सदस्यः:डॉ नरेन्द्रः ला. पण्ड्या/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भौगोलिकम्[सम्पादयतु]

लक्षद्वीपः भारतस्य लघुत्तमः केन्द्रशासितप्रदेशः वर्तते । अयं प्रदेशः द्वीपाणां समूहः अस्ति । लक्षद्वीपः-केन्द्रशासितप्रदेशः ३२ चतुरस्रकिलोमीटरमितः विस्तृतः वर्तते । अस्मिन् प्रदेशे ३६ द्वीपाः सन्ति । तेषु द्वीपेषु केवलं १० द्वीपेषु एव जनाः निवसन्ति । केरल-राज्यस्य समुद्रतटात् अयं केन्द्रशासितप्रदेशः २८० तः ४८० किलोमीटरमिते दूरे स्थितः अस्ति । लक्षद्वीप-केन्द्रशासितप्रदेशे लक्षद्वीपनामकं मण्डलं विद्यते । कावारत्ती-नगरं लक्षद्वीप-मण्डलस्य केन्द्रं विद्यते । लक्षद्वीप-केन्द्रशासितप्रदेशस्य परितः किमपि राज्यं नास्ति । अयं केन्द्रशासितप्रदेशः हिन्दमहासागरे स्थितः अस्ति [१]

जलवायुः[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशस्य जलवायुः उष्णकटिबन्धीयः भवति । ग्रीष्मर्तौ अस्य प्रदेशस्य तापमानं २२ तः ३५ डिग्रीसेल्सियसमात्रात्मकं भवति । शीतर्तौ च अस्य प्रदेशस्य तापमानं २० तः ३२ डिग्रीसेल्सियसमात्रात्मकं भवति । वर्षर्तौ अस्य प्रदेशस्य मिनिकॉय्-द्वीपसमूहेषु १६० सेन्टीमीटरमात्रात्मिका वर्षा, अमीनदीवीद्वीपसमूहे १५० सेन्टीमीटरमात्रात्मिका वर्षा च भवति [२]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं लक्षद्वीप-केन्द्रशासितप्रदेशस्य जनसङ्ख्या ६४,४२९ अस्ति । तेषु ३३,१०६ पुरुषाः, ३१,३२३ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २०१३ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २०१३ जनाः । लक्षद्वीप-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-९४६ अस्ति [३]। केन्द्रशासितप्रदेशेषु जनसङ्ख्यादृष्ट्या अयं प्रदेशः लघुत्तमः वर्तते [४]

इतिहासः[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशस्य इतिहासः कुत्रापि लिखितः नास्ति । तथापि ये पुरातात्त्विकाः सन्ति । तेषाम् अन्वेषणेन ज्ञातं यत् – “पुरा लक्षद्वीपेषु बौद्धधर्मानुयायिनः निवसन्ति स्म । दशमशताब्द्यां लक्षद्वीपेषु शासितुं चोल-वंशस्य, चेर-वंशस्य, पाण्ड्य-वंशस्य च राजानः प्रयासान् कुवन्ति स्म । ई. स. १४९८ तमे वर्षे पुर्तगाली-जनाः एतान् द्वीपान् प्राप्तवन्तः । ई. स. १७८७ तमे वर्षे “टीपू सुल्तान” इत्याख्यः राजा अस्य प्रदेशस्य अमीनी-द्वीपे स्वाधिपत्यं स्थापितम् । अनन्तरं ब्रिटिश्-साम्राज्यस्य “ईस्ट् इण्डिया कम्पनी” इत्याख्यया संस्थया अस्मिन् द्वीपे स्वस्य अधिकारं स्थापितम् । ई. स. १८५४ तमवर्षपर्यन्तं अन्येषु द्वीपेषु अपि आङ्ग्लानाम् अधिकारः अभवत् । तैः आङ्ग्लैः ई. स. १९४७ तमवर्षपर्यन्तं शासनं कृतम् । भारतस्य स्वातन्त्र्यानन्तरम् आङ्ग्लानाम् अधिकारः समाप्तः जातः । ततः परं एते द्वीपाः भारते समाविष्टाः । एते द्वीपाः मद्रास-प्रान्तस्य अन्तर्गताः आसन् । ई. स. १९५६ तमस्य वर्षस्य नवम्बर-मासस्य १ दिनाङ्के एतान् द्वीपान् एकीकृत्य एकः केन्द्रशासितप्रदेशः स्थापितः । “लक्कदीव”, “मिनिकॉय”, “अमिनदीवी द्वीप” इत्यादीनि अस्य प्रदेशस्य नामानि प्रदत्तानि आसन् । ई. स. १९७३ तमे वर्षे अस्य प्रदेशस्य नाम “लक्षद्वीपः” इति कृतम् [५]

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं लक्षद्वीप-केन्द्रशासितप्रदेशस्य साक्षरतामानं ९२.१८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९६.११ प्रतिशतं, स्त्रीणां च ८५.२२ प्रतिशतं च अस्ति । अस्मिन् प्रदेशे विश्वविद्यालयः, उच्चशैक्षणिकस्थानानि च न सन्ति । तथापि सर्वेषु केन्द्रशासितप्रदेशेषु अस्य प्रदेशस्य साक्षरतामानं सर्वोन्नतम् अस्ति [६]

राजनीतिः[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशे विधानमण्डलं नास्ति । अस्य प्रदेशस्य शासनं केन्द्रसर्वकारेण एव चाल्यते । राष्ट्रपतिना अस्मै प्रदेशाय प्रशासकस्य नियुक्तिः क्रियते । सः प्रशासकः उपराज्यपालः इति कथ्यते । राष्ट्रपतिना एव लक्षद्वीप-केन्द्रशासितप्रदेशस्य नियमाः निर्मीयन्ते । अस्मिन् केन्द्रशासितप्रदेशे लोकसभायाः एकं स्थानं वर्तते । लक्षद्वीप-केन्द्रशासितप्रदेशे कोऽपि राजनैतिकसमूहः नास्ति [७]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशस्य मुख्याधारः कृषिः एव अस्ति । नारिकेलम् अस्य प्रदेशस्य प्रमुखं सस्यं विद्यते । मत्स्योद्योगः एव अस्य प्रदेशस्य प्रमुखः उद्योगः वर्तते । इमं प्रदेशं परितः समुद्रः एव अस्ति । अतः मत्स्याः अपि प्रचूरमात्रायां प्राप्यन्ते । नारिकेलतन्तूनाम् अपि यन्त्रागाराः तत्र स्थिताः सन्ति । अस्मिन् प्रदेशे नारिकेलतन्तूनाम् उद्योगाः क्रियते । अस्मिन् प्रदेशे नारिकेलतन्तूनां ७ यन्त्रागाराः सन्ति । ई. स. १९७३ तमे वर्षे, १९७९ तमे वर्षे च कावारत्ती-नगरे, कालपेनी-नगरे च द्वे हस्तशिल्पप्रशिक्षणकेन्द्रे स्थापिते [८]

खाद्यव्यवस्था[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशे पेयजलं न प्राप्यते । अतः वर्षाजलं एकीकृत्य एव उपयुज्यते । अस्मिन् प्रदेशे कूपाः निर्मापिताः । अतः तेषु कूपेषु वर्षाजलस्य सञ्चयं कृत्वा उपयोगः क्रियते । नारिकेलं, कदलीफलं, मधुकर्कटी, वनीयवनस्पतयः इत्यादयः एव उत्पद्यन्ते । अस्मिन् प्रदेशे मृत्तिका नास्ति अतः सस्यानि उत्पादयितुं न शक्यन्ते । अतः कोचीन-नगरादेव खाद्यव्यवस्था क्रियते । जलयानैः अन्यावश्यकवस्तूनां आयातः क्रियते । यथा – अन्नं, धातवः इत्यादीनि वस्तूनि केरल-राज्यस्य नगरेभ्यः आयान्ति ।

कला, संस्कृतिश्च[सम्पादयतु]

अरब-सागरस्य एतेषु द्वीपेषु अधिकतमाः मत्स्यपालकाः सन्ति । ते सर्वाधिकाः मुस्लिम-जनाः सन्ति । तेषां भाषा, भूषा, रीतिः च मालाबार-तटवर्तीनां हिन्दुजनानां संस्कृत्या सह सम्बद्धा अस्ति । लक्षद्वीप-केन्द्रशासितप्रदेशे काष्ठेषु कलाकृतयः क्रियन्ते । अतः अस्यै कलाकृतये अयं प्रदेशः विख्यातः अस्ति । विभिन्नप्रकारकाणां हस्तशिल्पानां निर्माणं क्रियते । अस्य प्रदेशस्य जनाः नृत्यप्रियाः सन्ति । “किल्टन”, “लावा”, “कोलकाली”, “ओप्पाना”, “भाण्डिया” इत्यादीनि लक्षद्वीप-केन्द्रशासितप्रदेशास्य लोकनृत्यानि सन्ति । तत्र विवाहावसरे ओपाना-सङ्गीतं वाद्यते । इदं सङ्गीतं बहुप्रचलितम् अस्ति । “मुहर्रम”, “ईद-ए-मिलाद-उल-नबी”, “ईद-उल-फितर”, “विजयादशमी” इत्यादयः उत्सवाः अस्मिन् प्रदेशे आचर्यन्ते । अस्य प्रदेशस्य जनाः सर्वान् उत्सवान् उत्साहेन आचरन्ति [९]

वीक्षणीयस्थलानि[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशे बहूनि वीक्षणीयस्थलानि सन्ति । “मिनिकॉय-द्वीपः”, “विद्युद्गृहम्”, “कावारत्ती”, “हजरत उबैदुल्लाह”, “एण्ड्रॉट्”, “वॉटर् स्पोर्ट्स् इन्स्टीट्यूट् कदमत”, “बौद्धपुरातत्त्वावशेषाः” इत्यादीनि अस्य प्रदेशस्य पर्यटनस्थलानि सन्ति । अस्मिन् प्रदेशे प्रवाल-द्वीपः अस्ति । अयं द्वीपः अपि भ्रमणार्थम् उत्तमः अस्ति । तत्र “चेरियम सुहेली”, “वलीयाकारा” च स्थलं वर्तते । अनयोः स्थलयोः अन्ताराष्ट्रियपर्यटनस्थलत्वेन विकासः जायमानः अस्ति [१०]

परिवहनम्[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशः जलमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । एताभ्यां मार्गाभ्यां जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः लक्षद्वीप-केन्द्रशासितप्रदेशं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया लक्षद्वीप-केन्द्रशासितप्रदेशं प्राप्नुवन्ति । किन्तु लक्षद्वीप-केन्द्रशासितप्रदेशं गन्तुं प्रवासोद्यमविभागस्य अनुमतिः स्वीकरणीया भवति । वैदेशिकपर्यटकाः सप्तद्वीपेषु केवलं द्वे द्वीपे (अगाती-द्वीपः, बङ्गाराम-द्वीपः च) एव पर्यटनाय गन्तुं शक्नुवन्ति । किन्तु भारतीयाः सप्तद्वीपेषु षड्द्वीपेषु भ्रमणं कर्तुं शक्नुवन्ति ।

जलमार्गः[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशः जलमार्गेण भारतस्य केरल-राज्येन सह सम्बद्धः अस्ति । भारतस्य कोचीन-नगरात् अगट्टी-द्वीपाय नियमितरूपेण नौसेवा प्राप्यते । लक्षद्वीप-केन्द्रशासितप्रदेशस्य सर्वकारेण जलमार्गस्य प्रबन्धनं क्रियमाणम् अस्ति । जलमार्गे बहूनि जलयानानि प्रचलन्ति । भारतस्य, विदेशस्य च विभिन्ननरेभ्यः आवर्षं बहवः जनाः जलमार्गेण लक्षद्वीप-केन्द्रशासितप्रदेशं गच्छन्ति । तैः जलयानैः लक्षद्वीप-केन्द्रशासितप्रदेशं गन्तुं शक्यते ।

वायुमार्गः[सम्पादयतु]

लक्षद्वीप-केन्द्रशासितप्रदेशे अगट्टी-द्वीपे विमानस्थानकं विद्यते । बेङ्गळूरु-नगरस्य, कोचीन-नगरस्य च विमानस्थानकं लक्षद्वीप-केन्द्रशासितप्रदेशस्य अगट्टी-द्वीपस्य विमानस्थानकेन सह सम्बद्धम् अस्ति । तेषु विमानस्थानकेषु “किङ्गफिशर्-वैमानिकसंस्थया”, “एयर इण्डिया-वैमानिकसंस्थया” च वायुयानानि प्रचाल्यन्ते । एते संस्थे रविवासरं विहाय वायुयानानि प्रचालयतः । लक्षद्वीप-केन्द्रशासितप्रदेशस्य बङ्गाराम-स्थले अपि एकं विमानस्थानकं स्थितम् अस्ति । तस्मात् विमानस्थानकात् कोचीन-नगराय वा अन्यस्थलेभ्यः अपि वायुयानानि प्राप्यन्ते । तैः वायुयानैः लक्षद्वीप-केन्द्रशासितप्रदेशं गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण लक्षद्वीप-केन्द्रशासितप्रदेशः प्राप्यते ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७०
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७१
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६६
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६६
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६८-३६९
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७१
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३६९
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७१
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७१
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३७२