शाकम्भरीमन्दिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शाकम्भरीमन्दिरम्
नाम
संस्कृतानुवादः: शाकम्भरीमन्दिरम्
अवस्थितिः
देशः: भारतम्
राज्यम्/प्रदेशः: राजस्थानराज्यम् उत्तरप्रदेशराज्यम्
मण्डलम्: अजमेरमण्डलम्
स्थानीय: शाकम्भरीमन्दिरम्
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: शाकम्भरीदेवी
प्रमुखोत्सवः: चौहानवंशीयानां कुलदेवी
स्थापत्यशैली: मन्दिरस्थापत्यम्
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
तृतीयायाम् उत चतुर्थ्यां शताब्द्याम्
स्रष्टा: वासुदेवः
शाकम्भरी देवी

शाकम्भरीदेवीमन्दिरं ( /ˈsɑːkəmbhərməndɪrəm/) (हिन्दी: शाकम्भर नमकीन जलाशय, आङ्ग्ल: Sambhar Salt Lake) राजस्थानराज्यस्य जयपुरमण्डलस्य 'साम्भर लेक् टाउलन्' इत्याख्ये पत्तने विद्यते । एतस्य पत्तनस्य नाम एव शाकम्भरी आसीत् । शाकम्भरीदेवी चौहानवंशीयानां कुलदेवी अस्ति । शाकम्भरीदेव्याः नाम्ना एव चौहावंशीयानां राजधान्याः नाम "शाकम्भरी" इति आसीत् । चौहानसाम्राज्यम् अपि शाकम्भरीसाम्राज्यत्वेन प्रसिद्धम् अभवत् । चौहानवंशीयाः शासकाः शाकम्भरीशः, शाकम्भरीनरेशः इत्यादिनामभिः प्रसिद्धाः अभूवन् ।

शाकम्भरी देवी सहारनपुर

भौगोलिकावस्थितिः[सम्पादयतु]

वर्तमनामसाम्भरपत्तनात् १९ कि.मी. दूरे पश्चिमदिशायां शाकम्भरीदेव्याः मन्दिरं विद्यते । २७.१०, ७५.६१ अक्षांशे मन्दिरम् अस्ति । राजस्थानराज्यस्य अजमेरमण्डलान्तर्गततया एतत् मन्दिरं विद्यते । प्रबन्धकोशग्रन्थानुसारं ६०८ विक्रमसंवत्सरे (ई. ५५१) वासुदेवः श्रीस्थलाख्ये स्थाने आखेटशालायाः निर्मापिता । सा आखेटशाला शाकम्भरीमन्दिरात् ५ कि.मी. देरे कोरसीना-ग्रामस्य समीपे गिरिकायाः तले श्रीस्थल-आख्ये स्थले विद्यते । अद्यापि तत्र पुरातत्त्वविभागस्य जनाः अन्वेषणं कुर्वन्तः सन्ति ।

इतिहासः[सम्पादयतु]

पार्वतीदेव्याः शाकम्भरीनामकरणस्य कथा मार्कण्डेयपुराणे प्राप्यते । मार्कण्डेयपुराणस्य देवीमाहात्म्ये उल्लिखितं यत्, चतुर्दशतमे वैवस्वतमन्वन्तरे भीषणदुर्भिक्षे (अकालस्थितौ) सति दुर्गादेवी शाकद्वारा बुभुक्षितानां जनानां पोषणम् अकरोत् । अतः देव्याः तं स्वरूपं "शाकम्भरी" इत्युच्यते ।

पृथ्वीराजविजयमहाकाव्ये नामकरणस्य भिन्ना कथा प्राप्यते । तत्र उल्लिखितं यत्, शाकम्भर-आख्यः एकः गन्धर्वः आसीत् । सः देव्याः परमभक्तः आसीत् । तस्य तपसा प्रसन्ना माता वरं याचयितम् अकथयत् । सः गन्धर्वः लौकिकवस्तूनां त्यागं कृत्वा "देवि ! अत्र निवसतु" इति न्यवेदयत् । तस्य इच्छा आसीत् यत्, देवी "शाकम्भरी" इत्याख्येन नाम्ना पूर्णविश्वे पूज्यमाना स्यात् इति । ततः मातुः आशीर्वादेन शाकम्भरीदेव्याः पूजा आरब्धा इति ।

वासुदेवानन्तरं सामन्तराजः शाकम्भर्याः राजा अभवत् । बिजौलिया-तः प्राप्तेन शिलालेखानुसारं [१], पृथ्वीराजविजयमहाकव्यानुसारं [२] यानि प्रमाणानि प्राप्यन्ते, तैः सिध्यति यत्, वासुदेवानन्तरं सामन्तराजः एव शाकम्भर्याः राजा अभवत् । सः माणिक्यराज इत्यपि प्रसिद्धः आसीत् । डॉ. रामवृक्षसिंह इत्यस्य मतम् अस्ति यत्, सामन्तराजः, माणिक्यराजश्च अभिन्नौ स्तः इति [३] । डॉ. कैलाशचन्द्र जैन इत्यस्य मतानुसारं "माणिक्यराजः" इति सामन्तराजस्य उपनाम स्यात् इति [४] । इतिहासविदां मतानुसारं श्रीस्थलादेव सामन्तराजेन स्वराज्यस्य सञ्चालनं कृतं स्यात् [५] । परन्तु सामन्तराजस्य काले शाकम्भर्याः समीपे एव राजधानी स्थापिता स्यात्, न तु शाकम्भर्याम् एव । तस्मिन्नेव काले लावणजलाशयस्य लवणव्यापारः निखिलभारते प्रसिद्धः स्यात् ।

शाकम्भरीदेव्याः अवतरणकथा [६][७][सम्पादयतु]

प्राचीनकाले दुर्गम-नामकः कश्चन दैत्यः आसीत् । तस्य अत्याचारेण जनाः त्रस्ताः आसन् । त्रिषु लोकेषु तस्य भयं व्याप्तम् आसीत् । वैदिककार्याणि, अनुष्ठानानि, धार्मिककार्याणि च कोऽपि न करोति स्म । यतो हि सर्वत्र हिंसायाः, असुरक्षितायाः च वातावरणम् आसीत् । राक्षसस्य अत्याचारेण सह जनाः अन्यसमस्याभिः अपि पीडिताः आसन् । बहुभ्यः वर्षेभ्यः अकालः आसीत् । वर्षाणाम् अभावेन अन्नादीनाम् अभावः, पशूनां मृत्युः, बालकानाम् आर्तनादः च चतसॄषु दिक्षु व्याप्तः आसीत् ।

जनेषु व्याप्तस्य दुःखस्य निवारणं कर्तुं देवाः शिवालिकपर्वते(मूलस्थानं) दुर्गादेव्याः स्तवनम् आरभन्त । ते देवाः मात्रे प्रार्थनाम् अकुर्वन् यत्, हे मातः ! भवती एतस्मात् दुर्गमदैत्यात्, अस्याः विपदः च जनानां रक्षणं करोतु इति । ततः देवानाम् अनुरोधेन दुर्गामाता शाकम्भरीदेव्याः स्वरूपं धृत्वा तस्य दुर्गमदैत्यस्य संहारम् अकरोत् । अकालपीडिचानां जनानां शाकेन पोषणम् अकरोत् । ततः अम्बिकेश्वर्षिः समीपस्थायाः गिरिकायाः शिखरं प्रति अङ्गुलीनिर्देशम् अकरोत् । सः अवदत्, हे राजन् ! तस्मिन् शिखर एव शाकम्भरीदेव्याः प्राकट्यम् अभवत् । तत्रैव गम्भीरगर्जनया सह शाकम्भरीदेवी देवेभ्यः दर्शनम् अयच्छत् । एवं मे गुरोः शौनकर्षेः मुखात् मया श्रुतम् आसीत् तथा च स्वतपोबलेन, आन्तःस्फुरणया च मया अनुभुतम् अस्ति ।

अम्बिकेश्वर्षिः अवदत्, अहं विश्वस्तः अस्मि यत्, भवतः भक्तिभावेन, समर्पणभावेन च शाकम्भरीदेवी भवते दर्शनम् अवश्यं दास्यति । अहं भवते कञ्चित् अनुष्ठानं कथयामि, तस्य पूर्तौ देवी प्रत्यक्षा भविष्यति इति । ततः राजा तस्याः शिवालिक गिरिकायाः शिखरं गत्वा ऋषेः कथनानानुसारं स्तोत्रम् आरभत ।

दीनान्बिलोक्य सुडनां करुर्णा नेत्र ।

शाकप्रदानपरिपालन तत्परे ! त्वाम् ‌!
हे दुर्गमासुरबधाय धृतावतारे ।
शाकम्भरीं भगवतीं शरणागतोऽस्मि ।। १ ।।
महाकालीस्वरूपेण मधुकैचभमोहिनी ष
पद्मजश्च स्वयात्रातः शाकम्भरी नमोऽस्तुते ।। २ ।।
महालक्ष्मीस्वरूपेण महिषासुरमर्दिनी ।
देवतेजोद्भवे मातः शाकम्भरी नमोऽस्तुते ।। ३।।
कालिके कौशिकीरूपे धूम्रलोचनमर्दिनी ।
चामुण्डे चण्डमुण्डघ्ने शाकम्भरी नमोऽस्तुते ।। ४ ।।
ब्रह्माणी चैव रुद्राणी कौमारी वैष्णवी तथा ।
वाराही नारसिंहीश्च शिवदूती तथैव च ।। ५ ।।
इन्द्राणी च जनन्योऽष्टौवर्वत्स्वरूपाः पृथक् पृथक् ।
रक्तबीजबधार्थाय शिवालिकवासिनी नमोऽस्तुते ।। ६ ।।
शुम्भस्यैव निशुम्भस्य मर्दिनी जगदम्बिका ।
नारायणी स्वमेवासि शाकम्भरी नमोऽस्तुते ।। ७ ।।
भीमा च भ्रामरी नन्दा दुर्गा वै रक्तदन्तिका ।
त्वमेव सर्व शत्रुघ्ने शिवालिकवासिनी नमोऽस्तुते ।। ८ ।।
तारा, छिन्ना च बगला बाला त्रिपुरसुन्दरी ।
त्वद्रूपाः कमलाषूमा शाकम्भरी नमोऽस्तुते ।। ९ ।।
गायत्री चैव सावित्री तथा वेदान्तरूपिणी ।
स्वाह स्वधा त्वमेवासि शाकम्भरी नमोऽस्तुते ।। १० ।।
सर्वत्र सर्वरूपाणि सर्वेशां सर्वशक्तयः ।
त्वमेवासि जगद्धात्री शाकम्भरी नमोऽस्तुते ।। ११ ।।
सर्वशास्त्रस्वरूपासि, मन्त्रतन्त्रस्वरूपिणी ।
सर्वयन्त्राधिरूढासि शाकम्भरी नमोऽस्तुते ।। १२ ।।
नित्यं वससि भक्तानामालयेषु च कामदा ।
कुलदेवी स्वरूपेण शाकम्भरी सदाऽव माम् ।। १३ ।।
पर्वतेषु च दुर्गेषु काननेषु महार्णवे ।
चरन्ते नगरे ग्रामे शाकम्भरी सदाऽव माम् ।। १४ ।।
यक्षरक्षः पिशाचेक्ष्यः डाकिनी शाकिनी भयात् ।
सर्पसिंहगजादिभ्यः शाकम्भरी सदाऽव माम् ।। १५ ।।
राजद्वारे रणोद्यूते सङ्कटे राष्ट्रविप्लवे ।
भद्रकालीस्वरूपेण शाकम्भरी सदाऽव माम् ।। १६ ।।
तिष्ठन्तं चैवगच्छन्तं मुञ्जातशयनेरतम् ।
जगद्धात्रीस्वरूपेण शाकम्भरी सदाऽव माम् ।। १७ ।।
 

उक्तस्तोत्रस्य समाप्तौ भयङ्करी गर्जना अभवत् । ततः शाकम्भरीदेवी राज्ञः सम्मुखं प्रकटिता । शाकम्भरीदेव्याः स्वरूपे लीनः राजा अचेतः अभवत् । अम्बिकेश्वरः किञ्चित् दूरे स्थितः शाकम्भरीदेव्याः लीलां पश्यन् आसीत् । तस्मिन्नेव काले गिरिकायाम् आकाशवाणी अभवत् यत्, हे राजन् ! अहं तव अनुष्ठानेन प्रसन्ना अस्मि । इच्छितवरं याचस्व इति । परन्तु अचेतनः राजा आकाशवाणीं न श्रुतवान् । अतः अम्बिकेश्वरः राजानं सञ्ज्ञिनम् अकरोत् । ततः राजा अयाचत्, मम राजधान्यां परितः या भूमिः अस्ति, सा भूमिः रजतमयी भवेत् इति । राज्ञः मनोरथस्य प्रत्युत्तरत्वेन "तथाऽस्तु पुत्र !" इति आकाशवाणी अभवत् । ततः पुनः आकाशवाणी अभवत् यत्, समीपे देवांशी-आख्यः अश्वः अस्ति, तस्मिन् स्थित्वा त्वं यावन्तं भागं स्वच्छीकर्तुं प्रभविष्यसि, तावान् भागः रजतमयः भविष्यति । परन्तु यदि त्वं पृष्ठे द्रक्ष्यसि, तर्हि तव कार्ये बाधा उद्भविष्यतीति ।

शाकम्भरीदेव्याः आदेशानुसारं अश्वारूढः राजा स्वराज्यं परितः २४ क्रोशान् यावत् स्थानं स्वच्छ्यकरोत् । ततः सः तस्यां गिरिकायां गत्वा अपश्यत् यत्, राज्यं परितः इप्सिता भूमिः रजतमयी अस्ति इति । ततः सः स्वप्रासादं गत्वा शाकम्भरीदेव्याः प्राकट्यस्य, वरदानस्य च सर्वं वृत्तान्तं स्वमात्रे अकथयत् । पुत्रस्य वचनं श्रुत्वा माता अति वेदनाम् अन्वभवत् । सा स्वपुत्रम् अवदत्, एतत् त्वया किं कृतम् ? सुखभोगस्य वरदानस्य याचना उचिता भवति । परन्तु त्वया यत्कृतम् अस्ति तेन राज्यस्य हानिरेव भविष्यति । तस्याः रजतभूमेः आकर्षणेन अनेके शत्रवः अस्माकं राज्यस्योपरि आक्रमणं करिष्यन्ति । एतत् वरदानम् अस्माकं कृते अनर्थकारि एव भविष्यति । अतः त्वं पुनः गत्वा वरतरं वरं याचस्व ।

ततः राजा तां गिरिकां पुनः आरुह्य शाकम्भरीस्तोत्रस्य आरम्भम् अकरोत् । राज्ञः भक्तिभावेन प्रसन्ना शाकम्भरीदेवी राज्ञे पुनः दर्शनम् अयच्छत् । ततः पुनः आकाशवाणी अभवत् यत्, तव कं मनोरथं पूर्णं करवाणि ? पुत्र ! इति । राजा अवदत्, हे मातः ! मम तां रजतमयीभूमिम् परिणमयतु इति । राज्ञः कथनानुसारं शाकम्भरीदेवी रजतभूमिं पर्यणमयत् । ततः राजा यदा तां भूमिम् अपश्यत्, तदा तत्र श्वेतलवणह्रदः (लावणजलाशयः) आसीत् । शाकम्भरीदेव्याः आशीर्वादेन लावणजलाशयस्य उत्पत्तिः अभवत् । तेन शाकम्भरीसाम्राज्यस्य आर्थिकशक्तौ अति वृद्धिः अभवत् । यस्यां गिरिकायां मातुः प्राकट्यस्थलम् आसीत्, तत्र स्वयम्भूतायाः शाकम्भरीदेव्याः मूर्तिः प्रकटिता । तस्याः मूर्तेः सम्मुखम् एकमासं यावत् शाकफलानि भुञ्जन् वासुदेवः शाकम्भरीदेव्याः स्तुतिम् अकरोत् । किंवदन्ती अस्ति यत्, यस्मिन् दिने शाकम्भरीदेव्याः मूर्तिः प्रकटिता, तस्मिन् दिने पौषमासस्य पूर्णिमा आसीदीति ।

पृथ्वीराजविजयमहाकाव्यानुसारम् [८][सम्पादयतु]

पृथ्वीराजविजयमहाकाव्यस्य रचयिता काश्मीरवासी जयानकः चतुर्थे, पञ्चमे च सर्गे लावणजलाशयस्य उल्लेखं करोति । तत्र जयानकः उदलिखत्, एकदा राजा वासुदेवः आखेटाय वनम् अगच्छत् । तत्र एकस्मिन् रम्यस्थले सः विश्रामम् अकरोत् । ततः तेन चिन्तितं यत्, अत्र एकम् आखेटगृहस्य निर्माणं भवेदिति । अतः तेन तत्र आखेटगृहस्य निर्माणं कारितम् । ततः राजा यदा कदापि आखेटाय गच्छति स्म, तदा सः तस्मिन् आखेटगृहयेव विश्रामं करोति स्म । कस्मिश्चित् दिने आखेतात् क्लान्तः राजा यदा आखेटगृहं प्रविष्टः, तदा आखेटगृहस्य शय्यायां सः कञ्चन दिव्यपुरुषं विश्रान्तम् अपश्यत् । सः दिव्यपुरुषः गन्धर्वः आसीत् । स्वाखेटगृहे पर्यङ्के शयानं गन्धर्वं दृष्ट्वा राजा आश्चर्यचकितः अभवत् । ततः तेन दृष्टं यत्, तस्य गन्धर्वस्य मुखात् एका चमत्कारिणी गुलिका अधः अपतत् । सा गुलिका एव गन्धर्वाय आकाशविचरणाय शक्तिं प्रददाति स्म । राजा कौतूहलवशात् तां गुलिकां स्वहस्ते स्व्यकरोत् । तस्मिन्नेव काले गन्धर्वः जागृतः सन् स्वदिव्यगुलिकाया अन्वेषणम् आरभत । व्यग्रं गन्धर्वं दृष्ट्वा राजा तस्मै गन्धर्वाय दिव्यगुलिकां समार्पयत् । राज्ञः उदारव्यवहारं दृष्ट्वा गन्धर्वः अतिप्रसन्नः अभवत् ।

राजा तं गन्धर्वं स्वपरिचयं वक्तुं न्यवेदयत् । ततः सः गन्धर्वः अवदत्, अहं गन्धर्वः अस्मि, मे नाम विद्याधरः अस्ति । मम पिता गन्धर्वः आसीत्, तस्य नाम "शाकम्भर" इत्यासीत् । मम पिता कठोरतपस्यां कृत्वा पार्वतीदेवीं प्रसन्नाम् अकरोत् । मम पितुः कठोरतपस्यया प्रसन्ना देवी पार्वती मम पित्रे ईप्सितवरं दातुम् ईष्टवती । मम पिता भौतिकसम्पदाम् अनिच्छन् 'पार्वतीदेवी एतस्यां भूमौ निवासं कुर्यात्' इति वरम् अयाचत् । तदारभ्य माता पार्वती अत्र शाकम्भरीदेव्याः स्वरूपे निवसन्ती अस्ति । राज्ञः उदारव्यवहारेण प्रसन्नः सन् गन्धर्वः राज्ञे अकथत्, हे राजन् ! भवान् अश्वारोहणं कुर्वन् भूमौ एकस्य शूलस्य कर्षणं कृत्वा स्वराजधानीपर्यन्तं गच्छतु । परन्तु एकवारमपि पृष्ठे न पश्यतु इति । इत्युक्त्वा गन्धर्वः विद्याधरः अदृश्यः अभवत् ।

विद्याधरस्य आज्ञानुसारं शूलं भूमौ कर्षयन् अश्वारूढः राजा स्वराजधानीं गन्तुम् उद्यतः अभवत् । वेगेन स्वराजधानीं प्रति गच्छन् राजा समुद्रस्य गर्जनाम् अशृणोत् । तेन अनुभूतं यत्, समुद्रस्य विशालजललता (Wave, लहर) तस्य अनुसरणं करोति इति । राजा यावत् वेगेन धावति स्म, तावत् तस्याः जललतायाः ध्वनिः उग्रः भवति स्म । तेन ध्वनिना राज्ञः मनसि कौतूहलस्य स्थितिः समुद्भूता । अन्ततो गत्वा राजा विद्याधरस्य वचनं विस्मृत्य पृष्ठे अपश्यत् । यदा राजा पृष्ठे अपश्यत्, तदा तत्र विद्याधरः प्रकटः अभवत् । सः अवदत्, राजा भवान् मम वचनस्योलङ्घनम् अकरोत् । यदि भवान् एवं नाकरिष्यत्, तर्हि एषः समुद्रः रजतसमुद्रे परिवर्तितः अभविष्यत् । अधुना एषः लावणजलाशये परिवर्ततः अभवत् । परन्तु क्षोभः मास्तु । एषः लावणजलाशयः अनन्तकालं यावत् भवतः वंशजानाम् अधिकारे भविष्यति । एतस्य जलाशयस्य कीर्तिः निखिलविश्वे भविष्यति इत्युक्त्वा विद्याधरः अदृश्यः अभवत् ।

विद्याधरस्य वचनस्य पुष्टतायै राजा तस्य जलाशयस्य जलस्य सेवनम् अकरोत् । ततः तेन ज्ञातं यत्, विद्याधरस्य वचनानुसारम् एतस्य जलाशयस्य जलं लावणिकम् अस्ति इति । राजा ततः शाकम्भरीदेव्याः मन्दिरम् अगच्छत् । तत्र मातुः पूजार्चनां कृत्वा सः स्वराजधानीम् अगच्छत् ।

सुरजनचरितमहाकाव्यम् [९][सम्पादयतु]

सुरजनचरितमहाकाव्यस्य रचयिता वङ्गप्रदेशीयः महाकविः चन्द्रशेखरः अस्ति । मुघलशासकस्य अकबर् इत्यस्य समये हाडाराजवंशस्य 'राव सुरजन' इत्येषः बनारस-चुनार-प्रदेशयोः शासकः आसीत् । तस्य सुरजनस्य आग्रहेण चन्द्रशेखरः सुरजनचरितमहाकाव्यस्य रचनाम् अकरोत् । एतस्य ग्रन्थस्य आरम्भः निश्चयेन सुरजनस्य शासनकाले अभवत्, परन्तु ग्रन्थसमाप्तौ पूर्वमेव सुरजनस्य मृत्युः जातः आसीत् । एवं भोजसत्तायाः काले सुरजनमहाकाव्यं जनसम्मुखं प्रस्तुतम् अभवत् । यद्यपि एषः ग्रन्थः हाडावंशीयैः सह सम्बद्धः अस्ति, तथापि चौहानवंशीयाः हाडावंशीयानां पूर्वजाः आसन् इत्यस्मात् कारणात् तेषाम् अपि उल्लेखः ग्रन्थेऽस्मिन् प्राप्यते । ग्रन्थेऽस्मिन् शाकम्भरीलावणजलाशयस्य वर्णनं विस्तरेण प्राप्यते । यथा अम्बिकेश्वरस्य कथा, पृथ्वीराजमहाकाव्यस्य कथा चास्तः, तथैव एतस्याः कथा वर्तते । सुरजनचरितमहाकाव्यस्य द्वितीये, तृतीये, चतुर्थे च सर्गे लावणजलाशस्य उल्लेखः प्राप्यते । तत्र उल्लिखितं यत्,

शाकम्भर्याः चन्दन-नामकस्य राज्ञः मृत्योः अनन्तरं, तस्य पुत्रः व्रजः राजा अभवत् । सः अतिप्रतापी राजा आसीत् । तेन अनेकानि विजयाभियानानि कृत्वा स्वराज्यस्य सीमाविस्तारः कृतः । व्रजस्य मृत्योपरान्तं तस्य पुत्रः विश्वपतिः (वाक्पतिः इति नाम अपि प्रसिद्धम्) शाकम्भर्याः राजा अभवत् । शाकम्भर्याः विशालशासनस्य राजनि सत्यपि विश्वपतिः व्याकुलः आसीत् । यतो हि तस्य स्वभावः स्वाभिमानी आसीत् । तस्य मतानुसारं यत् राज्यं तेन प्राप्तम् अस्ति, तत् पूर्वजानां पुरुषार्थस्य परिणामेन प्राप्तम् अस्ति । तेन स्वयं तु कोऽपि विशेषपुरुषार्थः न कृतः इति ।

स्वव्याकुलतायाः विषये राजा राजसभायां मन्त्रिभिः सह मन्त्रणाम् अकरोत् । विश्वपतेः गुरोः पुत्रः राज्ञः व्याकुलतायाः विषये अजानत् । तस्य नाम सुनयः आसीत् । सुनयः विश्वपतेः मित्रम् अपि आसीत् । एकदा सः राज्ञः समीपं गत्वा अवदत्, नीतिकुशलविदुषां मतम् अस्ति यत्, यावत् कोऽपि प्रश्नं न पृच्छति, तावत् उत्तरं न दातव्यम् इति । तथापि अहं भवतः आश्चर्ययुक्ताम्, उद्वेगशीलां च स्थितिं दृष्ट्वा किञ्चित् निवेदयामि । हे राजन् ! एतत् सुन्दरं, विशालं च राज्यं भवतः अधिकारे अस्ति । स्वमित्रैः सह उचितं व्यवहारं कृत्वा, शत्रूणां निकन्दनं कृत्वा च भवान् अलौकिककृत्यानाम् उदाहरणानि जगतः सम्मुखम् उपास्थापयत् । भवतः प्रजा भयेन, सङ्कटैः च कदापि व्याकुला न भवति । चतसॄषु दिक्षु यज्ञादिधार्मिकक्रियाः भवन्ति । तैः यज्ञैः सन्तुष्टः इन्द्रः अपि योग्यवर्षाः करोति । कर्मठपुरुषे श्रेष्ठ ! हे राजन् ! स्वराज्याय भवता यत्किमपि करणीयम् आसीत्, तत् सर्वं भवता कृतम् अस्ति इति मे मतम् । गहनचिन्तनान्तरम् अपि भवतः व्याकुलतायाः किमपि कारणम् अहं ज्ञातुं न शक्तवान् ।

भवान् अनेकासां मृगनयनीनां राजकुमारीणां पाणिग्रहणम् अकरोत् । तासां राजकुमारीणाम् एकेन नयनकटाक्षेण कामदेवः अपि उत्तेजितः भवति । एतावता भवान् न तु योग्यस्य राज्योत्तराधिकारिणः उत्पत्तिम् अकरोत्, न तु स्वराज्ञीनां प्रेमसत्कारस्य पूर्णानन्दम् अनुभूतवान् । तासु तारुण्योपेतराज्ञीषु सतीष्वपि भवतः एषः वैराग्यभावः अनुचितः अस्ति । देव ! एकत्र भवतः नवयौवनं सुन्दरं शरीरम् अस्ति, अपरत्र भीषणम् वैरागम् । हे जगन्नाथ ! स्वपराक्रमानुगुणं, स्वकुलपरम्परानुगुणं च स्वकर्तव्यानां पालनम् अकृत्वैव अकाले एव वैराग्यस्वीकरणेन या कीर्तिः भवता एतावता न प्राप्ता अस्ति, सा अपि लुप्ता भविष्यति । अत एव हे नरदेव ! अहं भवतः इच्छां स्पष्टतया ज्ञातुम् इच्छामि । यतो हि उज्ज्वलप्रकाशेन विना पदार्थस्य सुस्पष्टं दर्शनं न शक्यते इति ।

सुनयस्य वचनं श्रुत्वा राजा प्रत्युदतरत्, हे ब्राह्मणश्रेष्ठ ! भवतः स्नेहयुक्ता, युक्तियुक्ता, अनुकूला च वार्ता मे मनः विनीतम् अकरोत् । तथापि अहम् अन्यराजसदृशं स्वं साधारणमेव पश्यामि । अत एतावती सम्पत्तिः अपि मे मनः शान्तं कर्तुं न शक्नोति । यदि कैलासपर्वतादपि शुभ्रा, चिरस्थायी च कीर्तिः विश्वस्मिन् व्याप्ता न भवेत्, तर्हि तरुणस्त्रीणां कटाक्षाणां, क्षणिकसाम्राज्यस्य च को वा लाभः ? इति ।

राज्ञः मन्तव्यं ज्ञात्वा सुनयः अवदत्, हे नरश्रेष्ठ ! विद्वांसः इष्टसाधनाय द्वयोः मार्गयोः अवलम्बनाया कथयन्ति । प्रप्रथमस्तु प्राप्तवस्तूनां रक्षा अर्थात् क्षेमः । द्वितीयः अप्राप्तवस्तूनां प्राप्तिः अर्थात् योगः । अन्ये सर्वेऽपि उद्योगाः एतयोः क्षेमयोगयोः उपायाः भवन्ति । उक्तयोः प्रप्रथमस्य अर्थात् क्षेमस्य कृते सर्वेऽपि कटिबद्धाः भवन्ति तथा च सफलताप्राप्तिपर्यन्तं प्रयत्नशीलाः भवन्ति । यतो हि प्राप्तवस्तुनः रक्षायाम् असमर्थाः महतीं अपकीर्तिम् अवाप्नुवन्ति । परन्तु नीत्यनुगुणं निरन्तरप्रयत्नशीलः धीमान् पुरुषः अप्राप्तस्य प्राप्त्यै अद्भुतयशेन सत्कृतः भवति । एतावता धरायाम् अनेके राजानः अभूवन् । तेषु तान् राज्ञः एव सर्वे स्मरन्ति, ये स्वसत्कर्मभिः त्रिलोकीम् उज्ज्वलीम कृत्वा अगच्छन् । तेषां राज्ञां स्मरणं कोऽपि न करोति, ये विषयभोगेषु निमज्जिताः आसन् । अतः हे पृथ्वीपालक ! यदि भवान् अत्युत्कृष्टस्य यससः उत अलौकिकपदस्य च कामनां करोति, तर्हि विधिपूर्वकं तपः, जपं च कृत्वा इष्टदेवं प्रसन्नं करोतु । यतो हि –

अखण्डब्रह्माण्डं सह चरित गाण्डीव वलयः,

स्वदोर्दण्डेनैव प्रसभमपहर्तुं प्रभुरपि ।।
समाराध्य श्रुद्धासमुचिततपोभिः पशुपतिं,
प्रप्रेदे रौद्रास्त्रं स किल नरनामा नरहरिः ।।

अर्थात्, मनुष्यश्रेष्ठः अर्जुनः, यस्य अपरं नाम "नरः" आसीत्, तस्य हस्ते विद्यमानः गाण्डीवधनुः तस्य वलयः आसीत् । सः स्वभुजदण्डस्य पराक्रमेण आब्रह्माण्डं हठात् वशीकर्तुं समर्थः आसीत् । तथापि सः पूर्णश्रद्धया तपस्यां कृत्वा भगवन्तं शङ्करं प्रसन्नं कृत्वा पाशुपतास्त्रं प्रापत् । अत एव भवानपि कस्मिँश्चित् निर्जनस्थाने हृदयं विशुद्धं कृत्वा परात्परशिवस्य अनुष्ठानं करोतु । किञ्च शुम्भदैत्यस्य हन्त्री, सिद्धिदात्री भगवती अस्माकं प्रदेशे शाकम्भरीनाम्ना विख्याता अस्ति । तस्याः शाकम्भरीदेव्याः पूजनेन अपि स्वमनोरथाः सिद्धाः भविष्यन्ति इति ।

सुनयस्य मुखात् नीतिवाक्यानि श्रुत्वा राज्ञः विचारमग्नः अभवत् । ततः सुनयस्य वचनानां पूर्णरीत्या परिशीलनं कृत्वा हर्षप्राप्तः राजा स्वगुरुपुत्रं प्रति कृतज्ञतां प्रादर्शयत् । ततः एकस्मिन् दिने स्वराजकार्यस्य दायित्वं स्वमन्त्रिभ्यः दत्त्वा राजा विश्वपतिः शाकम्भरीदेव्याः मन्दिरं प्रति प्रस्थानम् अकरोत् । तेन सह सुनयः अपि अगच्छत् । शाकम्भरीदेव्याः मन्दिरं प्रविश्य देव्याः याथाविधिः तौ पूजाम् अकरुताम् । तत्पश्चात् यज्ञादिकर्मभिः देवान् प्रसन्नान् कर्तुं राजा क्रमेण वनस्य फलानि, कन्दमूलानि, हरितपत्राणि, शुष्कपत्राणि च भुत्वा अन्तिमे बुभुक्षायाः तृष्णाम् अपि अत्यजत् । ततः मृन्निर्मितायां पीठिकायां एकस्य दर्भासनस्योपरि अशेत । क्रमेण एतावत्करणेन एकमासस्य कालः व्यतीतः । एवं सङ्कल्पविकल्पेभ्यः परो भूत्वा राजा शनैः शनैः शाकम्भरीदेव्याः ध्यानं कृत्वा तां स्वान्तःकरणे प्रास्थापयत् ।

विघ्नरहितेन, निरन्तरेण योगाभ्यासेन शाकम्भरीदेवी प्रसन्ना भूत्वा राज्ञः सम्मुखं प्रकटिता । स्वप्नावास्थायां शाकम्भरीदेव्याः दर्शनं कृत्वा राजा आश्चर्यं नानुभवति स्म, परन्तु जाग्रतावस्थायां यदा शाकम्भरीदेवी प्रत्यक्षा अभवत्, तदा सः शाकम्भरीदेव्याः विराड्रूपस्य दर्शनम् आश्चर्यपूर्णभावेन कुर्वन् आसीत् । ततः सहसा तस्य मुखात् शाकम्भरीदेव्याः स्तुतिः निर्गता । शाकम्भरीदेवी तस्मै अभयदानं दत्त्वा अवदत्, हे नृपश्रेष्ठ ! ईप्सितं वरं याचस्व इति । मातुः आशीर्वादेन राज्ञः हृदये विह्वलतायाः भावः समुद्भूतः । सः अवदत्, हे जननि ! भवत्याः करुणायाः योग्यः अस्मि इति ज्ञानमेव मे जन्मनः साफल्यम् अस्ति । हे भुवनवन्दिते ! देवानां समूहेभ्यः अपि यस्याः साक्षाद्दर्शनं दुर्लभम् अस्ति, तस्याः दर्शनात् अधिकः मत्कृते को विशेषः भवेत् ? चञ्चलाञ्चलयुक्तानां तरुणीनां, रत्न-सुवर्ण-साम्राज्यादीनां च क्षणिकोपभोगस्य मे कृते किमपि महत्त्वं नास्ति । अतः हे देवि ! भवती मह्यम् एतादृशं वरं यच्छतु, येन निखिलविश्वे मे कीर्तिः शाश्वतिकी भवेदिति ।

उत्तमस्य भक्तिमितः, निष्कपटस्य राज्ञः वचनं श्रुत्वा शाकम्भरीदेवी प्रसन्ना भूत्वा अवदत्, हे राजन् ! एषः शाकम्भरः देशः मम निरन्तराश्रयेण पवित्रः अस्ति । मम नाम्ना एव देशोऽयं "शाकम्भरी" इति विख्यातः अस्ति । मत्कृपया एषा भूमिः लवणयुक्ता भविष्यति । स्वाश्वम् आरूह्य पृष्ठे अदृष्ट्वा भवान् यावति क्षेत्रे धाविष्यति, तावत् सम्पूर्णं क्षेत्रं लवणमयं भविष्यति इति । एवम् उक्त्वा शाकम्भरीदेवी अन्तर्दधे । ततः शाकम्भरीदेव्याः आदेशानुसारं राजा एकस्मिन् अश्वे आरूढः अभवत् । ततः ईप्सितस्य क्षेत्रस्य भ्रमणं कृत्वा राजा शाकम्भरीदेव्याः मन्दिरम् अगच्छत् । पुनः शाकम्भरीदेवीं नमस्कृत्य सः स्वराजधानीम् अगच्छत् ।

 सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. एपिग्राफिया इण्डिका, खण्डः २६, श्लो. १२
  2. पृथ्वीराजविजयमहाकाव्यं, सर्गः ५, श्लो. ७
  3. हिस्ट्री ऑफ् चाहमान्स्, पृ. ८५
  4. एन्सियेन्ट् सिटीज् एण्ड् टाउन्स् ऑफ् राजस्थान, पृ. २५१
  5. जयपुर डिस्ट्रिक्ट् गजेटियर्, सं.मिस् सावित्री गुप्ता, पृ. ९१८
  6. "शाकम्भरी माता की आरती". भजन सागर. Archived from the original on 2023-12-08. आह्रियत 2023-12-14. 
  7. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. ८-१५. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  8. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १५-१६. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
  9. डॉ. बिन्ध्यराज चौहान (2012). दिल्लीपति पृथ्वीराज चौहान एवं उनका युग. राजस्थानी ग्रन्थागार. p. १६-२०. ISBN 978-81-86103-09-1 Check |isbn= value (help). 
"https://sa.wikipedia.org/w/index.php?title=शाकम्भरीमन्दिरम्&oldid=484849" इत्यस्माद् प्रतिप्राप्तम्