शाकम्भरीमन्दिरम्
शाकम्भरीमन्दिरम् | |
---|---|
नाम | |
संस्कृतानुवादः: | शाकम्भरीमन्दिरम् |
अवस्थितिः | |
देशः: | भारतम् |
राज्यम्/प्रदेशः: | राजस्थानराज्यम् उत्तरप्रदेशराज्यम् |
मण्डलम्: | अजमेरमण्डलम् |
स्थानीय: | शाकम्भरीमन्दिरम् |
स्थापत्यकला संस्कृतिश्च | |
मुख्यदेवः/देवी: | शाकम्भरीदेवी |
प्रमुखोत्सवः: | चौहानवंशीयानां कुलदेवी |
स्थापत्यशैली: | मन्दिरस्थापत्यम् |
इतिहासः | |
निर्माणदिनाङ्कः: (वर्तमानप्रारूपम्) | तृतीयायाम् उत चतुर्थ्यां शताब्द्याम् |
स्रष्टा: | वासुदेवः |
शाकम्भरीदेवीमन्दिरं ( ( शृणु) /ˈsɑːkəmbhəriːməndɪrəm/) (हिन्दी: शाकम्भर नमकीन जलाशय, आङ्ग्ल: Sambhar Salt Lake) राजस्थानराज्यस्य जयपुरमण्डलस्य 'साम्भर लेक् टाउलन्' इत्याख्ये पत्तने विद्यते । एतस्य पत्तनस्य नाम एव शाकम्भरी आसीत् । शाकम्भरीदेवी चौहानवंशीयानां कुलदेवी अस्ति । शाकम्भरीदेव्याः नाम्ना एव चौहावंशीयानां राजधान्याः नाम "शाकम्भरी" इति आसीत् । चौहानसाम्राज्यम् अपि शाकम्भरीसाम्राज्यत्वेन प्रसिद्धम् अभवत् । चौहानवंशीयाः शासकाः शाकम्भरीशः, शाकम्भरीनरेशः इत्यादिनामभिः प्रसिद्धाः अभूवन् ।
भौगोलिकावस्थितिः
[सम्पादयतु]वर्तमनामसाम्भरपत्तनात् १९ कि.मी. दूरे पश्चिमदिशायां शाकम्भरीदेव्याः मन्दिरं विद्यते । २७.१०, ७५.६१ अक्षांशे मन्दिरम् अस्ति । राजस्थानराज्यस्य अजमेरमण्डलान्तर्गततया एतत् मन्दिरं विद्यते । प्रबन्धकोशग्रन्थानुसारं ६०८ विक्रमसंवत्सरे (ई. ५५१) वासुदेवः श्रीस्थलाख्ये स्थाने आखेटशालायाः निर्मापिता । सा आखेटशाला शाकम्भरीमन्दिरात् ५ कि.मी. देरे कोरसीना-ग्रामस्य समीपे गिरिकायाः तले श्रीस्थल-आख्ये स्थले विद्यते । अद्यापि तत्र पुरातत्त्वविभागस्य जनाः अन्वेषणं कुर्वन्तः सन्ति ।
इतिहासः
[सम्पादयतु]पार्वतीदेव्याः शाकम्भरीनामकरणस्य कथा मार्कण्डेयपुराणे प्राप्यते । मार्कण्डेयपुराणस्य देवीमाहात्म्ये उल्लिखितं यत्, चतुर्दशतमे वैवस्वतमन्वन्तरे भीषणदुर्भिक्षे (अकालस्थितौ) सति दुर्गादेवी शाकद्वारा बुभुक्षितानां जनानां पोषणम् अकरोत् । अतः देव्याः तं स्वरूपं "शाकम्भरी" इत्युच्यते ।
पृथ्वीराजविजयमहाकाव्ये नामकरणस्य भिन्ना कथा प्राप्यते । तत्र उल्लिखितं यत्, शाकम्भर-आख्यः एकः गन्धर्वः आसीत् । सः देव्याः परमभक्तः आसीत् । तस्य तपसा प्रसन्ना माता वरं याचयितम् अकथयत् । सः गन्धर्वः लौकिकवस्तूनां त्यागं कृत्वा "देवि ! अत्र निवसतु" इति न्यवेदयत् । तस्य इच्छा आसीत् यत्, देवी "शाकम्भरी" इत्याख्येन नाम्ना पूर्णविश्वे पूज्यमाना स्यात् इति । ततः मातुः आशीर्वादेन शाकम्भरीदेव्याः पूजा आरब्धा इति ।
वासुदेवानन्तरं सामन्तराजः शाकम्भर्याः राजा अभवत् । बिजौलिया-तः प्राप्तेन शिलालेखानुसारं [१], पृथ्वीराजविजयमहाकव्यानुसारं [२] यानि प्रमाणानि प्राप्यन्ते, तैः सिध्यति यत्, वासुदेवानन्तरं सामन्तराजः एव शाकम्भर्याः राजा अभवत् । सः माणिक्यराज इत्यपि प्रसिद्धः आसीत् । डॉ. रामवृक्षसिंह इत्यस्य मतम् अस्ति यत्, सामन्तराजः, माणिक्यराजश्च अभिन्नौ स्तः इति [३] । डॉ. कैलाशचन्द्र जैन इत्यस्य मतानुसारं "माणिक्यराजः" इति सामन्तराजस्य उपनाम स्यात् इति [४] । इतिहासविदां मतानुसारं श्रीस्थलादेव सामन्तराजेन स्वराज्यस्य सञ्चालनं कृतं स्यात् [५] । परन्तु सामन्तराजस्य काले शाकम्भर्याः समीपे एव राजधानी स्थापिता स्यात्, न तु शाकम्भर्याम् एव । तस्मिन्नेव काले लावणजलाशयस्य लवणव्यापारः निखिलभारते प्रसिद्धः स्यात् ।
प्राचीनकाले दुर्गम-नामकः कश्चन दैत्यः आसीत् । तस्य अत्याचारेण जनाः त्रस्ताः आसन् । त्रिषु लोकेषु तस्य भयं व्याप्तम् आसीत् । वैदिककार्याणि, अनुष्ठानानि, धार्मिककार्याणि च कोऽपि न करोति स्म । यतो हि सर्वत्र हिंसायाः, असुरक्षितायाः च वातावरणम् आसीत् । राक्षसस्य अत्याचारेण सह जनाः अन्यसमस्याभिः अपि पीडिताः आसन् । बहुभ्यः वर्षेभ्यः अकालः आसीत् । वर्षाणाम् अभावेन अन्नादीनाम् अभावः, पशूनां मृत्युः, बालकानाम् आर्तनादः च चतसॄषु दिक्षु व्याप्तः आसीत् ।
जनेषु व्याप्तस्य दुःखस्य निवारणं कर्तुं देवाः शिवालिकपर्वते(मूलस्थानं) दुर्गादेव्याः स्तवनम् आरभन्त । ते देवाः मात्रे प्रार्थनाम् अकुर्वन् यत्, हे मातः ! भवती एतस्मात् दुर्गमदैत्यात्, अस्याः विपदः च जनानां रक्षणं करोतु इति । ततः देवानाम् अनुरोधेन दुर्गामाता शाकम्भरीदेव्याः स्वरूपं धृत्वा तस्य दुर्गमदैत्यस्य संहारम् अकरोत् । अकालपीडिचानां जनानां शाकेन पोषणम् अकरोत् । ततः अम्बिकेश्वर्षिः समीपस्थायाः गिरिकायाः शिखरं प्रति अङ्गुलीनिर्देशम् अकरोत् । सः अवदत्, हे राजन् ! तस्मिन् शिखर एव शाकम्भरीदेव्याः प्राकट्यम् अभवत् । तत्रैव गम्भीरगर्जनया सह शाकम्भरीदेवी देवेभ्यः दर्शनम् अयच्छत् । एवं मे गुरोः शौनकर्षेः मुखात् मया श्रुतम् आसीत् तथा च स्वतपोबलेन, आन्तःस्फुरणया च मया अनुभुतम् अस्ति ।
अम्बिकेश्वर्षिः अवदत्, अहं विश्वस्तः अस्मि यत्, भवतः भक्तिभावेन, समर्पणभावेन च शाकम्भरीदेवी भवते दर्शनम् अवश्यं दास्यति । अहं भवते कञ्चित् अनुष्ठानं कथयामि, तस्य पूर्तौ देवी प्रत्यक्षा भविष्यति इति । ततः राजा तस्याः शिवालिक गिरिकायाः शिखरं गत्वा ऋषेः कथनानानुसारं स्तोत्रम् आरभत ।
“ | दीनान्बिलोक्य सुडनां करुर्णा नेत्र । शाकप्रदानपरिपालन तत्परे ! त्वाम् ! |
” |
उक्तस्तोत्रस्य समाप्तौ भयङ्करी गर्जना अभवत् । ततः शाकम्भरीदेवी राज्ञः सम्मुखं प्रकटिता । शाकम्भरीदेव्याः स्वरूपे लीनः राजा अचेतः अभवत् । अम्बिकेश्वरः किञ्चित् दूरे स्थितः शाकम्भरीदेव्याः लीलां पश्यन् आसीत् । तस्मिन्नेव काले गिरिकायाम् आकाशवाणी अभवत् यत्, हे राजन् ! अहं तव अनुष्ठानेन प्रसन्ना अस्मि । इच्छितवरं याचस्व इति । परन्तु अचेतनः राजा आकाशवाणीं न श्रुतवान् । अतः अम्बिकेश्वरः राजानं सञ्ज्ञिनम् अकरोत् । ततः राजा अयाचत्, मम राजधान्यां परितः या भूमिः अस्ति, सा भूमिः रजतमयी भवेत् इति । राज्ञः मनोरथस्य प्रत्युत्तरत्वेन "तथाऽस्तु पुत्र !" इति आकाशवाणी अभवत् । ततः पुनः आकाशवाणी अभवत् यत्, समीपे देवांशी-आख्यः अश्वः अस्ति, तस्मिन् स्थित्वा त्वं यावन्तं भागं स्वच्छीकर्तुं प्रभविष्यसि, तावान् भागः रजतमयः भविष्यति । परन्तु यदि त्वं पृष्ठे द्रक्ष्यसि, तर्हि तव कार्ये बाधा उद्भविष्यतीति ।
शाकम्भरीदेव्याः आदेशानुसारं अश्वारूढः राजा स्वराज्यं परितः २४ क्रोशान् यावत् स्थानं स्वच्छ्यकरोत् । ततः सः तस्यां गिरिकायां गत्वा अपश्यत् यत्, राज्यं परितः इप्सिता भूमिः रजतमयी अस्ति इति । ततः सः स्वप्रासादं गत्वा शाकम्भरीदेव्याः प्राकट्यस्य, वरदानस्य च सर्वं वृत्तान्तं स्वमात्रे अकथयत् । पुत्रस्य वचनं श्रुत्वा माता अति वेदनाम् अन्वभवत् । सा स्वपुत्रम् अवदत्, एतत् त्वया किं कृतम् ? सुखभोगस्य वरदानस्य याचना उचिता भवति । परन्तु त्वया यत्कृतम् अस्ति तेन राज्यस्य हानिरेव भविष्यति । तस्याः रजतभूमेः आकर्षणेन अनेके शत्रवः अस्माकं राज्यस्योपरि आक्रमणं करिष्यन्ति । एतत् वरदानम् अस्माकं कृते अनर्थकारि एव भविष्यति । अतः त्वं पुनः गत्वा वरतरं वरं याचस्व ।
ततः राजा तां गिरिकां पुनः आरुह्य शाकम्भरीस्तोत्रस्य आरम्भम् अकरोत् । राज्ञः भक्तिभावेन प्रसन्ना शाकम्भरीदेवी राज्ञे पुनः दर्शनम् अयच्छत् । ततः पुनः आकाशवाणी अभवत् यत्, तव कं मनोरथं पूर्णं करवाणि ? पुत्र ! इति । राजा अवदत्, हे मातः ! मम तां रजतमयीभूमिम् परिणमयतु इति । राज्ञः कथनानुसारं शाकम्भरीदेवी रजतभूमिं पर्यणमयत् । ततः राजा यदा तां भूमिम् अपश्यत्, तदा तत्र श्वेतलवणह्रदः (लावणजलाशयः) आसीत् । शाकम्भरीदेव्याः आशीर्वादेन लावणजलाशयस्य उत्पत्तिः अभवत् । तेन शाकम्भरीसाम्राज्यस्य आर्थिकशक्तौ अति वृद्धिः अभवत् । यस्यां गिरिकायां मातुः प्राकट्यस्थलम् आसीत्, तत्र स्वयम्भूतायाः शाकम्भरीदेव्याः मूर्तिः प्रकटिता । तस्याः मूर्तेः सम्मुखम् एकमासं यावत् शाकफलानि भुञ्जन् वासुदेवः शाकम्भरीदेव्याः स्तुतिम् अकरोत् । किंवदन्ती अस्ति यत्, यस्मिन् दिने शाकम्भरीदेव्याः मूर्तिः प्रकटिता, तस्मिन् दिने पौषमासस्य पूर्णिमा आसीदीति ।
पृथ्वीराजविजयमहाकाव्यस्य रचयिता काश्मीरवासी जयानकः चतुर्थे, पञ्चमे च सर्गे लावणजलाशयस्य उल्लेखं करोति । तत्र जयानकः उदलिखत्, एकदा राजा वासुदेवः आखेटाय वनम् अगच्छत् । तत्र एकस्मिन् रम्यस्थले सः विश्रामम् अकरोत् । ततः तेन चिन्तितं यत्, अत्र एकम् आखेटगृहस्य निर्माणं भवेदिति । अतः तेन तत्र आखेटगृहस्य निर्माणं कारितम् । ततः राजा यदा कदापि आखेटाय गच्छति स्म, तदा सः तस्मिन् आखेटगृहयेव विश्रामं करोति स्म । कस्मिश्चित् दिने आखेतात् क्लान्तः राजा यदा आखेटगृहं प्रविष्टः, तदा आखेटगृहस्य शय्यायां सः कञ्चन दिव्यपुरुषं विश्रान्तम् अपश्यत् । सः दिव्यपुरुषः गन्धर्वः आसीत् । स्वाखेटगृहे पर्यङ्के शयानं गन्धर्वं दृष्ट्वा राजा आश्चर्यचकितः अभवत् । ततः तेन दृष्टं यत्, तस्य गन्धर्वस्य मुखात् एका चमत्कारिणी गुलिका अधः अपतत् । सा गुलिका एव गन्धर्वाय आकाशविचरणाय शक्तिं प्रददाति स्म । राजा कौतूहलवशात् तां गुलिकां स्वहस्ते स्व्यकरोत् । तस्मिन्नेव काले गन्धर्वः जागृतः सन् स्वदिव्यगुलिकाया अन्वेषणम् आरभत । व्यग्रं गन्धर्वं दृष्ट्वा राजा तस्मै गन्धर्वाय दिव्यगुलिकां समार्पयत् । राज्ञः उदारव्यवहारं दृष्ट्वा गन्धर्वः अतिप्रसन्नः अभवत् ।
राजा तं गन्धर्वं स्वपरिचयं वक्तुं न्यवेदयत् । ततः सः गन्धर्वः अवदत्, अहं गन्धर्वः अस्मि, मे नाम विद्याधरः अस्ति । मम पिता गन्धर्वः आसीत्, तस्य नाम "शाकम्भर" इत्यासीत् । मम पिता कठोरतपस्यां कृत्वा पार्वतीदेवीं प्रसन्नाम् अकरोत् । मम पितुः कठोरतपस्यया प्रसन्ना देवी पार्वती मम पित्रे ईप्सितवरं दातुम् ईष्टवती । मम पिता भौतिकसम्पदाम् अनिच्छन् 'पार्वतीदेवी एतस्यां भूमौ निवासं कुर्यात्' इति वरम् अयाचत् । तदारभ्य माता पार्वती अत्र शाकम्भरीदेव्याः स्वरूपे निवसन्ती अस्ति । राज्ञः उदारव्यवहारेण प्रसन्नः सन् गन्धर्वः राज्ञे अकथत्, हे राजन् ! भवान् अश्वारोहणं कुर्वन् भूमौ एकस्य शूलस्य कर्षणं कृत्वा स्वराजधानीपर्यन्तं गच्छतु । परन्तु एकवारमपि पृष्ठे न पश्यतु इति । इत्युक्त्वा गन्धर्वः विद्याधरः अदृश्यः अभवत् ।
विद्याधरस्य आज्ञानुसारं शूलं भूमौ कर्षयन् अश्वारूढः राजा स्वराजधानीं गन्तुम् उद्यतः अभवत् । वेगेन स्वराजधानीं प्रति गच्छन् राजा समुद्रस्य गर्जनाम् अशृणोत् । तेन अनुभूतं यत्, समुद्रस्य विशालजललता (Wave, लहर) तस्य अनुसरणं करोति इति । राजा यावत् वेगेन धावति स्म, तावत् तस्याः जललतायाः ध्वनिः उग्रः भवति स्म । तेन ध्वनिना राज्ञः मनसि कौतूहलस्य स्थितिः समुद्भूता । अन्ततो गत्वा राजा विद्याधरस्य वचनं विस्मृत्य पृष्ठे अपश्यत् । यदा राजा पृष्ठे अपश्यत्, तदा तत्र विद्याधरः प्रकटः अभवत् । सः अवदत्, राजा भवान् मम वचनस्योलङ्घनम् अकरोत् । यदि भवान् एवं नाकरिष्यत्, तर्हि एषः समुद्रः रजतसमुद्रे परिवर्तितः अभविष्यत् । अधुना एषः लावणजलाशये परिवर्ततः अभवत् । परन्तु क्षोभः मास्तु । एषः लावणजलाशयः अनन्तकालं यावत् भवतः वंशजानाम् अधिकारे भविष्यति । एतस्य जलाशयस्य कीर्तिः निखिलविश्वे भविष्यति इत्युक्त्वा विद्याधरः अदृश्यः अभवत् ।
विद्याधरस्य वचनस्य पुष्टतायै राजा तस्य जलाशयस्य जलस्य सेवनम् अकरोत् । ततः तेन ज्ञातं यत्, विद्याधरस्य वचनानुसारम् एतस्य जलाशयस्य जलं लावणिकम् अस्ति इति । राजा ततः शाकम्भरीदेव्याः मन्दिरम् अगच्छत् । तत्र मातुः पूजार्चनां कृत्वा सः स्वराजधानीम् अगच्छत् ।
सुरजनचरितमहाकाव्यस्य रचयिता वङ्गप्रदेशीयः महाकविः चन्द्रशेखरः अस्ति । मुघलशासकस्य अकबर् इत्यस्य समये हाडाराजवंशस्य 'राव सुरजन' इत्येषः बनारस-चुनार-प्रदेशयोः शासकः आसीत् । तस्य सुरजनस्य आग्रहेण चन्द्रशेखरः सुरजनचरितमहाकाव्यस्य रचनाम् अकरोत् । एतस्य ग्रन्थस्य आरम्भः निश्चयेन सुरजनस्य शासनकाले अभवत्, परन्तु ग्रन्थसमाप्तौ पूर्वमेव सुरजनस्य मृत्युः जातः आसीत् । एवं भोजसत्तायाः काले सुरजनमहाकाव्यं जनसम्मुखं प्रस्तुतम् अभवत् । यद्यपि एषः ग्रन्थः हाडावंशीयैः सह सम्बद्धः अस्ति, तथापि चौहानवंशीयाः हाडावंशीयानां पूर्वजाः आसन् इत्यस्मात् कारणात् तेषाम् अपि उल्लेखः ग्रन्थेऽस्मिन् प्राप्यते । ग्रन्थेऽस्मिन् शाकम्भरीलावणजलाशयस्य वर्णनं विस्तरेण प्राप्यते । यथा अम्बिकेश्वरस्य कथा, पृथ्वीराजमहाकाव्यस्य कथा चास्तः, तथैव एतस्याः कथा वर्तते । सुरजनचरितमहाकाव्यस्य द्वितीये, तृतीये, चतुर्थे च सर्गे लावणजलाशस्य उल्लेखः प्राप्यते । तत्र उल्लिखितं यत्,
शाकम्भर्याः चन्दन-नामकस्य राज्ञः मृत्योः अनन्तरं, तस्य पुत्रः व्रजः राजा अभवत् । सः अतिप्रतापी राजा आसीत् । तेन अनेकानि विजयाभियानानि कृत्वा स्वराज्यस्य सीमाविस्तारः कृतः । व्रजस्य मृत्योपरान्तं तस्य पुत्रः विश्वपतिः (वाक्पतिः इति नाम अपि प्रसिद्धम्) शाकम्भर्याः राजा अभवत् । शाकम्भर्याः विशालशासनस्य राजनि सत्यपि विश्वपतिः व्याकुलः आसीत् । यतो हि तस्य स्वभावः स्वाभिमानी आसीत् । तस्य मतानुसारं यत् राज्यं तेन प्राप्तम् अस्ति, तत् पूर्वजानां पुरुषार्थस्य परिणामेन प्राप्तम् अस्ति । तेन स्वयं तु कोऽपि विशेषपुरुषार्थः न कृतः इति ।
स्वव्याकुलतायाः विषये राजा राजसभायां मन्त्रिभिः सह मन्त्रणाम् अकरोत् । विश्वपतेः गुरोः पुत्रः राज्ञः व्याकुलतायाः विषये अजानत् । तस्य नाम सुनयः आसीत् । सुनयः विश्वपतेः मित्रम् अपि आसीत् । एकदा सः राज्ञः समीपं गत्वा अवदत्, नीतिकुशलविदुषां मतम् अस्ति यत्, यावत् कोऽपि प्रश्नं न पृच्छति, तावत् उत्तरं न दातव्यम् इति । तथापि अहं भवतः आश्चर्ययुक्ताम्, उद्वेगशीलां च स्थितिं दृष्ट्वा किञ्चित् निवेदयामि । हे राजन् ! एतत् सुन्दरं, विशालं च राज्यं भवतः अधिकारे अस्ति । स्वमित्रैः सह उचितं व्यवहारं कृत्वा, शत्रूणां निकन्दनं कृत्वा च भवान् अलौकिककृत्यानाम् उदाहरणानि जगतः सम्मुखम् उपास्थापयत् । भवतः प्रजा भयेन, सङ्कटैः च कदापि व्याकुला न भवति । चतसॄषु दिक्षु यज्ञादिधार्मिकक्रियाः भवन्ति । तैः यज्ञैः सन्तुष्टः इन्द्रः अपि योग्यवर्षाः करोति । कर्मठपुरुषे श्रेष्ठ ! हे राजन् ! स्वराज्याय भवता यत्किमपि करणीयम् आसीत्, तत् सर्वं भवता कृतम् अस्ति इति मे मतम् । गहनचिन्तनान्तरम् अपि भवतः व्याकुलतायाः किमपि कारणम् अहं ज्ञातुं न शक्तवान् ।
भवान् अनेकासां मृगनयनीनां राजकुमारीणां पाणिग्रहणम् अकरोत् । तासां राजकुमारीणाम् एकेन नयनकटाक्षेण कामदेवः अपि उत्तेजितः भवति । एतावता भवान् न तु योग्यस्य राज्योत्तराधिकारिणः उत्पत्तिम् अकरोत्, न तु स्वराज्ञीनां प्रेमसत्कारस्य पूर्णानन्दम् अनुभूतवान् । तासु तारुण्योपेतराज्ञीषु सतीष्वपि भवतः एषः वैराग्यभावः अनुचितः अस्ति । देव ! एकत्र भवतः नवयौवनं सुन्दरं शरीरम् अस्ति, अपरत्र भीषणम् वैरागम् । हे जगन्नाथ ! स्वपराक्रमानुगुणं, स्वकुलपरम्परानुगुणं च स्वकर्तव्यानां पालनम् अकृत्वैव अकाले एव वैराग्यस्वीकरणेन या कीर्तिः भवता एतावता न प्राप्ता अस्ति, सा अपि लुप्ता भविष्यति । अत एव हे नरदेव ! अहं भवतः इच्छां स्पष्टतया ज्ञातुम् इच्छामि । यतो हि उज्ज्वलप्रकाशेन विना पदार्थस्य सुस्पष्टं दर्शनं न शक्यते इति ।
सुनयस्य वचनं श्रुत्वा राजा प्रत्युदतरत्, हे ब्राह्मणश्रेष्ठ ! भवतः स्नेहयुक्ता, युक्तियुक्ता, अनुकूला च वार्ता मे मनः विनीतम् अकरोत् । तथापि अहम् अन्यराजसदृशं स्वं साधारणमेव पश्यामि । अत एतावती सम्पत्तिः अपि मे मनः शान्तं कर्तुं न शक्नोति । यदि कैलासपर्वतादपि शुभ्रा, चिरस्थायी च कीर्तिः विश्वस्मिन् व्याप्ता न भवेत्, तर्हि तरुणस्त्रीणां कटाक्षाणां, क्षणिकसाम्राज्यस्य च को वा लाभः ? इति ।
राज्ञः मन्तव्यं ज्ञात्वा सुनयः अवदत्, हे नरश्रेष्ठ ! विद्वांसः इष्टसाधनाय द्वयोः मार्गयोः अवलम्बनाया कथयन्ति । प्रप्रथमस्तु प्राप्तवस्तूनां रक्षा अर्थात् क्षेमः । द्वितीयः अप्राप्तवस्तूनां प्राप्तिः अर्थात् योगः । अन्ये सर्वेऽपि उद्योगाः एतयोः क्षेमयोगयोः उपायाः भवन्ति । उक्तयोः प्रप्रथमस्य अर्थात् क्षेमस्य कृते सर्वेऽपि कटिबद्धाः भवन्ति तथा च सफलताप्राप्तिपर्यन्तं प्रयत्नशीलाः भवन्ति । यतो हि प्राप्तवस्तुनः रक्षायाम् असमर्थाः महतीं अपकीर्तिम् अवाप्नुवन्ति । परन्तु नीत्यनुगुणं निरन्तरप्रयत्नशीलः धीमान् पुरुषः अप्राप्तस्य प्राप्त्यै अद्भुतयशेन सत्कृतः भवति । एतावता धरायाम् अनेके राजानः अभूवन् । तेषु तान् राज्ञः एव सर्वे स्मरन्ति, ये स्वसत्कर्मभिः त्रिलोकीम् उज्ज्वलीम कृत्वा अगच्छन् । तेषां राज्ञां स्मरणं कोऽपि न करोति, ये विषयभोगेषु निमज्जिताः आसन् । अतः हे पृथ्वीपालक ! यदि भवान् अत्युत्कृष्टस्य यससः उत अलौकिकपदस्य च कामनां करोति, तर्हि विधिपूर्वकं तपः, जपं च कृत्वा इष्टदेवं प्रसन्नं करोतु । यतो हि –
“ | अखण्डब्रह्माण्डं सह चरित गाण्डीव वलयः, स्वदोर्दण्डेनैव प्रसभमपहर्तुं प्रभुरपि ।। |
” |
अर्थात्, मनुष्यश्रेष्ठः अर्जुनः, यस्य अपरं नाम "नरः" आसीत्, तस्य हस्ते विद्यमानः गाण्डीवधनुः तस्य वलयः आसीत् । सः स्वभुजदण्डस्य पराक्रमेण आब्रह्माण्डं हठात् वशीकर्तुं समर्थः आसीत् । तथापि सः पूर्णश्रद्धया तपस्यां कृत्वा भगवन्तं शङ्करं प्रसन्नं कृत्वा पाशुपतास्त्रं प्रापत् । अत एव भवानपि कस्मिँश्चित् निर्जनस्थाने हृदयं विशुद्धं कृत्वा परात्परशिवस्य अनुष्ठानं करोतु । किञ्च शुम्भदैत्यस्य हन्त्री, सिद्धिदात्री भगवती अस्माकं प्रदेशे शाकम्भरीनाम्ना विख्याता अस्ति । तस्याः शाकम्भरीदेव्याः पूजनेन अपि स्वमनोरथाः सिद्धाः भविष्यन्ति इति ।
सुनयस्य मुखात् नीतिवाक्यानि श्रुत्वा राज्ञः विचारमग्नः अभवत् । ततः सुनयस्य वचनानां पूर्णरीत्या परिशीलनं कृत्वा हर्षप्राप्तः राजा स्वगुरुपुत्रं प्रति कृतज्ञतां प्रादर्शयत् । ततः एकस्मिन् दिने स्वराजकार्यस्य दायित्वं स्वमन्त्रिभ्यः दत्त्वा राजा विश्वपतिः शाकम्भरीदेव्याः मन्दिरं प्रति प्रस्थानम् अकरोत् । तेन सह सुनयः अपि अगच्छत् । शाकम्भरीदेव्याः मन्दिरं प्रविश्य देव्याः याथाविधिः तौ पूजाम् अकरुताम् । तत्पश्चात् यज्ञादिकर्मभिः देवान् प्रसन्नान् कर्तुं राजा क्रमेण वनस्य फलानि, कन्दमूलानि, हरितपत्राणि, शुष्कपत्राणि च भुत्वा अन्तिमे बुभुक्षायाः तृष्णाम् अपि अत्यजत् । ततः मृन्निर्मितायां पीठिकायां एकस्य दर्भासनस्योपरि अशेत । क्रमेण एतावत्करणेन एकमासस्य कालः व्यतीतः । एवं सङ्कल्पविकल्पेभ्यः परो भूत्वा राजा शनैः शनैः शाकम्भरीदेव्याः ध्यानं कृत्वा तां स्वान्तःकरणे प्रास्थापयत् ।
विघ्नरहितेन, निरन्तरेण योगाभ्यासेन शाकम्भरीदेवी प्रसन्ना भूत्वा राज्ञः सम्मुखं प्रकटिता । स्वप्नावास्थायां शाकम्भरीदेव्याः दर्शनं कृत्वा राजा आश्चर्यं नानुभवति स्म, परन्तु जाग्रतावस्थायां यदा शाकम्भरीदेवी प्रत्यक्षा अभवत्, तदा सः शाकम्भरीदेव्याः विराड्रूपस्य दर्शनम् आश्चर्यपूर्णभावेन कुर्वन् आसीत् । ततः सहसा तस्य मुखात् शाकम्भरीदेव्याः स्तुतिः निर्गता । शाकम्भरीदेवी तस्मै अभयदानं दत्त्वा अवदत्, हे नृपश्रेष्ठ ! ईप्सितं वरं याचस्व इति । मातुः आशीर्वादेन राज्ञः हृदये विह्वलतायाः भावः समुद्भूतः । सः अवदत्, हे जननि ! भवत्याः करुणायाः योग्यः अस्मि इति ज्ञानमेव मे जन्मनः साफल्यम् अस्ति । हे भुवनवन्दिते ! देवानां समूहेभ्यः अपि यस्याः साक्षाद्दर्शनं दुर्लभम् अस्ति, तस्याः दर्शनात् अधिकः मत्कृते को विशेषः भवेत् ? चञ्चलाञ्चलयुक्तानां तरुणीनां, रत्न-सुवर्ण-साम्राज्यादीनां च क्षणिकोपभोगस्य मे कृते किमपि महत्त्वं नास्ति । अतः हे देवि ! भवती मह्यम् एतादृशं वरं यच्छतु, येन निखिलविश्वे मे कीर्तिः शाश्वतिकी भवेदिति ।
उत्तमस्य भक्तिमितः, निष्कपटस्य राज्ञः वचनं श्रुत्वा शाकम्भरीदेवी प्रसन्ना भूत्वा अवदत्, हे राजन् ! एषः शाकम्भरः देशः मम निरन्तराश्रयेण पवित्रः अस्ति । मम नाम्ना एव देशोऽयं "शाकम्भरी" इति विख्यातः अस्ति । मत्कृपया एषा भूमिः लवणयुक्ता भविष्यति । स्वाश्वम् आरूह्य पृष्ठे अदृष्ट्वा भवान् यावति क्षेत्रे धाविष्यति, तावत् सम्पूर्णं क्षेत्रं लवणमयं भविष्यति इति । एवम् उक्त्वा शाकम्भरीदेवी अन्तर्दधे । ततः शाकम्भरीदेव्याः आदेशानुसारं राजा एकस्मिन् अश्वे आरूढः अभवत् । ततः ईप्सितस्य क्षेत्रस्य भ्रमणं कृत्वा राजा शाकम्भरीदेव्याः मन्दिरम् अगच्छत् । पुनः शाकम्भरीदेवीं नमस्कृत्य सः स्वराजधानीम् अगच्छत् ।
सम्बद्धाः लेखाः
[सम्पादयतु]उद्धरणम्
[सम्पादयतु]- ↑ एपिग्राफिया इण्डिका, खण्डः २६, श्लो. १२
- ↑ पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ७
- ↑ हिस्ट्री ऑफ् चाहमान्स्, पृ. ८५
- ↑ एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. २५१
- ↑ जयपुर डिस्ट्रिक्ट् गजेटियर्, सं.मिस् सावित्री गुप्ता, पृ. ९१८
- ↑ "शाकम्भरी माता की आरती". भजन सागर. Archived from the original on 2023-12-08. आह्रियत 2023-12-14.
- ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ८-१५. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५-१६. ISBN 978-81-86103-09-1 Check
|isbn=
value (help). - ↑ डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १६-२०. ISBN 978-81-86103-09-1 Check
|isbn=
value (help).