सामग्री पर जाएँ

सत्येन्द्रनाथ बसु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सत्येन्द्रनाथ बोस् इत्यस्मात् पुनर्निर्दिष्टम्)
Padma Vibhushan
Satyendra Nath Bose
সত্যেন্দ্র নাথ বসু
FRS
Satyendra Nath Bose in 1925
जननम् (१८९४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०१)१ १८९४
Calcutta, British India
मरणम् ४ १९७४(१९७४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०४) (आयुः ८०)
Calcutta, India
वासस्थानम् India
देशीयता Indian
कार्यक्षेत्राणि Physics and Mathematics
संस्थाः University of Calcutta and University of Dhaka
मातृसंस्थाः University of Calcutta
विषयेषु प्रसिद्धः Bose–Einstein condensate
Bose–Einstein statistics
Bose-Einstein distribution
Bose-Einstein correlations
Bose gas
Boson
Ideal Bose equation of state
Photon gas
प्रमुखाः प्रशस्तयः Padma Vibhushan
Fellow of the Royal Society[]
पतिः/पत्नी Ushabati Bose
धर्मः Hinduism




सत्येन्द्रनाथबसुवर्यः एकः भारतीयः भौतिकगणितशास्त्रयोः तज्ञः, यश्चः बसु-ऐन्स्टैन् साङ्खिकायाः संशोधने प्रसिद्धः जातः अस्ति ।

आरम्भिकजीवनं, तथा पठनम्

[सम्पादयतु]

बसुवर्यः कोलकातानगरे १८९४ तमवर्षस्य जनवरीमासस्य प्रथमे दिनाङ्के जातः | सः सुरेन्द्रनाथबसुवर्यस्य सप्त पुत्रेषु ज्येष्ठपुत्रः | तस्य पिता 'ईस्ट् इण्डिया रेल्वे कम्पनि' इत्यस्याः संस्थायाः 'एन्जिनियरिङ्ग्' विभागे कार्यं वहति स्म | बसुवर्यः कोलकातानगरे विद्यमानायां हिन्दुशालायां स्वस्य प्राथमिकशिक्षणं प्राप्य तदनन्तरं 'प्रेसिडेन्सी' कलाशालायां मेघनादसाहामहोदयेन सह पठितवान् | तत्र जगदीशचन्द्रबसुः, प्रफ़ुल्लचन्द्ररायः, इत्यादयः महान्तः आचार्याः तौ प्रेरितवन्तः | प्रौढशालायाम् अपि च कलाशालायां सः उत्तमान् अङ्कान् प्राप्तवान् | १९१६तः १९२१ पर्यन्तं सः कोलकाता- विश्वविद्यालयस्य भौतिकशास्त्रविभागे पाठितवान् | तदा तस्य मित्रेण 'मेघनाद साहा' महभागेन सह जर्मन्-भाषां पठित्वा ऐन्स्टैन् महोदयस्य 'सापेक्षता सिद्धान्तस्य'(The theory of relativity) जगति प्रथमाङ्ग्लानुवादम् कृतवान् । १९२१ तमे वर्षे इदानीं बाङ्ग्लादेशे विद्यमाने, तदानीन्तननूतने ढाकाविश्वविद्यालये भौतिकशास्त्रविभागे कार्यम् ऊढवान् |

१९२४ तमे वर्षे, यदा बसुवर्यः ढाकाविश्वविद्यालयस्य भौतिकशास्त्रविभागे 'रीडर्' स्थाने कार्यं कुर्वन् आसीत्, तदा सः प्लाङ्क् सिद्धान्तस्य प्राचीनभौतिकस्य सिद्धान्तानाम् उपयोगं विना केवलं कणानाम् अवस्थानां गणनायाः एकां नूतनां विधिम् उपयुज्य, व्युत्पत्तिम् विवृण्वन् एकं लेखं लिलेख | किन्तु वैज्ञानिकपत्रिकासु अस्य प्रकाशने असफलः सः तं लेखं अल्बर्ट आइन्स्टाइन प्रति प्रेषयामास | ऐन्स्टैन्वर्यः तल्लेखस्य प्रामुख्यं ज्ञात्वा स्वयं तस्य जर्मन् भाषया अनुवादं कृत्वा 'ज़ाइट् श्रिफ़्ट् फ़्यूर् फुज़ीक्' अबिधे अतिश्रीलभौतिकशास्त्रपत्रिकायां बसुवर्यस्य नाम्ना प्रकाशयामास । तदनन्तरं बसुमहाभगस्य तत् नूतनं गणनविधानं 'बसु-ऐन्स्टैन् शकलसंख्याशास्त्रम् '(Bose-Einstein quantum statistics) इत्येव प्रख्यातम् अभवत् | अनया प्रत्यभिज्ञतया बसुवर्यः प्रथमवारं भारतात् बहिः गन्तुं शक्तः भूत्वा, वर्षद्वयं यूरोप् मध्ये लूयि डि ब्राय्, मेरी क्यूरी, अल्बर्ट आइन्स्टाइन इत्यादि-प्रमुखवैज्ञानिकैः सह संशोधनं चकार |

तद्वर्षद्वयानन्तरं १९२६ तमे वर्षे ढाकां प्रत्यागम्य ढाकाविश्वविद्यानिलये प्राध्यापकः, भौतिकशास्त्रविभागस्य अध्यक्षः च अभवत् | १९४५ पर्यन्तं सः तस्मिन्नेव विश्वविद्यानिलये पाठितवान् | सः तद्विश्वविद्यानिलयस्य विज्ञानविभागस्य प्राध्यक्षस्य पदवीं चिरकालम् ऊढवान् | यदा भारतस्य विभजनं अनिवार्यम् अभवत्, तदा सः कोलकातां प्रत्यागम्य १९५६ पर्यन्तं पाठितवान्, यदनन्तरं सः सेवानिवृतिं प्राप्य 'प्रोफ़ेसर् ऐमेरिटस्' अभवत् | सः प्रान्तीयबाङ्ग्लाभाषया विज्ञानप्रचारं कर्तुं अपि प्रायतत। तस्य संस्कृतभाषाज्ञानमपि अतिव सम्यक् आसीत्। सः स्वस्य द्वादशवर्षे एव कालिदासस्य 'मेघदूतम्' अपठत् । बसुमहोदयः लन्डौ महाभागस्य 'क्रियाशीलता मापनसूचके'(Landau's scale) न्यूट्न्, वैनर् महाभागाभ्यां सह प्रथमश्रेणीं प्राप्तवान्। सः 'ऐस्राज्' नामक सङ्गीतवाद्यम् ज्ञातवान् ,अति सुश्राव्यं वादितवान् अपि। एषः महोदयः १८७४ तमवर्षस्य फेब्रवरिमासस्य चतुर्थे दिनाङ्के दिवङ्गतः ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  • Bose, Satyendra Nath (1924). "Plancks Gesetz und Lichtquantenhypothese". Zeitschrift für Physik (in German) 26: 178–81. Bibcode:1924ZPhy...26..178B. doi:10.1007/BF01327326.  on Planck's law.
  • Pais, Abraham (1982). Subtle is the Lord...: The Science and Life of Albert Einstein. Oxford and New York: Oxford University Press. pp. 423–34. ISBN 0-19-853907-X. .
  • Saha; Srivasthava. Heat and thermodynamics. .
  • Pitaevskii, Lev; Stringari, Sandro (2003). Bose–Einstein Condensation. Oxford: Clarendon Press. .
  1. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; frs इत्यस्य आधारः अज्ञातः
"https://sa.wikipedia.org/w/index.php?title=सत्येन्द्रनाथ_बसु&oldid=359309" इत्यस्माद् प्रतिप्राप्तम्