सोमेश्वर चौहान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सोमेश्वरः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
सोमेश्वर चौहान
पति/पत्नी कर्पूरदेवी
पिता अर्णोराजः
माता काञ्चनदेवी
मतम् हिन्दुधर्मः

सोमेश्वर चौहान ( /ˈsmɛshərə xɔːhɑːnə/) (हिन्दी: सोमेश्वर चौहान, आङ्ग्ल: Someswar Chauhan) चौहानवंशस्य राजा आसीत् । सः पृथ्वीराजतृतीयस्य पिता आसीत् । कुमारपालस्य भागिनेयः सोमेश्वरः शस्त्र-शास्त्र-सङ्गीतादिषु निपुणः आसीत् । सोमेश्वरः अजमेरू-प्रदेशस्य अधिपतिः कदा अभवत् ? इत्यस्य उल्लेखः इतिहासे न प्राप्यते । परन्तु पृथ्वीभट्टानन्तरं सोमेश्वरः अजमेरू-प्रदेशस्य राजा अभवत् । अजपालेन सह तस्य सङ्घर्षः इतिहासस्य प्रख्यातः प्रसङ्गः वर्तते । तस्मिन् प्रसङ्गे सोमेश्वरः अजयपालेन दण्डितः । सोमेश्वरः शैवमतानुयायी आसीत् ।

जन्म, परिवारेतिहासश्च[सम्पादयतु]

सोमेश्वरस्य जन्म अण्हिलपाटणे अभवत् । सोमेश्वरस्य पितुः नाम अर्णोराजः, मातुश्च नाम काञ्चनदेवी आसीत् । चौहानवंशीयस्य अर्णोराजस्य द्वे पत्न्यौ आस्ताम् । प्रथमा सुधवा-आख्या मारोठ-प्रदेशस्य सामन्तस्य सिंहबलस्य भगिनी, द्वितीया काञ्चनदेवी चक्रवर्तिनः चालुक्यसम्राजः सिद्धराजस्य पुत्री । अजमेरू-प्रासादस्य अन्तःपुरे सुधवा-काञ्चनदेव्योः सम्बन्धः सङ्घर्षपूर्णः आसीत् । अजमेरू-प्रासादस्य कलहपूर्णस्थितिं सिद्धराजः जानाति स्म । अतः काञ्चनदेवी यदा गर्भवती अभवत्, तदा सिद्धराजः स्वपुत्रीम् अण्हिलपाटणम् आह्वयत् । सिद्धराजः काञ्चनदेवीं योजनाबद्धरीत्या अजमेरू-तः आह्वयत् । राजपूतेषु परम्परा अस्ति यत्, पुत्री स्वप्रप्रथमम् अपत्यं स्वपितुः गृहे एव जनयति इति । यतो हि अजमेरू-अन्तःपुरस्य स्थितिः अपि सुयोग्या नासीत्, अतः सिद्धराजः प्रसूतेः आश्रयेण स्वपुत्रीम् अण्हिलपाणटम् आह्वयत् । प्रसूतिकाले अण्हिलपाटणं प्राप्तवती काञ्चनदेवी सोमेश्वराख्यं पुत्रं जनयति ।

अपरत्र अजयमेरू-प्रासादस्य कलहः विराड्रूपम् अधरत् । ततः ११४२-४३ तमे वर्षे सिद्धराजस्य मृत्यौ सति गुजरातराज्यस्य आधिपत्याय कुमारपाल-चाहड अत्यनयोः युद्धम् अभवत् । चाहड इत्येषः सोमेश्वरस्य पितुः अर्णोराजस्य साहाय्यं प्राप्तुं शाकम्भर्याः राजप्रासादं गतः । चाहड इत्येषः यदा शाकम्भर्यायाः प्रासादे आसीत्, तदा कुमारपालः शाकम्भर्यायाः उपरि आक्रमणम् अकरोत् । तस्मिन् युद्धे अर्णोराजः पराजितः, चाहड इत्येषश्च मृतः । एवं गुजरातराज्यस्य सत्तायाः सूत्रधारः राजा वा कुमारपालः अभवत् । कुमारपाल-अर्णोराजयोः यदा युद्धम् अभवत्, तदापि काञ्चनदेवी अण्हिलपाटणे निवसति स्म । जगद्देव-आख्यः सोमेश्वरस्य विभ्राता अर्णोराजस्य हत्याम् अकरोत् । ततः जगद्देवस्य हत्यां कृत्वा विग्रहराजः अजमेरू-प्रदेशस्य अधिपतिः अभवत् । एवं काञ्चनदेव्याः प्रतिगमनस्य तु किमपि कारणम् एव नावशिष्टम् ।

सिद्धराजस्य मृत्योः अनन्तरं कुमारपालः गुजरातराज्यस्य सम्राट् अभवत् । सम्राट् कुमारपालः यद्यपि सोमेश्वरस्य मातुलः आसीत्, तथापि सः तस्मिन् पुत्रवत् स्निह्यति स्म । कुमारपालस्य सान्निध्ये एव सोमेश्वरः सर्वविद्यासु निष्णातः अभवत् । अतः पृथ्वीराजविजयस्य सप्तमसर्गस्य एकादशे श्लोके कुमारपालस्य प्रसंशा अपि प्राप्यते ।

कोङ्कणविजयम्[सम्पादयतु]

सत्तायाः विस्ताराय यदा कुमारपालः शिलाहारवंशीयस्य मल्लिकार्जुनस्य उपरि आक्रमणं कर्तुं स्वसेनां प्रैषयत्, तदा सोमेश्वरः वयस्कः आसीत् इति इतिहासविदां मतम् अस्ति । पृथ्वीराजमहाकाव्ये उल्लेखः प्राप्यते यत्, सोमेश्वरः युद्धक्षेत्रे मल्लिकार्जुनस्य वधम् अकरोत् इति । मल्लिकार्जुनस्य द्वौ राजकीयाभिलेखौ क्रमेण चिरलूणतः, विसन-तः च प्राप्तौ । ताभ्यां लेखाभ्यां ज्ञायते यत्, मल्लिकार्जुनः कुमारपालस्य समकालीनः आसीत् । तथा च कुमारपालस्य सैन्याभियाने मल्लिकार्जुनः हतः ।

प्रथमवारम् आम्बड-नामकस्य सेनापतेः आध्यक्षत्वेन कुमारपालः कोङ्कणं प्रति स्वसेनां प्रैषयत् । परन्तु सज्जः मल्लिकार्जुनः आम्बड इत्यस्य सैनिकशिबिरे एव आक्रमणम् अकरोत् । राजप्रासादे वाक्कौशल्येन वीरतायाः प्रदर्शनात् युद्धक्षेत्रस्य वीरता सर्वदा भिन्ना भवति । युद्धे तु तस्यैव विजयः भवति, यः युद्धकलायां श्रेष्ठः भवति । आम्बडस्य केवलं पराजयः नाभवत्, अपि तु तस्य मुखं विवर्णभावं प्राप्नोत् । कृष्णवस्त्रं धारयित्वा सः पाटणं प्रत्यगच्छत् [१]

द्वितीयवारं कुमारपालः आम्बडस्य आध्यक्ष्ये एव कोङ्कणं प्रति सेनां प्रैषयत् । परन्तु द्वितीयवारं सेनायां कुमारपालस्य भागिनेयः सोमेश्वरः आसीत् । सोमेश्वरः हनुमान् इव एकगजात् द्वितीयगजस्य उपरि कूर्दयित्वा मल्लिकार्जुनस्य समीपं प्रापत् । ततः मल्लिकार्जुनस्य हस्तात् छुरिकाम् अपकर्ष्य तया छुरिकया एव मल्लिकार्जुनस्य वधम् अकरोत् [२] । १२८७ तमे विक्रमसंवत्सरे लिखितः राजस्थानराज्यस्य आबूपर्वते स्थितात् नेमिनाथमन्दिरात् प्राप्तः एकः शिलालेखः युद्धस्य विवरणम् उदघोषयत् । तस्मिन् शिलालेखे लिखतम् अस्ति यत्, यदा मल्लिकार्जुनः युद्धक्षेत्रे पराजितः सन् मृतः, तदा तस्य पत्न्यः क्रन्दनम् अकुर्वन् इति ।

विवाहः, परिवारश्च[सम्पादयतु]

सोमेश्वरस्य कोङ्कणविजयानन्तरं कर्पूरदेव्या सह तस्य प्रणयस्य आरम्भः अभवत् । सोमेश्वरकर्पूरदेव्योः प्रणयमिलनं कुमारपालस्य पूर्वायोजितं प्रबन्धनम् आसीत् । कर्पूरदेवी कल्चुरीवंशस्य (हैहय) त्रिपुरी-प्रदेशस्य (जबलपुरं, मध्यप्रदेशः) राज्ञः अचलराजस्य पुत्री आसीत् । कुमारपालस्य संरक्षणे एव तयोः प्रेमभावः विकसितः । ततः समये प्राप्ते कुमारपालः तयोः विवाहम् अकरायत् । पाटणे एव सोमेश्वरकर्पूरदेव्योः पुत्रौ पृथ्वीराजः, हरीराजश्च जन्म प्रापेताम् ।

अजमेरूगमनम्[सम्पादयतु]

१२२५ तमस्य विक्रमसंवत्सरस्य पृथ्वीभट्टस्य अन्तिमशिलालेखः प्राप्यते । ततः बिजौलिया-शिलालेखेषु १२२६ तमस्य विक्रमसंवत्सरस्य फाग्लुनमासस्य शुक्लतृतीयायां लिखितः सोमेश्वरस्य प्रप्रथमः शिलालेखः प्राप्यते । अनेन इतिहासविदाम् अनुमानम् अस्ति यत्, उभयोः तिथ्योः मध्ये एव सोमेश्वरः अजमेरोः सत्तायाम् आरूढः अभवत् ।

सोमेश्वरस्य सत्तारोहणस्य कालः, तिथिः च क्वापि न प्राप्यते । परन्तु इतिहासविदः अनेकेषां सम्भावनानाम् उल्लेखं कुर्वन्ति । सम्भवः अस्ति यत्, अण्हिलपाटणे निर्वासितत्वेन जीवनयापनं कुर्वन् सोमेश्वरः स्वमातुलस्य साहाय्येन शाकम्भर्याः राज्यं प्राप्तुं सफलः स्यात् । यतो हि पृथ्वीराजविजये स्पष्टतया उल्लिखम् अस्ति यत्, सोमेश्वरः यदा स्वपत्न्या, पुत्राभ्यां सह अजयमेरू-प्रदेशं प्रविष्टः, तदा तेन सह विशालसेना अपि आसीत् । सोमेश्वरेण सह सोढ-आख्यः मन्त्री, स्कन्द-आख्यः सेनापतिः, वामन-आख्यः सन्धिविग्रहकः, कैमास-आख्यः कूटनीतिज्ञः चापि आसन् [३]

द्वितीयानुमानम् अस्ति यत्, विग्रहराजस्य जीविते सति तु अजमेरोः उपरि आक्रणम् असम्भवम् अस्ति इति सोमेश्वरः जानाति स्म । अतः तेन योग्यसमयस्य प्रतीक्षा कृता । ततः अनुकूलावसरं प्राप्य अजमेरोः सत्तायाम् आरूढः अभवत् ।

कारणं यत्किमपि स्यात्, परन्तु १२२६ तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य शुक्लतृतीयायाः पुरा सोमेश्वरः अजमेरूप्रदेशस्य राजा अभवत् इति निश्चितम् अस्ति । ततः तेन विन्ध्यवली-प्रदेशस्य पार्श्वनाथमन्दिराय एकस्य ग्रामस्य दानं कृतम् इति बिजौलिया-शिलालेखे उल्लेखितम् अस्ति [४] । पृथ्वाराजविजये सोमेश्वरस्य धर्मार्थप्रवृत्तीनां विस्तृतं वर्णनं प्राप्यते । परन्तु तस्य राजव्यवस्थायाः विषये तस्मिन् ग्रन्थे कोऽपि उल्लेखः न प्राप्यते ।

सोमेश्वर-अजपालसङ्घर्षः[सम्पादयतु]

राजस्थानराज्यस्य पालीमण्डलस्य, देसूरी-उपमण्डलस्य नारलाई-सोनाणा-नामके स्थले स्थितात् शिवमन्दिरात् कुमारपालस्य अन्तिमशिलालेखः प्राप्यते । १२२८ तमस्य विक्रमसंवत्सरस्य मार्गशीर्षमासस्य शुक्लत्रयोदश्यां सः शिलालेखः अङ्कितः [५] । अनेन ज्ञायते यत्, कुमारपालः १२२८ तमं विक्रमसंवत्सरं यावत् जीवितः आसीत् । ततः तस्य भ्रातृजः अजपालः अण्हिलपाटणस्य राजा अभवत् इत्यपि सिद्ध्यति [६] । राजस्थानराज्यस्य उदयपुरात् प्राप्तः अजपालस्य प्रप्रथमशिलालेखः १२२९ तमस्य विक्रमसंवत्सरस्य वैशाखमासस्य शुक्लतृतीयाम् उत्कीर्णः । ११७३ (ई.) तमस्य वर्षस्य अप्रैल-मासस्य षोडशे दिनाङ्के उत्कीर्णः इति कथनम् । तस्मिन् शिलालेखे अजपालस्य "परमभट्टारकः महाराधिराजः परमेश्वरः" इति उपाधिः प्राप्यते । अनेन ज्ञायते यत्, उक्ततिथेः प्राक् एव अजपालः गुजरातराज्यस्य सम्राट् अभवत् । अतः १२२८ तः १२२९ विक्रमसंवत्सरमध्ये एव सोमेश्वर-अजयपालयोः सङ्घर्षः अभवत् ।

कुमारपालः पुत्रहीनः आसीत् । परन्तु सः सोमेश्वरे पुत्रवत् स्निह्यति स्म । सोमेश्वरस्य कृतेऽपि कुमारपालः पितातुल्यः आसीत् । अतः कुमारपालस्य भ्रातृजः यदा कुमारपालाय विषं पाययित्वा अमारयत्, तदा सोमेश्वरस्य उपरि कुठाराघातः अभवत् । सोमेश्वरः पाटण-नगरस्य निष्ठात्यागस्य नाटकम् अकरोत् । अतः अजपालः अपि तम् अदण्डयत् [७]

सङ्गीतज्ञः[सम्पादयतु]

सोमेश्वरः सङ्गीतकलायां निपुणः आसीत् । तस्य प्रसिद्धिः दक्षिणभारतपर्यन्तम् आसीत् । सङ्गीताचार्यत्वेन चतसॄषु दिक्षु सः प्रख्यातः अभवत् । महाराष्ट्रराज्यस्य औरङ्गाबादमण्डलस्य देवगिरी-आख्ये पत्तने शार्ङधर-आख्यः सङ्गीतकारः "सङ्गीतरत्नाकरः" नामकं ग्रन्थम् अलिखत् । तस्य ग्रन्थस्य आरम्भे सः केषाञ्चन आचार्याणां नामोल्लेखम् अकरोत् । तेषु नामसु परमारवंशीयस्य भोजस्य, चन्देलस्य परमर्दिदेवस्य, शाकम्भर्याः सोमेश्वरस्य च नामोल्लेखम् अकरोत् [८]

विशेषम्[सम्पादयतु]

पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, सोमेश्वरः स्वपितुः अर्णोराजस्य नाम्ना एकस्य नगरस्य निर्माणम् अकरायत् इति । तस्मिन् नगरे तेन पञ्चानि भव्यानि मन्दिराणि निर्मापितानि । तेषु मन्दिरेषु एकं मन्दिरं त्रिपुरुषदेवस्य आसीत् । तथा च अन्यानि चत्वारि मन्दिराणि वैद्यनाथस्य आसन् । वैद्यनाथस्य मन्दिरस्य प्राङ्गणे तेन अर्णोराजस्य मूर्तिः प्रस्थापिता । स्वपितुः मूर्तेः पुरतः स्वस्य मूर्तिम् अपि सः प्रास्थापयत् [९]

सोमेश्वरः वृषभस्य, अश्वस्य च चिह्नस्य मुद्राम् अपि स्वराज्ये प्रचालयत् । तथा च स्वस्य चित्रस्य मुद्राम् अपि सः प्रचालयत् । तस्यां मुद्रायाः एकभागे अश्वारूढस्य सोमेश्वरस्य चित्रं, द्वितीयभागे सामन्तदेवस्य च चित्रम् अङ्कितम् आसीत् । बिजौलिया-शिलालेखे यः सोमेश्वरस्य वीरताप्रशस्तिः प्राप्यते, तस्मिन् "प्रतापलङ्केश्वरः" इति तस्य उपाधिः उल्लिखितः [१०][११][१२]

सम्बद्धाः लेखाः[सम्पादयतु]

चौहानवंशः

अर्णोराज चौहान

पृथ्वीराज चौहान

विग्रहराज चौहान

उद्धरणम्[सम्पादयतु]

  1. प्रबन्धचिन्तामणिः, चतुर्थः प्रकाशः, पृ. ९७-९८
  2. पृथ्वीराजविजयम्, सर्गः ७, श्लो. १५
  3. पृथ्वीराजविजयम्, सर्गः ८, श्लो. ५७-६०
  4. बिजौलियाशिलालेखः, श्लो. २८
  5. डॉ. डी आर् भण्डारकर, एपिग्राफिया इण्डिका, भागः ११, पृ. ४७-४८
  6. प्रबन्धचिन्तामणिः, चतुर्थप्रकाशः, पृ. ११७
  7. दण्डे मण्डपिका हैमी, सह मत्तैर्मङ्गजैः । दत्त्वा पादं गले येन, जाङ्गलेशादगृह्यते ।। कीर्तिकौमुदी, सर्गः २, पृ. ९, श्लो. ५३
  8. रुद्रटोनान्य भूपालो, भोज भूवल्लमस्तथा । परमर्दि च सोमेसो, जगदेव(क) महीपतिः ।। सङ्गीकरत्नाकरः, श्लो. ८
  9. पृथ्वीराजविजयम्, सर्गः ८, श्लो. ६२-७१, पृ. २०३-२०५
  10. जनरल कनिङ्घम, क्वायंस ऑफ् मेडीवल् इण्डिया, पृ. ८६, प्लेट् ९
  11. एडवर्ड् थॉमस्, क्रोनिकल्स् ऑफ् पठान किङ्ग्स् ऑफ् देह्ली, पृ. ६३, नं ३७
  12. एपिग्राफिया इण्डिका, भागः २६, श्लो. २७, पृ. १०५

अधिकवाचनाय[सम्पादयतु]

सोमेश्वरः

"https://sa.wikipedia.org/w/index.php?title=सोमेश्वर_चौहान&oldid=318144" इत्यस्माद् पुनः प्राप्तिः