विश्वनाथः (आलङ्कारिकः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


विश्वनाथः (Vishwanatha) संस्कृतस्य एकः महान् अलङ्कारिकः आसीत् । एतस्य पितुः नाम चन्द्रशेखरः । एतस्य पितामह- प्रपितामहोदयः सर्वेऽपि आलङ्कारिकाः आसन् । एतेन मम्मटरुय्यकानन्तरं अलङ्कार शास्त्रेतिहासे विश्वनाथस्य स्थानमस्ति । संस्कृतप्राकृतभाषा तिरिक्तमनेकेषां भाषाणां विदुषा विश्वनाथेन कविजागत्यपि ख्यातिरर्जिता । आलंकारिकापेक्षया विश्वनाथः श्रेष्ठः कविरय्पासीत् । उत्कलवशोत्पत्रः कवेश्चन्द्रशेखरस्यात्मज आसीत कविराजः । यथा स्वयमेव संकेतितम् –

श्रीचन्द्रशेखरमहाकविन्द्रसूनुः श्रीनारायणोऽस्य प्रपितामह आसीत् यथा – तत् प्राणत्वं च वृध्दिपितामह श्रीनारायणपादैरुक्तम् परं काव्यप्रकाशस्य भूमिकायां वामनाचार्येण काव्यप्रकाशदर्पणटीकायां श्रीनारायणः कविराजस्य पितामहः संकेतितः । यथा – “यदाहु श्री कलिङ्गभूमण्डलाखण्डल महाराजाधिराज श्री नरसिंहदेव सभायां धर्मदत्तं स्थगयन्तः सकत्नहृदय गोष्ठी –गरिष्ठ कविपण्डितास्मद्पितामह श्री नारायणदासपादाः ।

अनेन प्रतीयते यत् विश्वनाथस्य पितामहः नारायणदासः महाराजनरसिंहदेवस्य सभायां बहुसम्मानितः आसीत् । विश्वनाथेन स्वं स्वजनकं च सन्धिविग्रहकौ संकेतितम् । अतः पितापुत्रौ कलिङ्गदेशस्य राजमन्त्रिणौ स्याताम् । काव्यप्रकाशस्य दीपिकाटीकाकारः चण्डीदत्तोऽस्य पितामहस्यानुजः आसीत् । कविराज उत्कलनिवासी प्रतीयते । यतोहि अनेन काव्यप्रकाशषृर्पणे ‘चिंकु’ शब्दस्य पर्याय उत्कलदेश जो निश्चीयते कविराजः । ग्रन्थकृता कुत्रापि रचनाकालसम्बन्धे न संकेतितम् । परमुध्दतवाकान्यधिकृत्य अस्यपूर्वसीमा निश्चीयते । विश्वनाथेन रुय्यककृतालङ्कारसर्वस्वग्रन्थात् अनेकान्युदाहरणानि अक्षरशः समुध्दतानि साहित्यर्पणे । यथा –विकल्पालंकारस्योदाहरणम्- ‘नमन्तु शिरांसि धनूंषि वा’ एवमेव रुय्यकस्य । दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मिदूये । उघत्कठोरपुलकाङ्करकण्टकाग्रैयदि खिघसे तव पदं ननु सा व्यथामे । पद्यमिदं रुपकालङ्कारत्वेन गृहीतं कविराजेन । यथा दासे कृतागसि रुपकमेव न तु परिणामः । श्रीहर्षस्य पद्यानि उदाहरणतया गृहीतानि ।

धन्यासि वैदर्भि गुणैरुदारैः इत्यप्रस्तुतप्रशंसाया उदाहरणम् । एवमेवान्यानि हर्षरचितपद्यानि साहित्यदर्पणे उदाहरणतया गृहीतानि दृश्यन्ते । द्वादशशताब्दे कये जयदेवस्य प्रसन्नराघवात् पद्यमेकं अर्थान्तरसं क्रमित वाच्यध्वनेः उदाहरणरुपेण उद्धृतम् ।

यथा

कदली कदली करभः कविराजकरः कविराजकरः इत्यादिः ।

एतदतिरिक्तं साहित्यदर्पणे –

सन्धौ सर्वस्वहरणं विग्रहे प्राणनिग्रहः ।
अलावद्दीननृपतौ न सन्धिर्नच विग्रहः ॥

पद्येऽस्मिन् अल्लावुद्दीननृतस्योल्लेखोऽस्ति । यस्य मृत्युकालः १३१६ ईसवी आस्ते । अनेन प्रतीयते यत् कविराजः रुय्यकात् (११५०ई०) नैषधकारश्रीहर्शात् (द्वादशशताब्दी) जयदेवात् अलावद्दीननृपाच्च परवर्ती आसीत् ।

उत्तरसीमा विषयेऽपि सन्ति कानिचिन्निदर्शनानि । पूर्व गोविन्दठक्कुरस्य प्रदीपे विश्वनाथस्य प्रकाशमधिकृतालोचनायाः प्रत्यालोचना कृता दृश्यते । यस्यकालः १६०० तमे रिव्रष्टाब्दे स्वीक्रियते । कुमारस्वामिना रत्नार्पणे विश्वनाथस्य नामोल्लेखः कृतः । यस्य कालः पंचदश शताब्द्या मासीत् । अतो विश्वनाथः पंचदशशताब्द्यद्व पूर्ववर्ती खलु । अनेन प्रकारेण कृते विचारे विश्वनाथस्य स्थिति कालः त्रयोदशशता०द्याः उत्तरार्धे चतुर्दशशताब्द्याः पूर्वाध्दे निश्चीयते समालोचकैः ।

रचना[सम्पादयतु]

आलङ्कारिकापेक्षया श्रेष्ठः कविरपि विश्वनाथ आसीत् । अनेकेषा भाषाणां च वेत्ता निश्चयेन कविराजः । अत एव च स षोडशभाषा वारिविलासिनोभुजङ्गः कथ्यते । अनेनानेके ग्रन्थाः लिखिताः यथाच ते

  1. राघवविलासः
  2. कुवलयाश्वचरितम्
  3. काव्यप्रकाशदर्पणम्
  4. साहित्यदर्पणम्
  5. प्रभावतीप्रणयनाटिका
  6. चन्द्रकला नाटकम्
  7. नरसिंहविजयकाव्यम्

सम्बद्धाः लेखाः[सम्पादयतु]