवेन कृतः। द्वादश्यां ख्रीष्टशताब्द्द्यां निर्धार्यते । अनुदप्रशस्तौ सोमेश्वरो महाकविरमुं स्तौति स्म, स्वस्य कोतिकौमुद्यां चापि । यथा कीर्तिकौमुद्याम् -

श्रीप्रहलादनदेवोऽभूदद्वितयेन प्रसिद्धिमान्।

पुत्रत्वेन सरस्वत्याः पतित्वेन जयश्रियः।।

श्रीभोज-मुञ्ज-दुःखार्ता रम्यां वर्तयता कथाम्।

प्रह्लादनेन साह्लादा पुनश्चक्रे सरस्वती।।

सोमेश्वर एव सुरथोत्सवे एनं लोकोपकारपरायणं श्लाघते -

"श्रीप्रहलादनमन्तरेण विरतं विश्वोपकारव्रतम्"

देवी सरोजसन-संभवा किं कामप्रदा किं सुरसौरभेयी।

प्रह्लादनाकारघरा धरायामायातवत्येष न निश्चयो मे।।

कोटीश्वरप्रशस्तौ चायं षड्दर्शनावलम्बः सकलकलाकोविदश्च प्रशंसितः । सूक्तिमुक्तावल्यामस्य काव्यानि संगृहीतानि जल्ह्णेन। मारवाटे चन्द्रावतीराज्यस्य तदानीं गुर्जराधीनस्य राजकुमारः परमारः प्रहलादनः पालनपुरं प्रतिष्ठापयामास । तस्य भ्राता धारावर्षों महाधनुर्धर आसीत् ।

पार्थपराक्रमकथानुसारेण दुर्योधनेन हृता विराटस्य गावः । गोपाध्यक्षेण सूचितः कुमार उत्तरः सज्जितो युद्धाय । बृहन्नलारूपधरः अर्जुन उत्तरस्य कातर्यं जानाति स्म । स उत्तरस्य रथे सारथिरभूत् । मध्येभागं शत्रुसेनां वीर-प्रवर-वृतां दृष्ट्वा पलायितुमिच्छन् कुमारोऽर्जुनेन धिक्कृतः । पश्चात् तं सारथिं कृत्वा स्वयं देवदत्तं नाम शङ्खं धमति स्म ।

ध्वजस्थं हनुमन्तं देवदत्तध्वनिं च परिज्ञाय भीष्मद्रोणादयस्तमर्जुनं निर्णीतवन्तौ । भीष्मद्रोणयोः प्रणामार्थं तच्चरणयोर्बाणद्वये प्रहितेऽर्जुनेन, अश्वत्थाम-कर्णादिषु च पराजितेषु एकल एव दुर्योधनो रणभुवि स्थितोपश्यत्

धृतराष्ट्रसुतैर्दृष्टः किरीटी विश्वतो मुखः।।

एकोऽप्यनेकधा वल्गन्नात्मा नैयायिकैरिव।।

अथ क्षतकाये विराटराजे रणमुखान्निरसितेऽर्जुनः सुयोधनं रथस्थं शरैर्जर्जरविग्रहं निष्चेष्टं कृत्वा तत्स्यन्दनमारुह्य, भीमेनायं वध्य इति विचार्य तन्मुकुटमेव गृहीत्वा तत्पताकायां बाणेन लेखमेवं कृतवान् -

छलद्यूते जेतुजंतुमयमगारं रचयितुर्गरं दातुः कान्ता-कच-निचय-हर्तुश्च सदसि।

स्वयं गन्धर्वेन्द्रादधिगमितजीवस्य भवतः शिरःस्थाने मानिन् मुकुटमथ निन्ये विजयिना।।

तुरुष्कमृदिते देशे गोप्रतीकमुपादाय प्रह्लादनदेव एनं व्यायोगमरचयत्। पार्थमुदाहर्तुकामो विजिगीषापरतां च राजन्यानां दीपयितुमना लक्ष्यते लेखकः। यथा पार्थमुखेनैव कविः सन्दिशति -

द्वारं विमुक्तेः प्रतिबन्धमुक्तं कीर्यङ्गना-नर्तन-रङ्गभूमिम्।

फलं यियासोरिह जीवितस्य कः संगरं प्राप्य पराङ्मुखः स्यात्।।

प्रह्लादनदेवः समाधि-समता-प्रसादगुणप्रियोऽद्भुतरसनिर्भरश्चावलोक्यतेऽमुष्मिमन् वीररसप्रधाने व्यायोगे -

यत्र क्षत्र-निकार-कारण-रण-प्रेमा कुमारः प्रभुः

सन्दर्भः सुकवेः समाधि-समता-गर्भः कुमारस्य च।

तत्रास्माकमकुण्ठिताद्भुतरस-स्रोतः प्लुते रूपके

चेतः कौतुकलोलुपं सपदि तत् सम्पाद्यतामुद्यमः॥

इति प्रस्तावनायामुक्तम् । राजन्यानां कृत उपदेशवचनमेवात्र भरतवाक्यत्वेनोपनिबद्धम् -

तद्रक्षासु विचक्षणाः क्षितिभुजो राज्यं भजन्तु स्थिरम्।।

धनञ्जयविजयव्यायोगः[सम्पादयतु]

धनञ्जयविजयस्य रचयिता काञ्चनाचार्यो द्वादश्यां शताब्द्द्यां महाविदुषो नारायणोपाध्यायस्य पुत्रः आसीत्। अस्याभिनयं शारदोत्सवे जयदेवो राजा प्रायोजयत । स कान्यकुब्जानां नरेशो भवेत् ।

महाभारतीयैव कथात्रोपनिबद्धा। कौरवसेना दुर्योधनस्य सैनापत्ये विराटस्य गारपाहरत् । पौराणिकीं कथां किञ्चिदिव परिवर्त्यात्र नाट्यायिता। राजकुले नियुक्तोऽजुनो तत्रत्यराजकुमारं सारथ्ये निवेश्य कौरवान् विजितवान्। वीररसभावकाः संवादा अत्र मनो हरन्ति । यथा दुर्योधनः पार्थं प्रति कथयति -

वनवास-परिक्लेशात् किं निर्विण्णोऽसि जीवने।

यदभीरुरेक एवं त्वमनेकैर्योद्धुमुद्यतः॥[४]

तं प्रत्युवाच कौन्तेयः -

एको निवात-कवचान् सह कालकेयैर्भस्मीचकार भगिनीमहरच्च शौरेः।

एकेन खाण्डववनं जुहुवेऽनले च पार्थस्य नाभिनव एष रणेषु पन्थाः॥[५]

अत्र नेपथ्यस्थितैः पात्राणां रंगस्थितपात्रैः संवादः प्रवर्तते । नेपथ्यात् सन्देशाः श्राव्यन्ते । नेपथ्यस्य भागद्वयं प्रकल्पितम् । युद्धं रंगेन भवति ।

धर्माभ्युदयम्[सम्पादयतु]

धर्माभ्युदयस्य नामैकाङ्कस्य श्रीगदितोपरूपकस्य प्रणेता मेघप्रभाचार्यः कदा कुत्राविभूत इति नाद्यावधि निर्णीतम् । जैननाट्यानां बाहुल्यकालः तावद् द्वादशी शताब्दीति मेघप्रभोऽपि तत्रैव निवेश्यते। धर्माभ्युदयस्य हस्तलिखिता प्रतिः १२७३ वि० संवत्सरे प्रणीता । ततः प्रागेव रचितमिदं नाट्यम् मन्यते।

पुस्तकान्ते कविः स्वकृतिं छायानाट्यप्रबन्धं कथयति । पात्रस्थाने प्रतिमादिकं निवेश्य कृताभिनयं रूपकं छायारूपकं भवतीति नाविदितचरम् । धर्माभ्युदयं प्रथमं पार्श्वनाथजिनेन्द्रमन्दिरे यात्रोत्सवावसरेऽभिनीतम्। इदं च श्रीगदितं नामोपरूपकम् । तच्च विश्वनाथेन कृतलक्षणम् -

प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम्

प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम्।

भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम्

मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम्।।

इत्येवं लक्षणलक्षितं धम्मभ्युदयं पञ्चविंशतिकृत्वः श्रीशब्देन सश्रीकं पश्यामः ।

कथावस्तु[सम्पादयतु]

एकाङ्कऽत्र पञ्चधा विभक्तेः प्रथमे दृश्ये राजा मन्त्री च संवदतः। द्वितीये इन्द्रः शची बृहस्पतिश्च, तृतीये नन्दनचन्दनौ, चतुर्थे राजमन्त्रिणौ पुनरपि च पञ्चमे मदनो रतिःप्रीतिस्तथा परस्तात् पुरन्दरकुतूहलप्रभृतयो दश्यन्ते । जैनसमयं शास्तुमस्य निर्मितिप्रयासः। वाराङ्गनाभिरुपासितो राजा दशार्णभद्रो दाने रणे तपसि च लब्धयशाः सपरिजनः सिंहासनमधिष्ठितोऽमात्यमुवाच -

कदा मुदाश्रुभिः प्लाव्यो मिथ्यादर्शनकश्मलः।

देवदेवं नमस्कृत्य वीरं मम शुभोदये॥[६]

तदानीमेवोद्यानपालाद् वर्धमानमागतमुद्यानस्थे दशार्णकूटे कृतविश्रमदेवैर्मनुजैश्च स्तूयमानं च श्रुत्वा राजा सिंहासनादुत्थाय बद्धाञ्जलिरस्तौत् । ततोऽधिष्ठाय, सिंहासनं राजा शक्त्या भक्त्या चात्मानमुत्कृष्टं मन्यमानः सातिशयं संपन्नेन विधिना श्रीमहावीरमभिवादयितुं प्रस्थानाय अमात्यमादिष्टवान् । अथागतेन पौरमण्डलेश्वरेण अनुयातोऽसौ करीन्द्रमधिरूढोऽनुव्रजद्भिश्चतुरङ्ग-सैन्य-सहस्रैः प्रस्थितोऽमात्यं पार्श्वस्थमपृच्छत् - सौधर्मेन्द्रोऽप्यागतो भवेत् कच्चिदिति। संभाव्यत इति प्रतिवचनेन तममात्यः सम्भावयामास।

तावदेव सौधर्म इन्द्रो दशार्णभद्रस्याभिमानं विज्ञायैरावतं नाम स्वगजेन्द्रं तथा सज्जयामास यथा तं दृष्ट्वैव राजा कातर्यं गतः । कथमिन्द्रेण मिलेयं कार्पण्योपहृत इति स चिन्ताकुलो निर्णीतवान् -

न यावदायाति पुरन्दरोऽयं वेगेन तावज्जिन-वीर-पार्श्वे।

गृह्णामि दीक्षां कृतसाधु-शिक्षां पश्चात् तथा दर्शनमस्तु तेन॥[७]

इति क्षणादेव दीक्षितः। तदनन्तरमेव यतिवेषः पुत्तलस्तत्र निधापितो राज्ञः स्थाने। अथ रति-प्रीतिभ्यां प्रविश्य कामः सगर्व वल्गति स्म -

हृदि धत्ते हरिर्लक्ष्मीमर्धनारीश्वरो हरः। देवा मदाज्ञां कुर्वन्ति मनुष्याणां तु का कथा॥[८]

इति श्रुत्वा प्रीत्या निवारितोऽपि कुसुमायुधः तं शरव्यं करोति । स कामः राज्ञो ध्यानानलेन तप्तो मूर्छितः । इन्द्रो विज्ञाय तं पीयूषधारया विगतज्वरं लब्धसंज्ञं कृत्वादिष्टवान् -

सात्त्विकव्रतधारिणां चारित्रिणामन्यदापि मा स्म संरब्धो भूः। इन्द्रस्तावद् दशार्णभद्रं नमस्कुर्वन् प्रोक्तवान् -

अहो मूर्तिरहो मूतिरहो स्फूतिः शमश्रियः।

वीतरागप्रभोर्मन्ये शिष्योऽभूदेष तादृशः॥

रंगे मूर्तिरेव विराजमानासीत्।[९] इन्द्रेण पृष्टो बृहस्पतिः व्याख्यातवान् - "दीक्षाक्षणादारभ्य केनापि साकमनाभाषमाणः समुज्ज्वलगुणकाष्ठतामास्थितः प्रतिपन्नमौनध्यान इवोपलक्ष्यते।" इन्द्राज्ञया राजकुमारोऽभिषिक्तः ।

प्रसन्नराघवम्[सम्पादयतु]

प्रसन्नराघवस्य नाम सप्ताङ्कस्य नाटकस्य कर्ता जयदेवः पीयूषवर्षकवीन्द्रोपाधिभूषितः स्वकृतेश्चन्द्रालोकस्य कृते ख्यातिं वहंस्त्रयोदश्यां ख्रीष्टशताब्द्यां प्रादुर्बभूव । सिंहभूपालः (१३३० ई०) स्वकीये रसार्णवसुधाकरेऽस्यावतरणद्वयं संगृहीतवान्। अत्र रामविवाहात् रामायणी कथा रावणविजयपर्यन्तं विलसति।

प्रत्यङ्कमङ्कुरितसर्वरसावतारं नव्योल्ललत्कुसुमराजिविराजिबन्धम्।

धर्मेतरांशुमिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसंविधानम्।।

इति स्वयमुगिरन्नपि जयदेवो नैव स्वकीये नाट्यप्रबन्ध निर्वाहगन्धं बघ्नाति । काव्यबन्धाग्रहो न हृदयग्राही भवति दृश्यकाव्येषु, नापि कार्यव्यापारमनादृत्य पाठमात्रेण घटतेऽभिनय-नीतिः । यथा शिवधनुषि स्वबलं परीक्षमाणो बाणो रङ्गमनवतार्य मञ्जीरकभाषणेनैव संदृब्धः -

बाणस्य बाहुशिखरैः परिपीड्यमानं नेदं धनुश्चलति किञ्चिदपीन्दुमौलेः।

कामातुरस्य वचसामिव संविधानैरभ्यर्थितं प्रकृतिचारु मनः सतीनाम्।।

प्ररोचनापराणि वाक्यानि निर्गथ्य निर्ग्रन्थत्वं निगृहयति कविः । यथा कुब्जको वदति - ‘कथमयं मांसस्तबकोऽपि पुनः सौभाग्यलक्ष्म्या उपधानगेन्दुकः' इति । इयं च परिहास-वृत्तिः कविमसंवृतलोभं चकासयति । यथा परशुरामो राममाशिषा संवर्धयति -

इयं चास्तां युष्पच्छर-शमित-लङ्केश्वर-शिरः।

श्रितोत्सङ्गा नन्दत्सुर-नर-भुजङ्गा त्रिजगती॥[१०]

पारिजातमञ्जरी[सम्पादयतु]

मालवेषु धारावास्तव्यस्य मदनकवेः पारिजातमञ्जरी चतुरङ्का नाटिका विजयश्रीरित्यपि प्रसिद्धाङ्कद्वयावशिष्टा धारानरेशस्य भोजस्य सरस्वतीमन्दिरे समुत्कीर्णा वर्तते। शेषौ द्वावङ्गौ कुत इति न ज्ञातम् । अर्जुनवर्मणा भोजवंश्यस्य प्रशस्तये १२१३ ख्रीष्टाब्दमभितः इयं नाटिका रचिता। तत्रैव वर्षेऽस्या अभिनयोऽभूदित्यपि प्रायोवादः । मदनो गौडदेशे कविराजो बभूव । बालसरस्वतीति स उपाधिं दधार। मदनेन कृतमर्जुनवर्मणस्ताम्रपत्रद्वयं १२११, १२१३, १२१५ ई० वर्षाणामुपलभ्यते । एतेन प्रमाणीभूतं मदनस्य नाटिकाकर्तृत्वम्।

कथावस्तु[सम्पादयतु]

संग्रामधुरि गुर्जराधिराजं जयसिंहं विजयेनाभिभूय द्विपेन्द्रमारूढो राजार्जुनवर्मा देवैः पुष्पनिचयेनावकीर्णो वक्षसि निपतितां पारिजातमञ्जरीं दृष्टवान् । तेन स्पृश्यमानैव सा सर्वाङ्गसौभगकान्तकलेवरा कुमारी समभूत् । नभसि चाशरीरिणी वागुत्थिता -

मनोज्ञां निवशन्नेता कल्याणीं विजयश्रियम्।

सदृशो भोजदेवेन धाराधिप भविष्यसि।।[११]

इति श्रुत्वा राजा तां कञ्चुकिनः कुसुमाकरस्य हस्ते न्यासीकृतवान् । धारागिरिमधिवसन् भार्यया वसन्तलीलया सद्वितीयः कंचुकी प्रमदवनमपालयत् । अर्जुनवर्म-पारिजातमञ्जर्योः प्रणयव्यापारस्तत्रावर्धत । पौरेषु वासन्तिकौत्सवे व्यापृतेषु पत्यै देवी राज्ञी सर्वकला वसन्तस्य प्रथमां मञ्जरीं दत्तवती।

लावण्यकान्तिसुधया स्नपयांचकार

सा मे हृदि स्खलति मन्मथ-विह्वलाङ्गी।।[१२]

भवतु, पारिजातमञ्जरी, विजयश्रीः, कुसुमाकरः, वसन्तलीला इत्येवमादीनि नामानि उत्पाद्यतामेव प्रकटयन्ति कथानकस्य। भोगप्रदया विजयश्रिया संवर्धनमपि प्रतीकार्थमिव द्योतयति । अमूर्तान्येव तत्त्वानि मानवतां नीतानि कविनेति तत्प्रतिभा प्राक्तनानतिशेत एव ।

उल्लाघराघवम्[सम्पादयतु]

उल्लघराघवस्य नाटकस्य कर्ता सोमेश्वरचालुक्यनरपतेर्भीमदेवस्य सभामणहिलपट्टनेऽलंचकार । अन्यं मित्रं धवलकराजो वस्तुपाल एनमस्तौत् ।

यस्यास्ते मुखपकंजे सुखमृचां वेदः स्मृतीर्वेद य-

स्त्रे ता समनि यस्य यस्य रसना सूते च सूक्तामृतम्।

राजानः श्रियमर्जयन्ति महतीं यत्पूजया गुर्जराः

कर्तुं तस्य गुणस्तुतिं जगति कः सोमेश्वरस्येश्वरः॥[१३]

आशुकविः स्वयमात्मानं प्रशशंस -

काव्येन नव्य-पद-पाक-रसास्पदेन

यामार्धमात्रघटितेन च नाटकेन।

श्रीभीम-भूमिपति-संसदि सभ्यलोक-

मस्तोक-संमद वंशवदमादधे यः ।।[१४]

सुरथोत्सवं नाम महाकाव्यमनेन १२२७ ख्रीष्टाब्दमभितः रचयतम् । वस्तुपालमधिकृत्य कृतस्य कीतिकौमुदीमहाकाव्यस्यैतिहासिकमहिमा सविशेषः राजते । कर्णामृतप्रपायां २१७ सूक्तान्यसौ स्वरचितान्येव समकलयत् । रामशतकेनासौ यथानाम राममस्तौषीत् । अस्यार्बुदमन्दिरप्रशस्तिः ७४ पद्यैरत्कीर्णा राजते । धवलके वीरधवलेन निर्वृत्तं वीरनारायणप्रसादम् १०८ पद्यैरसौ प्रशशंस। शैवं शाक्तं च धर्ममाश्रितोऽपि सोमेश्वरो वैष्णवाञ्जैनांश्च सविशेषं संमानयति स्म।

उल्लाघराघवस्य प्रथमोऽभिनयो द्वारकामन्दिरे प्रबोधिन्यामेकादश्यां सम्पन्नः । स्वपुत्रेण लल्लशर्मणा प्रार्थितोऽसाविदं नाटकमरचयत् । राघवान्तनामसु नाटकेषु मुरारेरनर्घराघवं मायुराजस्योदात्तराघवं जयदेवस्य प्रसन्नराघवं सोमेश्वरस्यचेदं नाटकमुल्लाघराघवमायान्ति । उल्लाघराघवस्य रचनासृतौ यत्र तत्रानर्घराघवस्य शाकुन्तलस्य च प्रभावः परिलक्ष्यतेतराम् । समसामयि दूताङ्गदं नामच्छायानाटकं पर्यालोच्य जातु सोमेश्वरोऽस्य चतुर्थास्य पुष्पिकायां छायानाटकं घोषयति । मायासीतायाः अङ्के प्रवेशः रामलक्ष्मणयोश्च चित्रपट्टके रावणं प्रति समुपस्थापनं छायारूपकत्वं सार्थयतः।

कवेः सोमेश्वरस्य वाग्मिता चारित्रं चित्रयन्ती भुवं स्तुवती रसपरिपाकं च वितरन्ती सम्यग् विलसति । यथा नायकस्य स्वरूपवर्णनम् -

न क्रोधेऽपि वदत्यसावमधुरं, कृत्वापि लोकोत्तरं

न स्यादुधुर-कन्धरो, न विधुरोऽप्यालम्बते दीनताम्।

किं भूयः कथितेन लोचनपथं काकुत्स्थवीरः स चेत्

सम्प्राप्तः कुरुते रिपोरपि ततः श्लाघासु घूर्णं शिरः॥[१५]

शङ्खपराभवः[सम्पादयतु]

शङ्खपराभवव्यायोगस्य प्रणेता वस्तुपालाश्रितानां कवीनामन्यतमोऽभवत् । कीर्तिकौमुद्यां सोमेश्वरो हरिहरं वर्णयति -

स्ववाक्पाकेन यो वाचां पाकं शास्त्यपरान् कवीन्।

कथं हरिहरः सोऽभूत् कवीनां पाकशासनः।।[१६]

हरिहरस्त्रयोदश्याः शताब्द्द्याः प्रादुर्भूत आत्मानं शङ्खपराभवे प्रशंसति -

एकेनैव दिनेन यः कवयितुं शक्तः प्रबन्धेषु य-

द्वाचः कर्कश-तर्क-शाण-निशिताश्छिन्दन्ति वैतण्डिकान्।

येनानेकनरेन्द्र-वन्दित-पदद्वन्द्वेन वन्दीकृता

विद्वांसः सुकृतैकभाजनमसावस्मिन् प्रबन्धे कविः।।

प्रस्तावनुसारेणा सो गौडाभिजनो गोत्रेण भारद्वाजः सोमनाथं तीर्थं पर्यट्य निवृत्तो वस्तुपालस्य गुणानुरागवशंवद इमं व्यायोगं रचितवान्। अस्य च प्रथमोऽभिनयो वस्तुपालस्यैव निर्देशेन विजयमहोत्सवमुपलक्ष्य प्रयुक्तः।

‘लाटानां राजा शल्लो देवगिरिभूपतिना सिंहणेन युद्ध-परः आसीत् । तावदेव वीरधवलः स्कम्भतीर्थमधिकृतवान् । स्कम्भादित्यतीर्थः लाटानामवयव इति कृताभिमानः शङ्खः कटकूपं निकषा वस्तुपालेनायुध्यत । अन्ततः इयो पराभूतो भरुकच्छं प्रति पलायांबभूव।' इति कथा।

करुणावज्रायुधम्[सम्पादयतु]

करुणावज्रायुधं नाम श्रीगदितप्रायं रूपकं बालचन्द्रस्य सुरेर्वस्तुपालसमकालिकस्य यशोध्वज इव वर्तते । अस्याभिनयः प्राथमिको वस्तुपालस्य वसन्तपालापरनाम्नो गुर्जराणां महामन्त्रिणः आदेशेनायोजितम् । अतोऽस्य रचना १२४० ख्रीष्टाब्दतः किञ्चित् पूर्वमभूत्।

कथावस्तु[सम्पादयतु]

जिनाधिपस्य क्षेमकरस्य पुत्रो राजा वज्रायुधो मन्त्रिणा सह धर्मचर्चापरः सद्धर्मस्य स्वरूपमुदघोषयत् -

एकं जैनं विना धर्ममन्ये धर्माः कुधीमताम्।

संवृता एव शोभन्ते पटच्चर-पटा इव॥[१७]

विदूषकश्चार्वाकमतमुल्लासयन् हासं सृजति । अमात्योऽप्यनुमोदयतीव -

प्रत्यक्षमनवेक्ष्यापि किञ्चित् तत्फलमुज्ज्वलम्।

हित्वा विषयजं शर्म तपः कर्म करोति कः।।[१८]

तावदेव पूर्ववैरिणो विद्युद्दण्डस्यासुरस्य मायया राज्ञः परीक्षावसरागतः । स्नायध्वं वायध्वमिति कोलाहलो नेपथ्यादश्रूयत । श्येनेनानुसृतः कश्चित् कपोतो राज्ञः उत्संगे शरण्योऽभूत् । राजानं श्येनोऽपि कपोतमांसेन स्वोदरपूर्तये निवेदितवान् । मूर्च्छितोऽसौ राज्ञा जलेन सिक्तः संज्ञामलभत। दत्तान् मोदकान् ‘अहं मांसाशी' इति श्येनो नादत्त । तं राजावदत् -

तुभ्यं श्येन ददे पारावतेन तुलितं पलम्।

निजमेवाधुना तेन सुहितीभव मा मृथाः॥[१९]

इति श्येनः सत्वरं स्वीचकार। महिष्या वारितो राजाब्रवीत् -

यायावरेण किमनेन शरीरकेण

स्वेच्छानपान-परिपोषण-पोवरेण।

सर्वाशुचिप्रणयिना कृतनाशनेन

कार्यं परोपकृतये न हि कल्प्यते तत्।।[२०]

स्वयं कृत्त्वा तुलायां स्वमांसं ददति महीपतौ न पारावतेन तुल्यत्वं गतः। स शरीरेण तुलामारोहत् । तदानीं देवाः पुष्पवर्षणं राजानमवाकिरन्तः प्राशंसन् ।

जैनमतप्रचारस्तावत् तथातिशेते यथा जैनादृते जनस्यादरं न जातु सहते ग्रहीतुम्। अत्र विदूषककोपनिबन्धः सर्वथा वैयर्त्यमेव पुष्णाति । राजनि स्वमांसं कृन्तत्यपि स पुरोभागी हासयत्येवेति ‘सर्वे स्मयन्ते' इति स्वयमेव कविः निर्बध्नाति। एकाङ्कं श्रीगदितमुपरूपकं सदप्यथ सविस्तरेण विष्कम्भकेण नाट्यशास्त्रं व्यभिचरति । रङ्गमञ्चे कपोतश्येनौ संस्कृतेन भाषेते उड्डीयेते चेति न संभवति न वा परम्परामनुरुणद्धि।

द्रौपदीस्वयंवरम्[सम्पादयतु]

द्रौपदीस्वयंवरस्य कविः विजयपालो गुर्जरप्रदेशस्य महाकवीनां कुले जातः । तस्य पिता सिद्धपालः पितामहश्च श्रीपालो बभूवतुः । अयं श्रीपालचालुक्यनृपतीनां संमतो जयसिंह-सिद्धराजस्य बालमित्रं विद्वत्परिषत्प्रमुखश्चासीत् । वैरोचनपराजयस्य नाम महाप्रबन्धस्य कर्तुः लब्धयशसः श्रीपालस्य यशस्वी पौत्रो विजयपालो भीमद्वितीयस्य काले ११७६-१२४२ ख्रीष्टाब्दमध्ये संबभूव । रूपकं चैतद् भीमाज्ञया वसन्तोत्सवेऽभ्यनीयत।

कथावस्तु[सम्पादयतु]

सुपरिचितमपि कामपि नवकल्पनाकमनीयतां वहति। स्वयंवरे राधावेधाय कृष्णोदीरितो भीमो विप्रवेषः कर्णं परशुरामदत्तेषु बाणेषु द्वयं याचित्वागतः । कृष्णस्तत्र द्रुपदेन राज्ञा आकारयितुं नियुक्तः। द्रुपद-प्रतिज्ञां वेदयांचकार -

स्तम्भः सोऽयं गिरिवि गुरुदक्षिणावर्तमेकं

वामावर्तं विकटमितरच्चक्रमावर्ततेऽत्र।

आस्ते लोलस्तदुपरि तिमिस्तस्य वामाक्षितारा-

लक्ष्य प्रेक्ष्यं तदपि निपुणं तैलपूर्णे कटाहे।।

चापं पुरो दुरधिरोपमिदं पुरारे-

रारोप्य यो भुजबलेन भिनत्ति राधाम्।

रूपान्तराभ्युपगमा जगतां जयश्रीः

पञ्चालजा खलु भविष्यति तस्य पत्नी॥[२१]

दुर्योधननिर्देशेन राधां भेत्तुं गच्छति भूमिं पतिते दुःशासने शकुनिरग्रतस्त्वरयामास, किन्तु कृष्णेन तत्पुरतो वेतालजालं कृतमसौ दृष्टवान्।

शिराल-वाचाल-जटाल-कालकराल-जङ्घाल-फटाल-भालम्।

उत्तालमत्ताल-तमाल-कालं वेतालजालं स्खलयत्यलं माम्॥[२२]

इति द्रोणं कर्णं चापि निरधुनोत् कृष्णो मायया । शिशुपालमपि नगूढे चपेटया भ्रंशयित्वार्जुनायासौ दत्तवानवसरम् । अर्जुनो बाणाभ्यां कर्णदत्ताभ्यां साफल्यं प्राप्तवान् मत्स्यनेत्रभेदने। वीराद् तरसप्रवणेऽत्र रूपके शृङ्गारचेष्टा अपि चमत्कारं वहन्ति । वीराद्भत्प्रधानमिदं नाटकं भ्रान्त्या समालोच्यते यदिदं जनसम्प्रदायानुसारि वर्तते । नात्र मनागपि जैनतत्त्वम्।

रम्भामञ्जरी[सम्पादयतु]

रम्भामञ्जरी नयचन्द्रेण विरचिता। नयचन्द्रो हम्मीरकाव्यं सन् १२८३-१३०१ ई० मध्ये रचितवान् । हम्मीरराज्याश्रितः कर्पूरमञ्चर्याः साम्येनेदं रूपकं सट्टकं भवितुमर्हति, किन्तु प्रणयकथाविन्यासविशेषेण संस्कृतभाषाप्रयोगप्राचुर्येण च नाटिकात्वेनोपनिबद्धं प्रतीयते । सूत्रधारानुसारेण -

षड्भाषा-सुकवित्व-युक्तिकुशलो यः शारदादेव्या

दत्त-प्रौढवरप्रसादवशतो राज्ञां यो रञ्जकः।

यः पूर्वेषां कवीनां पथि पथिक एतस्य स कारको

विख्यातो नयचन्द्रनामसुकविर्निःशेषविद्यानिधिः॥

सूत्रधारोऽस्य कथावस्तु-संक्षेपं निवेदयति -

इक्ष्वाकूणां नरेशवंशतिलकः स जैत्रचन्द्रः प्रभु -

युर्क्त्या परिणीय सप्तगृहिणीरूपेण याप्सराः।

एतस्मिन् भवितु यथोक्तविधिना भूमण्डलाखण्डलो

रम्भां तां परिणयत्यष्टमस्त्रियमस्मिन् सट्टके वरे।।

सट्टकानुसारेण राजा जयचन्द्रः सप्तभिः राज्ञीभिः विदूषकेण परिजनेन च परिवृत आम्रवणं प्राविशत्। नारायणदासो रम्भा नाम लाटनरेशस्य मदनवर्मणो दुहितरं आनखशिखं लावण्यमयीमानयत् । पुरोहितस्तया जयचन्द्रस्योद्वाहं यथाविधिं कारयामास । किन्तु महिष्या भयेन समागमो बहुबाधासंकुलोऽन्ततः सर्वसम्मतं निष्पन्नः। प्राकृतसंविधाने जयचन्द्रस्य काव्यनैपुणं जागतितराम् । यथा -

सुरहि-समारंभेणं महमहिया मंजरी व चूयस्स।

जणयदु तुह आणंदं नोहलिया सा कुरंगच्छी।।[२३]

शृङ्गारोत्सवप्रसूरमुष्य भारती जातु जनयत्युदात्तभावमपि । यथा -

गलत्येको मूर्च्छा भवति पुनरन्या यदनयोः

किमप्यासीन्मध्यं सुभग निखिलायामपि निशि।

लिखन्त्यास्तत्रास्याः कुसुमशरलेखं तव कृते

समाप्तिं स्वस्तीति प्रथमपदभागोऽपि न गतः।।[२४]

प्रतापरुद्रकल्याणम्[सम्पादयतु]

अगस्त्यापरनामा विद्यानाथः प्रतापरुद्रकल्याणं नाटकमरचयत् । आन्ध्रेषु वारंगलानां राजा काकतीयः प्रतापरुद्रो विद्यानाथं सभाकवित्वे नियुक्तवान् । प्रतापरुद्रो मातामह्या रुद्राम्बायाः १२० ख्रीष्टाब्द-प्रभृति-शासने साहाय्यं ददानः १२६६ ई० वर्षे कृताभिषेकः प्रायेण १३२६ ई० पर्यन्तं प्रजाम् अपालयत् । अस्याभिषेककालेऽस्य नाटकस्य प्रणयनमभिनयश्चाभवताम्। विद्यानाथस्य प्रथमं नामागस्त्य इत्यासीदिति प्रमाणीकरोति पद्यम् -

औन्नत्यं यदि वर्ण्यते शिखरिणः क्रुध्यन्ति नीचैः कृता

गाम्भीर्यं यदि कोर्त्यते जलधयः क्षम्यन्ति गाधीकृताः।

तत् त्वां वर्णयितुं बिभेमि यदिवा जातोऽस्म्यगस्त्यः स्थितः

त्वत्पार्श्वे गुणरत्नरोहणगिरे भीवीररुद्र प्रभो ।

समीक्षा[सम्पादयतु]

प्रतापरुद्वकल्याणं संस्कृतनाट्येषु उभयथा वैशिष्ट्यं भजते । प्रथमतस्तावदिदमैतिहासिकमितिवृत्तं किंचित् परिवर्त्य यथादेशकालं यथास्थितं प्रस्तौति । अत्र प्रतापरुद्रस्य वंशपरम्परा वर्णिता । गणपतेः १२५८-५९ ईसवीये वर्षे शासनसाहाय्यमाचरन्ती प्रायेण १२६१ वर्षे गणपतौ दिवंगते १२८० ई० पर्यन्तं शासनसूत्रं सञ्चालयन्ती, तदनन्तरञ्च दौहित्रेण प्रतापरुद्रेण कृतसाहाय्या रुद्राम्बा वर्णिता। १२९६ ई० वर्षे प्रतापरुद्रस्याभिषेकश्च मुख्यो विषयः । अधिकृतशासन एवं प्रतापरुद्रः शत्रून् विजेतुं नियुक्तः । अधिकृतं पूर्वमपि रुद्राम्बा-राजत्वकाले कृतपराभिसन्धेर्बल्लूरीपट्टनसामन्तमम्बदेवं प्रच्याव्य काञ्च्या रविवर्माणं पाण्ड्यनरेशं चाजयत् । तस्य द्वादशभ्यः शिलालेखेभ्यो वृत्तमिदं समर्थितम् ।

अपरञ्च नाटकमिदं नाट्यशास्त्रमनुरुध्यैव चितम् । तथा हि अर्थोपक्षेपकोणामङ्केभ्यो बहिः निवेशः प्रवेशकानामङ्कद्वयमन्तरा निपातः कुतोऽन्येषु अर्वाचीनेषु ज्योतिःप्रभाकल्याणप्रभृतिष्वनुगच्छति । हस्तिमल्लस्य मैथिलीकल्याणमपि तामेव परम्परामनुसरति। अत्र नाट्यशास्त्रीयाणि लक्ष्यपदानि प्रतिपदं सोदाहरणानि स्पष्टीकृतानि। संस्कृतभाषया प्रणीतेषु विरल-विरल-चरितात्मकेषु रूपकेषु नाटकमिदं शोभते । योरपीयभाषाभिः Biographical नाटकानां परम्परा वर्तत एव।[२५]

कादम्बरीकल्याणम्[सम्पादयतु]

सौगन्धिकाहरणस्य कवेः भ्रात्रा, दशविधरूपकप्रणयनदक्षेण नरसिंहेन विरचिते कादम्बरीकल्याणे नाम नाटके बाणभट्टकृता कादम्बरीकथा अष्टाभिरङ्कैः रूपकायिता।[२६] नाटकमिदं सर्वथा प्रकृतिवर्णनादिकं बाणकृतमेवानुहरति । पञ्चमेऽङ्केऽन्तर्नाटिकामुपनिबध्य कादम्बरी-चन्द्रापीडयोः संगतं वर्णितम् । करुणरसपरिपाको यथाप्रसंगं प्रभावेनातिशेते।

नसिंहकाकतीयचरितमिति महाकाव्यमरचयत् । मलयवतीति गद्यकाव्यमपि तेन रचिता । तस्य भ्राता सौगन्धिकाहरणव्यायोगस्य रचयिता वारंगलानां काकतीयस्य राज्ञः प्रतापरुद्रस्य सभाकविर्बभूव । उभावपि प्रायः १३०० ख्रीष्टाब्दमभितः काव्यप्रतिभाविलासं पुरस्कृतवन्तौ । वेमभपालेन साहित्यचिन्तामणौ कादम्बरीकल्याणस्य पद्यानि उदाहृतानीत्यनेन नाटकस्य प्रतिष्ठा व्यज्यते ।

सौगन्धिकाहरणव्यायोगः[सम्पादयतु]

सौगन्धिकाहरणस्य व्यायोगस्य प्रणेता विश्वनाथः प्रतापरुद्रकल्याणस्य कवेः विद्यानाथस्य भागिनेयो बभूव । साहित्यदर्पणस्य लेखकाद् विश्वनाथ-महापात्रादयं कविः प्रायः शतवर्षेः प्राचीनतरः। तथा हि प्रस्तावयति सूत्रधारः। "राज्ञः प्रतापरुद्रेण संभावितैः::..::सभासद्भिः सबहुमानमादिष्टोऽस्मि।:

विश्वनाथ इति ख्यातः कविरस्ति यदुक्तयः ।

आकाञ्चनमरत्नं च विदुषां कर्णभूषणम्।।[२७]

इत्यसौ चतुर्दश्याः शताब्द्याः आरम्भ एव क्वचित् स्थितिं लेभे । अयं हि कवेर्गङ्गादेव्याः गुरुरासीदिति तयैव प्रशंसितः -

चिरं स विजयी भूयाद् विश्वनाथः कवीश्वरः।

अस्य प्रसादात् सार्वरयं समिन्धे मादृशीष्वपि।।[२८]

इति प्रतापरुद्रस्य समयस्तत्कल्याणनाटकप्रसङ्गे निर्णीतः तेनैव सुधियोऽवधारयन्तु। पाण्डुतनयेषु वने वसत्सु कदाचिद् वातानीतं सौगन्धिकपुष्पं दृष्ट्वा द्रौपदी तादृशमेवान्यल्लब्धुकामासीत् । भीमस्तदभिलाषं विदन्नेव तत्पुष्पगन्धवाहमभिसरन् गन्धमादनं गतवान् । तत्र हनुमान् पूर्वोपस्थितो लाङ्गूलेनास्य मार्गं बाधते स्म । भीमस्तेन कंचित् कालं विवदति स्म। हनुमान् भीमाग्रजं हनुमन्तमेवानिन्दत् । भीमश्चाजानन्नेव तं प्राशंसत् । अन्ततो भीमस्तमभिज्ञाय तत्रागमनकारणं जगौ। तेन निर्दिष्टो यक्षान् विनेतुं लब्धविद्यश्चासौ सरोवरं प्राप्य यक्षैरयुध्यत । भीममागतं विज्ञाय कुबेरस्तं प्रत्युद्गतः तावदेव युधिष्ठिरादयोऽपि भीममन्विष्यन्तस्तत्रागताः कुबेरेण सम्मानिताः । सौगन्धिकं द्रौपद्यै भीमोऽदात् । तदा देवाः पुष्पाणि वेर्षन्ति स्म ।

अत्राल्पीयांसः कार्यव्यापाराः भूयांसश्च संवादाः सौगन्धिकाहरणस्य रङ्गमञ्चीयं विफलप्रायत्वं सूचयन्ति। भीमहनुमतोः संवादो हास्यस्फोटकरो। यत्र हनुमानात्मानमेव निन्दति, भीमश्च तमज्ञात्वा तमेव प्रशंसति।

प्रद्युम्नाभ्युदयम्[सम्पादयतु]

प्रद्युम्नाभ्युदयनाटकस्य पञ्चाङ्कस्य कर्ता रविवर्मा कुलशेखरः कोलम्बराजस्य महाराजजयसिंहस्य यादववंश्यस्य पुत्रः १२६६ ख्रीष्टाब्दे जातः । समुन्नतो योद्धा विजेता चेति संग्रामधीरोपाख्यः, परस्तात् पाण्ड्यांश्चोलाँश्चाधिकृत्य सम्राट्पदमधिष्ठितवान् । दक्षिणभोज इति उपाधिना भूषितः काञ्चीदेवालयोत्कीर्णलेखानुसारेण धर्मतरुमूलकन्दः सद्गुणालंकारश्चतुःषष्टिकलावल्लभ इत्यादिरूपेण प्रसिद्धोऽभवत् । स पद्मनाभस्य यादवकुलेष्टदेवस्योपासकोऽभवत् । समुद्रबन्धेन कविभूषणेन च कविभ्यामाश्रितः, स्वयं कविः संगीतादिकोविदश्च शोभते स्म । इदं च नाटकं चतुर्दश्याः शताब्द्याः प्रथमे पादे पद्मनाभयात्रावसरेऽभ्यनीतम् । हरिवंशपुराणात् कथामादाय नाट्यौचित्येन परिवर्त्य शृङ्गारवीर-रस-प्रधानेऽत्र नाटके रविवर्माऽभिज्ञानशाकुन्तलमनेकत्रोपजीवति। हरिवंशगतमन्तर्नाटकं रम्भाभिसारं यथावत् प्रयोज्य हंसपक्षिणः स्थाने हंसाख्यं चारणं नियोज्य सर्वात्मना परवर्तिषु नाट्यकतृषु काव्यकौशलेन रङ्गव्यापार शिल्पेन च गौरवमादधाति ।


कथावस्तु[सम्पादयतु]

दुष्प्रवेशं वज्रपुरमधिवसन्नसुरो वज्रनाभस्त्रैलोक्यं पीडयन्निन्द्रमप्याकारयत् - "देहि मे जगदैश्वर्यं नो चेद् युध्यस्व वासव'' इति । देवानां दानवानां च पितामहः कश्यपो यज्ञं वितन्वानः आस्ते इति कलहो नोत्पातं दधाति । नारदेन समीरितः कृष्णः प्रत्यब्रवीत् -

प्रद्युम्न एव भगवन्नचिरेण वत्सो

बाणैर्निहत्य तमिमं युघि वज्रणाभम्।

नेत्राम्बुभिस्तदवरोध - नितम्बिनीनां

निर्वापयिष्यति जगत्त्रितयस्य तापम्॥[२९]

इत्याकर्त्य नारदः कृष्णमुत्सुकयामास – प्रद्युम्नः तर्हि वज्रणाभकन्यां प्रभावतीं स्वयंवरे पितृविरोधे सत्यपि ग्रहीष्यति । अथ कृष्णो भद्रं नाम नेटमाहूय प्रोवाच - भद्र, वज्रपुरं हि नानादिष्टः प्रविशेदिति त्वां नियुनज्मि कृताधिकृतप्रवेशः प्रद्युम्नं गदं साम्बं च प्रवेशय, येन ते वज्रपाभं हन्युरिति । तथादिष्टो भद्रो हंसेन नाम चारणेनात्मानं वज्रपुराधीशस्य पुरतो गीतकीर्तिं कारयित्वा लब्धप्रवेशः प्रभावत्याः संगीताचार्यपदे नियुक्तः । तत एकदावसरं प्राप्य प्रद्युम्नस्य रम्यां प्रतिकृतिं चित्रफलके निर्माय कलहंसिकया प्रभावतीमदर्शयत् । गोचरीकृतसौन्दयतिरेका हृतहृदया प्रभावती बभूव। कृष्णतनयं प्रद्युम्नं प्रत्यक्षमिव दृष्ट्वा स्वनगरे कृतप्रवेशमपि तथा तमाजानती प्रणयपाधीना सोत्कण्ठा सासीत्। भद्रनटेनाश्वासिता स्वविद्यामहिम्ना तमिहानयामीति कथं कथमपि नायिका प्राणानधारयत्।

अथ प्राप्ते वसन्तोत्सवे वज्रणाभेनादिष्टो भद्रनटो रम्भाभिसरणं नाम प्रेक्षणकमभिनयति स्म। तच्च सकुटुम्बः सपरिवारो वज्रनाभोऽदर्शत् । तत्रैव प्रद्युम्न: प्रभावतीं भद्रेण संकेतितां वीक्ष्य साक्षात् कामतप्तो रम्भोत्कण्ठितस्य नलकूबरस्य भूमिकामभिनयति स्म। प्रेक्षणकनायकयोरभिसारेण संगम प्रेक्ष्य प्रभावत्यपि अभिसारमभिनिवेशितवती। ततः कमलिनी-तीर-लतामण्डपे तौ मेलयित्वा भद्रस्तयोर्गान्धर्वविवाहमकरोत् । वज्रनाभः प्रद्युम्नस्य दूषणं श्रुत्वा तं हन्तुमयुध्यत । युद्धे सुदर्शनचक्रेण वज्रनाभो प्रद्युम्नेन हतः । कृष्णात्मजं देवाः पुष्पवर्षेण सभाजयांचक्रुः।

धूर्तसमागमः[सम्पादयतु]

धूर्तसमागमस्य एकाङ्कस्य रूपकस्य प्रहसनभूयं श्रितस्य रचयिता धनेश्वरस्य पुत्रो रामेश्वस्य पौत्रो मिथिलायाः कर्णाट-राजं हरसिंहं चतुर्दश्याः शताब्द्याः प्रथमे पादे शासतं समाश्रितो बभूव । कामशास्त्रीयः पञ्चसायकनामा ग्रन्थो मुदितप्रहसनं च त्र्यङ्कं रूपकं ज्योतिरीश्वरेण कृतमिति आहुः।

कथावस्तु[सम्पादयतु]

धूर्तसमागमस्य नायको विश्वनगरनामा दाम्भिको जङ्गमसाधुर्बभूव। दुराचारोऽस्य शिष्योऽनङ्गसेनां वेश्यां निभाल्यानङ्गवश गतो विश्वनगराय निवेदयां बभूव । उभयोः सा कस्य भवेदिति निर्णेतुमनङ्गसेनया एवानुमतोऽसज्जातिमिश्रो नियुक्तस्तां स्वेन सहोषितुं निदर्श्याभियोगग्रन्थिं समाधातुं कालातिक्रमं चकाङ्क्ष् । तावत्येव काले मिश्रमहाभागस्य विदूषकोऽनङ्गसेनां चकमे। अत्रान्तरे मूलनाशको नाम नापितः ऋणशोधनायाधमर्णां तां वेश्यामभ्यागतोऽनङ्गसेनयोक्तः – अहं तावन्मिश्रस्य संवृत्तेति यदहं तुभ्यं धारयामि तत् तस्मादेवोद्ग्राह्यमिति । शिष्यादृणर्णमादाय तदृणमोकं विधाय मिश्रो नापितं समादिदेश – मां परिचरेति । तेन च पाशैर्बद्धमेनं विदूषको मोचयामास।

सङ्कल्पसूर्योदयम्[सम्पादयतु]

सङ्कल्पसूर्योदयस्य दशाङ्कस्य महानाटकस्य प्रणेता वेङ्कटनाथो वेदान्तदेशिकस्त्रयोदश - चतुर्दश-शताब्द्योः शतादधिकान् ग्रन्थान् रचितवान् । वेङ्कटेशतीर्थोत्सवाहनि लब्ध-जन्मा रामानुजाचार्यस्य भोगिनेयः षड्वर्षदेशीयऽसौ रामानुजगुरोर्वरदाचार्यस्य विद्यालयं श्रीभाष्यगोष्ठीं श्रोतुं गतः । तत्र विस्मृतं कमपि प्रस्तावं स्मारयन् वरदाचार्येण दत्ताशीः ख्यातोऽभवत्।

प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः।

भूयास्त्रैविद्यमान्यन्त्वं भूरिकल्याणभाजनम्।।

अहीन्द्रनगरे लब्धहयवदनप्रसादोऽयं सर्वतन्त्र-स्वतन्त्रविरोधिमतानि निराकर्त्तुं भारतभुवं पर्यटत् । तदेव ग्रन्थानपि विरचितवान् । पुनराजगाम श्रीरङ्गम् । तत्र वादेविरुद्धमतावलम्बिनो विजित्य वेदान्ताचार्यपदवीमलभत । तत्रत्यशास्त्रार्थसंचयाः शतदूषणीग्रन्थे संगृहीता विद्यन्ते । परमतभङ्गनाम्ना स्वग्रन्थेनाधिगतयशाश्चाहीन्द्रनगराधीशेन कवितार्किकसिंहोपाधिनालंकृतः।

स डिण्डिमसार्वभौमं पराजित्य तं शिष्यतां नीतवान् । पश्चात् विष्णूघण्टावतारोपाधिना तस्य महिमावर्धत । स रामानुजसिद्धान्तान् प्रचारयन् १३२९ ख्रीष्टाब्दे पुनः श्रीरङ्गमध्यवसत् । तत्र च १३३६ ख्रीष्टाब्दे मलिककाफूरेण श्रीरङ्गमन्दिरं लुण्ठितमिति मन्दिराधीक्षकेण सुदर्शनसूरिणास्मै श्रीभाष्यव्याख्यां श्रुतप्रकाशिकां च ग्रन्थौ समर्पितौ । तौ रक्षन्नेष स यादवाचलमध्युवास । वेङ्कटोऽसौ वेदान्तदेशिकः १३६९ ख्रीष्टाब्दे दिवङ्गतः ।

कथावस्तु[सम्पादयतु]

दशाङ्केन सङ्कल्पसूर्योदयमहानाटके प्रबोधचन्द्रोदमयमनुसृत्य वेङ्कटो विशिष्टाद्वैतं प्रतिपादयितुं ब्रह्मसूत्राध्यायान् रचितवान् । तद्यथा प्रथमेनाङ्केन समन्वयाध्यायं, द्वितीयेन विरोधाध्यायं ततः सप्तभिरङ्कैः वैराग्यादिपरकं चतुर्थाध्यायं निबध्नाति स्म । बीजनिर्देशो यथा -

दुर्जनं प्रतिपक्षं च दूरदृष्टिरयं जनः।

विवेकश्च महामोहं विजेतुं प्रभविष्यतः।।[३०]

यथा च कथानकसङ्क्षेपः -

मूलच्छेदभयोज्झितेन महता मोहेन दुर्मेधसा

कंसेन प्रभुरुग्रसेन इव नः कारागृहे स्थापितः।

विख्यातेन विवेकभूमिपतिना विश्वोपकारार्थना

कृष्णेनेव बलोतरेण घृणिनामुक्तश्रियं प्राप्स्यसि।।[३१]

षष्टेरधिकानि प्रतीकपात्राणि विवेकादीनि प्रतीकिभिर्विवेदिभिरैक्ये भजन्ते । गुरुशिष्यादयोऽपि मध्येवृत्तमुपनिबद्धाः । प्रबोधचन्द्रोदयमेवानहरतीदं नाटकं, यत्र विवेकः ससैन्यो महामोहं ससैन्यं जयति । वैष्णव-प्रस्थानस्थापकाः आचार्याः अप्यत्र पात्रतां भजन्ते । मध्ये मध्ये शास्त्रार्थविवादो गुम्फितः । महामोहेनैव बौद्धजैनादिमतानि प्रवर्तितानीति वेदान्तदेशिकस्याग्रहः। विवेकस्तस्य समस्तां व्यूहरचनां भक्त्वा जयमुपलभ्य मोक्षमार्गं प्रशस्तं करोति । वेदान्तदेशिकः शिल्पीव नवनवकल्पनाविकल्पकुशलः काव्यप्रतिभां प्रतिभोन्मेषविशेषेण प्रकाशयति । अनुप्रासच्छटाविकटापि रचना प्रसादं नैव जहाति । यथा -

मुधारम्भे दम्भे मयि च मदने मुक्तकदने

मितोत्साहे मोहे वृजिनगहने व्याप्तदहने।।[३२]

आत्मीयां भणितिं सुन्दरीं च स्तौति कविः -

निर्धूताखिलदोषा निरवधि-पुरुषार्थ-लम्भनप्रवणा।

सत्कविभणितिरिव त्वं सगुणालंकार-भाव-रस-जुष्टा॥[३३]

इतीह काव्यपरिभाषैव शोभते । रूपकरूपणमपि यथा -

पदः पद्माकान्तः प्रणिपतनमस्मिन् हिततमं

शुभस्तर्त्सकल्पश्चुलुकयति संसारजलधिम्।

झटित्येवं प्रज्ञामुपजनयता केनचिदसा-

वविद्यावेतालीमतिपतति मन्त्रेण पुरुषः।।[३४]

इत्यहो संगीतकं, विस्मयकरी निसर्गच्छटा, वर्णनाकौशलं च। तत्र मेघमालाया मनोहारि वर्णनम् -

अक्ष्णोरञ्जनवर्तिका यवनिका विद्युन्नटीनामियं

स्वर्गङ्गायमुना - वियज्जलनिर्धेर्वेला--तमालाटवी।

वर्षाणां कबरी पुरन्दरदिशोऽलंकारकस्तूरिका

कन्दर्प-द्विप-दर्प-दान-लहरी-कादम्बिनी जृम्भते॥[३५]

यथा वा कावेर्या वर्णनम् -

खेलच्चोलवधू - विधूत-कबरी-शैवालितामन्वहं

पश्येम प्लवमान-हंसमिथुन-स्मेरां कवेरात्मजाम्।।

आस्तां तावद् वेदान्तदेशिकस्य वेदान्ताग्रही निर्वेदकलितो रामानुजाचार्यदर्शनादर्शः प्रतिभाप्रकर्षः, शब्दार्थयोगनैपुणी पुण्या च रससम्भृतिः कामपि प्रत्यग्रतामग्रे सारयति । पद्यप्राया संवादा उपदेश-प्रधानानि पद्यानि वेदान्तदेशिकारचोपदेशास्तनूकुर्वन्ति रङ्गमञ्चव्यापारान् । एतानि काव्यसारस्य स्वारस्यमानं तन्वन्ति।

उन्मत्तराघवम्[सम्पादयतु]

भास्करकवेरुन्मत्तराघवं प्रेक्षणकमेकाङ्कं प्रथमतो विद्यारण्यमहोत्सवेऽभिनीतम् । अयं विद्यारण्यो माधव एव चेत् सायणस्य भ्राता, तदोन्मत्तराघवस्य रचनाकालश्चतुर्दशी शताब्दी भवेत्।

अत्रोन्मत्तराघवे सीतया कियत्कालं वियुक्तस्य रामस्योन्मत्तालापास्तथैवोपनिबद्धा यथा उर्वश्या वियोगेन पुरूरवसो विक्रमोर्वशीये। रामलक्ष्मणयोः मृगयां विहर्तुं गतयोः पुष्पाण्यवचिन्वती सीतान्तर्धत्ते । मधुरिकायास्तथा विज्ञाय रामो विलपति । दुर्वाससः शापेन हरिणीत्वं गता सीतागस्त्येन निरस्तशापा पुना रामेण मिलति। भास्करस्य सानुप्रासा सरणिः काव्यपान्थान् सविश्रमं गमयन्ती पादन्यासकोमला जातु मनोहरति। यथा -

माकन्दालिं मलयपना मन्दमन्दोलयन्ते

मज्जत्यस्या मधुकरयुवा मञ्जरीणां मरन्दे ।।[३६]

भीमविक्रमव्यायोगः[सम्पादयतु]

मोक्षादित्यो भीमविक्रमं व्यायोगं १३२८ ई० वर्षेऽरचयत् । तस्य पिता भीमो गुरुश्च हरिहरोऽभवताम्। मन्ये शङ्खपराभवस्य कविरेवास्य गुरुर्भवेत् । मोक्षादित्यो महाभारतमुपजीव्य कथानकमत्र गृह्णाति । जरासन्धेन भीमस्य युद्धमधिकृत्य कथा प्रसरति।

कथानुसारेण जरासंधस्य वधाय कृष्णोऽर्जुनौ भीमश्च तस्य राजधानीं गिरिव्रजं गच्छन्ति । तत्र ब्राह्मणं परित्यज्य नान्यः प्रविशतु इति राजाज्ञानुसारेण भीमसेन आचार्यश्चन्द्रशेखर इति कृष्णश्चक्रधरस्नातक इति अर्जुनश्च धवलस्नातक इति ब्राह्मणवेषगृहितात्मानस्ते प्राविशन् । अरुणोदयात् प्राक् कृष्णार्जुनयोः सिद्धेश्वरं देवमाराधयितुं गतयोर्भीम एकलः स्थितः कस्यापि राजकुमारस्य आर्तवाणीमशृणोत् - अहमेवात्मनोऽन्तं करिष्ये -

चिरमकारि मया मुनिवत् तपः श्रुतिजपश्च समाधिममुञ्चता।

हुतमनन्तहविस्तव तुष्टये न हि महेश मनागपि तत्फलम्।।[३७]

तावदेवास्य माता वधूश्चागच्छताम् । को म्रियेतेति तेषु विवादं श्रृण्वन् भीमस्तत्र शिवोऽहं विप्ररूपो वो रक्षार्थं तुष्टः सन्नायातोऽस्मि । यूयमितो व्रजतेति । इदमत्राकृतम् – जरासन्धेन शिवाय होतुं गृहीतौ पितरं भ्रातरं न मोचयितु स राजकुमारः शिवतपश्चरन्नपि किमपि फलमनवाप्य प्राणाहतिं करिष्यन्नासीत् । भीमेन ते त्रयोऽपि ततो निःसारिताः। तावदेव कृष्णार्जुनौ तत्रागतौ।

भीमाहुतेन घटोत्कचेन नगरपालिकायां जरायां दूरीकृतायां, दुर्गभङ्गाय चैत्यकगिरिशिखरे च निपातिते ते राजाजरं गताः । अथ परिचयं पृष्टास्ते यथावदेवात्मानं विज्ञापितवन्तः । तदा पुत्रं सहदेवं राज्येऽभिषिच्य राजा युद्धाय सज्जोऽभवत् । जरासन्धः कृष्णमवदत् -

त्वं पुरैव विजितोऽसि वाक्पटुः फाल्गुनोऽपि किल फल्गुयुद्धकृत्।

संयुगेषु भुजवीर्यशालिनं भीमसेनमहमुद्यतं वृणे॥[३८]

ततो मागधराजं तं पराजित्य भीमसेनस्तद्दुहितुः पाणिग्रहणं कृतवान् । तदा बन्दीभूता राजानः सर्वे मोचिताः।

कुवलयावली[सम्पादयतु]

कुवलयावल्याः नाटिकायाः रचयिता सिंहभूपालो रसार्णवसुधाकरस्य प्रणेता चतुर्दश्याः शताब्द्याः पूर्वार्धेऽभवत् । इयं नाटिका रत्नपञ्चालिकेत्यपि पुष्पिकायां संज्ञिता।

पूर्णेयं सिंहभपेन कवितामधुजल्पितैः।

रत्नपञ्चालिका नाम नाटिका रसपेटिका।।

यथा भासस्य प्रतिमानाटकं, यथा वा सुभटस्य छायानाटकं तथेयं नाटिका रत्नपञ्चालिकेति संज्ञिता। कथानकेन प्रतिमायाश्छायाया वा योजना स्पष्टतरं प्रतीयते । अस्यां कुवलयावल्यां कृष्णस्य विवाहमालक्ष्य कल्पितेव कथोपनिबद्धा।

भूमिरात्मानं कुवलयावलीं नाम कन्यारूपिणीं कृत्वा रुक्मिण्या सहावसत् । नारदप्रदत्ताङ्गुलीयकेन सा स्त्रीभिः स्त्रीरूपेण पुरुषैश्च रत्नपुत्तलकारूपेणादृश्यत । एकदा सा चन्द्रलेखया सहालपन्ती कृष्णेन साश्चर्यं वीक्षिता -

कथं नाम रत्नपञ्चालिकया सहालपति चन्द्रलेखेति । तस्याः पतितमङ्गुलीयकं प्राप्य कृष्णस्तां स्वरूपतोऽपश्यत् । अयमेव प्रणयोपक्रमः । सत्यभामा रहस्यं विज्ञाय तां प्रासादे बन्दीकृतवती । तावदेव कोऽपि दैत्यो जहार ताम् । कृष्णस्तां मोचयामास । नारदेन विदितवृत्तान्ता रुक्मिणी तां कृष्णाय समर्पयामास। कपूरमञ्जर्यामिवास्यां नाटिकायां गीतसंभारं प्रचुरं कलयामास कविः।

कमलिनीराजहंसम्[सम्पादयतु]

कमलिनीराजहंसस्य रचयिता पूर्णः सरस्वती बहशो रचनाभिः ख्यातिं गतश्चतुर्दश्यां शताब्द्यां प्रादुर्बभूव । अस्य नाटकस्य प्रथमोऽभिनयो राजपरिवारेण दृष्टो वृषपुर्यां (त्रिचूडे कोचीनस्थे) शिवालयेऽभूत् । इदं वस्तुतो गीतिनाट्यत्वमेव भजते । नाट्यापेक्षया गीतितत्त्वस्य प्राधान्यमत्र विलसति।

कथावस्तु[सम्पादयतु]

कन्या कमलिनी नायिकास्ति राजहंसश्च नायकः । कुमुदिनी कलहंसश्च तयोः सखायौ वर्तेते । एकदा कुमुदिनीमालपन्तीं कलहंसोऽशृणोत् । कमलिनी राजहंसस्य प्रथमदर्शनात् प्रभृति मदन-सन्तप्ता प्रतिभाति । सा कलहंसं परस्ताद् तद् व्यतिकरं न्यवेदयत् । अत्रान्तरे विन्ध्यगिरेर्नागराजो दूत्या सन्दिशति स्म मह्यं कन्यका दीयतामिति । तरङ्गावली तां दूतीं ततो विद्रावयति स्म । इदं वृत्तं कलहंसाच्छ्रुत्वा राजहंसो गोदावरीतट-लतामण्डपे मिलित्वा कमलिनीं पाणौ चकार । आक्रमणोद्यतं नागराजं पम्पा मकरीभिः कृतेन प्रत्याक्रमेण विद्रावयति स्म।

ब्रह्मणाहूतो राजहंसो मानसे (सरोवरे) राज्यं कर्तुमारेभे । कमलिनीमाश्वासयितुं ततः कलहंसं प्रैषयत् । स चावृत्य कमलिन्या विरहदुर्दशां निवेदयामास । उभौ तां रक्षितुं गतौ । इह तावत् पम्पायां ब्रह्मलोकं गतायां राजहंसप्रतिपालके च शरत्काले मानसमधिवसति कालमेघः सन्नद्द एव मयूरं राजानमभिषेक्तुं सोपद्रवं प्रायतत । कालमेघो वदति -

शरणं किरणा भवन्तु भानोः शरदा साकमधीशितुः खगानाम्।

ननु जीवति वाहिनी घनानां नदराजोदक-पण्य-नैगमानाम्॥

मयूराभिषेकसंभारो यथा -

धारानीपैः सुरभिरभितः संहृता पुष्पलक्ष्मी-

रभ्रैरम्भः पृथुतरघटैराभूतं सागरेभ्यः।

शब्दः पुण्यो विसरति दिशश्चातकानां द्विजानां

पाथोधौतं दधति च पुरो भूभृतः शृङ्गपीठम्॥[३९]

मयूराभिषेकोद्यते शत्रौ कालमेघे चक्रवाक-हंस-शुक-कलकण्ठादयो राजहंससेनानायकाः ससैन्यं योद्धुमुपस्थिताः । कलहंसो राजहंस-सेनां वर्णयति -

बक-शुक-रङ्कु-भृङ्ग-पिक-कौशिक-संकलितां

चल-कलविङ्क कङ्क-जलरङ्कुलिङ्ग-कुलाम्।

चटुल-पतत्र-पत्रचय-चित्रित-दिग्वदनां

कलयितुमीहते क इव ते महतीं पृतनाम्।।

ब्रह्मणादिष्टः शरन्मुनिः कालमेघसेना विनाश्य कमलिनीममोचयत्। राजहंसः पुनरायातः पम्पया कृतसंभाजनो निजया प्रियया सह सुखमुवास। नाडीजङ्घमुखेन नाटकरहस्यं एतदुपस्थाप्यते -

कालमेघ-महामोहे शापश्रुत्या निवारिते।

हृद्यां कमलिनीं विद्यां दिष्ट्या शिष्यो ममाप्तवान्।।

कमलिनीराजहंसमिदं प्रथमतयोपलब्धं नाटकं यत्र पशु-पक्षि-वनस्पतिप्रतीकानि मानवा अभिनयन्ति । पञ्चतन्त्रशैलीमनुगतमेतन्नाटकं मानवेतरद् वस्तुजातं मानवतां नयति, आध्यात्मिकं च भावप्रभावं भावयति । वर्षां तावदविद्यारूपां शरदं च विद्यारूपां चित्रयन् विद्यायाः विजयमातनोति कविः पूर्णसरस्वती । वेदान्तोपदेशायास्था रचना प्रसृता प्रतिभाति । व्याख्यानप्रायाः प्रलापा अभिनयव्यापार-परिपन्थिनोऽपि उपदेशप्रवणस्य संन्यासिनो लक्ष्यं पूरयन्त्येव । कतिपये प्रसङ्गाः कवेः लोकानुभवमहिमानं प्रकाशयन्ति। तथाहि -

रसयतु सुमनोगणः प्रकामं पिशुन-शुनां वदनैरदूषितानि।

कविभिरुपहृतानि दीप्तजिह्वै - रतिरसितानि हवींषि वाङ्मयानि॥

अत्र पिशुनाः श्वभिरुपमिताः कवेर्वीक्षानैपुणीं प्रकटयन्ति । स्वस्य वाणीं मङ्गल्यामाशासानोऽयं श्लाघते -

आश्चर्यचूडामणिः[सम्पादयतु]

आश्चर्यचूडामणिः शक्तिभद्रस्य रचना वर्तते। नाटकमदिं रामायणम् उपजीवति। नाटके रचयित्रा केवलं वाल्मिकिम् अनुसृत्य कथानकम् उपस्थापयति। परन्तु कुत्रचित् भेदोऽपि दरीदृश्यते।

लेखकपरिचयः[सम्पादयतु]

प्रथमो नाट्यकृद् दाक्षिणात्यानां सम्मतश्चौदीच्यानामपि शक्तिभद्र आश्चर्यचूडामणिः स्वकृत्या ९०० ख्रीष्टाब्दमभितः स्थितिं लेभे । तदनन्तरं हि कुलशेखरो द्वितीयो दाक्षिणात्य-नाट्यकर्ता बभूव । तत्पूर्वं च भट्टनारायण आसीद् येन प्रभावितः स्वकृतौ शक्तिभद्रः शूर्पणखात आरभ्य रामकथामेव वाल्मीकिमनुसृत्य कतिपयान् परिवर्तान् विधाय वर्णितवान् शक्तिभद्रः।

कथावस्तु[सम्पादयतु]

सीतां प्रति हनुमद्वारेण रामः संदिष्टवान् -

सदसि नमयता धनुर्मया त्वं गुरुजघने गुरुमन्दिरादेवाप्ता।

दशवदननिरोधनादपि त्वां युधि विनमय्य शरासनं हरामि॥ [४०]

परन्तु रावणवधानन्तरं सीतायै सर्वमन्यथा जातम् । राममनुसृत्य लक्ष्मणो हनूमांश्च नैव तां सुष्ठु समभाषेताम् । रामस्तु -

रजनीचर-गूढ-सस्त्रिभिः कृतसंकेतनया दिने-दिने।

ऋजु-भावजडास्त्वया वयं छलिताः पुंश्चलि दण्डके वने॥[४१]

इति वदन् न वाल्मीकेः राम इव प्रतिभाति । पुंश्चलीति निबध्नतः शक्तिभद्रस्य कोपलब्धिः स्तूयेत । कोऽयं विनयो हनुमतो यो रामसंदेशं प्रणयवचोहर इव वदति -

आयातं मामपरिचितया वेलया मन्दिरं ते

चोरो दण्ड्यस्त्वमिति मधुरं व्याहरन्त्या भवत्या।

मन्दे दीपे मधुलवमुचां मालया मल्लिकानां

बद्धं चेलो दृढतरमितो बाहुबन्धच्छलेन।। [४२]

इत्येवं क्षद्रप्राय-कल्पना-ताण्डवैरेवाश्चर्यचूढामणिरस्मान् आश्चर्यस्तूपचूडामारोहयन्निव काचमणीन् रसिकता-सिकतामिश्रान् रसास्वादपथे विकिरति।

हरकेलिः[सम्पादयतु]

हरकेलिनाटकं चौहाणवंशीयः महाराजो विग्रहराजदेवः सोमदेवकृतस्य ललितविग्रहराजस्य नायको ११५० ख्रीष्टाब्दमभितोः विरचितवान्, पञ्चमाङ्कस्य तस्य हरगौरीसंवादांश एवावशिष्टोऽधुना लभ्यते । शिवाभ्यां सह विदूषकप्रतिहारयोरुपस्थितिः शिवार्चा च रावणकृतात्र सुच्येते । शिवस्तत्सेवकश्च किरातीभवतः । कुतोऽपि प्रसरन्तं सुगन्धं ज्ञातुं शिवो मूकमादिशत् । मूकोऽर्जुनेन क्रियमाणं यज्ञं शिवाय न्यवेदयत् । पुनश्च समादिष्टो मूकः किरातरूपेण गतोऽर्जुनेनायुध्यत । हरकिरातोऽपि तत्र गत्वायुध्यत । अन्ततः शिवोऽर्जुनस्य पराक्रमं बहु मानयामास। किरातार्जुनीयमपेक्ष्य हरकेलिनाटकस्य कथावस्तुनि नव्यता दर्शनीया। शिवादयोऽत्र कुटपात्रतां भजन्ति । एतादृशानि नाटकानि परस्तात् छायारूपकाणि प्रख्यातानि ।

चन्द्रलेखाविजय-प्रकरणम्[सम्पादयतु]

चन्द्रलेखाविजयस्य प्रणेता देवचन्द्रो विख्यातस्य जैनविदुषो हेमचन्द्रस्य शिष्यो बभूव । अष्टाङ्कमिदं प्रकरणमजितनाथस्य वसन्तोत्सवे प्रथमं प्रयोजितम्। अस्यान्ते कुमारपालेन अर्णोराजस्य विजयो वर्णितः । अस्य रचना ११५० ख्रीष्टाब्दमभितः प्रतिभासते। देवराजेन मानमुद्राभञ्जनमित्यपरं नाटकं विरचितम् । न तदद्याववधि लब्धम्।

ललितविग्रहराजम्[सम्पादयतु]

महाकविः सोमदेवो शाकम्भरी-नृपस्य चतुर्थस्य विग्रहराजदेवस्य संभाजनायामिदं नाटकं ललितविग्रहराजं विरचितवान् । ११५३ ई० वर्ष नाटकमिदं देवालयभित्तौ शिलापट्टेषुत्कीर्य निवेशितम् । देवालयं भक्त्वा मसजिद-भित्तौ ताः शिला जटिता अद्यापि तात्कालिकं गौरवं गायन्ति । चरितनायको विग्रहराजश्चाहमानवंश्यानां सम्राजामन्यतमस्तोमरान् दिल्लीं विजित्य यवनानपि भूरिशो युद्धेषु पराजयति स्म । अयञ्च ११५३ तः ११६३ ई० पर्यन्तं राज्यं परिपालयति स्म । अस्य कृतिहरकेलिनाटकं मन्दिरभित्तिपत्कीर्णमद्यापि "ढाई दिन का झोपड़ा' नाम्नि मसजिदभित्तौ स्वदुर्दशां व्यञ्जयति।

नाटकीयकथानुसारेणैन्द्रपुरराजस्य वसन्तपालस्य कन्यां देसलदेवीं प्रति स्वप्नदर्शन-जन्मा प्रणयो विग्रहराजस्य मानस उदितः । तमागता तस्याः सखी। शशिप्रभा सुतरां समुत्सुकमदर्शत् । सोऽपि कल्याणवत्या देसलदेवीं संदिशति स्म, तुरुष्कान् विजित्य त्वां मिलामीति । इतः परं प्रणयव्यापारः खण्डित एव । विग्रहराजस्य स्कन्धावारे वन्दिनौ तुरुष्कौ प्रति म्लेच्छ-राजस्य चारो निगूढं सैन्यविवरणं ददौ । वन्दिनौ च राजानं प्रशस्य पुरस्कारान् प्रापतुः । बलवत्तरेण हम्मीरदेवेन योद्धुमना विग्रहराजो मातुलेन सिंहबलेन मन्त्रिणा श्रीधरेण च विमर्शयामास । अत्रान्तरे हम्मीरस्य दूतस्तत्रागतः । अतः परमुत्कीर्णो लेखो नाद्यावधि लब्धः । नाटकमिदं सम्पूर्णं नोपलभ्यमिदानीम्।

पार्थपराक्रमव्यायोगः[सम्पादयतु]

पार्थपराक्रमव्यायोगः महाभारतीयां पार्थकथामनुरुध्य प्रहलादनदेवेन कृतः। द्वादश्यां ख्रीष्टशताब्द्द्यां निर्धार्यते । अनुदप्रशस्तौ सोमेश्वरो महाकविरमुं स्तौति स्म, स्वस्य कोतिकौमुद्यां चापि । यथा कीर्तिकौमुद्याम् -

श्रीप्रहलादनदेवोऽभूदद्वितयेन प्रसिद्धिमान्।

पुत्रत्वेन सरस्वत्याः पतित्वेन जयश्रियः।।

श्रीभोज-मुञ्ज-दुःखार्ता रम्यां वर्तयता कथाम्।

प्रह्लादनेन साह्लादा पुनश्चक्रे सरस्वती।।

सोमेश्वर एव सुरथोत्सवे एनं लोकोपकारपरायणं श्लाघते -

"श्रीप्रहलादनमन्तरेण विरतं विश्वोपकारव्रतम्"

देवी सरोजसन-संभवा किं कामप्रदा किं सुरसौरभेयी।

प्रह्लादनाकारघरा धरायामायातवत्येष न निश्चयो मे।।

कोटीश्वरप्रशस्तौ चायं षड्दर्शनावलम्बः सकलकलाकोविदश्च प्रशंसितः । सूक्तिमुक्तावल्यामस्य काव्यानि संगृहीतानि जल्ह्णेन। मारवाटे चन्द्रावतीराज्यस्य तदानीं गुर्जराधीनस्य राजकुमारः परमारः प्रहलादनः पालनपुरं प्रतिष्ठापयामास । तस्य भ्राता धारावर्षों महाधनुर्धर आसीत् ।

पार्थपराक्रमकथानुसारेण दुर्योधनेन हृता विराटस्य गावः । गोपाध्यक्षेण सूचितः कुमार उत्तरः सज्जितो युद्धाय । बृहन्नलारूपधरः अर्जुन उत्तरस्य कातर्यं जानाति स्म । स उत्तरस्य रथे सारथिरभूत् । मध्येभागं शत्रुसेनां वीर-प्रवर-वृतां दृष्ट्वा पलायितुमिच्छन् कुमारोऽर्जुनेन धिक्कृतः । पश्चात् तं सारथिं कृत्वा स्वयं देवदत्तं नाम शङ्खं धमति स्म ।

ध्वजस्थं हनुमन्तं देवदत्तध्वनिं च परिज्ञाय भीष्मद्रोणादयस्तमर्जुनं निर्णीतवन्तौ । भीष्मद्रोणयोः प्रणामार्थं तच्चरणयोर्बाणद्वये प्रहितेऽर्जुनेन, अश्वत्थाम-कर्णादिषु च पराजितेषु एकल एव दुर्योधनो रणभुवि स्थितोपश्यत्

धृतराष्ट्रसुतैर्दृष्टः किरीटी विश्वतो मुखः।।

एकोऽप्यनेकधा वल्गन्नात्मा नैयायिकैरिव।।

अथ क्षतकाये विराटराजे रणमुखान्निरसितेऽर्जुनः सुयोधनं रथस्थं शरैर्जर्जरविग्रहं निष्चेष्टं कृत्वा तत्स्यन्दनमारुह्य, भीमेनायं वध्य इति विचार्य तन्मुकुटमेव गृहीत्वा तत्पताकायां बाणेन लेखमेवं कृतवान् -

छलद्यूते जेतुजंतुमयमगारं रचयितुर्गरं दातुः कान्ता-कच-निचय-हर्तुश्च सदसि।

स्वयं गन्धर्वेन्द्रादधिगमितजीवस्य भवतः शिरःस्थाने मानिन् मुकुटमथ निन्ये विजयिना।।

तुरुष्कमृदिते देशे गोप्रतीकमुपादाय प्रह्लादनदेव एनं व्यायोगमरचयत्। पार्थमुदाहर्तुकामो विजिगीषापरतां च राजन्यानां दीपयितुमना लक्ष्यते लेखकः। यथा पार्थमुखेनैव कविः सन्दिशति -

द्वारं विमुक्तेः प्रतिबन्धमुक्तं कीर्यङ्गना-नर्तन-रङ्गभूमिम्।

फलं यियासोरिह जीवितस्य कः संगरं प्राप्य पराङ्मुखः स्यात्।।

प्रह्लादनदेवः समाधि-समता-प्रसादगुणप्रियोऽद्भुतरसनिर्भरश्चावलोक्यतेऽमुष्मिमन् वीररसप्रधाने व्यायोगे -

यत्र क्षत्र-निकार-कारण-रण-प्रेमा कुमारः प्रभुः

सन्दर्भः सुकवेः समाधि-समता-गर्भः कुमारस्य च।

तत्रास्माकमकुण्ठिताद्भुतरस-स्रोतः प्लुते रूपके

चेतः कौतुकलोलुपं सपदि तत् सम्पाद्यतामुद्यमः॥

इति प्रस्तावनायामुक्तम् । राजन्यानां कृत उपदेशवचनमेवात्र भरतवाक्यत्वेनोपनिबद्धम् -

तद्रक्षासु विचक्षणाः क्षितिभुजो राज्यं भजन्तु स्थिरम्।।

धनञ्जयविजयव्यायोगः[सम्पादयतु]

धनञ्जयविजयस्य रचयिता काञ्चनाचार्यो द्वादश्यां शताब्द्द्यां महाविदुषो नारायणोपाध्यायस्य पुत्रः आसीत्। अस्याभिनयं शारदोत्सवे जयदेवो राजा प्रायोजयत । स कान्यकुब्जानां नरेशो भवेत् ।

महाभारतीयैव कथात्रोपनिबद्धा। कौरवसेना दुर्योधनस्य सैनापत्ये विराटस्य गारपाहरत् । पौराणिकीं कथां किञ्चिदिव परिवर्त्यात्र नाट्यायिता। राजकुले नियुक्तोऽजुनो तत्रत्यराजकुमारं सारथ्ये निवेश्य कौरवान् विजितवान्। वीररसभावकाः संवादा अत्र मनो हरन्ति । यथा दुर्योधनः पार्थं प्रति कथयति -

वनवास-परिक्लेशात् किं निर्विण्णोऽसि जीवने।

यदभीरुरेक एवं त्वमनेकैर्योद्धुमुद्यतः॥[४३]

तं प्रत्युवाच कौन्तेयः -

एको निवात-कवचान् सह कालकेयैर्भस्मीचकार भगिनीमहरच्च शौरेः।

एकेन खाण्डववनं जुहुवेऽनले च पार्थस्य नाभिनव एष रणेषु पन्थाः॥[४४]

अत्र नेपथ्यस्थितैः पात्राणां रंगस्थितपात्रैः संवादः प्रवर्तते । नेपथ्यात् सन्देशाः श्राव्यन्ते । नेपथ्यस्य भागद्वयं प्रकल्पितम् । युद्धं रंगेन भवति ।

धर्माभ्युदयम्[सम्पादयतु]

धर्माभ्युदयस्य नामैकाङ्कस्य श्रीगदितोपरूपकस्य प्रणेता मेघप्रभाचार्यः कदा कुत्राविभूत इति नाद्यावधि निर्णीतम् । जैननाट्यानां बाहुल्यकालः तावद् द्वादशी शताब्दीति मेघप्रभोऽपि तत्रैव निवेश्यते। धर्माभ्युदयस्य हस्तलिखिता प्रतिः १२७३ वि० संवत्सरे प्रणीता । ततः प्रागेव रचितमिदं नाट्यम् मन्यते।

पुस्तकान्ते कविः स्वकृतिं छायानाट्यप्रबन्धं कथयति । पात्रस्थाने प्रतिमादिकं निवेश्य कृताभिनयं रूपकं छायारूपकं भवतीति नाविदितचरम् । धर्माभ्युदयं प्रथमं पार्श्वनाथजिनेन्द्रमन्दिरे यात्रोत्सवावसरेऽभिनीतम्। इदं च श्रीगदितं नामोपरूपकम् । तच्च विश्वनाथेन कृतलक्षणम् -

प्रख्यातवृत्तमेकाङ्कं प्रख्यातोदात्तनायकम्

प्रसिद्धनायिकं गर्भविमर्शाभ्यां विवर्जितम्।

भारतीवृत्तिबहुलं श्रीतिशब्देन संकुलम्

मतं श्रीगदितं नाम विद्वद्भिरुपरूपकम्।।

इत्येवं लक्षणलक्षितं धम्मभ्युदयं पञ्चविंशतिकृत्वः श्रीशब्देन सश्रीकं पश्यामः ।

कथावस्तु[सम्पादयतु]

एकाङ्कऽत्र पञ्चधा विभक्तेः प्रथमे दृश्ये राजा मन्त्री च संवदतः। द्वितीये इन्द्रः शची बृहस्पतिश्च, तृतीये नन्दनचन्दनौ, चतुर्थे राजमन्त्रिणौ पुनरपि च पञ्चमे मदनो रतिःप्रीतिस्तथा परस्तात् पुरन्दरकुतूहलप्रभृतयो दश्यन्ते । जैनसमयं शास्तुमस्य निर्मितिप्रयासः। वाराङ्गनाभिरुपासितो राजा दशार्णभद्रो दाने रणे तपसि च लब्धयशाः सपरिजनः सिंहासनमधिष्ठितोऽमात्यमुवाच -

कदा मुदाश्रुभिः प्लाव्यो मिथ्यादर्शनकश्मलः।

देवदेवं नमस्कृत्य वीरं मम शुभोदये॥[४५]

तदानीमेवोद्यानपालाद् वर्धमानमागतमुद्यानस्थे दशार्णकूटे कृतविश्रमदेवैर्मनुजैश्च स्तूयमानं च श्रुत्वा राजा सिंहासनादुत्थाय बद्धाञ्जलिरस्तौत् । ततोऽधिष्ठाय, सिंहासनं राजा शक्त्या भक्त्या चात्मानमुत्कृष्टं मन्यमानः सातिशयं संपन्नेन विधिना श्रीमहावीरमभिवादयितुं प्रस्थानाय अमात्यमादिष्टवान् । अथागतेन पौरमण्डलेश्वरेण अनुयातोऽसौ करीन्द्रमधिरूढोऽनुव्रजद्भिश्चतुरङ्ग-सैन्य-सहस्रैः प्रस्थितोऽमात्यं पार्श्वस्थमपृच्छत् - सौधर्मेन्द्रोऽप्यागतो भवेत् कच्चिदिति। संभाव्यत इति प्रतिवचनेन तममात्यः सम्भावयामास।

तावदेव सौधर्म इन्द्रो दशार्णभद्रस्याभिमानं विज्ञायैरावतं नाम स्वगजेन्द्रं तथा सज्जयामास यथा तं दृष्ट्वैव राजा कातर्यं गतः । कथमिन्द्रेण मिलेयं कार्पण्योपहृत इति स चिन्ताकुलो निर्णीतवान् -

न यावदायाति पुरन्दरोऽयं वेगेन तावज्जिन-वीर-पार्श्वे।

गृह्णामि दीक्षां कृतसाधु-शिक्षां पश्चात् तथा दर्शनमस्तु तेन॥[४६]

इति क्षणादेव दीक्षितः। तदनन्तरमेव यतिवेषः पुत्तलस्तत्र निधापितो राज्ञः स्थाने। अथ रति-प्रीतिभ्यां प्रविश्य कामः सगर्व वल्गति स्म -

हृदि धत्ते हरिर्लक्ष्मीमर्धनारीश्वरो हरः। देवा मदाज्ञां कुर्वन्ति मनुष्याणां तु का कथा॥[४७]

इति श्रुत्वा प्रीत्या निवारितोऽपि कुसुमायुधः तं शरव्यं करोति । स कामः राज्ञो ध्यानानलेन तप्तो मूर्छितः । इन्द्रो विज्ञाय तं पीयूषधारया विगतज्वरं लब्धसंज्ञं कृत्वादिष्टवान् -

सात्त्विकव्रतधारिणां चारित्रिणामन्यदापि मा स्म संरब्धो भूः। इन्द्रस्तावद् दशार्णभद्रं नमस्कुर्वन् प्रोक्तवान् -

अहो मूर्तिरहो मूतिरहो स्फूतिः शमश्रियः।

वीतरागप्रभोर्मन्ये शिष्योऽभूदेष तादृशः॥

रंगे मूर्तिरेव विराजमानासीत्।[४८] इन्द्रेण पृष्टो बृहस्पतिः व्याख्यातवान् - "दीक्षाक्षणादारभ्य केनापि साकमनाभाषमाणः समुज्ज्वलगुणकाष्ठतामास्थितः प्रतिपन्नमौनध्यान इवोपलक्ष्यते।" इन्द्राज्ञया राजकुमारोऽभिषिक्तः ।

प्रसन्नराघवम्[सम्पादयतु]

प्रसन्नराघवस्य नाम सप्ताङ्कस्य नाटकस्य कर्ता जयदेवः पीयूषवर्षकवीन्द्रोपाधिभूषितः स्वकृतेश्चन्द्रालोकस्य कृते ख्यातिं वहंस्त्रयोदश्यां ख्रीष्टशताब्द्यां प्रादुर्बभूव । सिंहभूपालः (१३३० ई०) स्वकीये रसार्णवसुधाकरेऽस्यावतरणद्वयं संगृहीतवान्। अत्र रामविवाहात् रामायणी कथा रावणविजयपर्यन्तं विलसति।

प्रत्यङ्कमङ्कुरितसर्वरसावतारं नव्योल्ललत्कुसुमराजिविराजिबन्धम्।

धर्मेतरांशुमिव वक्रतयातिरम्यं नाट्यप्रबन्धमतिमञ्जुलसंविधानम्।।

इति स्वयमुगिरन्नपि जयदेवो नैव स्वकीये नाट्यप्रबन्ध निर्वाहगन्धं बघ्नाति । काव्यबन्धाग्रहो न हृदयग्राही भवति दृश्यकाव्येषु, नापि कार्यव्यापारमनादृत्य पाठमात्रेण घटतेऽभिनय-नीतिः । यथा शिवधनुषि स्वबलं परीक्षमाणो बाणो रङ्गमनवतार्य मञ्जीरकभाषणेनैव संदृब्धः -

बाणस्य बाहुशिखरैः परिपीड्यमानं नेदं धनुश्चलति किञ्चिदपीन्दुमौलेः।

कामातुरस्य वचसामिव संविधानैरभ्यर्थितं प्रकृतिचारु मनः सतीनाम्।।

प्ररोचनापराणि वाक्यानि निर्गथ्य निर्ग्रन्थत्वं निगृहयति कविः । यथा कुब्जको वदति - ‘कथमयं मांसस्तबकोऽपि पुनः सौभाग्यलक्ष्म्या उपधानगेन्दुकः' इति । इयं च परिहास-वृत्तिः कविमसंवृतलोभं चकासयति । यथा परशुरामो राममाशिषा संवर्धयति -

इयं चास्तां युष्पच्छर-शमित-लङ्केश्वर-शिरः।

श्रितोत्सङ्गा नन्दत्सुर-नर-भुजङ्गा त्रिजगती॥[४९]

पारिजातमञ्जरी[सम्पादयतु]

मालवेषु धारावास्तव्यस्य मदनकवेः पारिजातमञ्जरी चतुरङ्का नाटिका विजयश्रीरित्यपि प्रसिद्धाङ्कद्वयावशिष्टा धारानरेशस्य भोजस्य सरस्वतीमन्दिरे समुत्कीर्णा वर्तते। शेषौ द्वावङ्गौ कुत इति न ज्ञातम् । अर्जुनवर्मणा भोजवंश्यस्य प्रशस्तये १२१३ ख्रीष्टाब्दमभितः इयं नाटिका रचिता। तत्रैव वर्षेऽस्या अभिनयोऽभूदित्यपि प्रायोवादः । मदनो गौडदेशे कविराजो बभूव । बालसरस्वतीति स उपाधिं दधार। मदनेन कृतमर्जुनवर्मणस्ताम्रपत्रद्वयं १२११, १२१३, १२१५ ई० वर्षाणामुपलभ्यते । एतेन प्रमाणीभूतं मदनस्य नाटिकाकर्तृत्वम्।

कथावस्तु[सम्पादयतु]

संग्रामधुरि गुर्जराधिराजं जयसिंहं विजयेनाभिभूय द्विपेन्द्रमारूढो राजार्जुनवर्मा देवैः पुष्पनिचयेनावकीर्णो वक्षसि निपतितां पारिजातमञ्जरीं दृष्टवान् । तेन स्पृश्यमानैव सा सर्वाङ्गसौभगकान्तकलेवरा कुमारी समभूत् । नभसि चाशरीरिणी वागुत्थिता -

मनोज्ञां निवशन्नेता कल्याणीं विजयश्रियम्।

सदृशो भोजदेवेन धाराधिप भविष्यसि।।[५०]

इति श्रुत्वा राजा तां कञ्चुकिनः कुसुमाकरस्य हस्ते न्यासीकृतवान् । धारागिरिमधिवसन् भार्यया वसन्तलीलया सद्वितीयः कंचुकी प्रमदवनमपालयत् । अर्जुनवर्म-पारिजातमञ्जर्योः प्रणयव्यापारस्तत्रावर्धत । पौरेषु वासन्तिकौत्सवे व्यापृतेषु पत्यै देवी राज्ञी सर्वकला वसन्तस्य प्रथमां मञ्जरीं दत्तवती।

लावण्यकान्तिसुधया स्नपयांचकार

सा मे हृदि स्खलति मन्मथ-विह्वलाङ्गी।।[५१]

भवतु, पारिजातमञ्जरी, विजयश्रीः, कुसुमाकरः, वसन्तलीला इत्येवमादीनि नामानि उत्पाद्यतामेव प्रकटयन्ति कथानकस्य। भोगप्रदया विजयश्रिया संवर्धनमपि प्रतीकार्थमिव द्योतयति । अमूर्तान्येव तत्त्वानि मानवतां नीतानि कविनेति तत्प्रतिभा प्राक्तनानतिशेत एव ।

उल्लाघराघवम्[सम्पादयतु]

उल्लघराघवस्य नाटकस्य कर्ता सोमेश्वरचालुक्यनरपतेर्भीमदेवस्य सभामणहिलपट्टनेऽलंचकार । अन्यं मित्रं धवलकराजो वस्तुपाल एनमस्तौत् ।

यस्यास्ते मुखपकंजे सुखमृचां वेदः स्मृतीर्वेद य-

स्त्रे ता समनि यस्य यस्य रसना सूते च सूक्तामृतम्।

राजानः श्रियमर्जयन्ति महतीं यत्पूजया गुर्जराः

कर्तुं तस्य गुणस्तुतिं जगति कः सोमेश्वरस्येश्वरः॥[५२]

आशुकविः स्वयमात्मानं प्रशशंस -

काव्येन नव्य-पद-पाक-रसास्पदेन

यामार्धमात्रघटितेन च नाटकेन।

श्रीभीम-भूमिपति-संसदि सभ्यलोक-

मस्तोक-संमद वंशवदमादधे यः ।।[५३]

सुरथोत्सवं नाम महाकाव्यमनेन १२२७ ख्रीष्टाब्दमभितः रचयतम् । वस्तुपालमधिकृत्य कृतस्य कीतिकौमुदीमहाकाव्यस्यैतिहासिकमहिमा सविशेषः राजते । कर्णामृतप्रपायां २१७ सूक्तान्यसौ स्वरचितान्येव समकलयत् । रामशतकेनासौ यथानाम राममस्तौषीत् । अस्यार्बुदमन्दिरप्रशस्तिः ७४ पद्यैरत्कीर्णा राजते । धवलके वीरधवलेन निर्वृत्तं वीरनारायणप्रसादम् १०८ पद्यैरसौ प्रशशंस। शैवं शाक्तं च धर्ममाश्रितोऽपि सोमेश्वरो वैष्णवाञ्जैनांश्च सविशेषं संमानयति स्म।

उल्लाघराघवस्य प्रथमोऽभिनयो द्वारकामन्दिरे प्रबोधिन्यामेकादश्यां सम्पन्नः । स्वपुत्रेण लल्लशर्मणा प्रार्थितोऽसाविदं नाटकमरचयत् । राघवान्तनामसु नाटकेषु मुरारेरनर्घराघवं मायुराजस्योदात्तराघवं जयदेवस्य प्रसन्नराघवं सोमेश्वरस्यचेदं नाटकमुल्लाघराघवमायान्ति । उल्लाघराघवस्य रचनासृतौ यत्र तत्रानर्घराघवस्य शाकुन्तलस्य च प्रभावः परिलक्ष्यतेतराम् । समसामयि दूताङ्गदं नामच्छायानाटकं पर्यालोच्य जातु सोमेश्वरोऽस्य चतुर्थास्य पुष्पिकायां छायानाटकं घोषयति । मायासीतायाः अङ्के प्रवेशः रामलक्ष्मणयोश्च चित्रपट्टके रावणं प्रति समुपस्थापनं छायारूपकत्वं सार्थयतः।

कवेः सोमेश्वरस्य वाग्मिता चारित्रं चित्रयन्ती भुवं स्तुवती रसपरिपाकं च वितरन्ती सम्यग् विलसति । यथा नायकस्य स्वरूपवर्णनम् -

न क्रोधेऽपि वदत्यसावमधुरं, कृत्वापि लोकोत्तरं

न स्यादुधुर-कन्धरो, न विधुरोऽप्यालम्बते दीनताम्।

किं भूयः कथितेन लोचनपथं काकुत्स्थवीरः स चेत्

सम्प्राप्तः कुरुते रिपोरपि ततः श्लाघासु घूर्णं शिरः॥[५४]

शङ्खपराभवः[सम्पादयतु]

शङ्खपराभवव्यायोगस्य प्रणेता वस्तुपालाश्रितानां कवीनामन्यतमोऽभवत् । कीर्तिकौमुद्यां सोमेश्वरो हरिहरं वर्णयति -

स्ववाक्पाकेन यो वाचां पाकं शास्त्यपरान् कवीन्।

कथं हरिहरः सोऽभूत् कवीनां पाकशासनः।।[५५]

हरिहरस्त्रयोदश्याः शताब्द्द्याः प्रादुर्भूत आत्मानं शङ्खपराभवे प्रशंसति -

एकेनैव दिनेन यः कवयितुं शक्तः प्रबन्धेषु य-

द्वाचः कर्कश-तर्क-शाण-निशिताश्छिन्दन्ति वैतण्डिकान्।

येनानेकनरेन्द्र-वन्दित-पदद्वन्द्वेन वन्दीकृता

विद्वांसः सुकृतैकभाजनमसावस्मिन् प्रबन्धे कविः।।

प्रस्तावनुसारेणा सो गौडाभिजनो गोत्रेण भारद्वाजः सोमनाथं तीर्थं पर्यट्य निवृत्तो वस्तुपालस्य गुणानुरागवशंवद इमं व्यायोगं रचितवान्। अस्य च प्रथमोऽभिनयो वस्तुपालस्यैव निर्देशेन विजयमहोत्सवमुपलक्ष्य प्रयुक्तः।

‘लाटानां राजा शल्लो देवगिरिभूपतिना सिंहणेन युद्ध-परः आसीत् । तावदेव वीरधवलः स्कम्भतीर्थमधिकृतवान् । स्कम्भादित्यतीर्थः लाटानामवयव इति कृताभिमानः शङ्खः कटकूपं निकषा वस्तुपालेनायुध्यत । अन्ततः इयो पराभूतो भरुकच्छं प्रति पलायांबभूव।' इति कथा।

करुणावज्रायुधम्[सम्पादयतु]

करुणावज्रायुधं नाम श्रीगदितप्रायं रूपकं बालचन्द्रस्य सुरेर्वस्तुपालसमकालिकस्य यशोध्वज इव वर्तते । अस्याभिनयः प्राथमिको वस्तुपालस्य वसन्तपालापरनाम्नो गुर्जराणां महामन्त्रिणः आदेशेनायोजितम् । अतोऽस्य रचना १२४० ख्रीष्टाब्दतः किञ्चित् पूर्वमभूत्।

कथावस्तु[सम्पादयतु]

जिनाधिपस्य क्षेमकरस्य पुत्रो राजा वज्रायुधो मन्त्रिणा सह धर्मचर्चापरः सद्धर्मस्य स्वरूपमुदघोषयत् -

एकं जैनं विना धर्ममन्ये धर्माः कुधीमताम्।

संवृता एव शोभन्ते पटच्चर-पटा इव॥[५६]

विदूषकश्चार्वाकमतमुल्लासयन् हासं सृजति । अमात्योऽप्यनुमोदयतीव -

प्रत्यक्षमनवेक्ष्यापि किञ्चित् तत्फलमुज्ज्वलम्।

हित्वा विषयजं शर्म तपः कर्म करोति कः।।[५७]

तावदेव पूर्ववैरिणो विद्युद्दण्डस्यासुरस्य मायया राज्ञः परीक्षावसरागतः । स्नायध्वं वायध्वमिति कोलाहलो नेपथ्यादश्रूयत । श्येनेनानुसृतः कश्चित् कपोतो राज्ञः उत्संगे शरण्योऽभूत् । राजानं श्येनोऽपि कपोतमांसेन स्वोदरपूर्तये निवेदितवान् । मूर्च्छितोऽसौ राज्ञा जलेन सिक्तः संज्ञामलभत। दत्तान् मोदकान् ‘अहं मांसाशी' इति श्येनो नादत्त । तं राजावदत् -

तुभ्यं श्येन ददे पारावतेन तुलितं पलम्।

निजमेवाधुना तेन सुहितीभव मा मृथाः॥[५८]

इति श्येनः सत्वरं स्वीचकार। महिष्या वारितो राजाब्रवीत् -

यायावरेण किमनेन शरीरकेण

स्वेच्छानपान-परिपोषण-पोवरेण।

सर्वाशुचिप्रणयिना कृतनाशनेन

कार्यं परोपकृतये न हि कल्प्यते तत्।।[५९]

स्वयं कृत्त्वा तुलायां स्वमांसं ददति महीपतौ न पारावतेन तुल्यत्वं गतः। स शरीरेण तुलामारोहत् । तदानीं देवाः पुष्पवर्षणं राजानमवाकिरन्तः प्राशंसन् ।

जैनमतप्रचारस्तावत् तथातिशेते यथा जैनादृते जनस्यादरं न जातु सहते ग्रहीतुम्। अत्र विदूषककोपनिबन्धः सर्वथा वैयर्त्यमेव पुष्णाति । राजनि स्वमांसं कृन्तत्यपि स पुरोभागी हासयत्येवेति ‘सर्वे स्मयन्ते' इति स्वयमेव कविः निर्बध्नाति। एकाङ्कं श्रीगदितमुपरूपकं सदप्यथ सविस्तरेण विष्कम्भकेण नाट्यशास्त्रं व्यभिचरति । रङ्गमञ्चे कपोतश्येनौ संस्कृतेन भाषेते उड्डीयेते चेति न संभवति न वा परम्परामनुरुणद्धि।

द्रौपदीस्वयंवरम्[सम्पादयतु]

द्रौपदीस्वयंवरस्य कविः विजयपालो गुर्जरप्रदेशस्य महाकवीनां कुले जातः । तस्य पिता सिद्धपालः पितामहश्च श्रीपालो बभूवतुः । अयं श्रीपालचालुक्यनृपतीनां संमतो जयसिंह-सिद्धराजस्य बालमित्रं विद्वत्परिषत्प्रमुखश्चासीत् । वैरोचनपराजयस्य नाम महाप्रबन्धस्य कर्तुः लब्धयशसः श्रीपालस्य यशस्वी पौत्रो विजयपालो भीमद्वितीयस्य काले ११७६-१२४२ ख्रीष्टाब्दमध्ये संबभूव । रूपकं चैतद् भीमाज्ञया वसन्तोत्सवेऽभ्यनीयत।

कथावस्तु[सम्पादयतु]

सुपरिचितमपि कामपि नवकल्पनाकमनीयतां वहति। स्वयंवरे राधावेधाय कृष्णोदीरितो भीमो विप्रवेषः कर्णं परशुरामदत्तेषु बाणेषु द्वयं याचित्वागतः । कृष्णस्तत्र द्रुपदेन राज्ञा आकारयितुं नियुक्तः। द्रुपद-प्रतिज्ञां वेदयांचकार -

स्तम्भः सोऽयं गिरिवि गुरुदक्षिणावर्तमेकं

वामावर्तं विकटमितरच्चक्रमावर्ततेऽत्र।

आस्ते लोलस्तदुपरि तिमिस्तस्य वामाक्षितारा-

लक्ष्य प्रेक्ष्यं तदपि निपुणं तैलपूर्णे कटाहे।।

चापं पुरो दुरधिरोपमिदं पुरारे-

रारोप्य यो भुजबलेन भिनत्ति राधाम्।

रूपान्तराभ्युपगमा जगतां जयश्रीः

पञ्चालजा खलु भविष्यति तस्य पत्नी॥[६०]

दुर्योधननिर्देशेन राधां भेत्तुं गच्छति भूमिं पतिते दुःशासने शकुनिरग्रतस्त्वरयामास, किन्तु कृष्णेन तत्पुरतो वेतालजालं कृतमसौ दृष्टवान्।

शिराल-वाचाल-जटाल-कालकराल-जङ्घाल-फटाल-भालम्।

उत्तालमत्ताल-तमाल-कालं वेतालजालं स्खलयत्यलं माम्॥[६१]

इति द्रोणं कर्णं चापि निरधुनोत् कृष्णो मायया । शिशुपालमपि नगूढे चपेटया भ्रंशयित्वार्जुनायासौ दत्तवानवसरम् । अर्जुनो बाणाभ्यां कर्णदत्ताभ्यां साफल्यं प्राप्तवान् मत्स्यनेत्रभेदने। वीराद् तरसप्रवणेऽत्र रूपके शृङ्गारचेष्टा अपि चमत्कारं वहन्ति । वीराद्भत्प्रधानमिदं नाटकं भ्रान्त्या समालोच्यते यदिदं जनसम्प्रदायानुसारि वर्तते । नात्र मनागपि जैनतत्त्वम्।

रम्भामञ्जरी[सम्पादयतु]

रम्भामञ्जरी नयचन्द्रेण विरचिता। नयचन्द्रो हम्मीरकाव्यं सन् १२८३-१३०१ ई० मध्ये रचितवान् । हम्मीरराज्याश्रितः कर्पूरमञ्चर्याः साम्येनेदं रूपकं सट्टकं भवितुमर्हति, किन्तु प्रणयकथाविन्यासविशेषेण संस्कृतभाषाप्रयोगप्राचुर्येण च नाटिकात्वेनोपनिबद्धं प्रतीयते । सूत्रधारानुसारेण -

षड्भाषा-सुकवित्व-युक्तिकुशलो यः शारदादेव्या

दत्त-प्रौढवरप्रसादवशतो राज्ञां यो रञ्जकः।

यः पूर्वेषां कवीनां पथि पथिक एतस्य स कारको

विख्यातो नयचन्द्रनामसुकविर्निःशेषविद्यानिधिः॥

सूत्रधारोऽस्य कथावस्तु-संक्षेपं निवेदयति -

इक्ष्वाकूणां नरेशवंशतिलकः स जैत्रचन्द्रः प्रभु -

युर्क्त्या परिणीय सप्तगृहिणीरूपेण याप्सराः।

एतस्मिन् भवितु यथोक्तविधिना भूमण्डलाखण्डलो

रम्भां तां परिणयत्यष्टमस्त्रियमस्मिन् सट्टके वरे।।

सट्टकानुसारेण राजा जयचन्द्रः सप्तभिः राज्ञीभिः विदूषकेण परिजनेन च परिवृत आम्रवणं प्राविशत्। नारायणदासो रम्भा नाम लाटनरेशस्य मदनवर्मणो दुहितरं आनखशिखं लावण्यमयीमानयत् । पुरोहितस्तया जयचन्द्रस्योद्वाहं यथाविधिं कारयामास । किन्तु महिष्या भयेन समागमो बहुबाधासंकुलोऽन्ततः सर्वसम्मतं निष्पन्नः। प्राकृतसंविधाने जयचन्द्रस्य काव्यनैपुणं जागतितराम् । यथा -

सुरहि-समारंभेणं महमहिया मंजरी व चूयस्स।

जणयदु तुह आणंदं नोहलिया सा कुरंगच्छी।।[६२]

शृङ्गारोत्सवप्रसूरमुष्य भारती जातु जनयत्युदात्तभावमपि । यथा -

गलत्येको मूर्च्छा भवति पुनरन्या यदनयोः

किमप्यासीन्मध्यं सुभग निखिलायामपि निशि।

लिखन्त्यास्तत्रास्याः कुसुमशरलेखं तव कृते

समाप्तिं स्वस्तीति प्रथमपदभागोऽपि न गतः।।[६३]

प्रतापरुद्रकल्याणम्[सम्पादयतु]

अगस्त्यापरनामा विद्यानाथः प्रतापरुद्रकल्याणं नाटकमरचयत् । आन्ध्रेषु वारंगलानां राजा काकतीयः प्रतापरुद्रो विद्यानाथं सभाकवित्वे नियुक्तवान् । प्रतापरुद्रो मातामह्या रुद्राम्बायाः १२० ख्रीष्टाब्द-प्रभृति-शासने साहाय्यं ददानः १२६६ ई० वर्षे कृताभिषेकः प्रायेण १३२६ ई० पर्यन्तं प्रजाम् अपालयत् । अस्याभिषेककालेऽस्य नाटकस्य प्रणयनमभिनयश्चाभवताम्। विद्यानाथस्य प्रथमं नामागस्त्य इत्यासीदिति प्रमाणीकरोति पद्यम् -

औन्नत्यं यदि वर्ण्यते शिखरिणः क्रुध्यन्ति नीचैः कृता

गाम्भीर्यं यदि कोर्त्यते जलधयः क्षम्यन्ति गाधीकृताः।

तत् त्वां वर्णयितुं बिभेमि यदिवा जातोऽस्म्यगस्त्यः स्थितः

त्वत्पार्श्वे गुणरत्नरोहणगिरे भीवीररुद्र प्रभो ।

समीक्षा[सम्पादयतु]

प्रतापरुद्वकल्याणं संस्कृतनाट्येषु उभयथा वैशिष्ट्यं भजते । प्रथमतस्तावदिदमैतिहासिकमितिवृत्तं किंचित् परिवर्त्य यथादेशकालं यथास्थितं प्रस्तौति । अत्र प्रतापरुद्रस्य वंशपरम्परा वर्णिता । गणपतेः १२५८-५९ ईसवीये वर्षे शासनसाहाय्यमाचरन्ती प्रायेण १२६१ वर्षे गणपतौ दिवंगते १२८० ई० पर्यन्तं शासनसूत्रं सञ्चालयन्ती, तदनन्तरञ्च दौहित्रेण प्रतापरुद्रेण कृतसाहाय्या रुद्राम्बा वर्णिता। १२९६ ई० वर्षे प्रतापरुद्रस्याभिषेकश्च मुख्यो विषयः । अधिकृतशासन एवं प्रतापरुद्रः शत्रून् विजेतुं नियुक्तः । अधिकृतं पूर्वमपि रुद्राम्बा-राजत्वकाले कृतपराभिसन्धेर्बल्लूरीपट्टनसामन्तमम्बदेवं प्रच्याव्य काञ्च्या रविवर्माणं पाण्ड्यनरेशं चाजयत् । तस्य द्वादशभ्यः शिलालेखेभ्यो वृत्तमिदं समर्थितम् ।

अपरञ्च नाटकमिदं नाट्यशास्त्रमनुरुध्यैव चितम् । तथा हि अर्थोपक्षेपकोणामङ्केभ्यो बहिः निवेशः प्रवेशकानामङ्कद्वयमन्तरा निपातः कुतोऽन्येषु अर्वाचीनेषु ज्योतिःप्रभाकल्याणप्रभृतिष्वनुगच्छति । हस्तिमल्लस्य मैथिलीकल्याणमपि तामेव परम्परामनुसरति। अत्र नाट्यशास्त्रीयाणि लक्ष्यपदानि प्रतिपदं सोदाहरणानि स्पष्टीकृतानि। संस्कृतभाषया प्रणीतेषु विरल-विरल-चरितात्मकेषु रूपकेषु नाटकमिदं शोभते । योरपीयभाषाभिः Biographical नाटकानां परम्परा वर्तत एव।[६४]

कादम्बरीकल्याणम्[सम्पादयतु]

सौगन्धिकाहरणस्य कवेः भ्रात्रा, दशविधरूपकप्रणयनदक्षेण नरसिंहेन विरचिते कादम्बरीकल्याणे नाम नाटके बाणभट्टकृता कादम्बरीकथा अष्टाभिरङ्कैः रूपकायिता।[६५] नाटकमिदं सर्वथा प्रकृतिवर्णनादिकं बाणकृतमेवानुहरति । पञ्चमेऽङ्केऽन्तर्नाटिकामुपनिबध्य कादम्बरी-चन्द्रापीडयोः संगतं वर्णितम् । करुणरसपरिपाको यथाप्रसंगं प्रभावेनातिशेते।

नसिंहकाकतीयचरितमिति महाकाव्यमरचयत् । मलयवतीति गद्यकाव्यमपि तेन रचिता । तस्य भ्राता सौगन्धिकाहरणव्यायोगस्य रचयिता वारंगलानां काकतीयस्य राज्ञः प्रतापरुद्रस्य सभाकविर्बभूव । उभावपि प्रायः १३०० ख्रीष्टाब्दमभितः काव्यप्रतिभाविलासं पुरस्कृतवन्तौ । वेमभपालेन साहित्यचिन्तामणौ कादम्बरीकल्याणस्य पद्यानि उदाहृतानीत्यनेन नाटकस्य प्रतिष्ठा व्यज्यते ।

सौगन्धिकाहरणव्यायोगः[सम्पादयतु]

सौगन्धिकाहरणस्य व्यायोगस्य प्रणेता विश्वनाथः प्रतापरुद्रकल्याणस्य कवेः विद्यानाथस्य भागिनेयो बभूव । साहित्यदर्पणस्य लेखकाद् विश्वनाथ-महापात्रादयं कविः प्रायः शतवर्षेः प्राचीनतरः। तथा हि प्रस्तावयति सूत्रधारः। "राज्ञः प्रतापरुद्रेण संभावितैः::..::सभासद्भिः सबहुमानमादिष्टोऽस्मि।:

विश्वनाथ इति ख्यातः कविरस्ति यदुक्तयः ।

आकाञ्चनमरत्नं च विदुषां कर्णभूषणम्।।[६६]

इत्यसौ चतुर्दश्याः शताब्द्याः आरम्भ एव क्वचित् स्थितिं लेभे । अयं हि कवेर्गङ्गादेव्याः गुरुरासीदिति तयैव प्रशंसितः -

चिरं स विजयी भूयाद् विश्वनाथः कवीश्वरः।

अस्य प्रसादात् सार्वरयं समिन्धे मादृशीष्वपि।।[६७]

इति प्रतापरुद्रस्य समयस्तत्कल्याणनाटकप्रसङ्गे निर्णीतः तेनैव सुधियोऽवधारयन्तु। पाण्डुतनयेषु वने वसत्सु कदाचिद् वातानीतं सौगन्धिकपुष्पं दृष्ट्वा द्रौपदी तादृशमेवान्यल्लब्धुकामासीत् । भीमस्तदभिलाषं विदन्नेव तत्पुष्पगन्धवाहमभिसरन् गन्धमादनं गतवान् । तत्र हनुमान् पूर्वोपस्थितो लाङ्गूलेनास्य मार्गं बाधते स्म । भीमस्तेन कंचित् कालं विवदति स्म। हनुमान् भीमाग्रजं हनुमन्तमेवानिन्दत् । भीमश्चाजानन्नेव तं प्राशंसत् । अन्ततो भीमस्तमभिज्ञाय तत्रागमनकारणं जगौ। तेन निर्दिष्टो यक्षान् विनेतुं लब्धविद्यश्चासौ सरोवरं प्राप्य यक्षैरयुध्यत । भीममागतं विज्ञाय कुबेरस्तं प्रत्युद्गतः तावदेव युधिष्ठिरादयोऽपि भीममन्विष्यन्तस्तत्रागताः कुबेरेण सम्मानिताः । सौगन्धिकं द्रौपद्यै भीमोऽदात् । तदा देवाः पुष्पाणि वेर्षन्ति स्म ।

अत्राल्पीयांसः कार्यव्यापाराः भूयांसश्च संवादाः सौगन्धिकाहरणस्य रङ्गमञ्चीयं विफलप्रायत्वं सूचयन्ति। भीमहनुमतोः संवादो हास्यस्फोटकरो। यत्र हनुमानात्मानमेव निन्दति, भीमश्च तमज्ञात्वा तमेव प्रशंसति।

प्रद्युम्नाभ्युदयम्[सम्पादयतु]

प्रद्युम्नाभ्युदयनाटकस्य पञ्चाङ्कस्य कर्ता रविवर्मा कुलशेखरः कोलम्बराजस्य महाराजजयसिंहस्य यादववंश्यस्य पुत्रः १२६६ ख्रीष्टाब्दे जातः । समुन्नतो योद्धा विजेता चेति संग्रामधीरोपाख्यः, परस्तात् पाण्ड्यांश्चोलाँश्चाधिकृत्य सम्राट्पदमधिष्ठितवान् । दक्षिणभोज इति उपाधिना भूषितः काञ्चीदेवालयोत्कीर्णलेखानुसारेण धर्मतरुमूलकन्दः सद्गुणालंकारश्चतुःषष्टिकलावल्लभ इत्यादिरूपेण प्रसिद्धोऽभवत् । स पद्मनाभस्य यादवकुलेष्टदेवस्योपासकोऽभवत् । समुद्रबन्धेन कविभूषणेन च कविभ्यामाश्रितः, स्वयं कविः संगीतादिकोविदश्च शोभते स्म । इदं च नाटकं चतुर्दश्याः शताब्द्याः प्रथमे पादे पद्मनाभयात्रावसरेऽभ्यनीतम् । हरिवंशपुराणात् कथामादाय नाट्यौचित्येन परिवर्त्य शृङ्गारवीर-रस-प्रधानेऽत्र नाटके रविवर्माऽभिज्ञानशाकुन्तलमनेकत्रोपजीवति। हरिवंशगतमन्तर्नाटकं रम्भाभिसारं यथावत् प्रयोज्य हंसपक्षिणः स्थाने हंसाख्यं चारणं नियोज्य सर्वात्मना परवर्तिषु नाट्यकतृषु काव्यकौशलेन रङ्गव्यापार शिल्पेन च गौरवमादधाति ।

कथावस्तु[सम्पादयतु]

दुष्प्रवेशं वज्रपुरमधिवसन्नसुरो वज्रनाभस्त्रैलोक्यं पीडयन्निन्द्रमप्याकारयत् - "देहि मे जगदैश्वर्यं नो चेद् युध्यस्व वासव'' इति । देवानां दानवानां च पितामहः कश्यपो यज्ञं वितन्वानः आस्ते इति कलहो नोत्पातं दधाति । नारदेन समीरितः कृष्णः प्रत्यब्रवीत् -

प्रद्युम्न एव भगवन्नचिरेण वत्सो

बाणैर्निहत्य तमिमं युघि वज्रणाभम्।

नेत्राम्बुभिस्तदवरोध - नितम्बिनीनां

निर्वापयिष्यति जगत्त्रितयस्य तापम्॥[६८]

इत्याकर्त्य नारदः कृष्णमुत्सुकयामास – प्रद्युम्नः तर्हि वज्रणाभकन्यां प्रभावतीं स्वयंवरे पितृविरोधे सत्यपि ग्रहीष्यति । अथ कृष्णो भद्रं नाम नेटमाहूय प्रोवाच - भद्र, वज्रपुरं हि नानादिष्टः प्रविशेदिति त्वां नियुनज्मि कृताधिकृतप्रवेशः प्रद्युम्नं गदं साम्बं च प्रवेशय, येन ते वज्रपाभं हन्युरिति । तथादिष्टो भद्रो हंसेन नाम चारणेनात्मानं वज्रपुराधीशस्य पुरतो गीतकीर्तिं कारयित्वा लब्धप्रवेशः प्रभावत्याः संगीताचार्यपदे नियुक्तः । तत एकदावसरं प्राप्य प्रद्युम्नस्य रम्यां प्रतिकृतिं चित्रफलके निर्माय कलहंसिकया प्रभावतीमदर्शयत् । गोचरीकृतसौन्दयतिरेका हृतहृदया प्रभावती बभूव। कृष्णतनयं प्रद्युम्नं प्रत्यक्षमिव दृष्ट्वा स्वनगरे कृतप्रवेशमपि तथा तमाजानती प्रणयपाधीना सोत्कण्ठा सासीत्। भद्रनटेनाश्वासिता स्वविद्यामहिम्ना तमिहानयामीति कथं कथमपि नायिका प्राणानधारयत्।

अथ प्राप्ते वसन्तोत्सवे वज्रणाभेनादिष्टो भद्रनटो रम्भाभिसरणं नाम प्रेक्षणकमभिनयति स्म। तच्च सकुटुम्बः सपरिवारो वज्रनाभोऽदर्शत् । तत्रैव प्रद्युम्न: प्रभावतीं भद्रेण संकेतितां वीक्ष्य साक्षात् कामतप्तो रम्भोत्कण्ठितस्य नलकूबरस्य भूमिकामभिनयति स्म। प्रेक्षणकनायकयोरभिसारेण संगम प्रेक्ष्य प्रभावत्यपि अभिसारमभिनिवेशितवती। ततः कमलिनी-तीर-लतामण्डपे तौ मेलयित्वा भद्रस्तयोर्गान्धर्वविवाहमकरोत् । वज्रनाभः प्रद्युम्नस्य दूषणं श्रुत्वा तं हन्तुमयुध्यत । युद्धे सुदर्शनचक्रेण वज्रनाभो प्रद्युम्नेन हतः । कृष्णात्मजं देवाः पुष्पवर्षेण सभाजयांचक्रुः।

धूर्तसमागमः[सम्पादयतु]

धूर्तसमागमस्य एकाङ्कस्य रूपकस्य प्रहसनभूयं श्रितस्य रचयिता धनेश्वरस्य पुत्रो रामेश्वस्य पौत्रो मिथिलायाः कर्णाट-राजं हरसिंहं चतुर्दश्याः शताब्द्याः प्रथमे पादे शासतं समाश्रितो बभूव । कामशास्त्रीयः पञ्चसायकनामा ग्रन्थो मुदितप्रहसनं च त्र्यङ्कं रूपकं ज्योतिरीश्वरेण कृतमिति आहुः।

कथावस्तु[सम्पादयतु]

धूर्तसमागमस्य नायको विश्वनगरनामा दाम्भिको जङ्गमसाधुर्बभूव। दुराचारोऽस्य शिष्योऽनङ्गसेनां वेश्यां निभाल्यानङ्गवश गतो विश्वनगराय निवेदयां बभूव । उभयोः सा कस्य भवेदिति निर्णेतुमनङ्गसेनया एवानुमतोऽसज्जातिमिश्रो नियुक्तस्तां स्वेन सहोषितुं निदर्श्याभियोगग्रन्थिं समाधातुं कालातिक्रमं चकाङ्क्ष् । तावत्येव काले मिश्रमहाभागस्य विदूषकोऽनङ्गसेनां चकमे। अत्रान्तरे मूलनाशको नाम नापितः ऋणशोधनायाधमर्णां तां वेश्यामभ्यागतोऽनङ्गसेनयोक्तः – अहं तावन्मिश्रस्य संवृत्तेति यदहं तुभ्यं धारयामि तत् तस्मादेवोद्ग्राह्यमिति । शिष्यादृणर्णमादाय तदृणमोकं विधाय मिश्रो नापितं समादिदेश – मां परिचरेति । तेन च पाशैर्बद्धमेनं विदूषको मोचयामास।

सङ्कल्पसूर्योदयम्[सम्पादयतु]

सङ्कल्पसूर्योदयस्य दशाङ्कस्य महानाटकस्य प्रणेता वेङ्कटनाथो वेदान्तदेशिकस्त्रयोदश - चतुर्दश-शताब्द्योः शतादधिकान् ग्रन्थान् रचितवान् । वेङ्कटेशतीर्थोत्सवाहनि लब्ध-जन्मा रामानुजाचार्यस्य भोगिनेयः षड्वर्षदेशीयऽसौ रामानुजगुरोर्वरदाचार्यस्य विद्यालयं श्रीभाष्यगोष्ठीं श्रोतुं गतः । तत्र विस्मृतं कमपि प्रस्तावं स्मारयन् वरदाचार्येण दत्ताशीः ख्यातोऽभवत्।

प्रतिष्ठापितवेदान्तः प्रतिक्षिप्तबहिर्मतः।

भूयास्त्रैविद्यमान्यन्त्वं भूरिकल्याणभाजनम्।।

अहीन्द्रनगरे लब्धहयवदनप्रसादोऽयं सर्वतन्त्र-स्वतन्त्रविरोधिमतानि निराकर्त्तुं भारतभुवं पर्यटत् । तदेव ग्रन्थानपि विरचितवान् । पुनराजगाम श्रीरङ्गम् । तत्र वादेविरुद्धमतावलम्बिनो विजित्य वेदान्ताचार्यपदवीमलभत । तत्रत्यशास्त्रार्थसंचयाः शतदूषणीग्रन्थे संगृहीता विद्यन्ते । परमतभङ्गनाम्ना स्वग्रन्थेनाधिगतयशाश्चाहीन्द्रनगराधीशेन कवितार्किकसिंहोपाधिनालंकृतः।

स डिण्डिमसार्वभौमं पराजित्य तं शिष्यतां नीतवान् । पश्चात् विष्णूघण्टावतारोपाधिना तस्य महिमावर्धत । स रामानुजसिद्धान्तान् प्रचारयन् १३२९ ख्रीष्टाब्दे पुनः श्रीरङ्गमध्यवसत् । तत्र च १३३६ ख्रीष्टाब्दे मलिककाफूरेण श्रीरङ्गमन्दिरं लुण्ठितमिति मन्दिराधीक्षकेण सुदर्शनसूरिणास्मै श्रीभाष्यव्याख्यां श्रुतप्रकाशिकां च ग्रन्थौ समर्पितौ । तौ रक्षन्नेष स यादवाचलमध्युवास । वेङ्कटोऽसौ वेदान्तदेशिकः १३६९ ख्रीष्टाब्दे दिवङ्गतः ।

कथावस्तु[सम्पादयतु]

दशाङ्केन सङ्कल्पसूर्योदयमहानाटके प्रबोधचन्द्रोदमयमनुसृत्य वेङ्कटो विशिष्टाद्वैतं प्रतिपादयितुं ब्रह्मसूत्राध्यायान् रचितवान् । तद्यथा प्रथमेनाङ्केन समन्वयाध्यायं, द्वितीयेन विरोधाध्यायं ततः सप्तभिरङ्कैः वैराग्यादिपरकं चतुर्थाध्यायं निबध्नाति स्म । बीजनिर्देशो यथा -

दुर्जनं प्रतिपक्षं च दूरदृष्टिरयं जनः।

विवेकश्च महामोहं विजेतुं प्रभविष्यतः।।[६९]

यथा च कथानकसङ्क्षेपः -

मूलच्छेदभयोज्झितेन महता मोहेन दुर्मेधसा

कंसेन प्रभुरुग्रसेन इव नः कारागृहे स्थापितः।

विख्यातेन विवेकभूमिपतिना विश्वोपकारार्थना

कृष्णेनेव बलोतरेण घृणिनामुक्तश्रियं प्राप्स्यसि।।[७०]

षष्टेरधिकानि प्रतीकपात्राणि विवेकादीनि प्रतीकिभिर्विवेदिभिरैक्ये भजन्ते । गुरुशिष्यादयोऽपि मध्येवृत्तमुपनिबद्धाः । प्रबोधचन्द्रोदयमेवानहरतीदं नाटकं, यत्र विवेकः ससैन्यो महामोहं ससैन्यं जयति । वैष्णव-प्रस्थानस्थापकाः आचार्याः अप्यत्र पात्रतां भजन्ते । मध्ये मध्ये शास्त्रार्थविवादो गुम्फितः । महामोहेनैव बौद्धजैनादिमतानि प्रवर्तितानीति वेदान्तदेशिकस्याग्रहः। विवेकस्तस्य समस्तां व्यूहरचनां भक्त्वा जयमुपलभ्य मोक्षमार्गं प्रशस्तं करोति । वेदान्तदेशिकः शिल्पीव नवनवकल्पनाविकल्पकुशलः काव्यप्रतिभां प्रतिभोन्मेषविशेषेण प्रकाशयति । अनुप्रासच्छटाविकटापि रचना प्रसादं नैव जहाति । यथा -

मुधारम्भे दम्भे मयि च मदने मुक्तकदने

मितोत्साहे मोहे वृजिनगहने व्याप्तदहने।।[७१]

आत्मीयां भणितिं सुन्दरीं च स्तौति कविः -

निर्धूताखिलदोषा निरवधि-पुरुषार्थ-लम्भनप्रवणा।

सत्कविभणितिरिव त्वं सगुणालंकार-भाव-रस-जुष्टा॥[७२]

इतीह काव्यपरिभाषैव शोभते । रूपकरूपणमपि यथा -

पदः पद्माकान्तः प्रणिपतनमस्मिन् हिततमं

शुभस्तर्त्सकल्पश्चुलुकयति संसारजलधिम्।

झटित्येवं प्रज्ञामुपजनयता केनचिदसा-

वविद्यावेतालीमतिपतति मन्त्रेण पुरुषः।।[७३]

इत्यहो संगीतकं, विस्मयकरी निसर्गच्छटा, वर्णनाकौशलं च। तत्र मेघमालाया मनोहारि वर्णनम् -

अक्ष्णोरञ्जनवर्तिका यवनिका विद्युन्नटीनामियं

स्वर्गङ्गायमुना - वियज्जलनिर्धेर्वेला--तमालाटवी।

वर्षाणां कबरी पुरन्दरदिशोऽलंकारकस्तूरिका

कन्दर्प-द्विप-दर्प-दान-लहरी-कादम्बिनी जृम्भते॥[७४]

यथा वा कावेर्या वर्णनम् -

खेलच्चोलवधू - विधूत-कबरी-शैवालितामन्वहं

पश्येम प्लवमान-हंसमिथुन-स्मेरां कवेरात्मजाम्।।

आस्तां तावद् वेदान्तदेशिकस्य वेदान्ताग्रही निर्वेदकलितो रामानुजाचार्यदर्शनादर्शः प्रतिभाप्रकर्षः, शब्दार्थयोगनैपुणी पुण्या च रससम्भृतिः कामपि प्रत्यग्रतामग्रे सारयति । पद्यप्राया संवादा उपदेश-प्रधानानि पद्यानि वेदान्तदेशिकारचोपदेशास्तनूकुर्वन्ति रङ्गमञ्चव्यापारान् । एतानि काव्यसारस्य स्वारस्यमानं तन्वन्ति।

उन्मत्तराघवम्[सम्पादयतु]

भास्करकवेरुन्मत्तराघवं प्रेक्षणकमेकाङ्कं प्रथमतो विद्यारण्यमहोत्सवेऽभिनीतम् । अयं विद्यारण्यो माधव एव चेत् सायणस्य भ्राता, तदोन्मत्तराघवस्य रचनाकालश्चतुर्दशी शताब्दी भवेत्।

अत्रोन्मत्तराघवे सीतया कियत्कालं वियुक्तस्य रामस्योन्मत्तालापास्तथैवोपनिबद्धा यथा उर्वश्या वियोगेन पुरूरवसो विक्रमोर्वशीये। रामलक्ष्मणयोः मृगयां विहर्तुं गतयोः पुष्पाण्यवचिन्वती सीतान्तर्धत्ते । मधुरिकायास्तथा विज्ञाय रामो विलपति । दुर्वाससः शापेन हरिणीत्वं गता सीतागस्त्येन निरस्तशापा पुना रामेण मिलति। भास्करस्य सानुप्रासा सरणिः काव्यपान्थान् सविश्रमं गमयन्ती पादन्यासकोमला जातु मनोहरति। यथा -

माकन्दालिं मलयपना मन्दमन्दोलयन्ते

मज्जत्यस्या मधुकरयुवा मञ्जरीणां मरन्दे ।।[७५]

भीमविक्रमव्यायोगः[सम्पादयतु]

मोक्षादित्यो भीमविक्रमं व्यायोगं १३२८ ई० वर्षेऽरचयत् । तस्य पिता भीमो गुरुश्च हरिहरोऽभवताम्। मन्ये शङ्खपराभवस्य कविरेवास्य गुरुर्भवेत् । मोक्षादित्यो महाभारतमुपजीव्य कथानकमत्र गृह्णाति । जरासन्धेन भीमस्य युद्धमधिकृत्य कथा प्रसरति।

कथानुसारेण जरासंधस्य वधाय कृष्णोऽर्जुनौ भीमश्च तस्य राजधानीं गिरिव्रजं गच्छन्ति । तत्र ब्राह्मणं परित्यज्य नान्यः प्रविशतु इति राजाज्ञानुसारेण भीमसेन आचार्यश्चन्द्रशेखर इति कृष्णश्चक्रधरस्नातक इति अर्जुनश्च धवलस्नातक इति ब्राह्मणवेषगृहितात्मानस्ते प्राविशन् । अरुणोदयात् प्राक् कृष्णार्जुनयोः सिद्धेश्वरं देवमाराधयितुं गतयोर्भीम एकलः स्थितः कस्यापि राजकुमारस्य आर्तवाणीमशृणोत् - अहमेवात्मनोऽन्तं करिष्ये -

चिरमकारि मया मुनिवत् तपः श्रुतिजपश्च समाधिममुञ्चता।

हुतमनन्तहविस्तव तुष्टये न हि महेश मनागपि तत्फलम्।।[७६]

तावदेवास्य माता वधूश्चागच्छताम् । को म्रियेतेति तेषु विवादं श्रृण्वन् भीमस्तत्र शिवोऽहं विप्ररूपो वो रक्षार्थं तुष्टः सन्नायातोऽस्मि । यूयमितो व्रजतेति । इदमत्राकृतम् – जरासन्धेन शिवाय होतुं गृहीतौ पितरं भ्रातरं न मोचयितु स राजकुमारः शिवतपश्चरन्नपि किमपि फलमनवाप्य प्राणाहतिं करिष्यन्नासीत् । भीमेन ते त्रयोऽपि ततो निःसारिताः। तावदेव कृष्णार्जुनौ तत्रागतौ।

भीमाहुतेन घटोत्कचेन नगरपालिकायां जरायां दूरीकृतायां, दुर्गभङ्गाय चैत्यकगिरिशिखरे च निपातिते ते राजाजरं गताः । अथ परिचयं पृष्टास्ते यथावदेवात्मानं विज्ञापितवन्तः । तदा पुत्रं सहदेवं राज्येऽभिषिच्य राजा युद्धाय सज्जोऽभवत् । जरासन्धः कृष्णमवदत् -

त्वं पुरैव विजितोऽसि वाक्पटुः फाल्गुनोऽपि किल फल्गुयुद्धकृत्।

संयुगेषु भुजवीर्यशालिनं भीमसेनमहमुद्यतं वृणे॥[७७]

ततो मागधराजं तं पराजित्य भीमसेनस्तद्दुहितुः पाणिग्रहणं कृतवान् । तदा बन्दीभूता राजानः सर्वे मोचिताः।

कुवलयावली[सम्पादयतु]

कुवलयावल्याः नाटिकायाः रचयिता सिंहभूपालो रसार्णवसुधाकरस्य प्रणेता चतुर्दश्याः शताब्द्याः पूर्वार्धेऽभवत् । इयं नाटिका रत्नपञ्चालिकेत्यपि पुष्पिकायां संज्ञिता।

पूर्णेयं सिंहभपेन कवितामधुजल्पितैः।

रत्नपञ्चालिका नाम नाटिका रसपेटिका।।

यथा भासस्य प्रतिमानाटकं, यथा वा सुभटस्य छायानाटकं तथेयं नाटिका रत्नपञ्चालिकेति संज्ञिता। कथानकेन प्रतिमायाश्छायाया वा योजना स्पष्टतरं प्रतीयते । अस्यां कुवलयावल्यां कृष्णस्य विवाहमालक्ष्य कल्पितेव कथोपनिबद्धा।

भूमिरात्मानं कुवलयावलीं नाम कन्यारूपिणीं कृत्वा रुक्मिण्या सहावसत् । नारदप्रदत्ताङ्गुलीयकेन सा स्त्रीभिः स्त्रीरूपेण पुरुषैश्च रत्नपुत्तलकारूपेणादृश्यत । एकदा सा चन्द्रलेखया सहालपन्ती कृष्णेन साश्चर्यं वीक्षिता -

कथं नाम रत्नपञ्चालिकया सहालपति चन्द्रलेखेति । तस्याः पतितमङ्गुलीयकं प्राप्य कृष्णस्तां स्वरूपतोऽपश्यत् । अयमेव प्रणयोपक्रमः । सत्यभामा रहस्यं विज्ञाय तां प्रासादे बन्दीकृतवती । तावदेव कोऽपि दैत्यो जहार ताम् । कृष्णस्तां मोचयामास । नारदेन विदितवृत्तान्ता रुक्मिणी तां कृष्णाय समर्पयामास। कपूरमञ्जर्यामिवास्यां नाटिकायां गीतसंभारं प्रचुरं कलयामास कविः।

कमलिनीराजहंसम्[सम्पादयतु]

कमलिनीराजहंसस्य रचयिता पूर्णः सरस्वती बहशो रचनाभिः ख्यातिं गतश्चतुर्दश्यां शताब्द्यां प्रादुर्बभूव । अस्य नाटकस्य प्रथमोऽभिनयो राजपरिवारेण दृष्टो वृषपुर्यां (त्रिचूडे कोचीनस्थे) शिवालयेऽभूत् । इदं वस्तुतो गीतिनाट्यत्वमेव भजते । नाट्यापेक्षया गीतितत्त्वस्य प्राधान्यमत्र विलसति।

कथावस्तु[सम्पादयतु]

कन्या कमलिनी नायिकास्ति राजहंसश्च नायकः । कुमुदिनी कलहंसश्च तयोः सखायौ वर्तेते । एकदा कुमुदिनीमालपन्तीं कलहंसोऽशृणोत् । कमलिनी राजहंसस्य प्रथमदर्शनात् प्रभृति मदन-सन्तप्ता प्रतिभाति । सा कलहंसं परस्ताद् तद् व्यतिकरं न्यवेदयत् । अत्रान्तरे विन्ध्यगिरेर्नागराजो दूत्या सन्दिशति स्म मह्यं कन्यका दीयतामिति । तरङ्गावली तां दूतीं ततो विद्रावयति स्म । इदं वृत्तं कलहंसाच्छ्रुत्वा राजहंसो गोदावरीतट-लतामण्डपे मिलित्वा कमलिनीं पाणौ चकार । आक्रमणोद्यतं नागराजं पम्पा मकरीभिः कृतेन प्रत्याक्रमेण विद्रावयति स्म।

ब्रह्मणाहूतो राजहंसो मानसे (सरोवरे) राज्यं कर्तुमारेभे । कमलिनीमाश्वासयितुं ततः कलहंसं प्रैषयत् । स चावृत्य कमलिन्या विरहदुर्दशां निवेदयामास । उभौ तां रक्षितुं गतौ । इह तावत् पम्पायां ब्रह्मलोकं गतायां राजहंसप्रतिपालके च शरत्काले मानसमधिवसति कालमेघः सन्नद्द एव मयूरं राजानमभिषेक्तुं सोपद्रवं प्रायतत । कालमेघो वदति -

शरणं किरणा भवन्तु भानोः शरदा साकमधीशितुः खगानाम्।

ननु जीवति वाहिनी घनानां नदराजोदक-पण्य-नैगमानाम्॥

मयूराभिषेकसंभारो यथा -

धारानीपैः सुरभिरभितः संहृता पुष्पलक्ष्मी-

रभ्रैरम्भः पृथुतरघटैराभूतं सागरेभ्यः।

शब्दः पुण्यो विसरति दिशश्चातकानां द्विजानां

पाथोधौतं दधति च पुरो भूभृतः शृङ्गपीठम्॥[७८]

मयूराभिषेकोद्यते शत्रौ कालमेघे चक्रवाक-हंस-शुक-कलकण्ठादयो राजहंससेनानायकाः ससैन्यं योद्धुमुपस्थिताः । कलहंसो राजहंस-सेनां वर्णयति -

बक-शुक-रङ्कु-भृङ्ग-पिक-कौशिक-संकलितां

चल-कलविङ्क कङ्क-जलरङ्कुलिङ्ग-कुलाम्।

चटुल-पतत्र-पत्रचय-चित्रित-दिग्वदनां

कलयितुमीहते क इव ते महतीं पृतनाम्।।

ब्रह्मणादिष्टः शरन्मुनिः कालमेघसेना विनाश्य कमलिनीममोचयत्। राजहंसः पुनरायातः पम्पया कृतसंभाजनो निजया प्रियया सह सुखमुवास। नाडीजङ्घमुखेन नाटकरहस्यं एतदुपस्थाप्यते -

कालमेघ-महामोहे शापश्रुत्या निवारिते।

हृद्यां कमलिनीं विद्यां दिष्ट्या शिष्यो ममाप्तवान्।।

कमलिनीराजहंसमिदं प्रथमतयोपलब्धं नाटकं यत्र पशु-पक्षि-वनस्पतिप्रतीकानि मानवा अभिनयन्ति । पञ्चतन्त्रशैलीमनुगतमेतन्नाटकं मानवेतरद् वस्तुजातं मानवतां नयति, आध्यात्मिकं च भावप्रभावं भावयति । वर्षां तावदविद्यारूपां शरदं च विद्यारूपां चित्रयन् विद्यायाः विजयमातनोति कविः पूर्णसरस्वती । वेदान्तोपदेशायास्था रचना प्रसृता प्रतिभाति । व्याख्यानप्रायाः प्रलापा अभिनयव्यापार-परिपन्थिनोऽपि उपदेशप्रवणस्य संन्यासिनो लक्ष्यं पूरयन्त्येव । कतिपये प्रसङ्गाः कवेः लोकानुभवमहिमानं प्रकाशयन्ति। तथाहि -

रसयतु सुमनोगणः प्रकामं पिशुन-शुनां वदनैरदूषितानि।

कविभिरुपहृतानि दीप्तजिह्वै - रतिरसितानि हवींषि वाङ्मयानि॥

अत्र पिशुनाः श्वभिरुपमिताः कवेर्वीक्षानैपुणीं प्रकटयन्ति । स्वस्य वाणीं मङ्गल्यामाशासानोऽयं श्लाघते -

वाणी ममास्तु वरणीय-गुणौघ-वन्ध्या श्लाघ्यां तथापि विदुषां शिवमाश्रयन्ती।

दासी नृपस्य यदि दारपदे नियुक्ता देवीति सापि बहुमानपदं जनानाम्।।

शृङ्गारपूरस्यन्दिनि नाटकेऽस्मिन् मनोहारीणि निसर्ग-सुषमा-वर्णनानि मनोहरन्ति । यथा -

वियति विततिरेषा चक्रिणां चक्ररूपा

कलयति कलनादः कर्णयोः पूर्णपात्रम्।

दिनकर-कर-संगे दिग्वधूनां स्खलन्ती

विविध-मणि-निबद्धा मेखला-मालिकेव।। [७९]

यथा वा युद्धवर्णनम् -

उग्रैः पक्षाग्रपातैस्तृणमिव वियति भ्रामयन् समयोनिं

चण्डैस्तुण्डप्रहारैः सलिलमिव रुषा रूक्षमुत्क्षोभ्य चक्षुः।

पाद-त्रोटी-चपेटा-त्रुटित-कट-तट-स्फार-निर्यन्मदोत्सं

सादव्याकीर्णपादं पविरिव मलयं क्ष्मातले पातयामि॥[८०]

अपि शृङ्गारवर्णना-नैपुणी -

सिञ्चन्ती च्युतकङ्कणामुपहितां वाष्पाम्भसा दोर्लता-

मेकेनान्यतरं स्तनेन गुरुणा सम्पीडयन्ती स्तनम्।

पार्श्वेनैकतरेण हन्त शयिता पाथोजिनीसंस्तरे

चित्रस्थेव विभाव्यते मम सखी चित्तं गते प्रेयसि।।[८१]

क्वचिन्निसर्गशोभा सालंकारा सरसा वधूरिवाधिशेते पदशय्याम् -

शतमखमणिभूमिं संस्पृशन्ती कराग्रैः स्फुरति झरनिगूढा पद्मरागस्थलीयम्।

जलविहरणकाले दुग्धसिन्धौ निलीनं मधुमथमुपकण्ठे मार्गमाणेव लक्ष्मीः।।

पशुपक्षिणां संव्यवहारेण योरपीयदेशेषु प्राचीनकालतो नाटकानि प्रणीतानि । कामेडीनाट्यस्याविर्भावं विशदयता सोबेल महोदयेन प्रोक्तम् -

Comedy was an outgrowth of the comus or festive procession in honour of Dionysos in which performens disguised as birds and animals wound their way through the streets of the town to the temple.'[८२]

'बर्डस्' इत्याख्ये नाटके कविः पक्षिमुखेन सत्यं ख्यापयति -

Is there any one amongst you

O spectators who would lead

with the birds a life of pleasure ?

Let him come to us with speed

‘बर्डस्' नाटकस्य रचना ४१४ ख्रीष्टाब्दपूर्वम् अरिष्टाफेन्स-महोदयेन निष्पन्ना। जावादेशेऽपि पात्राणि पशु-पक्षिणां भूमिकायां तेषां वेषेणाभिनयन्ति ।[८३] कमलिनीराजहंसमपरं केरलीयं नाटकं सुबाला-वज्रतुण्डं सम्यक् स्मारयति।

सुबाला-वज्रतुण्डम[सम्पादयतु]

सुबालावज्रतुडस्य अस्य प्रणेता श्रीरामोऽज्ञातकालकुलवृत्तोऽपि हास्यरस-परायणकविः शोभते । नायको वज्रतुण्डो मूषक एव । तस्य पाणिगृहीती भार्या सुबाला रक्ताङ्गदेन सर्पण बलाद् हृता । वज्रतुण्डो मूषकाणां महतीं सेनां समाहृत्य रक्ताङ्गदमाक्रामति स्म, तं हत्वा स्वपत्नीं पुनर्लभते च ।[८४]

विटनिद्राभाणः[सम्पादयतु]

विटनिद्राभाणश्च तुर्दश्यां शताब्द्द्यां कोचीनराजाश्रये प्रणीतः । अत्र महोदयपुरस्य रामवर्मणस्तन्मातुर्लक्ष्म्याश्चोल्लेखं चर्चयतोऽस्य प्रणेतुर्नाम न । विद्यते । अत्रोपनिबद्धो विटो लावण्यमूर्ति कामपि स्तौति -

तलोदरि तवापाङ्गैः क्रीतमेतज्जगत्त्रयम्।

त्वां विना स तु कन्दर्पः कं दर्पमवलम्बते।।

भरतवाक्येन राजा रामवर्मा कृताशीः स्तूयते स्म -

यावत् खण्डेन्दुमौलिं श्रयति गिरिसुता यावदास्ते मुरारे-

वक्षस्थक्षीण-हार-द्युति-मणि-शबले देवता मङ्गलानाम्।

यावद् वक्त्रेषु मैत्रीमुपनयति गिरामीश्वरी पद्ययोने-

स्तावल्लक्ष्मीप्रसूतिः स्वयमवतु भुवं रामवर्मा नरेन्द्रः।।

चन्द्रकला[सम्पादयतु]

चतुरङ्किकायाः चन्द्रकलानाटिकायाः कविः महापात्रः विश्वनाथः कलिङ्गाधिपस्य सन्धिविग्रहिकः साहित्यदर्पणकर्तेति सुविदित एव । अस्याः नाटिकायाः प्रस्तावनामनुरुध्यास्य पिता चतुर्दशभाषाज्ञो महापण्डितश्चन्द्रशेखर आसीत् । परमवैष्णवो विश्वनाथः पितुः साहित्यशास्त्रमधीतवान् । राजकीयसेवायां स गजपतिः सान्धिविग्रहिकश्च बभूव।

कविराजकविसूक्तिरत्नाकर-संगीतविद्याविद्याधर-विद्यार्णवकर्णधारकलाविद्यामालतीमधुकर-प्रभृतिभिरुपाधिभि विश्वनाथः समलंकृतः । पाण्डित्यपरम्परानुबन्धने अस्य कुले नारायणदास उल्लासदासश्चन्द्रशेखर इति प्रमुखा राज्ञां मताः पण्डिताः पूर्वतरं बभूवुः । अन्यामपि प्रभावतीपरिणयनाटिकामसौ चकार, राघवविलासं महाकाव्यं कंसवधं चापि काव्यम् । साहित्यदर्पणे स्वग्रन्थानामुदाहरणानि नियोज्यासौ स्वप्रातिभज्योतिः स्तुवन् प्रतीयते । प्राकृतनिबद्धं कुवलयाश्वचरितं नाम काव्यमप्यस्य वैदुषीं तनोति । प्रशस्तिरत्नावल्यामसौ षोडशभाषाविचक्षणत्वं प्रकाशयति । इयं च नाटिका चतुर्दश्याः शताब्द्याश्चतुर्थे पादे रचिता। अत्र चन्द्रकला-चित्ररथदेवयोः प्रणयो विवाहश्च वर्णितौ।

भैरवानन्दम्[सम्पादयतु]

षडङ्कस्य भैरवानन्दस्यापूर्णप्राप्तस्य प्रणेता कविर्मणिको नेपालाधीश्वरस्य जयस्थितेः (१३८५-१३९२ ई०) संरक्षणमाश्रितवान् । मणिको राजवर्धनस्य पुत्रः नटेश्वरस्य शिष्यश्च बभूव । जयस्थितेः पुत्रस्य जयधर्ममल्लदेवस्य परिणयावसरे इदं प्रथममभिनीतम्। अत्र भैरवानन्दो नाम तान्त्रिको नायको मदनवर्तीं नाम नायिकां स्वीकर्तुं यतते । राज्ञः क्रमादित्यस्य भार्या नायिका ऋषिशापेन मानवीभता । तां प्राप्तुं बहुशः कृतप्रयत्नोऽपि नायको विफलः सन् दिवङ्गतो बभूव ।

पार्वतोपरिणयम्[सम्पादयतु]

पञ्चाङ्कमिदं नाटकं कालिदासकृतस्य कुमारसम्भवस्यैव कथानकमुपजीवति। अभिनयोपयोगिनो निर्देशान् ददद् धन्यतामर्हति नाट्यकृत् । वामनभट्टः पार्वती-परिणय-शृङ्गारभूषण-कनकलेखा-कल्याण-बाणासुरविजयरूपकचतुष्टयस्य कविः चतुर्दश्याः शताब्याः परस्मिन् पञ्चदश्याश्च पूर्वस्मिन् भागेऽस्थात् । शृगारभूषणस्य प्रस्तावनायामसावात्मानं स्तौति -

सौभाग्यस्य निधिः श्रुतस्य वसतिर्विद्यावधूनां वरो

लक्ष्म्याः केलिगृहं प्रसूतिभवनं शीलस्य कोर्तेः पदम्।

निःसामान्य-विकासया कवितया जागर्ति वत्सान्वयः

श्रीमान् वामनभट्ट-बाणसुकविः साहित्यचूडामणिः॥[८५]

कविना महाकाव्य-द्वयं नलाभ्युदयं रघुनाथचरितं च विरचितम् ।

शृंगारभूषणभाणः[सम्पादयतु]

ामनभट्टःस्य द्वितीयं नाटकमिदम्। ाणोऽयं श्रृंगारभूषणारव्यो वेशवाटवर्णनादिकमाकाशभाषितेन निरूपयन् कामपि प्रौढतां वहति । वसन्तोत्सवे विलासशेखरो नाम विटो वारविलासिनीमनङ्गमञ्जरीमभिनन्दयति।

कनकलेखाकल्याणम्[सम्पादयतु]

वामनभट्टस्य तृतीयं नाटकमिदम्। वामनभट्टबाणस्य चतुरङ्किकायां नाटिकायां कनकलेखायां वीरवर्मणो दुहितुः कनकलेखाया व्यासवर्मणा सह विवाहो वर्णितः । उभौ विद्याधरौ ऋषिशापान्मानवलोकमवतीर्णावास्ताम्।

बाणासुर-विजयम्[सम्पादयतु]

वामनभट्टस्य चतुर्थं नाटकमिदम्। नाटकेऽस्मिन् वामन आत्मानं प्रशंसति[८६] -

पद्ये पटीयान् किल कालिदासः गद्ये पटीयान् किल बाणभट्टः।

गद्ये च पद्ये च परं पटीयान् वत्सान्वयो वामनभट्टबाणः।।

यथानाम नाटकेऽस्मिन् उषानिरुद्धप्रणयपूर्वकं कृष्णेन बाणासुरस्य विजयो वर्णितः।

ज्योतिःप्रभाकल्याणम्[सम्पादयतु]

ज्योतिःप्रभाकल्याणनाटकस्य प्रणेता ब्रह्मसूरिर्नाट्याचार्यस्य हस्तिमल्लस्य वंश्यः प्रतिष्ठातिलकस्य त्रिवर्णाचारस्य च ग्रन्ययोः रचयितासीत् । स चतुर्दश्याः शताब्याः पञ्चदश्याश्चापरपूर्वभागयोराविर्बभूव । शान्तिनाथः पूर्वभवे विद्याधरोऽमिततेजा ज्योतिःप्रभां विवहति इति कथावस्तु गुणभद्रकृतादुत्तरपुराणाद् गृहीतम् । शान्तिनाथजन्ममहोत्सवे तस्य प्रथमाभिनय आयोजितः। विवाहार्हं वयः प्राप्तायै पुत्र्यै ज्योतिःप्रभायै वरमुपयुक्तं चिन्तयमानं वासुदेवं प्रति बलदेवो विद्याधरममिततेजसं नाम प्रास्तौषीत् । तयोविवाहकथा नाटके वर्णिता । नेदं नाटकं सम्पूर्णं हस्तगतम् । नाटकेऽस्मिन् प्रवेशकविष्कम्भकौ प्रागङ्केभ्यो मुद्रितानि । प्रतापरुद्रकल्याणवदत्रापि नाट्यशास्त्रीय-लक्ष्यपदानामुदाहरणानि प्रस्तावितानि।

गोरक्षविजयम्[सम्पादयतु]

कीर्तिनिककोटिकं प्रेक्षणकमिदं गोरक्षविजयं (कीर्तनविरहितं) विद्यापतिना शिवसिंह-राजेन (१४१२-१४१६ ई०) सभाजितेन रचितम्। संस्कृतप्राकृतबद्धसंवादमयं मैथिलीभाषाबद्धः पञ्चविंशत्या गीतानां समवायेन नाटकमिदं शोभते । मैथिली-गीतप्राधान्येऽपि नेदं सजातीयं वा नाटकं मैथिलीरूपकमिति-संज्ञापयितुं शक्यते, यतो हि नाम प्राकृतांशबहुलमपि संस्कृतनाटकं प्राकृतं न भवति।[८७]

अत्र कथानुसारेण कदलीपुरे भूमिपतीभूतं भोगलिप्तं मत्स्येन्द्रनाथमन्विष्यन्तो यौगिनौ गोरक्षनाथः काननियश्च राजसभाद्वारि प्रवेशं याचमानौ दौवारिकेण निषिद्धौ । आवां राज्ञः परिचितौ इति तेषां परिचयोक्ति श्रुत्वा महामन्त्रिणा दत्ताभ्यनुज्ञौ तौ अन्तः प्रविश्य मत्स्येन्द्रं रमणीभिरात्मानं विनोदयन्तमपश्यताम्। राजाज्ञया तौ लास्यं च नृत्तं प्रदर्शयामासतुः । नृत्तेनाद्भुतेन प्रीतोऽपि राजा ‘एभिरेव राजकुमारो बौद्धनाथो हृत' इति पिशुनैनवेदितस्ताभ्यां प्राणदण्डं घोषयामास । तदनु नटाश्च राजकुमारं पुनरुज्जीव्य राजानं प्रसादयामासुः।

प्रसन्नो राजाभुतव्यवसायेषु तेषु गोरक्षनाथं प्रत्यभिजानात् । अथ मत्स्येन्द्रो योगपथत्यागेन कृतां हानिं परिगणय्यापि युवतीभिः प्रसाधितसुकुमाराङ्गरमणीयाभिरनुनीतो न सहसाशक्नोद् विलासान् मोक्तुम् । अन्ते च स्वपुत्रमपि योगिनां सधर्मामणं दृष्ट्वा कथमपि राजपदमत्यजत् । एतदर्थं मत्स्येन्द्रो गोरक्षेण धिक्कृतः। “अद्यापि वनिताजनानुरागो न त्यजति' इति।

सोमवल्लियोगानन्दम्[सम्पादयतु]

सोमवल्लियोगानन्दमिति प्रहसनस्य प्रणेता अरुणगिरिनाथः प्रथमः डिण्डिमद्वितीय इति पर्यायः[८८] विजयनगरस्य प्रौढरायस्य देवराय-द्वितीयस्य वा (१४२२-१४४८ ई०) राजसभामलङ्कृतवान् । अत्र नायको योगानन्दः परिव्राजकः सन्नपि सोमवल्लीति नाम कुलटामुदूढां स्त्रियं प्रणयपाशेनाबद्धं समुत्सुकोदर्शितः ।[८९]

नरकासुर-विजयम्[सम्पादयतु]

नरकासुर-विजयं व्यायोगवर्गीयं रूपकं धर्मसूरेधर्मसुधी-धर्मभट्टोभयापराभिधस्य रचना। संन्यासाश्रममधिगम्यासौ रामानन्दसरस्वतीति गोविन्दानन्दसरस्वतीति चाभिख्ये दधौ । अयं हि पर्वतनाथस्य पुत्रः कृष्णायास्तटे पेदपुल्लिनरुपत्तने जातः । बहुकालं स वाराणसीमधिवसति स्म । साहित्य-धुरीणः स वेदान्तादिपारगो बभूव । अस्य वंश्याः कुटुम्बिनश्चापि लब्धयशसः आचार्या अभूवन् । धर्मसूरेः रचनाकालः पञ्चदश्याः शताब्द्द्याः प्रथमः पादो निश्चीयते । अन्येऽप्यस्य सप्तग्रन्थाः सन्तीति विविधविषयनैपुण्यमस्य प्रकटयन्ति । तथा हि -

१ - कंसवधरूपकम् । २ — सूर्यशतकम् । ३- कृष्णस्तुतिः । ४ - बालभागवतं । ५-रत्नप्रभा शांकरभाष्यटीका।। ६- हंससन्देशः प्राकृतबद्धं दूतकाव्यम् । ७-साहित्यरत्नाकरम्।

नरकासुरविजयव्यायोगस्यास्य प्रथमोऽभिनयः शरदुत्सवे प्रातर्विद्वत्परिषदा आयोजितः । कविः नास्य व्यायोगस्य भूमिकां विदधाति । यथा -

विख्यातेऽजनि पर्वतेश्वरसुधीः श्रीवारणस्यान्वये

षष्णां दर्शनकारिणां सुमनसामेकात्मलीलायितः।

धर्माख्येन मनीषिणा विरचितस्तत्सूनुना तादृशो

व्यायोगो रसजृम्भितोऽस्ति नरकध्वंसाभिधो नूतनः।।[९०]

अस्मिन् व्यायोगे प्राग्ज्योतिषपुरस्य राजा नरकासुरः कृष्णेन हन्यते, यतो हि नाम स देवानपि पीडयति स्म ।

कवितालहरीप्रोह्यमानमतिर्नाट्यसंविधामतिवर्तते धर्मसूरिः । वर्णनावर्तेषु सामाजिकान् निमज्ज्य कृतकृत्यमन्योऽसौ कार्यव्यापारान् तृणाय मत्वा सानुप्राससंवादच्छटामुद्घाटयति। यथा -

टङ्कारैर्धनुषो हरेः श्रुतिपुटातङ्कावहैर्विद्विषां

भांकारैर्भुवनक्षयाम्बुद-रवाशङ्कावहैर्दुन्दुभेः।

झंकारैः करिणां समग्रसमराहंकारिणां रक्षसां

हुकारैरपि मांसलः कलकलः संकाशते साम्प्रतम्।।[९१]

विरूपाक्षः[सम्पादयतु]

विरूपाक्षः विजयनगराधिपतिः स्वयम् उन्मत्तराघवं नाम प्रेक्षणकं रचयित्वा यशो लेभे । इदं तृतीयमुन्मत्तराघवम् । प्रथमं तावद् हेमचन्द्रस्य काव्यानुशासने निर्दष्टमात्रं नाद्य लभ्यते । द्वितीयं भास्करस्य कृतिः। विरूपाक्षस्यापरं नारायणविलासं नाम नाटकं मद्रासस्य हस्तलिखितग्रन्थागारे समास्ते ।

कवीनां विदुषां चाश्रयभूताः स्वयमपि कवयो विद्वांसश्च विख्याता विजयनगरस्य राजानः । तेष्वन्यतमो विरूपाक्षः पंचदशशताब्द्यामुदियाय । महाविजेता कुशलश्च शासकोऽसौ सिंहलान् विजित्य कर्णाट-तुण्डीर-चोलपाण्ड्यादीन् वशे कृत्वा तुण्डीरस्थं मरकतपुरं राजधानीमधिवसति स्म।

उन्मत्तराघवम्[सम्पादयतु]

उन्मत्तराघवस्य प्रथमोऽभिनयोऽरुणाचले तिरुवण्णामलय-स्थाने शिवरथोत्सवावसरे कृत आसीत् । वाल्मीकि-रामायणोपजीव्या कथात्र किञ्चित् परिवर्त्य योजिता सीताविरहोन्मत्तं रामं प्रलपन्तं चित्रयति । रावणः लक्ष्मणेनैव हते रामः सीतया पुनः संगच्छत इत्यन्तमस्य कथानकम् । यथा स्वयमेव निदर्शति विरूपाक्षः -

वालिन्युन्मूलिते द्राक् प्रमुदितमनसः सूर्यपुत्रस्य साह्याद्

बद्धे सेतौ कपीन्द्रैर्लवणजलनिधिं लक्ष्मणो लङ्घयित्वा।

हत्वा पौलस्त्यमाजौ सह रजनिचरैः सेन्द्रजित्कुम्भकर्णं

देवीमादाय भूयस्तव सविधमसावागतः पुष्पकेण॥[९२]

लक्ष्मणेनैव लंका जिता, रामस्तु समुद्रं न ततार न वा रावणं जघान। उन्मादप्रधानेन हि नायकेनात्र भवितव्यं नामसार्थक्याय । कोऽयमुन्मादो नाम ? उत्प्रेक्षाकारितोन्मादः सन्निपातग्रहादिभिः । अथवा यथा सिंहभूपालः - अतस्मिंस्तदिति भ्रान्तिरुन्मादो विरहोद्भवः।

इत्येवं प्रेक्षणकेऽत्र विरहतप्तो राम एवोन्मत्तो लक्ष्यते । शृङ्गारप्रधानेयं रचनेति नात्र विचारमर्हति । हेमचन्द्र उन्मादं लक्षयन् अकारणं स्मितं, रुदितं, गीतं, नृत्यं, प्रधावितं, प्रलापादिकं च समावेशयति । तदनुरूपैव रचनात्र दृश्यते । किन्तु सत्यप्युन्मादे रामो निसर्गं प्रति सचेतन एव लपति । नैव मुधा प्रलापांस्तनोति । न वा मूढ इव विचेष्टते । हंसमिथुनं दृष्ट्वा वदति -

अन्योन्य-दत्त - मृदु - जग्ध-मृणाल-भङ्ग-

मुत्पक्ष्मल - प्रसृत - पक्ष - कृताङ्कपालि ।

कन्दर्प - केलि - कल - कूजित-कान्तमेत -

दाभाति हंसमथुनं सविलासमग्रे।।[९३]

तत्क्षणमेव जातसीतास्मरणोऽसौ निसर्गव्याप्तां प्रियां पश्यन् ब्रूते -

अम्भोजं वदनेन सौरभभृता, बिम्बाधरच्छायया

बन्धूकं, कुमुदं स्मितेन, शफरव्यावर्तनं चक्षुषा।

आलापैः शुकजल्पितं स्तनतटीहारेण तारावलिं

सा वेलास्वपि वार्षिकीषु युवयोर्निर्माय तुष्टिं व्यधात्।।[९४]

हंसयूनोरेव तोषाय सीता सृष्टिमातनोन्न तु रामस्य । यथा च कालिदासो मेघदूते -

श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं

वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान्।

उत्पश्यामि प्रतनुषु नदोवोचिषु भ्रूविलासान्

हन्तैकस्थं क्वचिदपि न ते सुभ्रु सादृश्यमस्ति।।

इतिच्छायां गृह्यणन्नपि कविर्नवामेत योजनां नवमेव प्रसङ्गं समाकलय्यावर्जयति मनः । अनेकत्र कालिदासं भवभूतिं चानुहरन्ती शैली कयापि वैदग्ध्यभङ्ग्या प्रौढिमानं भजते । निसर्गे सूक्ष्मेक्षिकापात एव साफल्यस्य हेतुः ।

यथा -

इयं हि नवमालिका तरुरयं नवश्चम्पको

यथोचितमिमावुभौ दयितया कृतौ दम्पती।

मिथः सति समागमे मधुमिषाद् वधूः स्वेदिनी

पतिः पुलकजालकं वहति कोरकव्याजतः॥

सीतायाः कामपि नवामेवाभिख्यां रामो गायति -

तस्या गण्डतले मया विलिखिता पत्रावली धातुना

वासन्ती पुलके सति स्मितवतीं सा वञ्चयन्ती सखीम्।

सोता - निर्झर - मारुतानपदिशन्त्यभ्यर्ण-रत्नस्थले

संक्रान्तप्रतिमं निरीक्ष्य च मुखं स्विन्नं भृशं लज्जिता।।[९५]

अत्र वासन्ती तावदुत्तररामचरितादेवेह नीता सीताया उत्तमनायिकात्वमधिकृत्य प्रत्यग्रतां दधाति । भवभूतेर्गजेन्द्रलीला नवया छटया संयुनक्ति कविः -

करधृत - नलिनी- दलातपत्रो मृदु-तरलीकृत-कर्ण-तालवृन्तः।

चलदलिवृन्द-चारु-गीत-चाटुः प्रियकरिणीमनुवर्तते गजेन्द्रः।।[९६]

ग्रीवाभङ्गाभिराममित्यादि कालिदासीयं पद्यमनुहरन्नपि कविः स्वप्रतिभया नव्यतामादधाति । यथा -

पुरस्तादाधावत्यतिजवमुदस्ताग्रचरणो विवृत्तग्रीवः सन्नसकृदयमालोकयति माम्।

क्षणाद् दृश्यः पार्श्वे निवसति करग्राह्य इव मे क्षणं भूयो दृष्टेरपि न विषयं याति हरिणः ॥[९७]

प्रसङ्गान्तरमेवात्र जयति । शाकुन्तले हि मृगो दुष्यन्ताद् भयं नाटयति । अत्र तु तस्य नैसर्गिकी गतिश्छलयति रामं स्वर्णमृगविग्रहेण । यथा वा तस्मिन्नेव मारीचप्रसङ्गे -

मरकतरुचा जघाकाण्डेन शाद्वलयन् महीं

कुवलयमयीराशाः कुर्वन्नपाङ्ग-विवर्तनैः।

गगनमखिलं गात्रोद्योतैः सविद्युदिवावहन्

कनकहरिणः कोऽयं मेरोः किशोर इवागतः।।[९८]

नारायणविलासम्[सम्पादयतु]

पञ्चात्मके नारायणविलासमिति नाटके यथानाम नारायणलीला वर्णिता । नाटकेऽस्मिन् कविरयं कर्णाट-चोल-पाण्ड्य-प्रान्तानां शासकः आसीदिति वर्णितम् । अथ च तेन सिंहलद्वीपे विजयश्रीः स्थापिता।[९९]

सुभद्रापरिणयनादीनि[सम्पादयतु]

राजनि हरिवर्मणि कलचुरिवंश्ये रत्नपुरं शासति तदादेशानुसारेण रामदेवव्यासः सुभद्रापरिणयनमरचयत् । अस्य कथानकं महाभारतादेगृहीतं सुपरिष्कृतञ्च। रामदेवव्यासस्यच्छाया नाट्यानि रामदेवो व्यासस्त्रीणि रूपकाणि सुभद्रापरिणयनम् रामाभ्युदयम्, पाण्डवाभ्युदयम् च प्रणीय स्वयमेव तानिच्छायानाट्यानि कथयति । एतानि छायानाट्यमिति दूताङ्गदप्रस्तावे विवेचितम् । असौ कविर्मध्यप्रदेशस्य रानपुराञ्चले (रायपुर) पञ्चदश्याः शताब्द्याः पूर्वार्धे स्थितिं लेभे।

पाण्डवाभ्युदयम्[सम्पादयतु]

अङ्कद्वयात्मकं पाण्डवाभ्युदयं नामरूपकं रामदेवव्यासेन हरिवर्मपौत्रं रणमल्लदेवमाश्रयता रचितम्। द्रौपद्या आजन्मन आ च स्वयंवरादत्र कथोपनिबद्धा।

रामाभ्युदयम्[सम्पादयतु]

रामदेवस्य मेरुमहाराजाश्रयं गतस्य रामाभ्युदयं रूपकं लङ्काविजयमारभ्य रामस्यायोध्यां प्रत्यागमनान्तां कथां निबध्नाति । इदमप्यङ्कद्वयात्मकमेव ।

चन्द्रिका-कलापीडम्[सम्पादयतु]

चन्द्रिकाकलापीडस्य लेखको रामवर्मा केरलदेशे कोलराज्यस्याधिपतिरासीत् । तस्य रचनाकालः १४२३ खीष्टाब्दतः १४४३ ख्रीष्टाब्दपर्यन्तो बभूव । १४४३ ख्रीष्टाब्दे स दिवङ्गतः । तस्य मामकः केरलवर्मा कोलत्तुनाडस्य राजा बभूव १४२३ ख्रीष्टाब्दे । तेन मामकेनादिष्टो रामवर्मा भारतसंग्रह महाकाव्यं विरचितवान्।[१००]

चन्द्रिकाकलापीडस्य प्रस्तावनानुसारेण महाराजस्य रविवर्मणः कनीयसो मूर्तस्येव कोलभूभागधेयस्य केरलवर्मणः सहोदरीसंजातेन रामवर्माभिधेयेन विरचितं शृङ्गाररसभूयिष्ठं चन्द्रिकाकलापीडं नाम नाटकम् ।

पञ्चाङ्कस्य नाटकस्य चन्द्रिकाकलापीडस्य नायकः काशीवासी राजा कन्दर्पशेखरो नायिका च कलिङ्गराजकुमारी चन्द्रिका स्तः । अस्य प्रथमाभिनयः पेरिन-चेल्लूरपुरस्य नीलकण्ठायतने चैत्रमहोत्सवे आयोजितः । मालविकाग्निमित्रमुपजीव्य नाटकमिदं प्ररूपितं प्रतिभाति । सरलसरला संस्कृतभाषात्र विलसति । यथा भरतवाक्यम् -

देवि प्रसन्नहृदया सततं मयि स्याः स्वाचारमग्नमनसस्सकलाः प्रजाः स्युः।

ब्रह्मावलोकरसिका मुनयो भवन्तु राज्ये वसेत् स्थिरतरानुपमा च लक्ष्मीः।।

शमामृतम्[सम्पादयतु]

शमामृतस्य कर्ता नेमिनाथ जैनानामितिहासपुरुषं नेमिनाथमिह नायके वर्णयति। अस्य समयस्तावत् पञ्चशती शताब्दी निश्चीयते । इदमेका रूपकमहिंसाधर्ममुपदिशति। उग्रसेनस्य कन्यया राजीमत्या सह नेमिनाथस्य विवाहो भविष्यतीति नायकौ पूर्वरागान्दोलितचित्तौ स्तः । सर्वे परस्परेण स्पृहणीयशोभस्य युगलस्य प्रशंसां गायन्ति । विवाहोत्सवे वरयात्रिणां भोजनार्थं बद्धाः पशवः। अस्मिन् रूपके मानवतां दधतः पशवो नेमिनाथं प्रबोधयन्ति । यथा, “ततः प्रविशन्ति पशवः । तत्रैको हरिणः

हरिणः - (नेमिमवलोकयन् स्वग्रीवया हरिणीग्रीवां पिधाय सभयौत्सुक्यं ब्रूते)

मा प्रहर मा प्रहर एतां मम हृदयहारिणीं हरिणीम्। स्वामिन्नद्य मरणादपि दुस्सहः प्रियतमाविरहः। हरिणी एष प्रसन्नवदनः त्रिभुवनस्वामी अकारणबन्धुः । ततो विज्ञापय हे वल्लभ रक्षार्थं सर्वजीवानाम्। हरिणः (मुखर्वीकृत्य) निर्झरणनीरपानमरण्यतृणभक्षणं च वनवासः । अस्माकं निरपराधानां जीवितं रक्ष प्रभो । (इति सर्वे पशवः पूत्कुर्वन्ति) छायानाटकमिदं सुप्रथितं यतो हि नामात्र पशुभूमिकायां मानवा अभिनयन्ति । लोकधर्मनाट्यमिदं लोकप्रवृत्तेरनुकरणभूयस्त्वात्।[१०१]

वसुमती-मानविक्रम्[सम्पादयतु]

वसुमतीमानविक्रमस्य सप्ताङ्कस्य नाटकस्य प्रणेता केरलीयो दामोदरः भट्टो मल्लिकामारुतस्य रचयितुरुद्दण्डस्य समसामयिकः पञ्चदश्याः शताब्याः अपरभागे बभूव । प्रस्तावनायामसावात्मानं वर्णयति - "अस्ति दक्षिणापथे केरलेषु साक्षादशोकपुरेश्वरो नाम भगवान् पिनाकपाणिः।

स्त्यद्रिकन्यापति-पादपीठ-विचेष्टमानाशय-पुण्डरीकः।

नारायणाचार्य इति प्ररूढिं प्राप्तः परां प्राज्ञधियां पुरोगः।।

तस्य चरणारविन्द-युगली-गलित-रेणु-परमाणु-पात-पूत - चेतनासारः सारस्वतनिधिना साक्षादद्रि-समुद्र-नायकेनैवानेन बाल्यादेवारभ्य वैपश्चितीं वृत्तिमधिकृत्य परां काष्ठामारोपितः अयं कविरसाधारणमहि मैव।'

इत्येतेनानुमीयते यदस्य दामोदरस्य गुरुर्नारायणाचार्य आसीत् । कालीकटे मानविक्रममाश्रित्य स्थितोऽयं द्राविडमुद्दण्डं (मल्लिकामारुतस्य प्रणेतारं) प्रतिद्वन्द्विनं पराजित्य केरलानविजयान प्रतिष्ठापयति स्म । जीर्णो भवन्नेष संन्यासेन त्यक्तसन्ध्योपासनादिकर्मा संवृत्तो वदति स्म -

हृदाकाशे चिदादित्यः सदा भाति निरन्तरम् ।

उदयास्तमयौ नस्तः कथं सन्ध्यामुपास्महे॥

अस्य प्रहेलिका अप्येनं मूर्धाभिषिक्तं कुर्वन्ति । यथा -

कः खे चरति, का रम्या, किं जप्यं, किं च भूषणम्।

को वन्द्यः, कीदृशी लङ्का वीरमर्कट-कम्पिता।।

अत्र विः, रमा, ऋक्, कटकम्, पिता =वीरमटर्ककम्पितेति समाधान चतुर्थे पादे दत्तं विद्यते ।।

नाट्यकथानुसारेण मानविक्रमो महाराजो मन्त्रिणः कन्यां वसुमतीं स्वप्ने दृष्ट्वा प्रणयासक्तो बभूव । वसुमत्यपि महाराजं प्रति प्रणयाकुला जाता। महिषी तद् विज्ञायात्मघातकमतिमात्मानं कुर्वन्ती कथंकथमपि राज्ञानुनीता जीवितुमुदसहत । अन्ते च वसुमत्या मानविक्रमस्य विवाहः समपद्यत।

वृषभानुजा[सम्पादयतु]

वृषभानुजायाः नाटिकायाश्चतुरङ्ककायाः कर्ता मथुरादासः पञ्चदशीं शताब्दीमलंचकार । अयं चोपप्रयागं सुवर्णशेखरमध्युवास। यथानाम नाटिकायां राधाकृष्णयोः प्रणय-लीला विलसति । कृष्णस्य पाणौ कस्याश्चिच्चित्रं वीक्ष्य वृषभानुजा कुपिता सती परिणामे स्वकीयमेव चित्रं विज्ञाय मानं मुञ्चति । इत्येवं छायानाट्यत्वमिदं विलोक्यते । पेशलप्रणयकेलिमनुहरन्ती शैली सर्वथा वैदर्भीगुणान् दधाति । अत्र गीतगोविन्दस्य प्रभावः परिलक्ष्यते ।

मुरारिविजयम्[सम्पादयतु]

पञ्चाङ्कस्य मुरारिविजयनाटकस्य प्रणयनं जीवरामो याज्ञिकः १४८५ ई० वर्षेऽकार्षीत् । श्रीमद्भागवतस्य दशमे स्कन्धे वर्णितः कृष्णस्य गोपीभिः विलास एव विषयः। नृसिंहपुत्रेण विश्वरूपेण कृष्णभट्टेनापि मुरारिविजयं नाटकं रचितम् ।

दानकेलिकौमुदी[सम्पादयतु]

दानकेलिकौमुदीति भाणिकायाः रचयिता रूपगोस्वामी जन्मना राजवंश्योऽपि कृष्णचैतन्यस्य सम्प्रदाये दीक्षितो भारते वैष्णवसंस्कृतेः उन्नायकः पंचदशषोडशशताब्द्योर्मध्ये स्वरचनाभिः काव्यप्रभां प्राकाशयत् । तस्याधिकतराः रचनाः षोडशशताब्द्यां विरचिताः । अस्यां भाणिकायां कृष्णलीलाचित्रणं सविशेषं वर्तते। दानकेलिकौमुदी १४६५ ख्रीष्टाब्दे प्रणीतेति निम्नलिखितश्लोकेन प्रमाण्यते -

गते मनुशते शाके चन्द्रस्वरसमन्विते।

नन्दीश्वरे निवसता भाणिकेयं विनिमिता।। - दानकेलिकौमुदी-पुष्पिका

सम्बद्धलेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ६.२०
  2. ७.१७
  3. ६.१८
  4. ४५
  5. ४६
  6. १.७
  7. ३०
  8. ३२
  9. चीनदेशे कबुकीनाटकेषु अभिनयस्य परिणतिबिन्दौ नायको मूर्तिवत् प्रतिभातः । तथाहि - In Kabuki plays, the climax. of a piece of acting is accentuated by an impressive pose in which the actor becomes statuelike with his eyes wide open. Mie is the name of this pose which heightens aesthetic appeal. Sobel : The Theatre Handbook, Page 30.
  10. ४.४८
  11. १.६
  12. १.१६
  13. उल्लाघ० १.८
  14. सुरथोत्सव १५.४०
  15. ६.१०
  16. १.२५
  17. ४०
  18. ५४
  19. ८६
  20. १.१५-१६
  21. १.२५
  22. ३.६
  23. २.१४
  24. अस्योदाहरणम् Brutus by Howard Payne वर्तते ।
  25. कादम्बरीकल्याणस्य प्रकाशनं मद्रासनगरतः १९३६ ख्रीष्टाब्दे वी० कुफ्णमाचार्येण सम्पादितमभवत् ।
  26. मधुराविजय १.१६
  27. १.१७
  28. १.२९
  29. १.६६
  30. ४.२५
  31. १.६४
  32. १.९३
  33. २.८०
  34. २२
  35. ६४
  36. ४.१८
  37. ६.२०
  38. ७.१७
  39. ६.१८
  40. ४५
  41. ४६
  42. १.७
  43. ३०
  44. ३२
  45. चीनदेशे कबुकीनाटकेषु अभिनयस्य परिणतिबिन्दौ नायको मूर्तिवत् प्रतिभातः । तथाहि - In Kabuki plays, the climax. of a piece of acting is accentuated by an impressive pose in which the actor becomes statuelike with his eyes wide open. Mie is the name of this pose which heightens aesthetic appeal. Sobel : The Theatre Handbook, Page 30.
  46. ४.४८
  47. १.६
  48. १.१६
  49. उल्लाघ० १.८
  50. सुरथोत्सव १५.४०
  51. ६.१०
  52. १.२५
  53. ४०
  54. ५४
  55. ८६
  56. १.१५-१६
  57. १.२५
  58. ३.६
  59. २.१४
  60. अस्योदाहरणम् Brutus by Howard Payne वर्तते ।
  61. कादम्बरीकल्याणस्य प्रकाशनं मद्रासनगरतः १९३६ ख्रीष्टाब्दे वी० कुफ्णमाचार्येण सम्पादितमभवत् ।
  62. मधुराविजय १.१६
  63. १.१७
  64. १.२९
  65. १.६६
  66. ४.२५
  67. १.६४
  68. १.९३
  69. २.८०
  70. २२
  71. ६४
  72. ४.१८
  73. २.१६
  74. २.२८
  75. १.३१
  76. The Theatre Handbook p. 244
  77. The Theatre the East p. 210 ley Faubion Bowers.
  78. पुस्तकमिदं प्रकाशित लेखकस्य सविधे वर्तते ।
  79. नाटकमिदम् अडयार पुस्तकालये वर्तते ।
  80. भरतेन प्रमाणितम् - अथवा छन्दतः कार्या देशभाषाप्रयोक्तृभिः। नानादेशसमूत्यं हि काव्यं भवति नाटके॥ ना० शा० १७.४८
  81. कवेः विशेषणं प्रस्तावनायमुल्लिखितमधोविधं वर्तते - मल्लालरायकटककवि-कुलगर्वपर्वतपविः
  82. प्रचण्डतरकाहलघण्टाडिण्डिमादि-रचितघोषणः । नाटकमिदं हस्तलिखितं Triennial Cat, of Skt. Mss. in Oriental library, Madras, Vol 1-VII भागे चर्चितम् ।
  83. १३
  84. ४८
  85. ८९
  86. ७२
  87. ७४
  88. ६१
  89. ६२
  90. १६
  91. ११
  92. M. Krishnamacharjar : Hist. of Classical Sanskrit lit. P. 217
  93. महाकाव्यमिदं केरलानां शासकीयसंस्कृत हु० लि० पुस्तकालये ४४८३ संख्यकं विद्यते ।
  94. लोकधर्मित्वमधोलिखितसमाचारवृत्ते उक्तम् । Teheran Feb 22 (Reuter)-A Gunman who opened fire on a Teheran street found an original way to conceal his position to disguise himself as a donkey according to the newspaper Kayhan. Eyewitnesses said shooting broke out in South Teheran killing one youth but no body could pinpoint the source. “I saw people running. I heard the shooting but I could not see the Gunman. Then I noticed a donkey in the middle of the road. It shook very time a shot was fired.'' A small child walked up to the donkey and said the animal as shooting. People rushed to the donkey, discovered a zip in || the skin, opened it and found the Gunman. The Hindustan Times dated, 22 Fel 1979.
"https://sa.wikipedia.org/w/index.php?title=मध्यकालीननाटकानि&oldid=439249" इत्यस्माद् प्रतिप्राप्तम्