सदस्यः:विश्वनाथः के जोषी/प्रयोगपृष्ठम्/1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भौगोलिकम्[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशः द्वयोः भागयोः विभक्तः अस्ति । दादरा, नगरहवेली च । अयं प्रदेशः गुजरात-राज्ये, महाराष्ट्र-राज्ये च स्थितः अस्ति । भारतस्य पश्चिमतटे स्थितः अस्ति अयं प्रदेशः । अस्य प्रदेशस्य क्षेत्रम् उन्नतं, पर्वतीयं च वर्तते । मध्यक्षेत्रे प्रायः निम्नभूमिः वर्तते । इयं भूमिः उर्वरा अस्ति । दादरानगरहवेली-केन्द्रशासितप्रदेशे दमणगङ्गा-नदी एव नौकाचालनाय योग्या वर्तते । अयं प्रदेशः ४९१ चतुरस्रकिलोमीटरमितः विस्तृतः अस्ति । दादरानगरहवेली-केन्द्रशासितप्रदेशस्य उत्तर-पश्चिम दिशि, पूर्व-दिशि च वलसाड-मण्डलं, दक्षिण-दिशि, दक्षिणपूर्व-दिशि च ठाणे-मण्डलं, नाशिक-मण्डलं च स्थितम् अस्ति । अस्य प्रदेशस्य पूर्वदिशि सह्याद्रीपर्वतशृङ्खला वर्तते । दादरानगरहवेली-केन्द्रशासितप्रदेशस्य ५३ प्रतिशतं क्षेत्रेषु वनम् अस्ति । अस्मिन् वने विभिन्नप्रकारकाः विहगाः, वनस्पतयः, पशवः च दृश्यन्ते । इदं वनं तत्रस्थेभ्यः वनचरेभ्यः सुरक्षितं निवासस्थलं वर्तते [१]

जलवायुः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशस्य जलवायुः विशिष्टः भवति । समुद्रतटे स्थिते सति अस्य प्रदेशस्य जलवायुः सामुद्रिकः वर्तते । अस्मिन् प्रदेशे ग्रीष्मर्तुः उष्णम्, आर्द्रं च भवति । मई-मासस्य अधिकतमं तापमानं ३५ डिग्रीसेल्सियसमात्रात्मकं भवति । जून-मासतः, सितम्बर-मासपर्यन्तं वर्षर्तुः भवति । दादरानगरहवेली-केन्द्रशासितप्रदेशे वर्षर्तौ प्रायः ३०० सेन्टीमीटरमिता वर्षा भवति । अतः एव इदं क्षेत्रं “पश्चिमभारतस्य चेरापुञ्जी-नगरम्” इति कथ्यते । अक्टूबर-मासतः मार्च-मासपर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य प्रदेशस्य न्यूनतमं तापमानं १४ तः ३० डिग्रीसेल्सियसमात्रात्मकं भवति । शीतर्तौ नवम्बर-मासतः मार्च-मासपर्यन्तम् अस्य प्रदेशस्य वातावरणं मनोहरं भवति [२]

जनसङ्ख्या[सम्पादयतु]

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारं दादरानगरहवेली-केन्द्रशासितप्रदेशस्य जनसङ्ख्या ३,४२,८५३ अस्ति । तेषु १,९३,१७८ पुरुषाः, १,४९,६७५ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते ६९८ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६९८ जनाः । दादरानगरहवेली-केन्द्रशासितप्रदेशे पुरुषस्त्रियोः अनुपातः १०००-७७५ अस्ति [३]

इतिहासः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशस्य इतिहासः मध्यकालीनयुगात् आरभ्यते । ई. स. १२६२ तमे वर्षे एकं लघुराज्यं आसीत् । तदा केनचित् क्षत्रियराज्ञा तस्य राज्यस्य राजा पराजितः । “नगरहवेली” तस्य राज्यस्य कश्चन भागः आसीत् । पुरा अस्मिन् प्रदेशे मराठा-शासकानां शासनम् आसीत् । अनन्तरं पुर्तगाली-जनैः अस्मिन् प्रदेशे स्वस्य आधिपत्यं स्थापितम् आसीत् । पुर्तगाली-जनैः ई. स. १७८३ तः १५० वर्षाणि यावत् अस्मिन् प्रदेशे शासनं कृतम् आसीत् । किन्तु ई. स. १९५४ तमे वर्षे भारतीयराष्ट्रियस्वयंसेवकैः पुर्तगाली-जनाः निष्कासिताः । ई. स. १९६१ तमे वर्षे प्रदेशः अयं सङ्घशासितप्रदेशत्वेन उद्घोषितः । साम्प्रतम् अपि पुर्तगाली-संस्कृतेः प्रभावः अस्मिन् प्रदेशे दृश्यते [४]

शिक्षणम्[सम्पादयतु]

ई. स. २०११ वर्षस्य जनगणनानुसारं दादरानगरहवेली-केन्द्रशासितप्रदेशस्य साक्षरतामानं ७६.२० प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८६.४६ प्रतिशतं, स्त्रीणां च ६५.९३ प्रतिशतं च अस्ति । अस्मिन् प्रदेशे शैक्षणिकस्थानानि बहूनि न सन्ति । “लॉयन्स् इङ्ग्लिश् स्कूल्” “प्रभात स्कॉलर्स् अकादमी” इत्येते द्वे प्रमुखे शैक्षणिकसंस्थाने स्तः [५]

राजनीतिः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशे विधानमण्डलं नास्ति । अस्य प्रदेशस्य शासनं केन्द्रसर्वकारेण एव चाल्यते । राष्ट्रपतिना अस्मै प्रदेशाय प्रशासकस्य नियुक्तिः क्रियते । पुर्तगाली-जनेभ्यः मुक्त्यनन्तरम् अष्टवर्षाणि यावत् अस्य प्रदेशस्य प्रशासनं जनैः निर्वाचितप्रशासकेन चालितम् आसीत् । राष्ट्रपतिना एव दादरानगरहवेली-केन्द्रशासितप्रदेशस्य नियमाः निर्मीयन्ते । अस्मिन् केन्द्रशासितप्रदेशे लोकसभायाः एकं स्थानं वर्तते । तत्र कोऽपि राजनैतिकसमूहः नास्ति [६]

अर्थव्यवस्था, कृषिः, उद्योगश्च[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशः ग्रामीणक्षेत्रं वर्तते । अस्मिन् प्रदेशः प्रायः ७९ प्रतिशतं जनाः जनजातीयाः, आदिवासिनश्च सन्ति । तत्र २२,८५० हेक्टेयरभूमौ कृषिः क्रियते । तण्डुलाः अस्य प्रदेशस्य प्रमुखं सस्यं विद्यते । शाकपुष्पं, वृन्ताकं, रक्तफलम् इत्यादयः अस्य प्रदेशस्य प्रमुखाणि शाकानि सन्ति । दादरानगरहवेली-केन्द्रशासितप्रदेशस्य वने विभिन्नकाष्ठानि प्राप्यन्ते । पुरा अस्मिन् प्रदेशे केचन शिल्पकाराः आसन्, ये पात्राणि, वंशवस्तूनि च निर्मान्ति स्म । ई. स. १९६७ तमे वर्षे “दान उद्योग सहकारी सङ्घ लिमिटेड्” इत्यनया संस्थया सर्वकारक्षेत्रे औद्योगिकसंस्था स्थापितम् । तावदेव औद्योगिकविकासः जातः । अनन्तरं सिलवासा-नगरे खडोली-नगरे च तिस्रः औद्योगिकसंस्थाः स्थापिताः । साम्प्रतम् अस्मिन् प्रदेशे ५०० लघु-बृहदुग्योगाः प्रचलन्ति [७]

कला, संस्कृतिश्च[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशे बहूनि लोक-नृत्यानि प्रसिद्धानि सन्ति । अस्य प्रदेशस्य तुर्र-नर्तकाः अपि प्रसिद्धाः सन्ति । ते नर्तकाः नृत्ये मानव-सूचिं (Pyramid) निर्मान्ति । प्रदेशेऽस्मिन् हिन्दु-मुस्लिम-ईसाई-धर्माणां जनाः निवसन्ति । अतः तेषां धर्माणां विभिन्नाः उत्सवाः अपि आचर्यन्ते । किन्तु ये आदिवासिनः भवन्ति । ते स्वस्य उत्सवान् आचरन्ति । तत्र वर्ली, कोङ्कणा च जनजाती निवसतः । ते जनजातीयाः दीपावलि-उत्सवः “बरश” इति नाम्ना ज्ञायते । दादरानगरहवेली-केन्द्रशासितप्रदेशे जनाः सस्यकर्तनात् प्राक् ग्रामदेव्याः, सस्यकर्तनात् परं च काली-देव्याः पूजां च कुर्वन्ति [८]

वीक्षणीयस्थलानि[सम्पादयतु]

दादरा-स्थले जापानी-उद्यानं स्थितम् अस्ति । इमम् उद्यानं परितः तडागाः विद्यन्ते । इदम् उद्यानं प्रसिद्धम् अस्ति । दादरानगरहवेली-केन्द्रशासितप्रदेशस्य सिलवासा-नगरे जनजातीयः सांस्कृतिकः सङ्ग्रहालयः, वनगङ्गा-तडागः, ताडकेश्वरस्य शिवमन्दिरं, सिलवासा-नगरस्य चर्च्, खानवेल-स्थलस्य हिरण-उद्यानं, धुधानी-नगरस्य जलक्रीडा-स्थलम् इत्यादीनि स्थलानि प्रमुखाणि पर्यटनस्थलानि सन्ति [९]

सिलवासा[सम्पादयतु]

सिलवासा-नगरं दादरानगरहवेली-केन्द्रशासितप्रदेशस्य राजधानी अस्ति । पुर्तगाली-शासनकाले इदं नगरं “विला डी पाको द अरकॉस्” इति नाम्ना ज्ञायते स्म । अस्य नगरस्य प्राकृतिकं सौन्दर्यमपि अद्भूतम् अस्ति । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे पुर्तगाली-संस्कतेः प्रभावः अपि दृश्यते । एकोनविंशतिशताब्दीपर्यन्तं सिलवासा-नगरं अज्ञातम् आसीत् । ई. स. १८८५ तमे वर्षे पुर्तगाली-प्रशाननेन सिलवासा-नगरं मुख्यालयत्वेन स्थापितम् । साम्प्रतम् इदं नगरम् दादरानगरहवेली-केन्द्रशासितप्रदेशस्य बहुचर्चितं स्थलं वर्तते । सिलवासा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “रोमन कैथोलिक् चर्च्” अस्य नगरस्य प्रमुखम् आकर्षणस्य केन्द्रं विद्यते । इदम् उपासनागृहस्य वास्तुकला पुर्तगाली-संस्कृतेः आधारिता अस्ति । नगरेऽस्मिन् विभिन्नाः संस्कृतयः, परम्पराः च दृश्यन्ते । तत्र आदिवासी-संस्कृतिसङ्ग्रहालयः वर्तते । सिलवासा-नगरस्य समीपे सफारी-उद्यानं स्थितम् अस्ति । अस्मिन् उद्याने बहवः सिंहाः सन्ति । ते सिंहाः गुजरात-राज्यस्य गिर-अभयारण्यात् आनीताः सन्ति । इदम् उद्यानं सिलवासा-नगरात् १० किलोमीटरमिते दूरे स्थितम् अस्ति । सिलवासा-नगरात् ४० किलोमीटरमिते दूरे मधुबन-जलबन्धः स्थितः अस्ति । अयं जलबन्धः दमणगङ्गा-नद्यां स्थितः अस्ति । सिलवासा-नगरात् ५ किलोमीटरमिते दूरे दादरा-उद्यानं स्थितम् अस्ति । अस्मिन् उद्याने एकः तडागः वर्तते । बॉलीवुड्-क्षेत्रीयाणां बहूनां चलच्चित्राणां गीतानि तत्रैव निर्मापितानि । तत्र समीपे वनगङ्गा-तडागः अपि अस्ति । अयं तडागः सुन्दरः दृश्यते । अतः तत्रापि चलच्चित्रनिर्मातारः चलच्चित्राणि निर्मान्ति । लुहारी-स्थलं सिलवासा-नगरात् १४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं स्थलं सुन्दरं वर्तते । स्थलमिदं जनान् आकर्षति । सिलवासा-नगरस्य समीपे खानवेल-ग्रामः स्थितः अस्ति । सिलवासा-नगरात् खानवेल-ग्रामः २० किलोमीटरमितः दूरे स्थितः अस्ति । ग्रामोऽयं हरितमयः वर्तते । तत्र सोपानमयानि उद्यानानि अपि सन्ति । “सतमालिया-मृगोद्यानं” सिलवासा-नगरस्य समीपस्थं उद्यानं वर्तते । अस्मिन् उद्याने बहवः मृगाः सन्ति । सिलवासा-नगरस्य समीपे काउञ्चा-ग्रामः अस्ति । अयम् आदिवासी-ग्रामः अस्ति । सिलवासा-नगरात् अयं ग्रामः ४० किलोमीटरमिते दूरे स्थितः अस्ति । अस्मिन् ग्रामे वृन्दावन-मन्दिरं स्थितम् अस्ति । तत्र भगवतः शिवस्य पूजा क्रियते । सिलवासा-नगरस्य वातावरणं सर्वदा मनोहरं भवति । जनाः जून-मासतः नवम्बर-मासपर्यन्तं सिलवासा-नगरस्य भ्रमणार्थं गच्छन्ति । सिलवासा-नगरं ८ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः सिलवासा-नगरं महाराष्ट्र-राज्यस्य, गुजरात-राज्यस्य, भारतस्य च विभिन्ननगरैः सह सञ्योजति । महाराष्ट्र-राज्यस्य, गुजरात-राज्यस्य च सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सिलवासा-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सिलवासा-नगरात् वलसाड-नगराय, मुम्बई-नगराय, वापी-नगराय इत्यादिभ्यः नगरेभ्यः बसयानानि प्राप्यन्ते । सिलवासा-नगरात् मुम्बई-नगरं १६० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मिन् नगरे रेलस्थानकं नास्ति । वापी-नगरस्य रेलस्थानकं सिलवासा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । सिलवासा-नगरात् वापी-नगरं १७ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं गुजरात-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । वापी-रेलस्थानकं गुजरात-राज्यस्य अन्यैः रेलस्थानकैः सह विशिष्टतया सम्बद्धम् अस्ति । वापी-रेलस्थानकात् मुम्बई-नगराय, देहली-नगराय, अहमदाबाद-नगराय, जयपुर-नगराय, अमृतसर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । सिलवासा-नगरे विमानस्थानकं नास्ति । मुम्बई-नगरस्य विमानस्थानकम् सिलवासा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । सिलवासा-नगरात् इदं विमानस्थानकं १६३ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् देहली-नगराय, कोलकाता-नगराय, बेङ्गळूरु-नगराय, चेन्नै-नगराय, हैदराबाद-नगराय, अहमदाबाद-नगराय इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । इदं विमानस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण सिलवासा-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया सिलवासा-नगरं प्राप्नुवन्ति ।

परिवहनम्[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च श्रेष्ठतया सम्बद्धः अस्ति । एतैः मार्गैः जनाः भारतस्य केभ्यश्चित् अपि नगरेभ्यः दादरानगरहवेली-केन्द्रशासितप्रदेशं गन्तुं शक्नुवन्ति । अतः जनाः सरलतया दादरानगरहवेली-केन्द्रशासितप्रदेशं प्राप्नुवन्ति ।

भूमार्गः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशः भूमार्गेण सम्पूर्णभारतस्य विभिन्नराज्यैः सह सम्बद्धः अस्ति । अस्मिन् प्रदेशे आहत्य ६३५ किलोमीटरमिताः दीर्घाः मार्गाः सन्ति । अस्य प्रदेशस्य अन्तर्गतेषु सर्वेषु लघुग्रामेषु अपि भूमार्गस्य सौकर्यं लभ्यते । दादरानगरहवेली-केन्द्रशासितप्रदेशस्य सर्वे ग्रामाः परस्परं सम्बद्धाः सन्ति । गुजरात-राज्यस्य, महाराष्ट्रराज्यस्य च सर्वकारेण यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जनाः दादरानगरहवेली-केन्द्रशासितप्रदेशस्य विभिन्नस्थलानां भ्रमणं कर्तुं शक्नुवन्ति । जनाः भाटकयानैः अपि भ्रमणं कुर्वन्ति ।

धूमशकटमार्गः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशे रेलमार्गाः न सन्ति । दादरानगरहवेली-केन्द्रशासितप्रदेशः गुजरात-राज्यस्य, महाराष्ट्र-राज्यस्य च धूमशकटमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धः अस्ति । एतेभ्यः रेलस्थानकेभ्यः बसयानानि भाटकयानानि वा प्राप्यन्ते । तैः बसयानैः भाटकयानैः वा दादरानगरहवेली-केन्द्रशासितप्रदेशस्य नगराणि गन्तुं शक्यन्ते ।

वायुमार्गः[सम्पादयतु]

दादरानगरहवेली-केन्द्रशासितप्रदेशे विमानस्थानकं नास्ति । मुम्बई-नगरस्य विमानस्थानकं दादरानगरहवेली-केन्द्रशासितप्रदेशस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-विमानस्थानकात् दादरानगरहवेली-केन्द्रशासितप्रदेशस्य नगरेभ्यः बसयानानि भाटकयानानि च प्राप्यन्ते । तैः बसयानैः, भाटकयानैः च दादरानगरहवेली-केन्द्रशासितप्रदेशस्य पर्यटनस्थलानि गन्तुं शक्यन्ते । भारतस्य विभिन्ननगरेभ्यः वायुमार्गेण दादरानगरहवेली-केन्द्रशासितप्रदेशः प्राप्यते ।

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८३
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८४
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८०
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८१-३८२
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८४
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८२
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८४
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८४-३८५
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ३८५