चौहानवंशः
चाहमानसाम्राज्यम् चौहानसाम्राज्यम् | ||||
| ||||
सम्पूर्णसपादलक्षसाम्राज्यस्य विस्तारः | ||||
राजधानी | शाकम्भरी, (आधुनिके काले साम्भर), अजयमेरुः (आधुनिके काले अजमेर) | |||
भाषाः | भाषाः (उदा. संस्कृतम्, प्राकृत्, मारवाडी) | |||
धर्मः | हिन्दुः | |||
शासनम् | मनुस्मृत्यादीनां नीतिशास्त्राणाम् आधारेण शासनम् | |||
सम्राट् (सपादलक्षेश्वरः) | ||||
- ई. ५३२ | चाहमानः | |||
- ई. ६५१ | वासुदेवः | |||
- ई. ७२५ | सामन्तराजः | |||
- ई. ११०५ | पृथ्वीराजप्रथमः | |||
- ई. १११०-११३२ | अजयराजद्वितीयः | |||
- ई. ११३३-११५३ | अर्णोराजः | |||
- ई. ११५३-११६४ | विग्रहराजः | |||
- ई. ११६६ | सोमेश्वरः | |||
- ई. ११७७-११९२ | पृथ्वीराजतृतीयः | |||
ऐतिहासिकयुगम् | भारतस्य मध्यकालीनेतिहासः | |||
- स्थापना | ५३२ ई. | |||
- विस्थापनम् | ११९२ ई. | |||
मुद्रा | दुम्म | |||
भागत्वेन विद्यते | India Iran Pakistan Afghanistan Nepal Bangladesh |
चौहानवंशः ( ( शृणु) /ˈxɔːhɑːnəvənʃhəh/) (हिन्दी: चौहान वंश, आङ्ग्ल: Chauhan dynasty) राजपूतानां प्रसिद्धेषु वंशेषु अन्यतमः । 'चौहान' इति उत्तरभारतस्य आर्याणां कश्चन वंशः । चौहान-आख्यं गोत्रं गुर्जर अन्तर्भवति । इतिहासविदां मतम् अस्ति यत्, चौहानवंश्याः जयपुरस्य साम्भरतडागसमीपे, पुष्कर-प्रदेशे, आमेर-नगरे निवसन्ति स्म । सद्यः ते उत्तरभारते विस्तृताः सन्ति । उत्तरप्रदेशराज्यस्य मैनपुरी इत्याख्ये प्रदेशे, अलवरमण्डले च बहुधा निवसन्ति ।
प्रसिद्धशासकाः
[सम्पादयतु]चौहानवंशस्य अनेकासु शाखासु 'शाकम्भरीचौहान' (साम्भर-अजमेर इत्यस्य समीपस्थं क्षेत्रं) इत्यस्य वंशस्य स्थापना सप्तम्यां शताब्द्याम् अभवत् इति मन्यते । वासुदेवः, पूर्णतल्लः, अजयपालः, विग्रहराजः (प्रथम), चन्द्रराजः, गोपराजः इत्यादयः अनेके सामन्ताः शासनम् अकुर्वन् । अजयपालः ‘अजमेरू’-नगरस्य स्थापनाम् अकरोत् । तेन अजयमेरू-नगरे दुर्गस्य स्थापना अपि कारिता ।
चौहानवंशस्य मुख्यशासकाः -
- अजयपाल चौहान
- अर्णोराज चौहान (११३३-११५३ ई.)
- विग्रहराजचतुर्थः (बीसलदेव) (११५३-११६४ ई.)
- सोमेश्वर चौहान (ई. ११६६)
- पृथ्वीराज चौहान (११७७-११९२ ई.)
चौहानवंशस्य इतिहासः
[सम्पादयतु]मालववंशस्य विशालपरिवारे अनेकाः शाखाः अभूवन् । तासु सप्त प्रमुखाः शाखाः मन्यन्ते ।
१. उज्जयिन्याः गर्दभिल्लवंशः
२. नान्दसायाः राजर्षिवंशः
३. वियजदुर्गस्य वरिकवंशः
४. बर्नाला-बडवा-प्रदेशयोः मौखरिवंशः
५. मन्दसौर-गङ्गाधार-रिस्थल-प्रदेशानाम् औलिकरवंशः
६. छाटी सादडी इत्याख्यस्य प्रदेशस्य मानवयाणीवंशः
७. चित्तौड-प्रदेशस्य मोरीवंशः
नान्दसायाः राजर्षिवंशस्य विरोचन-आख्यः एकः सामन्तः (General) आसीत् । तस्य विरोचनस्य पुत्रः आसीत् चाहमानः इति । पृथ्वीराजविजयमहाकाव्यानुसारं, चाहमानः हूण-वंशं विरुध्य युद्धम् अकरोत् । तस्य सेनायाः सञ्चालनं तस्य भ्राता धनञ्जयः कुर्वन् आसीत् । तस्मिन् युद्धे कदाचित् तस्य पितुः विरोचनस्य मृत्युः अभवत् (इतिहासे प्रमाणं नास्ति) । यतः युद्धानन्तरं चाहमानः सत्ताप्रमुखस्य स्थाने विराजितः । हुणवंशस्य राजभिः सह चाहमानस्य युद्धं पुष्करे अभवत् । ई. ५३२ तमे वर्षे तत् युद्धं पूर्णम् अभवत् ।
चाहमानात् एव चौहानवंशः समुद्भूतः इति इतिहासविदां मतम् [१] । जिनविजय-आख्यस्य इतिहासविदः मतानुसारं चौहानवंशस्य मूलपुरुषस्य प्रादूर्भावः अमृतकूपायमानात् पुष्करतीर्थात् अभवत् ।
“ | चौहान को वंश उजागर है,जिन जन्म लियो धरि के भुज चारी, |
” |
सपादलक्ष-साम्राज्यस्य शाकम्भरी-नगरी, तस्य चौहानवंशस्य राजधानी आसीत् । ततः पुष्करस्य समीपम् अजयमेरू-नगरस्य रचनां कृत्वा तत्र राजसिंहासनस्य स्थापनाम् अकरोत् । मरूभूमेः बृहद्भागः तेषाम् आधिपत्ये आसीत् । ततः कालान्तरे पुराणभारतस्य राजनधान्यां देहल्यां तेषाम् आधिपत्यम् अभवत् ।
चाहमानः
[सम्पादयतु]चाहमानस्य जन्म मालवावंशान्तर्गते सूर्यवंशे अभूत् [२] । तस्य पितुः नाम विरोचनः, भ्रातुश्च नाम धनञ्जयः आसीत् । चाहमानस्य नामकरणं तस्य गुणाधारेण एव अभवत् । पृथ्वीराजविजये उक्तम् –
“ | करेण चापस्य हरेर्मनीषया, वलेन मानस्य मन्त्रिभिः । |
” |
अर्थात् हस्ते चापधारी, मनसि हरिधारी (हरिनाम इत्यर्थः), बले मानधारी, नयधारी (राजनीतिनिपूणः इत्यर्थः) अस्ति, अत एतेषां गुणानाम् अग्रिमवर्णैः निर्मितः चा-ह-मा-न इत्येव तस्य संज्ञा अभवत् । तस्य पुत्रः वासुदेवः अभवत् ।
वासुदेवः
[सम्पादयतु]शाकम्भर्यां चौहाणवंशस्य प्राथम्येन सत्तास्थापनस्य श्रेयः वासुदेवाय गच्छति । राजशेखर सूरि इत्याख्यस्य इतिहासविदः मते एतस्य समयः ई. ६५१ आसीत् [३] । १२२६ तमे वर्षे अङ्किते बिजौलिया-शिलालेखे एतस्य नाम विष्णुः प्राप्यते । वासुदेवः दानी राजा आसीत् । तस्य आधिपत्ये यानि नगराणि आसन्, तेषु सर्वेषु तेन जलाशयाः, देवालयाः, आश्रमाः च निर्मापिताः । पर्वतेषु, मरुभूमिषु, वननगरीषु अपि तेन जलाशयादीनां निर्माणं कारितम् ।
वासुदेवः शाकम्भरीदेव्याः मन्दिरस्य निर्माणं कारितवान् । शाकम्भरीदेव्याः मन्दिरं राजस्थानराज्यस्य सकराई इत्याख्ये धामनि स्थितम् अस्ति । उदयपुरात् १५ कि.मी. दूरे, सीकर-तः ३० कि.मी. दूरेऽस्ति । तत्र ब्रह्माणी, रुद्राणी च इत्यनयोर्देव्योः मूर्ती स्तः | उभे देवीमूर्ती व्याघ्रारूढे स्तः । तथा च उभे महिषासुरस्य वधं कुर्वत्यौ स्तः । मूर्त्योः अष्टभुजाः सन्ति । ब्रह्माणीदेव्याः मूर्तिः श्वेतशैलैः ('मार्बल'), रूद्राणीमातुः मूर्तिः 'मेडस्टोन' इत्येनन निर्मिता अस्ति ।
"नाथ"-मतानुयायिनः साधवः मन्दिरस्यास्य पूजकत्वेन दायित्वं वहन्ति । तत्र द्वारमण्डपस्य रचना प्रप्रथमे ६९९ वैक्रमाब्दे (ई. ६४७) निर्मितम् आसीत् । ततः एकादश्यां, द्वादश्यां च शताब्द्यां तस्य मण्डपस्य पुनरोद्धारस्य कार्यम् अभवत् । सद्यः यः मण्डपः अस्ति, तस्य पुनरोद्धारकार्यं १९७० (ई. १९१३) वैक्रमाब्दे आरब्धं तथा च १९८० वैक्रमाब्दे (ई. १९२३) पूर्णम् अभवत् । यद्यपि अद्य तत् स्थलं ध्वंसप्रायम् अस्ति, तथापि हस्तिशालायाः, दुर्गस्य च भित्तौ कानिचन चिह्नानि अद्यापि द्रष्टुं शक्यन्ते [४] ।
वासुदेवस्य पुत्रः आसीत् सामन्तराजः । सामन्तराजस्य पुत्रः नरदेवः अभवत् । नरदेवस्य पराक्रमी पुत्रः अजयराजः आसीत् । अजयपालः "चक्री" इत्यपि प्रसिद्धः आसीत् । तेन तारागढ-दुर्गस्य निर्माणं कारितं, तत् दुर्गं स्थापत्यकलायाः अद्वितीयम् उदाहरणम् अस्ति । अजयपालस्य पुत्रः आसीत् विग्रहराजः । सः विग्रहराजप्रथमः इत्यपि प्रसिद्धः । तस्य चन्द्रराजः (प्रथमः), गोपेन्द्रकः च पुत्रौ अभवताम् । चन्द्रराजस्य पुत्रः दुर्लभराजः (प्रथमः) अभवत् । तस्य पुत्रः गोविन्दराजः (प्रथमः) अभवत् । सः गुवकः (प्रथमः) इत्यपि प्रसिद्धः । तस्य पुत्रः चन्द्रराजः (द्वितीयः) अभवत् । चन्द्रराजस्य पुत्रः गुवकः (द्वतीयः), कलावती आख्या पुत्री च आसीत् । कलावत्याः विवाहः कान्यकुब्जस्य राज्ञा सह अभवत् । गुवकस्य (द्वीतीयस्य) पुत्रः चन्दनः आसीत् । चन्दनस्य पत्न्याः नाम रूद्राणी आसीत् । सा सिद्धा योगिनी आसीत् । कुत्रचित् तस्याः नाम आत्मप्रभा इत्यपि प्राप्यते । चन्दनान्तरं वाक्पतिः (प्रथमः) राजा अभवत् । सः पुष्करे शिवस्य भव्यं मन्दिरं निर्मापितवान् । वाक्पतेः पुत्रौ सिंहराजः, लक्ष्मणश्च आस्ताम् । ततः विन्ध्यनृपति-नामकस्य एकस्य राज्ञः उल्लेखः बिजौलिया-शिलालेखे प्राप्यते । परन्तु कदाचित् सः स्वल्पकालं यावदेव शासनम् अकरोत् । अतः तस्य अधिकः उल्लेखः न प्राप्यते । सिंहराजः शाकम्भर्याः प्रप्रथमराजा आसीत्, यः "महाराजाधिराजः" इति पदव्या विभूषितः । सिंहराजस्य पुत्रौ विग्रहराजः (द्वतीयः), दुर्लभराजः (द्वितीयः) अभवताम् । विग्रहराजः प्रतापी राजा आसीत् । सः गुजरातप्रदेशस्य भडौच-आख्यं प्रदेशं मूलराज-नामकात् राज्ञः जित्वा स्वाधीन्ये अकरोत् । ततः तस्य प्रदेशस्य भृगुकच्छ इत्याख्ये स्थाने आशापुरादेव्याः भव्यं मन्दिरं निर्मापितवान् । तस्य मन्दिरस्य सोपानानि नर्मदानद्याः जलं स्पृशति स्म । १०३० तमे वैक्रमाब्दे (ई. ९७३) हर्षनाथमन्दिरस्य निर्माणम् अपि एतस्य कार्यकाले पूर्णम् अभवत् । हर्षराजस्य मन्दिरस्य समीपे एव शिलालेखस्य निर्माणम् अपि एषः कारितवान् [५] ।
विग्रहराजस्य (द्वितीयस्य) अनुजः दुर्लभराजः (द्वतीयः) ततः राजा अभवत् । ततः गोविन्दराजः राजा अभवत् । तस्य पुत्रः गोविन्दराजः (द्वितीयः) आसीत् । गोविन्दराजस्य पुत्रः वाक्पतिः (द्वितीयः) अभवत् । गोवन्दराजः अति प्रतापी राजा अभवत् । शिलालेखेषु तस्य उल्लेखः प्राप्यते यत्, तेन स्वराज्यं स्वर्गवत् सम्पन्नं कृतम् आसीत् । शत्रवः तस्मात् भयभीताः सन्तः कदापि तेन सह युद्धं कर्तुं साहसं न कुर्वन्ति स्म । तस्य पुत्रौ वीर्यरामः, चामुण्डराजश्च अभवताम् । राजाभोजेन (ई. १०१०-१०५५) वीर्यरामः युद्धक्षेत्रे हतः । वीर्यरामस्य मृत्योः अनन्तरं चामुण्डराजः राजा अभवत् । चामुण्डराजेन स्वभ्रातुः स्मृतिहेतवे नरपुरे (राजस्थानराज्यस्य अजयमेरू-तः २४ कि.मी. दूरे किसनगढ-पार्श्वे स्थितम् अस्ति, अधुना तस्य नगरस्य नाम नरवर इति) विष्णोः मन्दिरं निर्मापितम् । चामुण्डराजस्य पुत्रौ दुर्लभराजः, विग्रहराजः (तृतीयः) अभवताम् । दुर्लभराजः शौर्यवान् आसीत्, परन्तु मातङ्गैः (मुसलमानों) सह युद्धकाले सः हुतात्मा अभवत् [६] । दुर्बलराजस्य मृत्योः अनन्तरं विग्रहराजः (तृतीयः) राजा अभवत् । सः "वीरवीसलः" इति प्रसिद्धः अभवत् । तस्य राज्ञ्याः नाम राजदेवी आसीत् । तयोः पुत्रः पृथ्वीराजः (प्रथमः) अभवत् । पुष्करप्रदेशे ब्राह्मणान् लुण्ठयितुम् आगतानां ७०० चालुक्यवंशीयानां वधं कृत्वा पृथ्वीराजः ब्राह्मणानां रक्षणम् अकरोत् । तस्य जीवनस्य सा महती उपलब्धिः आसीत् इति पृथ्वीराजविजये उल्लिखतम् [७] । एतस्य काले चौहानवंशस्य आधिपत्यं दक्षिणस्य रणथम्भौरपर्यन्तं विस्तृतम् आसीत् । ११६२ तमे विक्रमसंवत्सरे (ई. ११०५) निर्मिते जीणामातायाः सभामण्डपस्य शिलालेखे एतस्य उपाधिः "परमभट्टारकमहाराजाधिराजपरमेश्वरः" इति अङ्कितः अस्ति । अनेन ज्ञायते यत्, भारतवर्षे साम्राज्यवादिप्रवृत्तीनाम् आरम्भः एतस्य काले एव अभवत् । सोमनाथस्य यात्रिकेभ्यः अनेन अन्नादिव्यवस्था विपुलमात्रायां कृता आसीत् [८] ।
पृथ्वीराजस्य पुत्रः अजयराजः अभवत् । 'सल्हण' इत्यपि सः प्रसिद्धः । बिजौलिया-शिलालेखस्यानुसारं सः मालवा-प्रदेशस्य सेनापितिं सल्हण-इत्येनं बन्दिनं कृत्वा उष्ट्रे संस्थाप्य अजयमेरू-प्रदेशम् अनयत् । चाचिग-यशोराज-सिन्धुलादिराज्ञां वधम् अकरोत् सः । तुर्क-राजानः पराजित्य अजयमेरू-प्रदेशे स्वनाम्ना दुर्गस्य स्थापनाम् अकरोत् सः । तेन स्वपत्न्या सह मिलित्वा मुद्रा प्रकाशिता, सा 'अजयप्रिय द्रुम्म' इति प्रसिद्धा । अजयराजस्य मृत्योः अनन्तरं तस्य तिस्रः पत्न्यः सोमल्लदेवी, स्थलदेवी, श्रीदेवी च पतिमार्गानुगमनम् (सती) अकुर्वन् ।
स्वजीवनस्य अन्तिमवर्षेषु स्वराज्यम् अर्णोराज-आख्याय पुत्राय समर्प्य सः वानप्रस्थं स्व्यकरोत् । ततः चौहानवंशे संन्यासपरम्परायाः आरम्भः अनेन अजयराजेन एव कृतः आसीत् । पुष्कर-प्रदेशस्य समीपवर्तिवनेषु विचरन् सः शिवाराधनायां लीनः अभवत् [९] ।
अर्णोराजः
[सम्पादयतु]अजयराजस्य पुत्रः अर्णोराजः आसीत् । अर्णोराजस्य द्वे पत्न्यौ आस्ताम् । मारोठ-राज्यस्य राजकन्या सुधवा, सिद्धराजस्य पुत्री काञ्चनदेवी च । सुधवायाः त्रीणि अपत्यानि आसन् । तानि जगद्देवः, विग्रहराजः (चतुर्थः), देवदत्तश्च । काञ्चनदेव्याः एकः पुत्रः आसीत् । तस्य नाम सोमेवश्वरः आसीत् [१०] ।
शैवमतानुयायिनः अर्णोराजस्य अनलः, आवेल्लदेवः, आनाकः इत्येतानि अपरनामानि । पुष्करस्य सुप्रसिद्धं वराहमन्दिरस्य निर्माणम् अर्णोराजः कारितवान् । अर्णोराजः यदा सत्तारूढः अभवत्, तदा सः विंशतिवर्षीयः (२०) आसीत् । युवावस्थायाम् एव विश्वविजेतृसम्राट्त्वेन न सः प्रसिद्धः अभवत् । तस्य विजये तुरुष्कवंशीयानां नाशः, मालवाविजयः, सिन्धु-सरस्वती-हरितानक-कुश-वारन-अभियानं च अन्तर्भवन्ति । यद्यपि अर्णोराजः अति शौर्यशाली राजा आसीत्, तथापि गुजरातराज्यस्य चालुक्यवंशीयस्य कुमारपालस्य, सिद्धराजजयसिंहस्य च सम्मुखं तस्य यः पराजयः अभवत्, तेन तस्य कीर्तिः धूमला अभवत् । परन्तु तस्य पराक्रमी पुत्रः विग्रहराजः पितुः पराजयस्य वैरोद्धारम् अकरोत् । अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशीभूय अर्णोराजस्य हत्याम् अकरोत् । जगद्देवस्य पितृवधस्य उल्लेखः पृथ्वीराजविजये प्राप्यते यत्, परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवेन स्वपितुः सेवा कृता इति [११] ।
विग्रहराजः
[सम्पादयतु]महान् हिन्दुराजा विग्रहराजः वीसलदेवः, विश्वलः, वीसलः, कविबान्धवः, विग्रहराजचतुर्थः इति अपि प्रसिद्धः । भारतदेशस्य उत्तरभागात् तुर्क-जनानां समूलं निकन्दनकर्ता विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजमेर-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । अधुना तस्य विद्यापीठस्य स्थाने 'मस्जिद्' अस्ति । अनेकेषां राज्ञां गर्वहन्ता विग्रहराजः चौहानवंशस्य पराक्रमी राजा आसीत् ।
अर्णोराजस्य हत्यायाः, पराजयस्य च वैरोद्धारः विग्रहराजेन कृतः । पराशक्त्या वशीभूतो जगद्देवः यदा अर्णोराजस्य हत्याम् अकरोत्, तदा स्वज्येष्ठभ्रातुः धर्मविरुद्धस्य कृत्यस्य कृते विग्रहराजः स्वज्येष्ठभ्रातरं पराजित्य पितुः हत्यायाः वैरोद्धारम् अकरोत् । अर्णोराजः यशस्वी राजा आसीत्, परन्तु युद्धे द्विवारं पराजितः अभवत् । सिद्धराजस्य सम्मुखं पराजयः, कुमारपालस्य सम्मुखं पराजयः च । अतः विग्रहराजः कुमारपालस्य दर्पं विनश्य स्वपितुः अपमानस्य वैरोद्धारम् अकरोत् (प्रतिशोध लिया) । देहलीविजयः, तुर्कविजयः, पितुः वैरोद्धारणं च विग्रहराजस्य मुख्यकार्येषु परिगण्यन्ते ।
धर्मप्रियः विग्रहराजः शिवभक्तः आसीत् । परन्तु सः सर्वेषां धर्माणां, पन्थानां, सम्प्रदायानां च सम्माननं करोति स्म । विग्रहराजः गवां, ब्राह्मणानां, हिन्दुधर्मस्य च रक्षकः आसीत् । अजमेर-प्रदेशे सरस्वतीकण्ठाभरणविद्यापीठस्य स्थापनाम् अकरोत् सः । शिल्पकलायां प्रवीणः सः स्वराज्ये शिल्पकलायाः पठनपाठनाय तस्य विद्यापीठस्य स्थापनाम् अकरोत् । अधुना तस्य विद्यापीठस्य स्थाने 'अढाई दिन का झोपडा' इति 'मस्जिद्' अस्ति । एतस्य पृष्ठे मान्यता अस्ति यत्, एतस्य विद्यापीठस्य विध्वंसं तुर्क-जनाः एकस्मिन् दिने उत दिनद्वये कर्तुं न शक्तवन्तः, अपि तु एतस्य विध्वंसे सार्धद्विदिनस्य कालः अभवत् । अतः एतस्य विद्यापीठस्य स्थाने स्थापितस्य 'मस्जिद्' इत्यस्य नाम 'अढाई दिन का झोपडा' इति अस्ति [१२] । 'अढाई दिन का झोपडा' इत्यस्य नाम्नः पृष्ठे अन्याः अपि किंवदन्त्यः श्रूयन्ते । सुप्रसिद्धस्य एतस्य विद्यापीठस्य ध्वंसः तुर्क-देशीयैः यवनैः कृतः । यतो हि एतत् 'मस्जिद्'-विशेषं मन्दिरस्य, विद्यापीठस्य च ध्वंसानन्तरं तयोः अवशेषेभ्यः निर्मितम् अस्ति, अतः अन्तः एतस्य 'मस्जिद्' इत्यस्य स्थापत्यं मन्दिरवत् दरीदृश्यते ।
विग्रहराजस्य एकः स्वप्नः आसीत् यत्, "आर्यावर्तस्य पवित्रभूमौ एकतायाः, अभयस्य, धर्मरक्षायाः, ब्राह्मणानां, तीर्थानां, गवां पवित्रतायाः च स्थितेः निर्माणं करणीयम्" इति । तस्य विचारधारायाः प्रभावः भारतीयविचारधाराभूयिष्ठः अपि अभवत् । तेन शपथं स्वीकृतम् आसीत् यत्, "अहम् आर्यावर्तस्य पवित्रभूमेः प्रत्येकं म्लेच्छं (यवनाः, वैदेशिकाः च) निष्कासयिष्यामि" इति [१३] । स्वस्य सैन्यबलेन उत्तरदिशि तु सः प्रतिज्ञां पूर्णाम् अकरोत्, परन्तु पश्चिमोत्तरदिशि तुर्क-जनानाम् उपद्रवं शान्तं कर्तुं न शक्तवान् । अतः स्ववंशजान् अपि सः असूचयत् यत्, "मम अवशिष्टं कार्यं भवन्तः येन केन प्रकारेण पूर्णं कुर्वन्तु" इति ।
विग्रहराजस्य त्रयः भ्रातरः आसन् । तेषां नामानि क्रमेण जगद्देवः, देवदत्तः, सोमेश्वरश्च । जगद्देवः ज्येष्ठः, देवदत्तः अनुजः च आसीत् । सोमेश्वरः विग्रहराजस्य विमातुः काञ्चनदेव्याः पुत्रः आसीत् । विग्रहराजस्य पत्न्याः नाम देशलदेवी आसीत् ।
“ | तस्मिन्नुदग्ररिपु वर्ग जये निसर्ग, |
” |
सा देहल्याः इन्द्रप्रस्थ-प्रदेशस्य राज्ञः वसन्तपालस्य पुत्री आसीत् । तयोः द्वे अपत्ये आस्ताम् । तयोः नामनी क्रमेण अपरगाङ्गेयः, नागार्जुनश्च [१५] ।
जगद्देवः
[सम्पादयतु]जगद्देवस्य विवाहः गुहिलवंशस्य राजकुमार्या सह अभवत् । तस्याः राजकुमार्याः नाम इतिहासे न प्राप्यते, परन्तु तस्याः भातुः नाम किल्हण इति आसीत् [१६] । जगद्देवस्य पृथ्वीभट्ट-आख्यः पुत्रः अभवत् । जगद्देवः हेमचन्द्र सूरि इत्यस्य पराशक्त्या वशीभूय अर्णोराजस्य हत्याम् अकरोत् । परशुरामेण यथा स्वमातुः सेवा (वधं कृतं) कृता, तथैव जगद्देवन स्वपितुः सेवा कृता इति उल्लेखः पृथ्वीराजविजये प्राप्यते ।
अपरगाङ्गेयः, पृथ्वीभट्टश्च
[सम्पादयतु]विग्रहराजस्य मृत्योः अनन्तरं तस्य अवयस्कः पुत्रः अपरगाङ्गेयः शाकम्भर्याः राजा अभवत् । अर्णोराजस्य जगद्देव-आख्यः ज्येष्ठपुत्रः अर्णोराजस्य हत्याम् अकरोत् । स्वपितुः वैरोद्धारार्थं विग्रहराजः जगद्देवस्य वधम् अकरोत् । जगद्देवस्य पुत्रः आसीत् पृथ्वीभट्टः । पृथ्वीराजद्वितीयः इत्यपि सः प्रसिद्धः । विग्रहराजस्य जीवति सति तूष्णीम् अतिष्ठत्, परन्तु तस्य मरणोत्तरं सः शाकम्भर्याः सत्तां प्राप्तुम् अधीरः अभवत् । यतो हि शाकम्भर्याः वास्तविकोत्तराधिकारी अहं स्वयम् अस्मि इति तस्य विश्वासः आसीत् ।
पृथ्वीभट्टः गुहिलवंशीयस्य किल्हण-आख्यस्य स्वमातुलस्य साहाय्येन शाकम्भर्याः उपरि आक्रमणम् अकरोत् । अपरगाङ्गेयस्य मातुलः वास्तुपालः यः देहल्याः तोमरवंशीयः राजा आसीत्, सः स्वस्य भोगिनेयस्य साहाय्यार्थं शाकम्भरीं गतः । परन्तु तस्मिन् युद्धे वास्तुपालः पराजितः, अपरगाङ्गेयः हतश्च । शाकम्भर्यां स्थिता देशलदेवी नागार्जुनाख्यं स्वपुत्रं नीत्वा देहलीम् अगच्छत् । एवं शाकम्भर्याः शासनं पृथ्वीभट्टाधीनम् अभवत् ।
पृथ्वीभट्टः स्वल्पकालं यावदेव शाकम्भर्यां सत्तारूढः आसीत् । यतः शासनप्राप्तेः अनन्तरं स्वल्पे काले एव सः मृतः । परन्तु तस्य मृत्योः विषये इतिहासे कोऽपि प्रसङ्गः उत उल्लेखः अप्राप्तः । १२२६ तमस्य विक्रमसंवत्सरस्य फाग्लुगन-मासस्य शुक्लपक्षस्य तृतीयायाः तिथेः प्राक् एव अजयमेरू-प्रदेशस्य इतिहासात् सः विलुप्तः अभवत् । ततः तस्य स्थाने सोमेश्वराख्यः राजा शाकम्भर्याः राजा अभवत् । सः सोमेश्वरः अर्णोराजस्य द्वितीयपत्न्याः गर्भात् समुत्पन्नः [१७] ।
सोमेश्वरः
[सम्पादयतु]सोमेश्वरस्य जन्म अण्हिलपाटणे अभवत् । सोमेश्वरस्य माता काञ्चनदेवी सिद्धराजस्य पुत्री आसीत् । अर्णोराजस्य प्रथमपत्न्या सुधवया सह काञ्चनदेव्याः सम्बन्धः कटुः आसीत् । अजमेरू-प्रदेशस्य राजनीतौ अपि कलहपूर्णा स्थितिः आसीत् । सिद्धराजः अपि अजमेरू-प्रदेशस्य अन्तःपुरस्य, राजनैतिकलहस्य च विषये जानाति स्म । अतः यदा काञ्चनदेवी गर्भवती अभवत्, तदा सिद्धराजः स्वपुत्रीम् अण्हिलपाटणम् अनयत् । एवं सोमेश्वरस्य जन्म अण्हिलपाटणे अभवत् । अपरत्र अजमेरू-प्रदेशस्य शासनव्यवस्थायां बृहत्परिवर्तनम् अभवत् । अर्णोराजस्य ज्येष्ठपुत्रः जगद्देवः अर्णोराजस्य हत्याम् अकरोत् । पत्युः मरणोपरान्तम् अजमेरू-प्रदेशम् अगत्वा काञ्चनदेवी अण्हिलपाटणे एव न्यवसत् । सिद्धराजस्य मरणोपरान्तं सिद्धराजस्य भातृजः कुमारपालः गुजरातराज्यस्य सम्राट् अभवत् । एवं स्वमातुलस्य छायायां सोमेश्वरः सर्वविद्यासु निपुणः अभवत् ।
इतिहासविदां मतम् अस्ति यत्, अजमेरू-प्रदेशस्य शासनं प्राप्तुं कदाचित् सोमेश्वरः स्वमातुलात् साहाय्यं स्व्यकरोत् इति । १२२६ तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य शुक्लीतृतीयायाः पुरा सोमेश्वरः अजमेरूप्रदेशस्य राजा अभवत् ।
सोमेश्वरः स्वपितुः नाम्ना एकस्य नगरस्य स्थापनाम् अकरायत् । तस्मिन् नगरे पञ्च मन्दिराणि अस्थापयत् । तेषु वैद्यनाथमन्दिरस्य प्राङ्गणे सोमेश्वरः स्वपितुः मूर्तिम् अस्थापयत् । स्वपितुः मूर्तेः सम्मुखं सः स्वस्य मूर्तिम् अपि अस्थापयत् । सोमेश्वरस्य विवाहः अजमेरू-प्रदेशस्य शासनारूढनात् प्रागेव कर्पूरदेव्या सह जातः आसीत् । तयोः पृथ्वीराजः, हरीराजश्च द्वौ पुत्रौ अभवताम् । पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, सोमेश्वरः यदा स्वपत्न्या, पुत्राभ्यां सह अजयमेरू-प्रदेशं प्रविष्टः, तदा तेन सह विशालसेना अपि आसीत् । सोमेश्वरेण सह सोढ-आख्यः मन्त्री, स्कन्द-आख्यः सेनापतिः, वामन-आख्यः सन्धिविग्रहकः, कैमास-आख्यः कूटनीतिज्ञः चापि आसन् [१८] । सोमेश्वरस्य मृत्योः अनन्तरं तस्य ज्येष्ठपुत्रः पृथ्वीराजः अजयमेरू-प्रदेशस्य राजा अभवत् । सः पृथ्वीराजः भारतवर्षस्य "अन्तिमः हिन्दुराजा" इति प्रसिद्धः अस्ति ।
पृथ्वीराजः
[सम्पादयतु]पृथ्वीराजः सोमेश्वरस्य ज्येष्ठः पुत्रः । सः पृथ्वीराजतृतीयः, हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । पृथ्वीराजस्य जन्म गुजरातराज्यस्य अण्हिलपाटण-प्रदेशे अभवत् । भारतीयपञ्चाङ्गानुसारं तस्य जन्म १२२० तमस्य विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णद्वादश्यां (१२/०३/१२२०) तिथौ अभवत् । आङ्ग्लपञ्चाङ्गानुसारं तस्य जन्म ११६३ तमस्य वर्षस्य जून-मासस्य प्रथमे (१/६/११६३) दिनाङ्के अभवत् । भारतस्य अन्तिमहुन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः १२३५ तमे विक्रसंवत्सरे यदा पञ्चदशवर्षीयः (१५) आसीत्, तदा तस्य राज्याभिषेकः अभवत् । अतः माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म ।
पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च युद्धम् आरभन्त । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । ११७७ तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठीं कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् ।
नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः ११७७ तमे वर्षे भादानकदेशीयान्, ११८२ तमे वर्षे जेजाकभुक्तिशासकं, ११८३ तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया ११७५ तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरभत । ततः ११७८ तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसि चालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशिकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म ।
पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि तस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघूनि युद्धानि पृथ्वीराजस्य घोरी इत्येतयोः अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः ७, १७, २१, २८ च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि 'इस्लाम्'-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारिरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयम् अन्यथाकर्तुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् ।
चौहानवंशस्य विस्तारः
[सम्पादयतु]चौहानवंशस्य सीमायाः क्षयः, वृद्धिः च समयानुसारम् अभवत् । स्वसीमारक्षायाः, स्वसीमाविस्तारस्य च कृते चौहानवंशस्य सर्वेऽपि राजानः प्रयत्नशीलाः आसन् । पृथ्वीराजप्रथमस्य (ई. ११०५) कालात् चौहानवंशस्य सामरिकशक्तेः प्रदर्शनस्य आरम्भः अभवत् । पृथ्वीराजप्रथमस्य, तस्य सामरिशक्तेः च अनुसरणम् अजयराजः, अर्णोराजः, विग्रहराजः, पृथ्वीराजद्वितीयः सदृशाः चौहानवंशीयाः राजानः अकुर्वन् । तेषां सीमारक्षायाः, सीमाविस्तारस्य च नीतेः फलस्वरूपतया पृथ्वीराजतृतीयस्य काले उत्तरभारतस्य अधिकांशभागः चौहानवंशस्य अधीनः आसीत् । पृथ्वीराजतृतीयस्य शासनकाले चौहानवंशस्य उत्तरसीमायां सतलजनदी, दक्षिणदिशायां च वेत्रवतीनदी वहन्ती आसीत् । पूर्वदिशायाः सीमायां कैमूरपर्वतमाला अन्तर्भवति स्म । पश्चिमदिशायाः सीमा मरुभूमौ स्थितं विक्रमपुरं यावत् विस्तृता आसीत् । जेम्स् टॉड् इत्यस्य मतानुसारं सपादलक्षसाम्राज्यस्य, कन्नौजसाम्राज्यस्य च सीमायाः मध्ये कालिन्दीनदी (यमुनानदी) प्रहन्ती आसीत् [१९] । के एम् मुंशी इत्यस्य मतानुसारं मेरठ-रामपुर-प्रदेशयोः मध्ये सपादलक्षसाम्राज्स्य, गाहडवालसाम्राज्यस्य च सीमा आसीत् [२०] ।
सपादलक्षसाम्राज्यस्य राजसीमायां १,२५,००० ग्रामाः अन्तर्भवन्ति स्म । अत एव तस्य साम्राज्यस्य नाम सपादलक्षसाम्राज्यम् अभवत् । साम्राज्यस्य नामानुगुणमेव अस्य सम्राजः 'सपादलक्षेश्वरः, सपादलक्षाधीशः, सपादलक्षक्षतिपतिः' इत्यादिभिः नामभिः सम्बोधिताः भवन्ति स्म । सपादलक्षसाम्राज्यस्य प्रारम्भिकराजधानी शाकम्भरी (साम्भर) आसीत् । राजधान्याः नाम्ना सपादलक्षसाम्राज्यस्य सम्राजः 'शाकम्भरीशः, शाकम्भरीनृपः, शाकम्भरीनरेशः' इत्यादिभिः नामभिः सम्बोधिताः भवन्ति स्म । ततः ई. १११०-११३२ मध्ये सपादलक्षसाम्राज्यस्य राजधान्याः स्थानन्तरणे सति अजयमेरुः (अजमेर) नवीनराजधानी अभवत् ।
सपादलक्षसाम्राज्यस्य प्रमुखनगराणि
[सम्पादयतु]यस्य कस्यापि वंशस्य उत राष्ट्रस्य इतिहासनिर्माणे तस्य भौगोलिकप्ररिप्रेक्ष्यस्य महत्त्वम् अधिकं वर्तते । दुर्गमपर्वतमालासु स्थितस्य साम्राज्यस्य उपरि तथा च मरुभूमेः उल्लङ्घनानन्तरं साम्राज्यस्योपरि आक्रमणं शत्रूणां कृते अति कष्टकरं भवति । सपादलक्षसाम्राज्यस्य पार्श्वे उक्ते द्वे विशेषते आस्ताम् । सपादलक्षसाम्राज्यस्य सीमायाम् अनेकानि महत्त्वपूर्णानि नगराणि आसन् । तेषां नगरस्य इतिहासं ज्ञात्वा चौहानवंशस्य तत्कालीनस्थितेः अनुमानं सुकरं भवति ।
१ जाङ्गलदेशः
[सम्पादयतु]पुराणे जाङ्गलदेशः
[सम्पादयतु]जाङ्गलदेशस्य नाम महाभारतेऽपि प्राप्यते, येन ज्ञायते यत्, जाङ्गलदेशः कियान् प्राचीनः प्रदेशः विद्यते । भारतीयग्रन्थेषु जाङ्गलदेशस्य व्याख्या सुस्पष्टा अस्ति । भावप्रकाशकोशे, शब्दकल्पद्रुमकोशे जाङ्गलदेशस्य व्याख्या प्राप्यते यत्,
“ | आकाशशुभ्र उच्चश्च, स्वल्पपानीय पादपः । शमी करीर बल्वार्क पीलुकर्कन्धु सङ्कुलः ।। |
” |
अर्थात्, यत्र आकाशः स्वच्छः (मेघरहितः) उन्नतः च स्यात्, यत्र जलस्य, वृक्षाणां च न्यूनता स्यात्, यत्र शमी(Prosopsis Specigera)-कैर(Capparisaphylla)-अर्क(Colotripis procera)-बेल(Aegle Marmelos)-पीलू(Salvedora Persica)-कर्कन्धु(Gymnosporia Moutana)सदृशाः वृक्षाः भवेयुः, सः प्रदेशः जाङ्गलदेशः उच्यते ।
“ | स्वल्पोदकतृणो यस्तु, प्रवातः प्रचुरातपः । स ज्ञेयो जाङ्गलो देशो, बहुधान्यादि संयुतः ।। द्वतीयः काण्डः ।। शब्दकल्पद्रूमकोशः ।। |
” |
अर्थात्, यस्मिन् स्थाने जलस्य, ग्रासस्य च न्यूनता स्यात्, वायोः, तापस्य च प्रबलता स्यात्, अन्नादि वैपुल्येन युक्तं स्यात्, सः देशः जाङ्गलदेशः उच्यते ।
जाङ्गलदेशस्य उल्लेखः मनुस्मृतौ अपि प्राप्यते ।
“ | जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम् । रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ।। ७.६९ ।। मनुस्मृतिः |
” |
अर्थात्, राजानः तादृशे जाङ्गलप्रदेशे निवसेयुः, यत्र उपयुक्तं जलम्, आवश्यकतानुसारं वर्षाः च भवेयुः, यत्र पूरः (Flood) न भवेत्, यत्र सूर्यस्य पर्याप्तप्रकाशः भवेत्, यत्र धान्योत्पादने अनुकूला भूमिः भवेत्, यत्र श्रेष्ठजानानां बाहुल्यं स्यात्, यत्र सम्पन्नाः जनाः वसन्तः स्युः च ।
मनुस्मृत्यनुसारं यस्मिन् भूभागे राजभ्यः निवासः योग्यः मन्यते, सः भूभागः जाङ्गलप्रदेशः उच्यते । संयोगवशात् जाङ्गलप्रदेशे एव चौहानवंशस्य सत्तायाः प्रथमसङ्घटनम् अभवत् । महाभारते जाङ्गलप्रदेशस्य उल्लेखः भीष्मपर्वणः नवमाध्यायायस्य एकोनचत्वारिंशत्तमे, पञ्चपञ्चाशततमे च श्लोके प्राप्यते । महाभारतस्य वनपर्वणः दशमाध्यायस्य एकादशे श्लोकेऽपि जाङ्गलप्रदेशस्य उल्लेखः प्राप्यते । महाभारते माद्रेयजाङ्गला, कुरुजाङ्गला इत्यादिभिः नामभिः समासीतशब्दैः जाङ्गलदेशस्य प्रयोगः दरीदृश्यते । तेषां नाम्नां विश्लेषणं कुर्वन् डॉ. ओझा इत्येषः अकथयत्, मद्रदेशयुक्तः जाङ्गलप्रदेशः, कुरुदेशयुक्तः जाङ्गलप्रदेशः इत्येव महाभारते प्राप्तानां नाम्नाम् आशयः भवितुम् अर्हिति । बीकानेरराज्यस्य पुरातनं नाम जाङ्गलदेश एव आसीत् । परन्तु सद्यः सः बीकानेरप्रदेशस्य उत्तरदिग्भागः मद्रप्रदेशेन (मद्रप्रदेशः – पञ्जाब-प्रदेशे स्थितः चेनाब-सतलज-नद्योः मध्यस्थः भूभागः) सह युक्तः नास्ति । परन्तु सम्भावना अस्ति यत्, प्राचीनकाले मद्रप्रदेशस्य सीमा दक्षिणायां दिशि अधिकविस्तृता स्यात् उत जाङ्गलप्रदेशस्य सीमा उत्तरस्यां दिशि अधिकविस्तृता स्यात् इति [२१] ।
जाङ्गलदेशत्वेन सपादलक्षम्
[सम्पादयतु]जाङ्गलदेशस्य अपरं नाम सपादलक्षम् आसीत् । महाभारते, शब्दकल्पद्रुमकोशे, भावप्रकाशकोशे च जाङ्गलप्रदेशस्य यादृशं वर्णनं प्राप्यते, बीकानेर-प्रदेशस्य समीपे स्थिते प्रदेशे जाङ्गलदेशस्य वातावरणं, वनस्पतिः, जलम् इत्यादि सर्वं तथैव अस्ति । जाङ्गलप्रदेशे विकसितस्य शाकम्भरी इत्याख्ये नगरे चौहावंशस्य सत्तायाः स्थापना अभवत् । प्रारम्भे तु तस्यां सत्तायां केचन ग्रामाः एव अन्तर्भवन्ति स्म । परन्तु सीमाविस्तारस्य अनन्तरं शाकम्भर्याः शासनक्षेत्रे १,२५,००० ग्रामाः अभूवन् । अतः तस्य नाम सपादलक्षसाम्राज्यम् अभवत् । सपादलक्षसाम्राज्यस्य राजधानीत्वेन शाकम्भरी प्रसिद्धा आसीत् । कालान्तरे 'सपादलक्ष', 'जाङ्गलदेश' इत्येतयोः शब्दयोः उपयोगः समानसन्दर्भे आरब्धः । अनेकेषु ऐतिहासग्रन्थेषु सपादलक्षं जाङ्गदेशत्वेन उल्लिखितम् अस्ति । १२३० तमे वर्षे आशाधर इत्याख्यः कश्चन लेखकः "धर्मामृतम्" इत्याख्यं ग्रन्थम् अलिखत् । तस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्,
“ | श्रीमानस्ति सपादलक्षविषयः शाकम्भरी भूषणस्तत्र । श्रीरतिधाम मण्डलकरं नामस्ति दुर्ग महत् ।। [२२] |
” |
अर्थात्, सपादलक्षदेशः, यस्य आभूषणं शाकम्भरी अस्ति, तस्मिन् मण्डलकरस्य (मेवाड) विशालदुर्गम् अस्ति ।
कुमारपालः यदा अर्णोराजं पारजितवान्, तदा सः चित्तौड-प्रदेशम् अगच्छत् । तस्य कुमारपालस्य आगमनस्य उल्लेखः मोकल-मन्दिरस्य शिलालेखे प्राप्यते । तं शिलालेखं कुमारपाल एव प्रास्थापयत् ।
“ | महीभृन्नतुञ्जेषु शाकम्भरीशः । प्रिया पुत्र लोके न शाकम्भरीशः ।। |
” |
अर्थात्, राजा कुमारपालः शाकम्भर्याः राजानम् अर्णोराजम् (आनारु) पारिजित्य तस्य सपादलक्षसाम्राज्यम् उध्वस्तम् अकरोत् । ततः सः शालिपुरा इत्याख्यं (चित्तौड-प्रदेशात् ४ मील दूरे सः ग्रामः सद्यः सलोरा इति प्रसिद्धः) ग्रामम् अगच्छत् ।
ई. ९७३-९९६ मध्ये शाकम्भर्याः नरेशः विग्रहराजः गुर्जराधीशस्य मूलराजप्रथमस्योपरि आक्रमणम् अकरोत् । तस्य आक्रमणस्य वर्णनं मेरुतुङ्ग सूरि इत्येषः स्वपुस्तके अकरोत् ।
“ | कस्मिन्नप्यवसरे सपादलक्षी य क्षितिपतिः । श्रीमूलराजभिषेणयितं गुर्जर् देश सन्धौ समाजगाम ।। |
” |
अर्थात्, एकस्मिन् अवसरे सपादलक्षस्य राजा गुजरातराज्यस्य सीमायां मूलराजेन सह योद्धुं सम्प्राप्तः ।
अनेन ज्ञायते यत्, चौहानवंशस्य कोऽपि राजा शाकम्भर्याः उपरि शासनं कुर्वन् यस्मिन् देशे शासनं करोति स्म, तं सपादलक्षम् इत्येव कथ्यते स्म । चौहानवंशीयानां सपादलक्षसाम्राज्यं 'देश' एव उच्यते स्म इत्यस्य उदाहरणत्वेन द्वौ ग्रन्थौ प्राप्येते । प्रप्रथमः तु कुमारपालस्य गुरोः हेमचन्द्रसूरि इत्यस्य द्वाश्रमयमहाकाव्यग्रन्थः [२४], द्वितीयः जयानकेन लिखितः पृथ्वीराजविजयमहाकाव्यग्रन्थः [२५] च स्तः । सपादलक्षसाम्राज्यस्य शासकः यद्यपि सपादलक्षराजत्वेन अभिहितः भवति स्म, तथापि जाङ्गलेशत्वेन सम्बोधनं प्राप्यते । वीसलपुरात् १२४४ तमे विक्रमसंवत्सरे प्राप्ते शिलालेखे पृथ्वीराजतृतीयः स्वं सपालक्षमहाराजाधिराजत्वेन सम्बोधयति । तस्मिन् शिलालेखे उल्लिखितम् –
“ | महाराजाधिराज परमेश्वर श्रीपृथ्वीराज देव राज्य तस्मिन् काले सं. ११४४ श्रावण पूर्व्वं सपादलक्षे....[२६] | ” |
पृथ्वीराजतृतीयस्य प्रतिद्वन्द्वी चन्द्रवत्याः, आबूप्रदेशस्य च राजा धारवर्ष परमार इत्यस्य अनुजः पह्लाददेवः "पार्थपराक्रमव्यायोगः" [२७] इत्याख्ये स्वग्रन्थे पृथ्वीराजतृतीयं "जाङ्गलेश" इति सम्बोधयति । सोमेश्वर सूरि इत्यनेन लिखितयोः "कीर्तिकौमुदी", "सुरथोत्सवः" इत्येतयोः ग्रन्थयोः अपि "जाङ्गलक्षोणिपालः" (जाङ्गलदेशस्य राजा) इति सम्बोधनं प्राप्यते । कीर्तिकौमुद्याम् उल्लिखितं यत्, "जाङ्गलक्षोणिपालेन व्याचक्षणेः परैरपि" इति ।
उक्तविवरणैः सिध्यति यत्, जाङ्गलप्रदेशस्य सपादलक्षसाम्राज्यस्य च नाम समानार्थकत्वेन बहुधा उपयुज्यते स्म । जाङ्गदेशस्य, सपादलक्षदेशस्य च सम्बन्धः चौहानवंशेन सह अस्ति । सर्वप्रथमं चौहानवंशस्य राजधानी शाकम्भरी अभवत् । ततः राजधान्याः स्थानान्तरणे सति अजयमेरु तस्य वंशस्य राजधानी अभवत् ।
२ शाकम्भरी
[सम्पादयतु]'साम्भर' इत्येतस्य अपभ्रंशशब्दस्य मूलनाम 'शाकम्भरी' इत्यासीत् । साम्भर इत्याख्यं प्राचीननगरं राजस्थानराज्यस्य जयपुरमण्डलस्य मुख्यपत्तनेषु अन्यतमम् अस्ति । सद्यः तत् नगरं 'साम्भर लेक्' उत 'साम्भर लेक् टाउन्' इति प्रसिद्धम् अस्ति । 'साम्भर लेक् टाउन्' इत्याख्यं नगरं राजस्थानराज्यस्य जयपुरात् ९५ कि.मी. दूरे अस्ति । तत् पत्तनं लावणजलाशयत्वात् अति प्रसिद्धम् अस्ति । सः जलाशयः भारते बृहत्तमः लावणजलायशयः विद्यते ।
शाकम्भर्याः लावणजलायशयः
[सम्पादयतु]शारम्भर्यां स्थितः शाकम्भरीजलाशयः लावणजलाशयत्वेन सम्पूर्णे विश्वे प्रसिद्धः अस्ति । सः जलाशयः ७५°११ पूर्वदेशान्तरे, 26°55 उत्तरदेशान्तरे समुद्रतलात् ३६४ मी. औन्नत्ये स्थितः अस्ति । तस्य जलाशयस्य क्षेत्रफलं १५० चतुरस्रकिलोमीटर्मितम् अस्ति । तस्य जलाशयस्य जलग्रहणक्षेत्रम् २५० चतुरस्रकिलोमीटर्मितम् अस्ति । रूपनगर-मेघना-खादी-खण्डेल-नदीनां जलं तस्मिन् जलाशये पतति । ग्रीष्मर्तौ सः जलाशयः शुष्कः भवति । परन्तु तस्य जलाशयः भूभागे २२ मी उन्नतः एकः आर्द्रलावणमुत्तिकायाः बृहत् भागः अवशिष्टः भवति । तया आर्द्रलावणमृत्तिकया 'हिन्दुस्थान सॉल्ट् लिमिटेड्' [२८] इत्याख्या सर्वकारीयसंस्था प्रतिवर्षं २ लक्षं टन् [२९] परिमतं लवणस्य उत्पादनं करोति । तस्य लावणजलाशयस्य उत्पत्त्याः विषये अनेकाः कथाः सन्ति ।
शाकम्भरीदेवीमन्दिरम्
[सम्पादयतु]शाकम्भरीदेवीमन्दिरं राजस्थानराज्यस्य जयपुरमण्डलस्य 'साम्भर लेक् टाउलन्' इत्याख्ये पत्तने विद्यते । एतस्य पत्तनस्य नाम एव शाकम्भरी आसीत् । शाकम्भरीदेवी चौहानवंशीयानां कुलदेवी अस्ति । शाकम्भरीदेव्याः नाम्ना एव चौहावंशीयानां राजधान्याः नाम "शाकम्भरी" इति आसीत् । चौहानसाम्राज्यम् अपि शाकम्भरीसाम्राज्यत्वेन प्रसिद्धम् अभवत् । चौहानवंशीयाः शासकाः शाकम्भरीशः, शाकम्भरीनरेशः इत्यादिनामभिः प्रसिद्धाः अभूवन् ।
३ नागौर
[सम्पादयतु]नागौर राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते [३०] । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिछत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि ।
नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, विभिन्नमुखेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरस्य उन्नतक्षेत्रात् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काचित् दीर्घा भित्तिः आसीत् । तस्याः भित्तेः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्-परिमिता, अन्यत्र ५ फीट्-परिमिता, अपरत्र १७ फीट्-परिमिता च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठद्वारं पूर्वदिशायां च आसीत् । एतानि षट्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः ।
४ अजयमेरुः
[सम्पादयतु]चौहानवंशस्य उत्कर्षस्य, पराभवस्य च जीवन्तसाक्षी अजयमेरुः वर्तते । यतो हि अजयराजस्य काले अजयमेरोः राजधानीत्वेन घोषणाोत्तरं पृथ्वीराजतृतीयस्य नरायनस्य द्वितीये युद्धे पराजयं यावत् अजयमेरुः चौहानवंशस्य राजधानी आसीत् । पृथ्वीराजतृतीयस्य मृत्युः अपि अजयमेरौ एवाभवत् [३१][३२] । अजयमेरुः एव अरावल्याः विशालपर्वतमालायां स्थितः चौहानवंशस्य केन्द्रियशक्तेः विराट् स्वरूपी आसीत् । द्वादश्यां शताब्द्यां भारतीयत्वस्य रक्षणं यः कृतवान्, सः अजयमेरुः एव आसीत् । अजयमेरोः हुङ्कारेणैव गोर-गझनी-बसरा-बगदाद इत्यादयः प्रदेशाः भयभीताः भवन्ति स्म । अजयमेरौ एव विग्रहराजेन शपथं स्वीकृतम् आसीत् यत्, "अहं भारतवर्षं म्लेच्छमुक्तं (यवनमुक्तं) करिष्यामि" इति । सः अजयमेरुः अद्यापि अजमेर इति नाम्ना विद्यते ।
५ नरायन
[सम्पादयतु]नरायन-नगरम् एकादश्यां, द्वाश्यां च शताब्द्यां सामरिककेन्द्रत्वात् सम्पूर्णे जम्बूद्वीपं विख्यातम् आसीत् । कालग्रस्तं तत् नगरम् अद्य लघुपत्तनत्वेन परिणतम् । अद्य तत् नगरं नरैना इति प्रसिद्धम् अस्ति । तस्य नगरस्य अन्यानि अपि प्राचीननामानि प्राप्यन्ते । यथा – नारायन, नराडा, नाराणक इत्यादीनि ।
भौगोलिकम्
[सम्पादयतु]फुलेरा-तः अजमेर-पर्यन्तं यः रेलमार्गः अस्ति, तत्र मार्गे २६.४८ उत्तराक्षांशे, ७५.१३ पूर्वदेशान्तरे स्थितस्य नरैना-पत्तनस्य लघु रेलस्थानकम् अपि अस्ति । चौहानवंशीयानां प्रप्रथमराजधानी-तः एतत् पत्तनं दक्षिणदिशायां ११ कि.मी. दूरे अवस्थितम् अस्ति । साम्भर-नगरस्य समीपे नरैना-पत्तनम् अस्ति । नरैना-पत्तनस्य समीपे श्रीस्थिलं (सिरथला), मलेटा, नलियासर इत्यादीनि प्राचीनपत्तनानि सन्ति । डॉ. दयाराम सहानी इत्याख्यः इतिहासविद् १९३६-१९३८ मध्ये अत्र उत्खननम् अकरोत् । स्वपूरातात्त्विकसर्वेक्षणे तेन सिद्धं कृतं यत्, नलियासर-पत्तनस्य स्थापना षष्ठ्यां शताब्द्याम् अभवत् इति । तस्मिन् काले एव नरैना इत्यादीनि पत्तनानि अस्तित्वं प्रापन् । तस्मिन् प्रदेशे उत्खननकार्योत्तरं यानि वस्तुनि लब्धानि, तेषां गहनाध्यनं कृत्वा दयाराममहोदयस्य निष्कर्षः आसीत् यत्, नलियासर-पत्तनस्य स्थापना हिन्दुधर्मानुयायिभिः कृता इति । ते हिन्दवः ब्राह्मणाः आसन् इत्यपि तस्य दृढमतम् ।
इतिहासः
[सम्पादयतु]चौहानवंशीयानां शासनकाले राजधानी शाकम्भरी स्यात् उत अजयमेरुः, परन्तु सामरिक-व्यापारिक-दृष्टिकोणेन नरायन-नगरम् अति महत्त्वपूर्णम् आसीत् । यतो हि नरायन-नगरं चौहानवंशीयानां सामरिकराजधानी आसीत् । महाराणा साँगा इत्यस्य शासनकालेऽपि (ई. १५०९-१५२८) नरायन-दुर्गस्य अभेद्यतात्वात् नरायन-नगरम् अति प्रसिद्धम् आसीत् । नवम्यां, दशम्याम्, एकादश्यां च शताब्द्यां नरायन-नगरस्य सम्पन्नता चरमे आसीत् । नरायन-नगरे आढ्यव्यापारिणः निवसन्ति स्म । अखिले नगरे वैभवस्य, सम्पन्नतायाः स्थितिः आसीत् । नरायन-नगरस्य विपुलतायाः चर्चा चतसॄषु दिक्षु व्याप्ता आसीत् ।
जनेषु नरायन-नगरं प्रति व्याप्तम् उन्मादं दृष्ट्वा १०२५ ई. मध्ये महमूद गझनवी इत्येषः नरायन-नगरस्योपरि आक्रमणम् अकरोत् । तस्मिन् काले शाकम्भर्याः शासकः दुर्लभराजस्य पुत्रः गोविन्दराजः (गुनकद्वितीयः) आसीत् । यदा गोविन्दरराजः महमूद गझनवी इत्यस्य आक्रमणस्य समाचारं प्रापत्, तदा सः तस्य यवनस्य विशालसेनया सह योद्धुं गतः । परन्तु तस्मिन् युद्धे गोविदन्दराजः पराजितः । ततः यवनाः नरायन-नगरं प्रविश्य आनगरम् उत्पातम् अकुर्वन् । मन्दिराणि लुण्ठयित्वा मूर्तीः चोरयित्वा सहैव अनयत् । अनेकानि मन्दिराणि लुण्ठयित्वा आग्निसात् अकुर्वन् । यवनानाम् उत्पातात् रक्षितुं नगरजनैः देवानां मूर्तयः भूर्गर्भे स्थापिताः, तथापि तेषां यवनानां नाशकप्रवृत्त्याः अतिशयितत्वात् अनेके भूगर्भस्थाः मूर्तयः अपि नष्टाः । ततः तस्य सैनिकाः समीपस्थेषु नगरेषु अपि आक्रमणम् अकुर्वन् । तेषु नगरेषु नलियासर, साम्भर, मलेटा इत्यादीनि नगराणि अन्तर्भवन्ति ।
म्लेच्छानाम् आक्रमणेन आहतेषु सन्तः अपि नगरवासिनः आक्रमणस्य समनन्तरमेव द्वयोः मन्दिरयोः निर्माणम् अकुर्वन् । पृथ्वीराजतृतीयस्य शासनकाले कालचक्रस्य विशालखण्डः व्यतीतः । अतः व्यगतस्य प्रलयस्य न कस्यापि मनसि स्मृतिः आसीत् । नरायन-नगरं पृथ्वीराजतृतीयस्य सामरिकराजधानीत्वात् युद्धकाले पृथ्वीराजः नरायन-नगरस्य दुर्गे एव युद्धयोजनायाः गोष्ठीं करोति स्म । पृथ्वीराजतृतीयः यदा दिग्विजयाभियानाय अगच्छत्, तदा पृथ्वीराजस्य नेतृत्वे सर्वेऽपि सेनापतयः स्वसेनया सह नरायन-दुर्गात् एव प्रयाणं कुर्वन्ति स्म । पृथ्वीराजस्य शासनकाले नरायन-नगरं व्यापारस्य मुख्यकेन्द्रम् आसीत् । जम्बूद्वीपे सर्वत्र नरायन-नगरात् व्यापारः भवति स्म ।
११९२ तमे वर्षे यदा पृथ्वीराजतृतीयः नरायनयुद्धस्य द्वितीये युद्धे पराजितः, ततः नरायन-नगरं देहल्याः शासनस्य भागम् अभवत् । फीरोज तुगलक इत्यस्य मृत्योः अनन्तरं १३८८ तमे वर्षे जफर खाँ इत्येषः स्वभ्रातरं शम्स् खाँ इत्यस्मै नागौर-प्रदेशस्य शासनम् अयच्छत् । ततः १४२० तमे वर्षे मोकल इत्याख्यः चित्तोड-प्रदेशस्य शासकः फीरोज खाँ इत्येनं पराजित्य नागौर-प्रदेशस्योपरि अधिकारं प्रापत् । एवं नरायन-नगरं चित्तोड-प्रदेशस्य भागम् अभवत् । १४३७ तमे वर्षे मुजैद खाँ इत्याख्यः यवनराजा नरायन-नगरे, साम्भर-नगरे च आक्रमणं कृत्वा तस्य प्रदेशस्य शासकः अभवत् । १४३७ तमस्य वर्षस्य जून-मासस्य तृतीये (३/६/१४३७) दिनाङ्के रविवासरे फारसी-लिप्या लिखितः कश्चन लेखः नरायन-नगरस्य गौरीकुण्डात् प्राप्तः । तस्य शिलालेखस्य अनुसारं मुजैद खाँ इत्यनेन नरायन-नगरे अनेकानि हिन्दुमन्दिराणि, जैनमन्दिराणि च नाशितानि । तेषां मन्दिराणां प्रस्तरैः एव तेन 'जामा मस्जिद्' इत्याख्यस्य यवनप्रार्थनागृहस्य निर्माणं कारितम् । गौरीकुण्डस्य नाम परिवर्त्य 'मुस्तफासर' इत्यकरोत् । परन्तु अपरे मासयेव महाराणा कुम्भा इत्येषः नरायन-नगरस्योपरि आक्रममण् अकरोत् ।
ई. १५५६-१६०६ मध्ये नरायन-नगरम् अकबर इत्यस्य अधिनम् आसीत् । तस्य काले अजमेर-प्रदेशशासनव्यावस्थायां नरायन-नगरम् अन्तर्भवति स्म । अजमेर-प्रदेशस्य शासनव्यवस्थां जयपुरप्रदेशस्य कछव-जनाः पश्यन्ति स्म । १६०५ तमे वर्षे अकबर इत्येषः नरायन-नगरस्य यात्राम् अपि अकरोत् । ततः भोजराजाख्यः कश्चन श्रेष्ठी नरायन-प्रदेशस्य अधिकारी आसीत् । तस्मिन् समये दादूदलाय इत्येषः प्रसिद्धि इत्याख्ये शिखरे निवसति स्म । दादूदलाय इत्येतस्य स्वभावेन प्रसन्नः भोजराजः, तस्मै नरायन-नगरम् उपायनत्वेन अयच्छत् [३३]।
जैनतीर्थत्वेन नरायन
[सम्पादयतु]चौहानवंशीयनां शासनकाल एव नरायन-नगरं जैनधर्मानुयायिनां मुख्यक्षेत्रत्वेनापि प्रसिद्धम् अभवत् । द्वादश्यां शताब्द्यां सिद्धसेनसूरिमहाराजेन "सकलतीर्थस्तोत्र"स्य रचना कृता । तस्मिन् स्तोत्रे नरायन-नगरं जैनमतानुयायिनां पवित्रधामत्वेन परिलक्षितम् । बिजौलिया-शिलालेखानुसारं प्राग्वाटवंशीयेन पुण्यराशिना वर्धमान-तीर्थङ्करस्य विशालमन्दिरं निर्मापितम् [३४] । ११३५ तमे विक्रमसंवत्सरे (१०७९) निर्मितशिलालेखानुसारं प्राग्वाटवंशीयः मथन इत्याख्यः शासकः सपरिवारं बाहुबलेः मूर्तिम् अस्थापयत् [३५] । एकादश्यां शताब्द्यां जैनलेखकः धनपालः 'सत्यपुरिया महावीर' इत्याख्ये ग्रन्थे व्यलिखत् यत्, नरायन-नगरे महावीरस्य अतिभव्यं मन्दिरम् अस्ति इति [३६] ।
नरायन-नगरे भैरवमन्दिरस्य पुरतः भूगर्भे श्वेतप्रस्तरैः निर्मिताः मूर्तयः, स्तम्भाः, द्वाराणि च प्रापन् । इतिहासविदां मतानुसारं कदाचित् ते अवशेषाः महावीरमन्दिरस्य एव सन्ति, यस्य वर्णनं धनपालेन कृतम् अस्ति इति । तस्मात् स्थानात् प्राप्तैः श्वेतप्रस्तरैः तु सिद्धं भवति यत्, तत् महावीरमन्दिरं श्वेतप्रस्तरैः निर्मितम् अत्युत्कटं मन्दिरं स्यात् । परन्तु द्वादश्याः शताब्द्याः अन्ते तन्मन्दिरं यवनानां क्रूरतायाः कारणेन नष्टम् अभवत् ।
नरायन-नगरे उत्खननकाले ११०२ तमे विक्रमसंवत्सरे जैनमतानुगुणं निर्मितायाः सरस्वतीदेव्याः मूर्तिः प्राप्ता [३७][३८] । सरस्वतीदेवीम् अतिरिच्य अन्याः तिस्रः मूर्तयः अपि प्राप्ताः । ताः मूर्तयः जैनमतानुसारमेव निर्मिताः सन्ति । ताः सर्वाः मूर्तयः सिंहारूढायाः वाहिनीदेव्याः सन्ति । तासु तिसॄषु मूर्तिषु एका मूर्तिः श्वेतप्रस्तरैः, अपरा कृष्णप्रस्तरैः निर्मिता ।
नरायन-दुर्गस्य धवलगृहे एकं विस्तृतं साभागारम् आसीत् । तस्मिन् सभागारे कवीनां, विदुषां, नटानां, नटीनां च ज्ञानकलाप्रदर्शनं भवति स्म । १२९३ तमे विक्रमसंवत्सरे द्वयोः जैनाचार्ययोः शास्त्रार्थः अपि नरायनदुर्ग एवाभवत् । शास्त्रार्थकर्तारौ तौ आचार्यौ क्रमेण खरतकदच्छाचार्यः श्रीजिनपतिसूरिः, उपकेशगच्छीयचैत्यवासी पद्मलभश्च (पद्मलभः फलवर्धिकायाः निवासी आसीत् । सद्यः फलवर्धिका फलोदी इति प्रसिद्धम् अस्ति । तत् मडेता-नगरस्य समीपे अवस्थितम् ।) आस्ताम् । प्राच्यकालात् शास्त्रार्थस्य भारतीयजनेभ्यः अतिमहत्त्वम् अस्ति । जिनपालोपाध्यायः तस्मिन् सभागारे उपस्थितिः आसीत् यदा तौ आचार्यौ शास्त्रर्थरतौ आस्ताम् । तस्य शास्त्रार्थस्य सम्पूर्णं विवरणं जिनपालोपाध्यायः स्वस्य खरतरगच्छपट्टावल्याम् अलिखत् । तेन लिपिबद्धं कृतं कार्यम् इतिहासविदां कृते प्रमाणानां समुद्रवत् अस्ति । १९६५ तमे वर्षे आचार्यमुनिः श्रीजिनविजयः कर्णावत्यां सिङ्गीजैनमाला इत्यस्याः मासिक्याः ४२ तमायां पत्रिकायां तद्विवरणं प्रकाशितम् [३९] ।
६ त्रिपुरी
[सम्पादयतु]त्रिपुर्याः तेवर इत्येतत् नामान्तरम् अस्ति । सद्यः त्रिपुरी तेवर इति नाम्ना एव प्रसिद्धम् अस्ति । ऐतिहासिकप्रमाणानाम् आधारेण सिध्यति यत्, विन्ध्य-सतपुडा-पर्वतमालिकयोः मध्ये स्थितः भूभागः अष्टम्यां शताब्द्यां चेदिदेश इतिनाम्ना प्रसिद्धः आसीत् । ततः सः भूभागः मध्यदेश इति प्रसिद्धः अभवत् । सद्यः सः प्रदेशः मध्यप्रदेशत्वेन प्रसिद्धः । तस्य मध्यप्रदेशस्य जबलपुर-नगरस्य सदर-आख्यात् स्थलात् भेटाघट्ट-स्थलगमनमार्गे तेवर इत्याखः ग्रामः विद्यते । सः ग्रामः त्रिपुरी इति ।
तेवर-ग्रामस्य जनसङ्ख्या १५,००० अस्ति । तं ग्रामं परितः अनेके देवालयाः, प्राचीनभवनानि च अर्मकत्वेन (Ruins, खंडहर) सन्ति । अर्मके अत्र तत्र अनेकाः मूर्तयः आकीर्णाः (Scattered) सन्ति । तत्र तादृश्यः मूर्तयः वर्षाकाले तु आधिक्येन दरीदृश्यन्ते । तेवर-ग्रामः प्राचीनस्य त्रिपुरीग्रामस्य अभिन्नः भागः अस्ति, यः प्राच्यकाले कुल्चरी गाङ्गेयस्य आधिपत्ये आसीत् । महाराजाधिराजस्य कर्णस्य शासनकाले त्रिपुरी न केवलं नगरम् आसीत्, अपि तु सम्पन्नराजधानी अपि आसीत् । महाराजाधिराजस्य कर्णस्य पट्टमहिष्या हूणराजकुमार्या आनलदेव्या भेडाघाट-स्थाने भव्यातिभव्यं शिवमन्दिरं निर्मापितम् इति उल्लेखः प्राप्यते ।
अनेके आधुनिकेतिहासविदः तस्य त्रिपुरी-ग्रामस्य यात्राम् अकुर्वन् । तेषाम् इतिहासविदां मतानुसारं तेवर-ग्रामे अधुना ये जनाः निवसन्ति, ते स्वग्रामस्य अद्वितीयम् इतिहासम् अपि न जानन्ति । कालग्रस्तः सः ग्रामः स्ववैभवपराङ्मुखः अभवत् । एकादश्यां शताब्द्यां चेदिराज्यस्य द्वौ विभागौ अस्ताम् । प्रप्रथमः विभागः पश्चिमचेदिदेशः इति प्रसिद्धः आसीत् । तस्य विभागस्य राजधानी त्रिपुरी आसीत् । द्वितीयः विभागः पूर्वचेदिदेशः 'महाकौशलम्' इति प्रसिद्धः आसीत् । तस्य राजधानी रत्नपुरम् (डाहल) आसीत् । इतिहासविदां दृढमतम् अस्ति यत्, प्राचीनकाले चेदिदेशः छत्तीसगढपर्यन्तं विस्तृतः आसीत् तथा च डाहल-स्थानं तस्य प्रदेशस्य पूर्वपश्चिमीकोणे आसीत् ।
कुल्चुरीवंशीयाः स्ववंशं हैहयवंशीयत्वेन परिगणयन्ति स्म । हैहयवंशीयानाम् आदिपुरुषः सहस्रार्जुनः आसीत् । तस्य अपरं नाम कार्तवीर्यः इति । तस्य राजधानी माहिष्मती आसीत् । तेषां हैहयवंशीयानां रक्षाव्यवस्था अति सुदृढा आसीत् । स्वव्यस्थायाः बलेन तैः नवीनकालगणनायाः आविष्कारः कृतः आसीत् । सा कालगणना कुल्चुरी-संवत्सरः इति प्रसिद्धा अस्ति । तस्य संवत्सरस्य द्वे नामान्तरे स्तः । ते नामनी चेदि-संवत्सरः, त्रौकुटक-संवत्सरः च । प्रसिद्धः पुरातात्त्विकः प्रो. कीलहार्न् इत्येषः कुल्चुरी-संवत्सरस्य आरम्भः ई. २५९ तमस्य वर्षस्य अगस्त-मासस्य षड्विंशतितमात् (२६/८/२५९) दिनाङ्कात् अभवत् इति स्वपुस्तके उल्लिखति । अर्थात् भारतीयकालगणनानुसारं ३०६ तमस्य विक्रमसंवत्सरस्य आश्विनमासस्य कृष्णप्रतिपपदः आरम्भः मन्यते [४०][४१] । कुल्चुरीसंवत्सरस्य प्रप्रथमशिलालेखः २४५ संवत्सरस्य प्राप्यते । कुल्चुरीसंवत्सरस्य अन्तिमशिलालेखः ९५८ संवत्सरस्य अस्ति [४२] । कुल्चुरीसंवत्सरस्य प्रचलनं ८०० वर्षं यावत् आसीत् । हैहैयवंशीयानां संवत्सरस्य अनुकरणं मैत्रक-त्रिकूटक-गुर्जर-सेन्द्रक-चालुक्य-वंशीयाः अपि कुर्वन्ति स्म । भारतीयेतिहासे अद्वितीयस्थाने स्थितानां कल्चुरीवंशीयानां पुत्री कर्पूरदेवी आसीत् । तस्याः गर्भादेव पृथ्वीराजतृतीयस्य जन्म अभवत् ।
७ समाना
[सम्पादयतु]समाना-नगरम् अद्यत्वे पञ्जाबराज्यस्य प्रमुखपत्तनत्वेन परिगण्यते । ३०.९ उत्तराक्षांशे, ७६.१५ पूर्वदेशान्तरे स्थितं तत् पत्तनं कोहराम-नगरात् पश्चिमदिशायां २० कि.मी. दूरे अवस्थितम् । प्राचीनग्रन्थेषु कोहराम, सुनाम, हाँसी इत्यादिभिः नामभिः सह सामना-नगरस्य उल्लेखः प्राप्यते । घोरी इत्येषः प्रारम्भिककाले येषु हिन्दुदुर्गेषु आधिपत्यम् अस्थापयत्, तेषु समानादुर्गम् अपि अन्यतमम् । समाना-दुर्गस्य प्रप्रथमशासकः कुतुबुद्दीन ऐबक इत्येषः आसीत् । ततः अल्तमश, आराम शाह, सैफुद्दीन इत्येते यवनशासकाः अत्र शासनम् अकुर्वन् ।
पृथ्वीराजतृतीयस्य शासनकाले एषः प्रदेशः पुण्डीर-राजपूतानाम् आधिपत्ये आसीत् । ते पुण्डीर-राजपूताः पृथ्वीराजस्य विश्वस्तसामन्तेषु मुख्याः आसन् । नरायनस्य युद्धे पराजयानन्तरं पुण्डीर-राजपूतानां श्रीः विनष्टा । अतः तस्मात् स्थलात् विस्थापिताः सन्तः ते यमुनातीरे स्वाधिवासं निर्मितवन्तः ।
८ गुहरामः
[सम्पादयतु]गुहराम-नगरम् अत्यन्तं प्राचीनं नगरम् अस्ति । तस्य प्राचीनतमं नाम धूमर इति प्राप्यते । ३०.७ उत्तराक्षांशे, ७६.३ पूर्वदेशान्तरे अवस्थितं तत् नगरं सद्यः पटियालामण्डलान्तर्गततया तिष्ठति । परम्परानुगुणं मान्यता अस्ति यत्, गुहराम-नगरं श्रीरामस्य मातृकगृहम् (Maternal, ननिहाल) आसीत् । गुरुगोविन्दसिंहेनापि स्वग्रन्थे गुहराम-नगरं श्रीरामस्य मातृकत्वेन उल्लितम् अस्ति [४३] । ततः गुहराम-नगरस्य नाम रामगढ इति अभवत् । रामायणानुसारं श्रीरामस्य माता कौशल्या कोसल-देशस्य राजकुमारी आसीत् ।
इतिहासविदां मते पुरातात्त्विकदृष्ट्या गुहराम-नगरम् अतिमहत्त्वपूर्णं नगरम् अस्ति । गुहराम-नगरे किञ्चन प्राचीनं दुर्गम् अपि अस्ति । इतिहासविदां मतानुसारं गुप्तकाले तस्य दुर्गस्य विन्यासः (स्थापना) अभवत् । यतो हि दुर्गस्य स्थापत्यकाला गुप्तकालीनस्थापत्यकलावत् दरीदृश्यते ।
गुहरामस्य उल्लेखः हिन्दीसाहित्येषु न प्राप्यते, परन्तु फारसी-साहित्येषु कोहराम-नामत्वेन पौनःपुन्येन उल्लेखः प्राप्यते । मध्यकाले गुहरामस्य सामरिकशक्तिः प्रख्याता आसीत् । ११९२ ई. मध्ये यदा घोरी इत्येषः नरायनस्य द्वितीयवयुद्धे अजयत्, तदा सामरिकास्थितायाः भयेन घोरी इत्येषः गुहरामस्य सेनां प्रप्रथमं स्वाधीनाम् अकरोत् । ततः घोरी इत्येषः कुतुबुद्दीन ऐबक इत्यस्मै शासनकार्यं दत्त्वा गझनी-प्रदेशं प्रत्यगच्छत् । यदा हाँसी इत्यस्मिन् प्रदेशे जलवान इत्याख्यः राजा आक्रमणम् अकरोत्, तदा आक्रमणस्य समाचारं कुतुबुद्दीन ऐबक् इत्येषः गुहरामे एव प्रापत् । गुहरामात् एव सः सैन्यबलेन सह प्रस्थानं कृत्वा प्रातःकाले हाँसी-दुर्गस्योपरि आक्रमणम् अकरोत् ।
उक्तविवरणनेन सिध्यति यत्, गुहराम-नगरं चौहानवंशीयानां काले कियत् महत्त्वपूर्णं सामरिककेन्द्रम् आसीदिति । ११९२ तमे वर्षे द्वितीयनरायनयुद्धात् प्राक् घोरी इत्यस्य अनेके गुप्तचराः छद्मवंशं स्वीकृत्य याचकरूपेण, नटरूपेण च पृथ्वीराजतृतीयस्य सर्वेषु सामरिककेन्द्रेषु तीक्ष्णनरीक्षणं कुर्वन्ति स्म । तेषु गुप्तचरेषु यस्य दायित्वं गुहराम-नगरस्योपरि दृष्टिपातस्य आसीत्, तस्य नाम सैय्यद मीरान इत्यासीत् । सः चिश्तप्रदेशीयः आसीत् । सः याचनां कुर्वन् आनगरम् अटति स्म । अटनकाले सः यां सूचनां सम्पादयति स्म, तां सूचनां लाहौर-मार्गेण घोरी इत्यस्य पार्श्वे प्रेषयति स्म । अद्यापि तस्य समाधिस्थानं ('कब्र') गुहराम-नगरस्य पूर्वभागे स्थिता अस्ति ।
दीर्घकाले व्यतीते सत्यपि अत्रत्यं दुर्गं जर्जरीतं नाभवत् । दुर्गं परितः विशालाः प्राचीराः सन्ति । दुर्गं पुरतः जलकुण्डः, उद्यानं च शुशोभेते । गुहरामस्य दुर्गं पटियाला-पेहोवा-नगरयोः मध्यमार्गे अवस्थितम् अस्ति । गुहराम-दुर्गात् किञ्चित् दूरे एव हरियाणाराज्यस्य कैथलमण्डलस्य सीमा अवस्थिता [४४] ।
चौहानवंशसम्बद्धाः शिलालेखाः
[सम्पादयतु]१. महाराजाधिराज-सिंहराज-कालीनः थाँवला-शिलालेखः वि.सं. १०१३ । सम्पादकः - श्रीरत्नचन्द्र अग्रवाल, अधीक्षकः राजस्थानपुरातत्त्वविभागः, मरुभारती ।
२. विग्रहराजद्वितीयकालीनः हर्षशिलालेखः वि.सं. १०३० । सम्पादकः – प्रो. एफ. कीलहार्न्, एपिग्रफिया इण्डिका, भागः २, पृ. ११९-१२५ ।
३. अजयराजस्य वस्सि-स्मृति-स्तम्भ-लेखः ११८९ तस्य विक्रमसंवत्सरस्य कार्तिकशुक्लपञ्चम्यां रविवासरे लिखितः (१६/१०/११३२) । सम्पादकः – सं. श्री सी एल् सूरी, मैसूर, एपिग्रैफिया इण्डिका, भागः ३७, १६३-६४ ।
४. अढाई दिन के झोपडा, अजमेर-नगरात् प्राप्तः चौहानप्रशस्तिशिलालेखः । सम्पादकः – डॉ. दशरथ शर्मा, अर्ली चौहान डाइनेस्टीज्, पृ. २०३-२०४ ।
५. श्रीजीणमातामन्दिरस्य (रेवासा, सीकर) त्रयः शिलालेखाः । सम्पादकः – श्री राम शर्मा, मैसूर, एपिग्रैफिया इण्डिका, भागः ४२, पृ. ६०-६४ ।
- अ. महाराजाधिराज-अर्णोराज-कालीनः शिलालेखः सं. ११९६ ।
- आ. महाराजाधिराज-अर्णोराज-कालीनः द्वितीयः शिलालेखः ११९६ तमस्य विक्रमसंवत्सरस्य वैशाखमासस्य शुक्लैकादश्यां निर्मितः ।
- इ. श्रीमहाराजाधिराजसोमेश्वर-कालीनः शिलालेखः । १२३० तमस्य विक्रमसंवत्सरस्य आषाढमासस्य शुक्लनवम्यायां तिथौ सोमवासरे निर्मितः ।
६. विग्रहराजचतुर्थकालीनः नरहड-शिलालेखः वि.सं. १२१५ ।
७. विग्रहराजचतुर्थकालीनः देहली-स्तम्भलेखः । अस्मिन् स्तम्भलेखेः विग्रहराजस्य उल्लेखः वीसलदेवत्वेन प्राप्यते । वि.सं. १२२० मध्ये निर्मितः । सम्पादकः – प्रो. एफ् कीलहार्न्, इण्डियन् एँटिक्वैरी, भागः १९, पृ. २१८-२२० ।
८. पृथ्वीभट्ट-कालीनः (पृथ्वीराजद्वितीयः) हाँसी-शिलालेखः, वि.सं. १२२४ । सम्पादकः – डॉ. डी डी आर् भण्डारकर, इण्डियन् एन्टिक्वैरीस भागः ४१, ई. १९१२, पृ. १७-१९ ।
९. पट्टमहिष्याः सुहवदेव्याः मेनाल-शिलालेखः, वि.सं. १२२५ । सम्पादकः – श्रीरत्नचन्द्र अग्रवाल, निदेशकः, राजस्थानपुरातत्त्वविभागः, जयपुरम्, मरुभारती, १९६५ जनवरी, पृ. १३ ।
१०. पृथ्वीराजद्वितीयस्य मेनाल-शिलालेखः, वि.सं. १२२६ । सम्पादकः – श्रीराम शर्मा, नई देहली, एपिग्रैफिया इण्डिका, भागः ३७, पृ. ३१९-३२२ ।
११. सोमेश्वरकालीनः बिजौलिया-शिलालेखः, वि.सं. १२२६ । सम्पादकः – अक्षयकीर्ति व्यास, एपीग्राफिया इण्डिका, भागः २६, पृ. १२-११२ ।
१२. आंवल्दा-क्षेत्रस्य द्वौ स्तम्भशिलालेखौ । सम्पादकः – डॉ. जी एस् घई, मैसूर, एपिग्राफिया इण्डिका, भागः ३७, पृ. २७९-२८१ ।
- अ. सोमेश्वरदेव-कालीनः वि.सं. १२३४ ।
- आ. पृथ्वीराजतृतीय-कालीनः वि,सं. १२३४ ।
१३. पृथ्वीराजतृतीय-कालीनः बडल्या वापी-शिलालेखः, वि.सं. १२३४ (१२३४ ?) । सम्पादकः – डॉ. डी. सी. सरकार , एपिग्राफिया इण्डिका, भागः ३२, पृ. २९९-३०४ ।
१४. फलोधी (पोकरन) शिलालेखः, वि.सं. १२३६ । सम्पादकः – डॉ. एल् पी टैसीटोरी, जर्नल् ऑफ् एशियाटिक् सोसायटी ऑफ् बंगाल (न.स.), भागः १२, ९३ ।
१५. चरलू (नागौर)-तः प्राप्ताः चत्वारः स्मारकलेखाः । वि.सं. १२३४-१२४४ मध्ये रचिताः ।
१६. पृथ्वीराजतृतीयस्य मदनपुर-शिलालेखः, वि.सं. १२३९ ।
१७. देहलीसङ्ग्रहालयस्य शिलालेखः, वि.सं. १३८४ । सम्पादकः – प्रो. जे. इङ्गलिङ्ग, एपिग्राफिया इण्डिका, भागः १, पृ. ९३-९४ ।
१८. पार्श्वनाथ फालौदी (मेडता रोड) स्थले मन्दिरात् प्राप्तः शिलालेखः, वि.सं. १५५५ । सम्पादकः – महोपाध्याय विनय सागर, राजस्थानभारती, भागः ९, अङ्कः २, पृ. २३-२५ ।
१९. विरुद्धविधिविध्वंसः । सम्पादकः – डॉ डी सी गांगुली, इण्डियन् हिस्टोपिकल् क्वार्टर्ली, भागः १६, पृ. ५८९-९० ।
२०. आशाधरस्य धर्मामृतशास्त्रम् ।
चौहानवंशावली
[सम्पादयतु]
सन्दर्भग्रन्थाः
[सम्पादयतु]
|
|
पृथ्वीराजविजयमहाकाव्यम् |
जयानकः, सम्पादकः – डॉ. ओझा एवं गुलेरी (अजमेर) |
पृथ्वीराजरासो (बृहद् संस्करणम्) |
सम्पादकः – मोहनलाल विष्णुलाल पण्ड्या, बाबू श्यामसुन्दरदास (वाराणसी) |
पृथ्वीराज रासउ |
सम्पादकः – डॉ. माता प्रसाद गुप्त (झांसी) |
पृथ्वीराज रासो |
सम्पादकः – डॉ दशरथ शर्मा एवं मीनाराम रंगा (बीकानेर) |
रासो साहित्य और पृथ्वीराज रासो |
सम्पादकः – मोतीलाल मेरारिया |
प्रबन्धचिन्तामणिः |
आचार्य मेरुतुङ्गः, सम्पादकः – आचार्य श्रीमुनिजिनविजयः |
विधितीर्थकल्पम् |
आचार्यजिनप्रभसूरिः, सम्पादकः – आचार्य मुनिजिनविजयः |
प्रबन्धकोशः |
श्रीराजशेखरसूरिः, सम्पादकः – आचार्यश्रीमुनिजिनविजयः |
खरतरगच्छपट्टावली |
जिनपालोपाध्यायः, सम्पादकः – आचार्य श्रीमुनिजिनविजयः |
चौहानराजवंशः (मध्यकालीन भारत) |
प्रो. जहूरखाँ मेरह (जोधपुर) |
राजस्थान का इतिहास |
डॉ गोपीनाथ शर्मा (उदयपुर) |
अन्कारकालन भारतवर्ष संस्कृति |
डॉ काशीप्रसाद जायसवाल |
चौहाण सरित्सागर (प्रथम खण्ड) |
डॉ. बिन्ध्यराज चौहान |
माँ आशापुरा का मन्दिर और नाडोल का चौहान राजवंश |
डॉ. बिन्ध्यराज चौहान |
माँ शाकम्भरी का मन्दिर और शाकम्भर-अजयमेरु का चौहानवंश |
डॉ. बिन्ध्यराज चौहान |
चौहान सम्राट् पृथ्वीराज तृतीय और उनका युग |
डॉ. दशरथ शर्मा |
अर्ली चौहान डाइनेस्टीज् |
डॉ. दशरथ शर्मा |
हिस्ट्री ऑफ् चाहमान्स |
डॉ रामवृक्ष सिंह |
पृथ्वीराज चौहान एनण्ड् हिड् टाइम्स् |
श्रीराम वल्लभ सोमानी |
आइने अकबरी |
अल्लामा अबुल फजल, आङ्ग्लानुवादः – कर्नल् एच् एस् जेरेट्, सम्पादकः डॉ जे एस् सरकार ई. १९४९ |
गुलशने इब्राहिमी उत तारीखे फरिश्ता |
मोहम्मज कासिम हिन्दू शाह फरिश्ता (ई. १६०६) |
उद्धरणम्
[सम्पादयतु]- ↑ एपिग्राफिया इण्डिका, खण्डः २६, श्लो. १२
- ↑ पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ७
- ↑ हिस्ट्री ऑफ् चाहमान्स्, पृ. ८५
- ↑ एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. २५१
- ↑ जयपुर डिस्ट्रिक्ट् गजेटियर्, सं.मिस् सावित्री गुप्ता, पृ. ९१८
- ↑ पृथ्वीराजविजयम्, सर्गः ५, श्लो. ७०, पृ. ११७
- ↑ पृथ्वीराजविजयम्, सर्गः ५, श्लो. ८१, पृ. ११९
- ↑ पृथ्वीराजविजयम्, सर्गः ५, श्लो. ८२, पृ. १२१
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ४९-५१. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. 51. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ पृथ्वीराजविजयम्, सर्गः ७, श्लो. १२, पृ. १८१
- ↑ http://facebookwarrior.blogspot.in/2012/09/blog-post_17.html
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६०. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ मरू भारती, वर्ष ३, अङ्कः १, पृ. ८५, गा.ओ.सि. पृ. २६९
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ६२. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ हांसी-शिलालेखः
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ७१-७३. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ पृथ्वीराजविजयम्, सर्गः ८, श्लो. ५७-६०
- ↑ एनल्स् एण्ड् एन्टिक्विटीज् ऑफ् राजस्थान, खण्डः २, पृ. ९३८
- ↑ ग्लोरी देट् वाज् गुर्जर् देश, खण्डः ३, पृ. २०३
- ↑ डॉ. गौरीशङ्कर हीराचन्द ओझा, बीकानेर राज्य का इतिहास, खण्डः १, पृ. २७
- ↑ डॉ आर् जी भण्डारकर, संस्कृतपाण्डुलिपियों की खोज (१८८३-८४) विवरण, पृ. ३९०
- ↑ एपिग्रफिया इण्डिका, खण्डः २, पृ. ४२२-२३
- ↑ इण्डियन् एन्टीक्वैरी, ई. १९१२, पृ. १९५
- ↑ पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ५१
- ↑ जनरल ए. कनिङ्घम्, आर्कियोलॉजिकल् सर्वे ऑफ् इण्डिया, भागः ६, प्लेट् ददख
- ↑ सं सी डी दलाल, गायकवाड ओरियेन्टल् सिरीज, सं. ४,पृ. ३
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2015-08-03. आह्रियत 2015-07-29.
- ↑ "संग्रह प्रतिलिपि". Archived from the original on 2015-07-26. आह्रियत 2015-07-29.
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. २४. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ इलियट् एण्ड् डाउसन्, (प्रो. हबीब संस्कररणम्), भागः २, पृ. ६६४-६५
- ↑ स्टडीज् इन् इन्डो मुस्लिम् हिस्ट्री, भागः १, पृ. १७९-१८०
- ↑ आर्कियोलाजिकल सर्वे ऑफ् इण्डिया, ई. १९०७-०८, पृ. २१६
- ↑ एपिग्राफिया इण्डिका, भागः २६, श्लो. ३६, पृ. ८४
- ↑ डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. २४
- ↑ डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. ३८१
- ↑ http://nationalmuseumindia.gov.in/prodCollections.asp?pid=31&id=2&lk=dp2
- ↑ डॉ. के सी जैन, एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, परिशिष्टसं. २६
- ↑ खरतरगच्छपट्टावली, प्राकृत भारती अकादमी, जयपुरम्, ई. २०००
- ↑ एपिग्राफिया इण्डिका, भागः २, पृ. २९९
- ↑ इण्डियन् एन्टिक्वैरी, भागः १७, पृ. २१५
- ↑ आर्कियोलाजिकल सर्वे ऑफ् इण्डिया, भागः २१, पृ. १०२, प्लेट् XXVII
- ↑ दर्शनग्रन्थः, छन्दः १०
- ↑ पञ्जाब स्टेट् गजेटियर्स्, भागः १७ अ, पटियाला स्टेट्, ई. १९०४, पृ. १९४
- ↑ सम्राट् पृथ्वीराज चौहान, देवसिंह मंडावा, ISBN - 978-81-86103-10-4, 2013, राजस्थानी-ग्रन्थागारम्, जोधपुरम्, पृ. १४८-१५१