सामग्री पर जाएँ

सदस्यः:गौरीशङ्करः जोषी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इतिहासः

[सम्पादयतु]

अण्डमानद्वीपसमूहः मलयदेशानां समुद्रीयचौराणां केन्द्रम् आसीत् । ते समुद्रीयचौराः अस्मिन् प्रदेशे निवसतः जनान् बन्दीः कृत्वा अन्यस्मिन् देशे विक्रयन्ति । अष्टादशशताब्द्याः अस्येतिहासः प्राप्यते । प्रारम्भे अस्मिन् द्वीपसमूहे पुर्तगालिनः आगतवन्तः । अनन्तरं डच-जनाः गतवन्तः । अन्ते आङ्ग्लैः डच-जनाः पराजिताः । तदा निकोबारद्वीपसमूहे आङ्ग्लैः आधिपत्यं स्थापितम् । समयान्तरे आङ्ग्लैः तत्र जनाः निवासिताः । आङ्ग्लशासनकाले “लॉर्ड् कार्नवालिस्” इत्याख्येन “आर्कीबाल्ड् ब्लेयर्”, “कोलब्रुक्” इत्याख्यौ अस्य द्वीपस्य जनविकासाय प्रेषितौ । अन्ते “आर्कीबाल्ड् ब्लेयर्” इत्याख्यस्य नाम्ना एव “पोर्ट् ब्लेयर्” इत्यस्य स्थलस्य नामकरणम् अभवत् । “पोर्ट् ब्लेयर्” अण्डमाननिकोबारद्वीपसमूहस्य प्रमुखः पोताश्रयः विद्यते । ई. स. १९८९ तमे वर्षे आङ्ग्लैः उत्तर-अण्डमानद्वीपसमूहे जनाः निवासिताः । ई. स. १८५७ तमे वर्षे प्रथमः स्वातन्त्र्ययुद्धः जातः आसीत् । ततः परं ब्रिटिशसर्वकारेण अण्डमाननिकोबारद्वीपसमूहः बन्दिभ्यः प्रदत्ताय आजीवनकारावासाय उपयुज्यते स्म । तस्मिन् काले अयं कारागारः “काला पानी” इति नाम्ना ख्यातः आसीत् । सः कारागारः साम्प्रतं पोर्टब्लेयर् इत्यत्र “सेल्युलर् जेल” इति नाम्ना स्थितम् अस्ति । अयं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य निर्माणं ई. स. १८९६ तमे वर्षे आरब्धम् । ई. स. १९०६ तमे वर्षे अस्य कारागारस्य निर्माणकार्यं समाप्तं जातम् आसीत् । द्वितीयविश्वयुद्धानन्तरं ई. स. १९४२ तमे वर्षे जापान-देशीयैः अण्डमानद्वीपे आधिपत्यं स्थापितम् आसीत् । ई. स. १९४५ तमवर्षपर्यन्तं प्रायः सार्धत्रिवर्षाणि यावत् अस्मिन् द्वीपे तेषाम् अधिकारः आसीत् । ब्रिटिशशासनकाले “सुभाषचन्द्रबोस” इत्याख्येन ई. स. १९४३ तमस्य वर्षस्य दिसम्बर-मासस्य ३० तमे दिनाङ्के पोर्टब्लेयर्-स्थले भारतस्य राष्ट्रियध्वजोन्नयितम् आसीत् । ई. स. १९४५ तमे वर्षे अयं द्वीपः पुनः ब्रिटिश-सर्वकारस्य अधीने अभवत् । ई. स. १९४७ तमस्य वर्षस्य अगस्त-मासस्य १५ दिनाङ्के भारतस्य स्वातन्त्र्यानन्तरं अयं द्वीपः भारतस्य अङ्गीभूतः अभवत् []

जनसङ्ख्या

[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनायाम् अण्डमाननिकोबारद्वीपसमूह-केन्द्रशासितप्रदेशस्य जनसङ्ख्या ३,७९,९४४ अस्ति । तेषु २,०२,३३० पुरुषाः, १,४७,६१४ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते ४६ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । अण्डमाननिकोबारद्वीपसमूह-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-८७८ अस्ति ।

जलवायुः

[सम्पादयतु]

अस्य द्वीपस्य जलवायुः उष्णकटिबन्धीयः वर्तते । द्वीपेऽस्मिन् तापमानं १८ डिग्रीसेल्सियस् तः ३४ डिग्रीसेल्सियसपर्यन्तं भवति । अस्मिन् द्वीपे वर्षायाः अपि आधिक्यं भवति । तत्र आवर्षम् आहत्य ३००० मिलिमीटरमिता वर्षा भवति । वर्षायाः आधिक्येन, समुद्रतटेन च उष्णतायाः अपि आधिक्यं भवति । शीतर्तौ अस्य द्वीपस्य तापमानं सामान्यं भवति । अतः शीतर्तौ जनाः अण्डमाननिकोबारद्वीपसमूहं भ्रमणार्थम् गच्छन्ति । “डगमार-नदी”, “एलेक्जेण्ड्रा-नदी”, “गालाथिया-नदी”, “कालपोङ्ग्-नदी” इत्यादयः अण्डमाननिकोबारद्वीपसमूहस्य प्रमुखाः नद्यः सन्ति []

शिक्षणम्

[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं अण्डमाननिकोबारद्वीपसमूहस्य साक्षरतामानं ८५.९८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९०.११ प्रतिशतं, स्त्रीणां च ८१.८४ प्रतिशतं च अस्ति । “डॉ. बी. आर. अम्बेडकर गवर्नमेण्ट् पॉलिटेक्निकल कॉलेज्”, “गवर्नमेण्ट् पोलिटेक्निकल कॉलेज्” इत्येते अण्डमाननिकोबारद्वीपसमूहस्य प्रमुखे शैक्षणिकसंस्थाने स्तः । इमे “पोर्ट् ब्लेयर्” इत्यत्र स्थिते स्तः []

राजनीतिः

[सम्पादयतु]

अस्मिन् द्वीपे विधानमण्डलं नास्ति । अण्डमाननिकोबारद्वीपसमूहे लोकसभायाः एकं स्थानम् अस्ति । तत्र एकः प्रतिनिधिः एव शासकत्वेन अस्य द्वीपस्य शासनं प्रचालयति । अस्य नियुक्तिः राष्ट्रपतिना क्रियते । राष्ट्रपतिः एव अस्य द्वीपस्य नियमाणां निर्माणं करोति । ई. स. १९८२ तमे वर्षे प्रशासकस्य दायित्त्वं प्रतिनिधये प्रदत्तम् । ई. स. १९५६ तमे वर्षे अण्डमाननिकोबारद्वीपसमूहः सङ्घशासितप्रदेशत्वेन उद्घोषितः । अस्मिन् द्वीपे न कोऽपि राजनैतिकसमूहः अस्ति []

मण्डलानि

[सम्पादयतु]

अण्डमाननिकोबारद्वीपसमूहे त्रीणि मण्डलानि सन्ति । तानि –

  1. निकोबारमण्डलम्
  2. उत्तरमध्य-अण्डमानमण्डलम्
  3. दक्षिण-अण्डमानमण्डलम्

अर्थव्यवस्था, कृषिः, उद्योगश्च

[सम्पादयतु]

एतयोः द्वीपयोः अर्थव्यवस्था कृष्याधारिता अस्ति । तण्डुलः अस्य स्थलस्य प्रमुखं सस्यं विद्यते । अण्डमानद्वीपे तण्डुलस्य अधिकतमम् उत्पादनं क्रियते । नारिकेलं, पुगीपलं इत्येते सस्ये निकोबारद्वीपस्य प्रमुखे सस्ये स्तः । अण्डमाननिकोबारद्वीपसमूहे १३७४ पञ्जीकृताः लघ्वुद्योगाः, ग्राम्योद्योगाः, हस्तशिल्पघटकाः च सन्ति । काष्ठोद्योगाय अपि अत्र केचन यन्त्रागाराः स्थापिताः सन्ति । मत्स्यपालनम् अपि एतयोः द्वीपयोः उद्योगः अस्ति । एवं च अस्य स्थलस्य आर्थिकस्थितिः पर्यतनाधारिता अपि अस्ति । अस्मिन् स्थले पर्यटनाय बहूनि स्थलानि सन्ति []

कला संस्कृतिः

[सम्पादयतु]

अण्डमाननिकोबारद्वीपसमूहे संस्कृतिद्वयस्य जनाः निवसन्ति । द्वयोः संस्कृतिः भिन्ना वर्तते । तेषां जातिः अपि भिन्ना अस्ति । एका नेग्रिटो, अपरा च मङ्गोलायड निकोबारीज च ।अण्डमान-द्वीपसमूहे प्रायः नेग्रिटोजातिः निवसति । मध्वेकत्रिकरणं, मत्स्यपालनं, खाद्यसङ्ग्रहः च अस्याः जातेः जीविकायाः मुख्यसाधनम् अस्ति । निकोबारद्वीपसमूहे शोपेन-आदिवासिनः निवसन्ति । अस्मिन् समूहे काष्ठनिर्मितानां हस्तशिल्पवस्तूनां विदेशे निर्यातः क्रियते । लघु-अण्डमानद्वीपसमूहे ओङ्ग-आदिवासिनः निवसन्ति । मध्य-अण्डमानद्वीपसमूहे जारवा-जातिः, निकोबार-द्वीपसमूहे निकोबारी-जातिः, सेण्टिनियलद्वीपसमूहे सेण्डिनियल-जातिः च निवसति । सर्वेषां जातीनां जनानां भिन्नाः भाषाः सन्ति । एतेषु द्वीपेषु द्वीपपर्यटन-उत्सवः, सुभाष-उत्सवः, विवेकानन्द-उत्सवः इत्यादयः अस्य स्थलस्य प्रमुखाः उत्सवाः सन्ति । तत्र बङ्गाली-जनानां दुर्गापूजा-उत्सवः, तमिलजनानां पोङ्गल-उत्सवः, मलयालीयजनानां ओणम-उत्सवः इत्यादयः उत्सवाः अण्डमाननिकोबारद्वीपसमूहे आचर्यते []

वीक्षणीयस्थलानि

[सम्पादयतु]

अण्डमाननिकोबारद्वीपसमूहे बहूनि वीक्षणीयस्थलानि सन्ति । “सेल्यूलर जेल्”, “रेडस्किन् आइलैण्ड्”, “लघु-अण्डमान”, “राष्ट्रियस्मारकः नेशनल मेमोरियल सङ्ग्रहालयः” नृशास्त्र-सङ्ग्रहालयः, समुद्री-सङ्ग्रहालयः, “काबिन” इत्यस्य लघुकुक्षी, गान्धी-उद्यानं, नीलद्वीपः, वाइपर-द्वीपः, यातायात-उद्यानं इत्यादीनि अण्डमाननिकोबारद्वीपसमूहस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति []

हैवलॉक्-द्वीपः

[सम्पादयतु]

हैवलॉक्-द्वीपः अण्डमाननिकोबारद्वीपसमूहस्य दक्षिण-अण्डमानमण्डले स्थितम् अस्ति । हैवलॉक्-द्वीपः अण्डमाननिकोबारद्वीपसमूहस्य प्रमुखं पर्यटनस्थलं वर्तते । आङ्ग्लशासकेषु “हेनरी हैवलॉक्” इत्याख्यस्य नाम्ना एव अस्य द्वीपस्य नामकरणम् अभवत् । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्मिन् द्वीपे पञ्च ग्रामाः सन्ति । गोविन्दनगरं, राधानगरं, बिजोयनगरं, शामनगरं, कृष्णानगरं च । एतेषां नगराणाम् समुद्रतटानि मनोहराणि सन्ति । एतेषु नगरेषु राधानगरस्य समुद्रतटं सर्वोत्तमं वर्तते । ई. स. २००४ तमस्य वर्षस्य “टाईम्स्” वार्तापत्रिकया अयं द्वीपः एशिया-खण्डस्य सर्वोत्तमं समुद्रतटेन उद्घोषितम् आसीत् । इदं स्थलं “पोर्ट् ब्लेयर्” इत्यस्मात् नगरात् ५५ किलोमीटरमिते दूरे स्थितम् अस्ति । भाटकयानैः पोर्ट्-ब्लेयर-नगरात् हैवलॉक्-दीपः प्राप्यते । अस्मिन् द्वीपे समुद्रतटानि, भोजनालयाः च सन्ति । राधानगरस्य समीपे एलिफेण्ट्-तटम् अपि स्थितम् अस्ति । इदं तटम् अपि सुन्दरं वर्तते । तत्र आपणेषु हस्तनिर्मितानि वस्तूनि अपि प्राप्यन्ते । इदं स्थलं केन्द्रशासितप्रदेशे स्थितम् अस्ति । अतः अस्मिन् स्थले वस्तूनि अल्पमूल्यानि भवन्ति । विश्रामालयाः, भोजनालयाः च अल्पमूल्यकाः भवन्ति । जनाः स्वस्य स्तरानुसारं भ्रमणं कर्तुं शक्नुवन्ति । चेन्नै-नगरात्, कोलकाता-नगरात् च “पोर्ट् ब्लेयर्”-नगराय प्रतिदिनं वायुयानानि प्रचलन्ति । तैः वायुयानैः हैवलॉक्-द्वीपः प्राप्यते । “पोर्ट् ब्लेयर्”-नगरात् जलमार्गेण हैवलॉक्-द्वीपः ६४ किलोमीटरमिते दूरे स्थितः अस्ति । अस्मिन् द्वीपे रेलमार्गः नास्ति । “पोर्ट् ब्लेयर्”-नगरे वीरसावरकर-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । कोलकाता-नगरात्, भुवनेश्वर-नगरात्, चेन्नै-नगरात् च “पोर्ट् ब्लेयर्-नगराय प्रतिदिनं विमानानि प्राप्यन्ते । अनेन प्रकारेण जनाः सरलतया हैवलॉक्-द्वीपं प्राप्तुं शक्नुवन्ति ।

ग्रेट् निकोबार-द्वीपः

[सम्पादयतु]

“ग्रेट् निकोबार”-द्वीपः निकोबारद्वीपसमूहस्य बृहत्तमः द्वीपः वर्तते । अयं निकोबार-मण्डले स्थितः अस्ति । अस्मिन् द्वीपे विविधाः वृक्षाः, पादपाः, विहङ्गाः च दृश्यन्ते । अयं द्वीपः निकोबारद्वीपसमूहस्य दक्षिणभागे स्थितः अस्ति । “इन्दिरा पॉइण्ट्”-नामकः ग्रामः अपि अस्य स्थलस्य समीपे स्थितः अस्ति । इन्दिरा-पॉइण्ड्-ग्रामः निकोबार-मण्डलस्य उपमण्डलं विद्यते । “ग्रेट् निकोबार”-द्वीपस्य दृश्यं स्वर्गमिव दृश्यते । “पोर्ट् ब्लेयर्”-नगरात् जलमार्गेण वायुमार्गेण वा अयं द्वीपः प्राप्यते । जलमार्गेण गमने सति मार्गे बहवः द्वीपाः आयान्ति । “लिटल् निकोबारद्वीपः”, “नेनाकोय-द्वीपः”, “कार निकोबार-द्वीपः” इत्यादयः द्वीपाः दृश्यन्ते । “केम्बेल् बे नेशनल् पार्क्” इदम् उद्यानं भारते प्रसिद्धम् अस्ति । अस्मिन् उद्याने बहवः विहगाः, वृक्षाः प्राप्यन्ते । बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । अस्य स्थलस्य प्राकृतिकसौन्दर्येण इदं “विश्वव्यापिनिधिना (World Wide Fund)” प्रमाणीकृतम् अस्ति । “पोर्ट् ब्लेयर्”-नगराय चेन्नै-नगरात्, कोलकाता-नगरात् च प्रतिदिनं वायुयानानि, जलयानानि च प्रचलन्ति । तैः वायुयानैः जलयानैः वा “ग्रेट् निकोबार”-द्वीपः प्राप्यते । “पोर्ट् ब्लेयर्”-नगरात् जलमार्गेण “ग्रेट् निकोबार”-द्वीपः प्राप्यते । अस्मिन् द्वीपे रेलमार्गः नास्ति । “पोर्ट् ब्लेयर्”-नगरे वीरसावरकर-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । “पोर्ट् ब्लेयर्-नगराय कोलकाता-नगरात्, भुवनेश्वर-नगरात्, चेन्नै-नगरात् च प्रतिदिनं विमानानि प्राप्यन्ते । अनेन प्रकारेण जनाः सरलतया “ग्रेट् निकोबार”-द्वीपं प्राप्तुं शक्नुवन्ति ।

पोर्ट् ब्लेयर्

[सम्पादयतु]

पोर्ट् ब्लेयर्-नगरं भारतस्य अण्डमाननिकोबारद्वीपसमूह-केन्द्रशासितप्रदेशस्य राजधानी वर्तते । इदं अण्डमानद्वीपस्य दक्षिणे स्थितम् अस्ति । अस्य द्वीपस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः जनाः सप्ताहान्ते तत्र गच्छन्ति । तत्र भारतीयवायुसेनायाः, भारतीयनौसेनायाः, तटीयसुरक्षाबलस्य च मुख्यालयः अपि अस्ति । अतः एव इदं स्थलं अत्यधिकं लोकप्रियं वर्तते । इदं ’होलीडे स्पॉट्” इति नाम्ना अपि विख्यातम् अस्ति । अस्मिन् द्वीपे ब्रिटिशशासनकालस्य कारागारः अपि स्थितः अस्ति । सः “काला पानी” इत्यपि कथ्यते । बन्दीभ्यः आजीवनकारावासाय अयं कारागारः उपयुज्यते स्म । “पोर्ट् ब्लेयर्”-द्वीपे मरीन-उद्यानम् अस्ति । इदम् उद्यानं अस्य द्वीपस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । “काले पानी-कारागारस्य समीपे “अण्डमान वॉटर् स्पोर्ट्स् कॉम्प्लेक्स्” इत्यत्र बह्व्यः जलक्रीडाः क्रियन्ते । एताभिः जलक्रीडाभिः अस्य द्वीपस्य अर्थव्यवस्था अपि सुदृढा भवति । एवं च एताभिः जलक्रीडाभिः जनाः प्राकृतिकसौन्दर्यस्य अनुभवं कुर्वन्ति । आवर्षं बहवः जनाः पोर्ट्-ब्लेयर्-द्वीपं गच्छन्ति । पोर्ट्-ब्लेयर्-द्वीपः भारतस्य बहुभिः नगरैः सह सम्बद्धम् अस्ति । “पोर्ट् ब्लेयर्”-नगराय चेन्नै-नगरात्, कोलकाता-नगरात् च प्रतिदिनं वायुयानानि, जलयानानि च प्रचलन्ति । तैः वायुयानैः जलयानैः वा “पोर्ट् ब्लेयर्”-द्वीपः प्राप्यते । चेन्नै-नगरात् जलमार्गेण २१ होरासु, वायुमार्गेण च २ होरायोः पोर्ट् ब्लेयर्-द्वीपः प्राप्यते । अस्मिन् द्वीपे रेलमार्गः नास्ति । “पोर्ट् ब्लेयर्”-नगरे वीरसावरकर-विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । “पोर्ट् ब्लेयर्-नगराय कोलकाता-नगरात्, भुवनेश्वर-नगरात्, चेन्नै-नगरात् च प्रतिदिनं विमानानि प्राप्यन्ते । अनेन प्रकारेण जनाः सरलतया “पोर्ट् ब्लेयर्”-द्वीपं प्राप्तुं शक्नुवन्ति ।

सेल्युलर् जेल्

[सम्पादयतु]

ई. स. १८९७ तमे वर्षे आङ्ग्लसर्वकारेण भारतस्य क्रान्तिकारिभ्यः अयं कारागारः निर्मापितः । अस्मिन् कारागारे ६९४ प्रकोष्ठाः सन्ति । बन्दिनः परस्परं सम्पर्कं कर्तुम् असमर्थाः भवेयुः इति उद्दिश्य आङ्ग्लसर्वकारेण एतावतां प्रकोष्ठानां निर्माणं कारितम् । पुरा अस्य सप्त भागाः आसन् । समयान्तरे अस्य कारागारस्य केवलं भागत्रयम् एव अवशिष्टं विद्यते । अस्य कारागारस्य भीत्तिषु हुतात्मनां क्रान्तिकारिणां नामानि लिखितानि सन्ति । तत्र एकः सङ्ग्रहालयः अपि अस्ति । अस्मिन् सङ्ग्रहालये अस्त्राणि सङ्ग्रहीतानि सन्ति । तैः अस्त्रैः बन्दिषु अत्याचाराः क्रियन्ते स्म । अयं कारागारः सम्पूर्णे विश्वस्मिन् प्रसिद्धः वर्तते । आवर्षं भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः अस्य स्थलस्य प्रवासाय गच्छन्ति ।

वाइपर्-द्वीपः

[सम्पादयतु]

वाइपर्-द्वीपः पोर्ट्-ब्लेयर्-द्वीपस्य समीपे स्थितः अस्ति । पुरा परतन्त्रभारतात् अस्मिन् द्वीपे बन्दिनः आनयन्ति स्म । साम्प्रतम् इदं स्थलं विहारकेन्द्रत्वेन विकसितं जातम् । “शेर अली” इत्याख्येन ई. स. १८७२ तमे भारतस्य राज्यपालः “जनरल लॉर्ड् मेयो” इत्याख्यः हतः । अतः “शेर अली” इत्यस्मै अत्र मृत्युदण्डम् अददात् ।

बैरनद्वीपः

[सम्पादयतु]

बैरनद्वीपः भारतस्य सक्रियः ज्वालामुखी अस्ति । अयं द्वीपः ३ किलोमीटरमितः विस्तृतः अस्ति । अयं द्वीपः अण्डमानद्वीपस्य पूर्वदिशि स्थितः अस्ति । अयं द्वीपः “पोर्ट् ब्लेयर्”-द्वीपात् उत्तर-पूर्वदिशि ५०० किलोमीटरमिते दूरे बङ्गालस्य समुद्रकुक्ष्यां स्थितः अस्ति । अयं दक्षिण-एशियाखण्डस्य सक्रियः ज्वालामुखी अस्ति । बैरन् इत्यर्थः “अनुर्वरा भूमिः” इति । अस्मिन् द्वीपे न कोऽपि मनुष्यः निवसति । तत्र केवलं अजाः, मूषकाः, विहगाः च दृश्यन्ते ।

परिवहनम्

[सम्पादयतु]

अण्डमाननिकोबारद्वीपसमूह-केन्द्रशासितप्रदेशस्य परिवहनं किञ्चित् कष्टकरं भवति । यतः तत्र गन्तुं भूमार्गः नास्ति । जलमार्गेण, वायुमार्गेण वा एव जनाः तत्र गन्तुं शक्नुवन्ति । अयं प्रदेशः भारतस्य कश्चन भागः वर्तते । किन्तु मध्ये समुद्रे सति परिवहने काठिन्यं उद्भवति । अतः वायुमार्गस्य, जलमार्गस्य वा प्रयोगः क्रियते ।

जलमार्गः

[सम्पादयतु]

भारतस्य कोलकाता-नगरात्, चेन्नै-नगरात्, विशाखापट्टनम्-नगरात् च “पोर्ट् ब्लेयर्”-द्वीपाय जलयानानि प्राप्यन्ते । जलमार्गेण द्वि-त्रिदिवसात्मिका यात्रा भवति । पोर्ट्-ब्लेयर्-द्वीपात् आगन्तुं जलयानानि निश्चितानि न सन्ति । तेषां जलयानानां समयः निश्चितः न भवति । अनेन प्रकारेण जलमागेण अण्डमाननिकोबारद्वीपं गन्तुं शक्यते ।

वायुमार्गः

[सम्पादयतु]

भारतस्य चेन्नै-नगरात्, कोलकाता-नगरात्, देहली-नगरात्, भुवनेश्वर-नगरात् च प्रतिसप्ताहस्य मङ्गलवासरे, बृहस्पतिवासरे, शनिवासरे च “पोर्ट् ब्लेयर्”-द्वीपाय वायुयानानि प्राप्यन्ते । “इण्डियन् एयरलाइन्स्” इतीयं वायुयानसंस्थया स्वस्य वायुयानानि प्रचालितानि सन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७५-३७६
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७७
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७८
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७६
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७७
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७८
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७८-३७९