सदस्यः:दीपेशः कतिरा/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भौगोलिकम्[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशः हिमालयस्य शिवालिकपर्वतशृङ्खलायाः तले स्थितः अस्ति । अयं भारतस्य उत्तर-पश्चिमदिशि विराजते । अस्य प्रदेशस्य विस्तारः ११४ चतुरस्रकिलोमीटरमितः अस्ति । अस्य प्रदेशस्य पूर्वदिशि, दक्षिणदिशि च हरियाणा-राज्यं, उत्तरदिशि, पश्चिमदिशि च पञ्जाब-राज्यं च स्थितम् अस्ति । अयं प्रदेशः समुद्रतलात् ३२१ मीटरमितः उन्नतः अस्ति । हरियाणा-राज्यस्य अम्बाला-मण्डलं, पञ्चकुला-मण्डलं, पञ्जाब-राज्यस्य मोहाली-मण्डलं, पटियाला-मण्डलं, रोपड-मण्डलम् इत्येतानि चण्डीगढ-केन्द्रशासितप्रदेशस्य समीपस्थानि मण्डलानि सन्ति [१]

जलवायुः[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशस्य जलवायुः आर्द्रः, उपोष्णकटिबन्धीयः च भवति । अस्मिन् प्रदेशे अक्टूबर-मासतः मार्च-मासपर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य प्रदेशस्य तापमानं ४ तः १४ डिग्रीसेल्सियसमात्रात्मकं भवति । अप्रैल-मासतः जून-मासपर्यन्तं तत्र ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ वातावरणम् अत्युष्णं भवति । तस्मिन् समये अस्य प्रदेशस्य तापमानं प्रायः ४४ डिग्रीसेल्सियसमात्रात्मकं भवति । जुलाई-मासतः सितम्बर-मासपर्यन्तम् तत्र वर्षर्तुः भवति । वर्षर्तौ प्रतिवर्षं प्रायः १११० मिलिमीटरमात्रात्मिका वर्षा भवति [२]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं चण्डीगढ-केन्द्रशासितप्रदेशस्य जनसङ्ख्या १०,५४,६८६ अस्ति । तेषु ५,८०,२८२ पुरुषाः, ४,७४,४०४ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते ९२५२ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ९२५२ जनाः । चण्डीगढ-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-८१८ अस्ति [३] । प्रदेशेऽस्मिन् सर्वधर्माणां जनाः निवसन्ति । तेषु हिन्दुधर्मस्य ७८.६ प्रतिशतं जनाः, सिखधर्मस्य १६.१ प्रतिशतं जनाः, इस्लामधर्मस्य ३.९ जनाः, ईसाईधर्मस्य ०.८ प्रतिशतं जनाः च निवसन्ति । अस्मिन् राज्ये हिन्दी-भाषा, पञ्जाबी-भाषा च व्यवह्रीयते । एते अस्य प्रदेशस्य प्रमुखे भाषे स्तः । किन्तु साम्प्रतम् आङ्ग्ल-भाषायाः प्रभावः अधिकः वर्तते । अतः आङ्ग्ल-भाषा अपि अधिकाधिकं व्यवह्रीयते । प्रदेशेऽस्मिन् तमिळ-जनाः अपि निवसन्ति । ते तमिल-भाषायां व्यवहारं कुर्वन्ति । एवं च केचन जनाः उर्दु-भाषायां अपि व्यवहारं कुर्वन्ति ।

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं चण्डीगढ-केन्द्रशासितप्रदेशस्य साक्षरतामानं ८५.९६ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ९०.५४ प्रतिशतं, स्त्रीणां च ८१.३८ प्रतिशतं च अस्ति । “पञ्जाब-विश्वविद्यालयः”, “पञ्जाब इञ्जीनियरिङ्ग् कॉलेज्”, “चण्डीगढ कॉलेज् ऑफ् आर्किटेक्चर्”, “चण्डीगढ कॉलेज् ऑफ् इञ्जीनियरिङ्ग् एण्ड् पॉलिटेक्निक्”, गवर्नमेण्ट् मेडिकल् कॉलेज्”, “पी. जी. आई. ऑफ् मेडिकल् एजुकेशन् एण्ड् रिसर्च्” इत्यादीनि चण्डीगढ-केन्द्रशासितप्रदेशस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति [४]

राजनीतिः[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशे विधानमण्डलं नास्ति । अस्मिन् राज्ये राष्ट्रपतिः एव प्रशासनप्रमुखः भवति । सः एव तस्य प्रदेशस्य प्रशासकस्य नियुक्तिं करोति । सः प्रशासकः “उपराज्यपालः” इति कथ्यते । प्रदेशेऽस्मिन् “द केपिटल् कॉम्प्लेक्स्” स्थितम् अस्ति । इदं स्थलं पञ्जाब-राज्यस्य, हरियाणा-राज्यस्य च प्रशासनिकं केन्द्रं विद्यते । चण्डीगढ-केन्द्रशासितप्रदेशस्य लोकसभायाम् एकं स्थानम् अस्ति [५]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशस्य अर्थव्यवस्था कृष्याधारिता अस्ति । गोधूमः अस्य प्रदेशस्य प्रमुखं सस्यं वर्तते । तण्डुलाः अपि अस्य प्रदेशस्य अन्यतमं प्रमुखं सस्यं विद्यते । आम्रफलं, नारिङ्गफलं, द्राक्षफलम् इत्यादीनि फलानि अस्मिन् प्रदेशे उत्पाद्यन्ते । प्रदेशेऽस्मिन् १,४०० हेक्टेयरमिता भूमिः कृषियोग्या वर्तते । चण्डीगढ-केन्द्रशासितप्रदेशः औद्योगिकदृष्ट्या महत्त्वपूर्णः वर्तते । अस्मिन् प्रदेशे प्रायः ७०० बृहदुद्योगाः सन्ति । लघूद्योगानां सङ्ख्या ३,००० वर्तते । एतेषु उद्योगेषु ३०,००० जनाः कार्यं कुर्वन्ति । अस्मिन् प्रदेशे प्रायः २० निर्यातकघटकाः सन्ति । अस्मिन् प्रदेशे खानिजसम्पत्तिः न प्राप्यते । ऊर्णवस्त्राणि, विद्युदुपकरणानि इत्यादयः प्रमुखाः उद्योगाः सन्ति [६]

कला, संस्कृतिश्च[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशः बहूनां लोकप्रसिद्धानां चित्रकाराणां, गायकानां, नर्तकानां, कलाकाराणां, लेखकानां च जन्मभूमिः, कर्मभूमिश्च अस्ति । अस्मिन् प्रदेशे बहवः मूर्तिकाराः, भाचित्रकाः (Photographer) अपि सन्ति । प्रदेशेऽस्मिन् लोकसङ्गीतस्य, वाद्यसङ्गीतस्य बहूनि शैक्षणिकसंस्थाननि सन्ति । चण्डीगढ-प्रदेशे बहवः उत्सवाः आयोज्यन्ते । तेषु “रोज-उत्सवः”, “मेङ्गो-उत्सवः”, “वैशाखीपर्व’, “भारत-पाक मुशायरा”, “प्लाजा कार्निवाल्”, “चण्डीगढ कार्निवाल्” इत्यादयः अस्य प्रदेशस्य प्रमुखाः उत्सवाः सन्ति । “फेस्टिवल् ऑफ् गार्डेन्स्” इत्ययम् उत्सवः चण्डीगढ-प्रदेशस्य प्रमुखः सांस्कृतिकः कार्यक्रमः अस्ति । अयम् उत्सवः “गुलाब-उत्सवः” अपि कथ्यते । अस्मिन् उत्सवे बहवः जनाः भवन्ति । प्रतिवर्षम् अप्रैल-मासस्य १ दिनाङ्के तत्र महामूर्ख-सम्मेलनस्य आयोजनं क्रियते । अस्मिन् सम्मेलने प्रसिद्धकवयः भागं वहन्ति । अयमुत्सवः सम्पूर्णे भारते प्रसिद्धः अस्ति । अस्य प्रदेशस्य जनाः उत्साहेन प्रत्येकान् उत्सवान् आचरन्ति [७]

वीक्षणीयस्थलानि[सम्पादयतु]

चण्डीगढ-प्रदेशे बहूनि वीक्षणीयस्थलानि सन्ति । “रॉक्-उद्यानं”, “रोज्-उद्यानं”, “शान्तिकुञ्जः”, “टैरेज-उद्यानं”, “इण्टरनेशनल डोल्स् सङ्ग्रहालयः”, “डीयर-उद्यानं”, “म्यूजियम् ऑफ् इवॉल्यूशन् ऑफ् लाईफ्”, “पञ्जाबकलाकेन्द्रं”, “लीजर वेली”, “जाकिर रोज उद्यानं”, “आर्ट् गैलेरी”, “नेशनल गैलेरी ऑफ् पोर्ट्रेट्स्” इत्यादीनि अस्य प्रदेशस्य समीपस्थानि पर्यटनस्थलानि सन्ति । चण्डीगढ-नगरस्य रोज्-उद्यानं ३० एकडमितं विस्तृतम् अस्ति । उद्यानमिदम् अत्यन्तं सुन्दरं, सुसज्जितं च अस्ति । अस्मिन् उद्याने पाटलपुष्पस्य १,६०० प्रकाराः सन्ति । रॉक्-उद्यानम अपि चण्डीगढ-नगरस्य प्रमुखम् आकर्षणकेन्द्रं विद्यते । अस्य नगरस्य उत्तर-पूर्वदिशि चण्डीदेव्याः मन्दिरं विद्यते । अस्य मन्दिरस्य नाम्ना एव “चण्डीगढ” इति नामकरणम् अभवत् [८]

सुखना-वन्यजीवाभयारण्यम्[सम्पादयतु]

सुखना-वन्यजीवाभयारण्यं चण्डीगढ-केन्द्रशासितप्रदेशस्य प्रमुखं पर्यटनस्थलम् अस्ति । इदं अभयारण्यं २६०० हेक्टेयरमितं विस्तृतं वर्तते । अस्मिन् अभयारण्ये विविधाः वनस्पतयः, वन्यजीवाः च प्राप्यन्ते । वानरः (Monkey), शशकः (Rabbit), वृक्षशायिका (Squirrel), शल्लकी (Porcupine), ईहामृगः (Wolf), वनसूकरः(Boar), वनबिडालः (Wild Cat) इत्यादयः पशवः दृश्यन्ते । सरीसृपाणां अपि बह्व्यः प्रजातयः प्राप्यन्ते ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशे बहवः प्रसिद्धाः जनाः अभवन् । चलच्चित्रक्षेत्रे, कलाक्षेत्रे, क्रीडाक्षेत्रे इत्यादिषु विभिन्नक्षेत्रेषु ते जनाः विख्याताः सन्ति । यथा -

नीरजा भनोट[सम्पादयतु]

“नीरजा भनोट” इत्याख्या मुम्बई-नगरे “पेन् अमेरिकन् वर्ल्ड् ऐअरवेज् (Pan American World Airways)” इत्यस्याः वैमानिकसंस्थायाः परिचारिका आसीत् । ई. स. १९८६ तमस्य वर्षस्य सितम्बर-मासस्य ५ दिनाङ्के आतङ्कवादिभिः “पेन् अमेरिकन् वर्ल्ड् ऐअरवेज् (Pan American World Airways)” इत्यस्याः वैमानिकसंस्थायाः “पैन् एम् ७३” नामकस्य विमानस्य अपहरणं कृतम् आसीत् । तदा “नीरजा भनोट” इत्याख्या अपि तस्मिन् विमाने एव आसीत् । यात्रिकाणां साहाय्यार्थं, रक्षणार्थं च तया प्रयासाः कृताः । किन्तु आतङ्कवादिभिः सा हता । मृत्योरनन्तरं नीरजायाः साहसं दृष्ट्वा भारतीयसर्वकारेण अशोकचक्रेण सा सम्मानिता । पाकिस्तान-अमेरिकादेशयोः सर्वकारेण अपि तस्याः वीरतायै सम्मानं कृतम् आसीत् । अस्याः दुर्घटनायाः आधारेण बॉलिवुड्-चलच्चित्रक्षेत्रे एकं चलच्चित्रम् अपि निर्मीयमाणम् अस्ति । ई. स. २०१५ तमस्य वर्षस्य अन्ते वा ई. स. २०१६ तमे वर्षे तस्य चलच्चित्रस्य अवतरणं भविष्यति इति अनुमीयते ।

मिलखा सिंह[सम्पादयतु]

“मिलखा सिंह” इत्याख्यः भारतस्य प्रसिद्धः धावकः आसीत् । सः “उडन सिख” इति नाम्ना अपि ज्ञायते । ई. स. १९६० तमस्य वर्षस्य रोम-देशस्य “ग्रीष्म ओलम्पिक् क्रीडायां”, ई. स. १९६४ तमस्य वर्षस्य टोक्यो-देशस्य “ग्रीष्म ओलम्पिक् क्रीडायां” च भारतस्य प्रतिनिधित्वेन सः भागम् अवहत् । सः भारतस्य सर्वश्रेष्ठक्रीडकेषु अन्यतमः अस्ति । “राकेश ओमप्रकाश मेहरा” इत्याख्येन बॉलिवुड्-चलच्चित्रक्षेत्रस्य निर्देशकेन ई. स. २०१३ तमे वर्षे “भाग मिलखा भाग” इति चलच्चित्रं निर्मापितम् आसीत् । इदं चलच्चित्रं “मिलखा सिंह” इत्याख्यस्य जीवनाधारितम् आसीत् । सेवानिवृत्त्यनन्तरं सः पञ्जाब-राज्यस्य क्रीडानिर्देशकत्वेन कार्यरतः अस्ति । भारतीयसर्वकारेण सः “पद्मश्री-पुरस्कारेण” अपि सम्मानितः ।

जीव मिलखा सिंह[सम्पादयतु]

“जीव मिलखा सिंह” इत्याख्यः भारतस्य प्रथमः व्यावसायिकः गोल्फ्-क्रीडकः अस्ति । अयं “फ्लाईङ्ग् सिंह” इति नाम्ना प्रसिद्धः अस्ति । भारतस्य प्रसिद्धः धावकः “मिलखा सिंह” इत्याख्यः अस्य पिता अस्ति । तस्य माता “निर्मल कौर” इत्याख्या अस्ति । सा अपि “वॉलीबाल्”-क्रीडासमूहस्य नेत्री आसीत् । ई. स. २००६ तमस्य वर्षस्य विश्वस्य श्रेष्ठेषु गोल्फ्-क्रीडकेषु सः अन्यतमः आसीत् । ई. स. २००७ तमे वर्षे भारतीयसर्वकारेण “पद्मश्री”-पुरस्कारेण अयं सम्मानितः ।

कपिलदेवः[सम्पादयतु]

कपिलदेवः भारतीयक्रिकेट्-क्रीडासमूहस्य नेतृत्वं कृतवान् आसीत् । तेन ई. स. १९८३ तमस्य वर्षस्य क्रिकेट्-क्रीडायाः विश्वविजयवैजयन्त्ये (Cricket World Cup 1983) भारतीयक्रिकेट्-क्रीडासमूहस्य नेतृत्वेन मार्गदर्शनं कृतम् आसीत् । तस्य नेतृत्वे सति भारतीयक्रिकेट्-क्रीडासमूहः विश्वविजयवैजयन्तीं प्राप्तवान् । क्रीकेट्-क्रीडाक्षेत्रात् निवृत्त्यनन्तरम् ई. स. २००५ तेन “खुशी” नामकं राष्ट्रियसङ्घटनं स्थापितम् । साम्प्रतं कपिलदेवः तस्य सङ्घटनस्य अध्यक्षत्वेन कार्यरतः अस्ति ।

बलबीर सिंह[सम्पादयतु]

“बलबीर सिंह” भारतस्य यष्टिक्रीडायाः श्रेष्ठ क्रीडकः अस्ति । अयं “बलबीर सिंह सीनियर्” इति नाम्ना अपि ज्ञायते । यतः यष्टिक्रीडायां “बलबीर सिंह” इत्याख्यः अपरः कश्चन क्रीडकः अपि अस्ति । “बलबीर सिंह” इत्याख्येन ओलम्पिक-क्रीडायां स्वस्य नाम अङ्कितम् ।

युवराज सिंह[सम्पादयतु]

“युवराज सिंह” इत्याख्यः भारतीयक्रिकेट्-क्रीडायाः प्रसिद्धः क्रीडकः अस्ति । अस्य पिता “योगराज सिंह” इत्याख्यः अपि क्रिकेट्-क्रीडकः अस्ति । सः “युवी” इति नाम्ना अपि ज्ञायते । क्रिकेट्-क्रीडायाः २०-२० विजयवैजयन्त्यां तेन षड्कन्दुकेषु षट्त्रिंशद्धावनाङ्काः कृताः । प्रतिकन्दुके तेन तीव्राघातेन षड्धावनाङ्काः कृताः । अतः सः “सिक्सर् किङ्ग्” इत्यपि प्रसिद्धः जातः ।

सबीर भाटिया[सम्पादयतु]

“सबीर भाटिया” इत्याख्यः कश्चन उद्यमी अस्ति । सः “हॉट्-मेल्” इत्यस्याः वि-सन्देशसेवायाः सह-स्थापकः वर्तते । तेन स्नातकपदवीं प्राप्य एप्पल्-सङ्गणकसंस्थायां तन्त्रज्ञत्वेन वृत्तिः प्राप्ता । अनन्तरं तेन ई. स. १९९४ तमे वर्षे “जेक् स्मिथ्” इत्याख्येन सहयोगिना सह “हॉट्-मेल्” इत्यस्याः सेवायाः निर्माणं कर्तुं कार्यमारब्धम् । ई. स. १९९६ तमस्य वर्षस्य जुलाई-मासस्य ४ दिनाङ्के इयं सेवा आरब्धा । साम्प्रतं “सबीर भाटिया” सम्पूर्णे विश्वस्मिन् प्रख्यातः अस्ति ।

परिवहनम्[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशस्य परिवहनं समृद्धम् अस्ति । अयं प्रदेशः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य, विदेशस्य च प्रमुखनगरैः सह सम्बद्धानि सन्ति । अतः जनाः सरलतया चण्डीगढ-केन्द्रशासितप्रदेशं प्राप्नुवन्ति ।

भूमार्गः[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशस्य सर्वकारः भूमार्गस्य व्यवस्थां पश्यति । सर्वकारेण भ्रमणार्थं बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चण्डीगढ-नगरस्य भ्रमणं कर्तुं शक्यते । अयं प्रदेशः १ क्रमाङ्कस्य, १० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धः अस्ति । इमौ राष्ट्रियराजमार्गौ चण्डीगढ-केन्द्रशासितप्रदेशं भारतस्य प्रमुखनगरैः सह सञ्योजयतः । अतः सरलतया भूमार्गेण चण्डीगढ-प्रदेशः प्राप्यते ।

धूमशकटमार्गः[सम्पादयतु]

चण्डीगढ-प्रदेशस्य धूमशकटमार्गः भारतस्य प्रमुखनगरैः सह सम्बद्धः अस्ति । चण्डीगढ-नगरे एकं रेलस्थानकम् अस्ति । चण्डीगढ-नगरस्य रेलस्थानकं भारतस्य प्रमुखरेलस्थानकेषु अन्यतमम् अस्ति । चण्डीगढ-नगरात् देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, अमृतसर-नगराय, जयपुर-नगराय इत्यादिभ्यः भारतस्य विभिन्ननगरेभ्यः रेलयानानि प्राप्यन्ते । अनेन प्रकारेण चण्डीगढ-केन्द्रशासितप्रदेशः धूमशकटमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धः अस्ति । जनाः धूमशकटमार्गेण चण्डीगढ-केन्द्रशासितप्रदेशं सरलतया गन्तुं शक्नुवन्ति ।

वायुमार्गः[सम्पादयतु]

चण्डीगढ-केन्द्रशासितप्रदेशे चण्डीगढ-नगरे एकं विमानस्थानकम् अपि स्थितम् अस्ति । इदं विमानस्थानकं चण्डीगढ-नगरात् ११ किलोमीटरमिते दूरे स्थितम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य, विदेशस्य च मुख्यनगरेभ्यः वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखविमानस्थानकैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण चण्डीगढ-केन्द्रशासितप्रदेशः वायुमार्गेण भारतस्य, विदेशस्य च विभिन्ननगरैः सह श्रेष्ठतया सम्बद्धः अस्ति । जनाः सरलतया चण्डीगढ-नगरं गन्तुं शक्नुवन्ति ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५४
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५४
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५१
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५५
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५३
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५४
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५५
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३५५